संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram

भारत-देशस्य नीरज-चोपडा इति एतेन क्रीडकेन टोकियो-ऑलिम्पिक-स्पर्धायां तोमर-क्षेपणम् इति एतस्मिन् क्रीडाविधौ सुवर्ण-जयचिह्ममुद्रा विजिता ।

न केवलम् एतत् सुवर्ण-चिह्नं ,
भारतस्य कृते तु सुवर्ण-युगम् ।
येन नीरज-योधेन तत् आनीतं ,
तस्य भूरिशः हार्दम् अभिनन्दनम् ।।

------- संस्कृतानन्दः ।
Sunday, August 8, 2021
जोण्सण् आन्ट् जोण्सण् संस्थायाः एकमात्रामितकोविड्वाक्सिनाय राष्ट्रे अनुमतिः प्रदत्तः।

नवदिल्ली> जोण्सण् आन्ट् जोण्सण् संस्थायाः एकमात्रामित -कोविड्वाक्सिनस्य आपत्कालोपयोगार्थं राष्ट्रे अनुमतिः प्रदत्ता। आगस्त् मासस्य पञ्चमे दिने एव संस्थया एतदर्थं प्रार्थनापत्रं समर्पितम्। भारतस्य स्वास्थ्यमन्त्रिणा मन्सूख् माण्डव्येन एव कार्यमिदं ट्विट्टर् द्वारा प्रतिवेदितम्। राष्ट्रे बयोलजिक्कल् इ नाम भारतीयसंस्थायाः साह्यकरणेन वाक्सिनमिदं वितरिष्यति। प्रार्थनापत्रं विशदरीत्या परिशोधनान्तरमेव एषः प्रक्रमः भविष्यति। एकस्मिन् दिने एककोटिमितं वाक्सिनम् इति क्रमेण वाक्सिनीकरणं शीघ्रातिशीघ्रं कर्तुं एषः प्रक्रमः प्रभवति इति भारतसर्वकारसंघैः प्रतिवेदितम्। ~ संप्रति वार्ता
Live stream scheduled for
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - प्रतिपदा शाम 06:56 तक तत्पश्चात द्वितीया

⛅️ दिनांक - 09 अगस्त 2021
⛅️ दिन - सोमवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - अश्लेशा सुबह 09:50 तक तत्पश्चात मघा
⛅️ योग - वरीयान् रात्रि 10:15 तक तत्पश्चात परिघ
⛅️ राहुकाल - सुबह 07:52 से सुबह 09:30 तक
⛅️ सर्योदय - 06:16
⛅️ सर्यास्त - 19:11
⛅️ दिशाशूल - पूर्व दिशा में
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Sanskrit News
Date : 9 August 2021 ; Monday

Please Join the voicechat on time.
Please come after watching sanskrit news from Sudharma, DD news Vaarta and other sources, If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
चाणक्य नीति ⚔️

✒️ सप्तदशः अध्याय:

♦️श्लोक :- ११

दानेन पाणिर्न तु कंकणेन स्नानेन शुद्धिर्न तु चन्दनेन।
मानेन तृप्तिर्न तु भोजनेन ज्ञानेन मुक्तिर्न तु मण्डनेन।।

♦️भावार्थ - हाथ की शोभा कंगन पहनने से नहीं वरन् दान आदि देने से होती है। शरीर की शुद्धि स्नान करने से होती है, चन्दन लगाने से नहीं। मनुष्य की तृप्ति आदर-सम्मान से होती है, भोजन से नहीं और मनुष्य को मोक्ष ज्ञान से होता है, चन्दन आदि के तिलक लगाने से नहीं।। ११ ।।

आचार्य चाणक्य ने यहाँ पर बाहरी साधनों की निरर्थकता बतलाते हुए आंतरिक श्रेष्ठता और संतुष्टि पर जोर दिया है। बाह्य साधनों को ही असल मान लेना मनुष्य की सबसे बड़ी भूल है। यह भूल अक्सर लोग करते ही रहते हैं।


#chanakya
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः जुलै २०१३
ओ३म्

600. संस्कृत वाक्याभ्यासः

विद्यावान् सर्वदा सुखी भवति।
= विद्यावान हमेशा सुखी रहता है।

विद्यावान् कुतः विद्यां प्राप्नोति ?
= विद्यावान कहाँ से विद्या पाता है ?

विद्यावान् गुरोः विद्यां प्राप्नोति।
= विद्यावान गुरु से विद्या पाता है।

माता सर्वेषां सर्वप्रथमा गुरुः भवति।
= माँ सबकी सर्वप्रथम गुरु होती है।

पिता अपि संस्कारान् , विचारान् च ददाति।
= पिता भी संस्कार और विचार देता है।

गुरुः ज्ञानं ददाति , प्रेरयति च।
= गुरु ज्ञान देता है और प्रेरित करता है।

विद्यया सर्वेषां जीवनं उन्नतं भवति।
= विद्या से सभी का जीवन उन्नत होता है।

विद्यावान् सर्वत्र आदरं लभते।
= विद्यावान सब जगह आदर पाता है।

विद्या गुरूणां गुरुः
= विद्या गुरुओं की भी गुरु है।

गुरूणां सर्वदा आदरः करणीयः।
= गुरुओं का सदा आदर करना चाहिये।

ओ३म्

601. संस्कृत वाक्याभ्यासः

ये ज्ञानिनः सन्ति ते मम गुरवः
= जो ज्ञानी हैं वे मेरे गुरु हैं ।

ये वेदपाठिनः सन्ति ते मम गुरवः
= जो वेदपाठी हैं वे मेरे गुरु हैं

ये सदाचारिणः सन्ति ते मम गुरवः
= जो सदाचारी हैं वे मेरे गुरु हैं

ये सर्वदा सन्मार्गे चलितुं प्रेरयन्ति ते मम गुरवः
= जो हमेशा सन्मार्ग पर चलने के लिये प्रेरित करते हैं वे मेरे गुरु हैं

ये मम दोषान् दूरीकुर्वन्ति ते मम गुरवः
= जो मेरे दोषों को दूर करते हैं वे मेरे गुरु हैं

ये मम विकारान् नाशयन्ति ते मम गुरवः
= जो मेरे विकारों को नष्ट करते हैं वे मेरे गुरु हैं

ये मां निर्भयं कुर्वन्ति ते मम गुरवः सन्ति
= जो मुझे निर्भय बनाते हैं वे मेरे गुरु हैं

सर्वेभ्यः वन्दनीयेभ्यः गुरुभ्यः सादरं नमांसि भूयांसि।
= सभी वन्दनीय गुरुओं को सादर अनेक बार नमन ।

श्रद्धास्पदेषु गुरुचरणेषु सादरं प्रणतयः
= श्रद्धास्पद गुरुचरणों में सादर अनेक प्रणाम ।

गुरुपूर्णिमा-पर्वणः सर्वेभ्यः मङ्गलकामनाः
= गुरुपूर्णिमा पर्व की सभी को मंगलकामनाएँ

ओ३म्

602. संस्कृत वाक्याभ्यासः

वैज्ञानिकाः सततं प्रयतन्ते।
= वैज्ञानिक सतत प्रयत्न करते हैं।

नूतनं संशोधनं कुर्वन्ति।
= नया संशोधन करते हैं।

नूतनम् आविष्कारं कुर्वन्ति।
= नया आविष्कार करते हैं।

यदाकदा संशोधने विलम्बः अपि भवति।
= कभी कभी संशोधन में देर भी होती है।

अवकाशविज्ञान क्षेत्रे अपि वैज्ञानिकैः कार्यं क्रियते।
= अवकाशविज्ञान क्षेत्र में भी वैज्ञानिकों द्वारा काम किया जाता है।

अधुना वैज्ञानिकाः चन्द्रयाने कार्यरताः सन्ति।
= अभी वैज्ञानिक चंद्रयान पर कार्यरत हैं।

ह्यः ते चन्द्रयानस्य प्रक्षेपणं कर्तुम् इच्छन्ति स्म।
= कल वे चंद्रयान का प्रक्षेपण करना चाहते थे।

प्रक्षेपणात् पूर्वं यान्त्रिकं तान्त्रिकं च पुनरावलोकनम् आवश्यकं भवति।
= प्रक्षेपण से पहले यान्त्रिक व तांत्रिक पुनरावलोकन आवश्यक होता है।

पुनरावलोकने ते तान्त्रिकं दोषं दृष्टवन्तः।
= पुनरावलोकन में उन्हें तकनीकी दोष दिखा।

अतएव चन्द्रयानस्य प्रक्षेपणं ह्यः न कृतम्।
= अतः चंद्रयान का प्रक्षेपण कल नहीं किया गया।

चन्द्रयानस्य प्रक्षेपणम् अधुना निवारितम्।
= चंद्रयान का प्रक्षेपण अभी टाल दिया है।

ओ३म्

603. संस्कृत वाक्याभ्यासः

बिड़ाली पञ्च अपत्यान् जनितवती।
= बिल्ली ने पाँच बच्चों को जन्म दिया।

जन्मसमये शावकानां नेत्राणि निमीलितानि आसन्।
= जन्म के समय बच्चों की आँखें बंद थीं।

पञ्चदश दिनानि अनन्तरं शावकानां नेत्राणि उन्मीलितानि भविष्यन्ति।
= पंद्रह दिन के बाद बच्चों की आँखें खुलेंगी।

बिड़ाली चत्वारिवारं स्थानं परिवर्तितवती।
= बिल्ली ने चार बार स्थान बदल दिया।

अधुना पुनः बिड़ाली शावकान् अन्यत्र नयति।
= अभी पुनः बिल्ली बच्चों को अन्यत्र ले जा रही है।

शावकाः म्याऊँ म्याऊँ वदन्ति।
= बच्चे म्याऊँ म्याऊँ बोलते हैं।

शावकानां रवं श्रुत्वा बिड़ाली आगच्छति।
= बच्चों की आवाज़ सुनकर बिल्ली आ जाती है।

शावकान् दुग्धं पाययति।
= बच्चों को दूध पिलाती है।

शावकाः दुग्धं पिबन्ति अनन्तरं बिड़ाली अपि दुग्धं पिबति।
= बच्चे दूध पीते हैं उसके बाद बिल्ली भी दूध पीती है।

मम भ्रातृयः बिड़ाल्यै दुग्धं ददाति।
= मेरा भतीजा बिल्ली को दूध देता है।


#vakyabhyas
Forwarded from Markdown
अद्य तस्य जन्मदिनम् 🙏🏼🥳
महेश् बाबु इति प्रसिद्धः तेलुगु चलच्चित्रनायकनटः वर्तते ।


अद्य तस्यापि जन्मदिनम् 🙏🏼
कन्नडाभाषायाः पञ्चमज्ञानपीठिषु विनायक कृष्ण गोकाकः (कन्नडभाषा - ವಿನಾಯಕ ಕೃಷ್ಣ ಗೋಕಾಕ) पञ्जमः साहित्यकारः । अस्य कन्नडप्रतिभाशलिग्रन्थकर्तुः क्रि.श.१९९१तमे वर्षे ज्ञानपीठप्रशस्तिः आगतम् । वि.कृ.गोकाकमहोदयः कन्नडाङ्ग्लभाषयोः समानं प्रभुत्वं प्राप्तवान् । सः स्वस्य जीवतवधौ एव यथायोगयं सम्माननम् अनुरूपां ख्यातिं च प्राप्तवान् । विनायकमहोदयः पूर्वं कन्नडभाषायाः ज्ञानपीठप्रशस्तिसमितेः अध्यक्षः अपि आसीत् ।


अद्य तस्य पुण्यतिथि🙏🏼🥀
एषः यल्लाप्रगडसुब्बरावः बहूनाम् औषधानां संशोधकः । एषः अतिविरलेषु विज्ञानिषु अन्यतमः अपि । अयं भारतदेशस्य आन्ध्रप्रदेशराज्यस्य भीमवरम् इति प्रदेशे कस्मिंश्चित् निर्धनकुटुम्बे १८९५ तमे वर्षे जनवरिमासस्य १२ दिनाङ्के जन्म प्राप्नोत् । किन्तु एषः यल्लाप्रगडसुब्बरावः जीवनस्य बहुभागम् अमेरिकादेशे एव अयापयत् । दौर्भाग्यं नाम यद्यपि सः यल्लाप्रगडसुब्बरावः बहूनाम् औषधानां संशोधनम् अकरोत् तथापि तेषां मूल्यं तस्य जीवितकाले केनापि न ज्ञातम् आसीत् । एषः यल्लाप्रगडसुब्बरावः निर्धने कुटुम्बे जातः इति कारणात् तस्य अध्ययनार्थं व्ययीकर्तुं धनं न आसीत् । तस्मात् कारणात् सः बाल्ये एव विद्यालयं प्रति गमनम् अत्यजत् । सुदूरे विद्यमानां वाराणसीं प्रति अगच्छत् च । तत्र देवालयानां पुरतः फलविक्रयणं करोति स्म । तं विषयं ज्ञातवन्तः केचन तस्य सहृदः बान्धवाः तं वाराणसीतः प्रत्यानीय पुनः विद्यालयं प्रेषितवन्तः । तदनन्तरं सः यल्लाप्रगडसुब्बरावः अत्यन्तं परिश्रमेण अध्ययनं कृत्वा वैद्यपदवीं प्राप्नोत् । यदा तस्य द्वौ अपि सहोदरौ “उष्णप्रदेशस्य अतिसाररोगेण” मृतौ तदा एव “मया अग्रे औषधानां संशोधनं करणीयम्” इति मनसि सङ्कल्पम् अकरोत् ।


यल्लाप्रगडसुब्बरावस्य भारतदेशे अनुकूलकरी परिस्थितिः न आसीत् एव । अतः सः ऋणं कृत्वा अमेरिकादेशम् अगच्छत् । तत्र “हार्वर्ड्”-वैद्यकीयविद्यालयं प्राविशत् अपि । तत्र अमेरिकादेशे अपि सः यल्लाप्रगडसुब्बरावः व्ययस्य निर्वहणार्थं नीचस्तरस्य कार्याणि अपि अकरोत् । अनन्तरं “लेर्डले” नामिका औषधसंस्था तस्मै तस्य प्रियं कार्यम् अयच्छत् । रक्तहीनतयाः निवारणस्य “पिलिक् आसिड्”, गजपादरोगस्य निवारणार्थं “हेट्राजान्”, टिट्रासैक्लिन्-समूहस्य “आलियोमैसिन्” च अस्य यल्लाप्रगडसुब्बरावस्य एव संशोधनम् । तस्य स्मरणार्थम् एव भारतस्य प्रसिद्धाः औषधसंस्थाः “टिट्रासैक्लिनस्य” कृते “सुभामैसिन्” इत्येव नामकरणं कृतवत्यः । अस्य यल्लाप्रगडसुब्बरावस्य महत्त्वभूतं संशोधनं नाम स्नायूनां सङ्कुसनशक्तेः आकरस्य संशोधनम् । एषः यल्लाप्रगडसुब्बरावः तथा सैरस् फिस्क् च मिलित्वा “फास्फोक्रियाटिनिन्” तथा “अडिनोसीन्-ट्रै पास्फेट्” इत्याख्ययोः द्वयोः संयुक्तं वस्तु स्नायूनां सङ्कुचनार्थम् आवश्यकीं शक्तिम् उत्पादयति इति निर्णायकरूपेण प्रादर्शयताम् । एतत् संशोधनं जीवरसायनशास्त्रस्य अत्यन्तं मूलभूतं संशोधनम् आसीत् । एतत् संशोधनं विश्वाद्यन्तं सर्वेषाम् अपि विज्ञानिनां चित्तम् आकर्षत् । रक्ते रञ्जकम् अन्तिमरूपेण जीववस्तुकरणं भूत्वा यत् लयं प्राप्नोति तत् बहुकालतः अपि निगूढम् एव आसीत् । एषः यल्लाप्रगडसुब्बरावः रक्तप्रवाहे विद्यमानस्य रञ्जकस्य प्रमाणस्य मापनार्थं “केलोरिमीटर्” इत्याख्यम् उपकरणं संशोधितवान् ।


अयं यल्लाप्रगडसुब्बरावः अत्यन्तं स्थितप्रज्ञः, तावान् एव विनयी अपि । सः कदापि प्रचारं न इष्टवान् । १९२२ तमे वर्षे एतस्मै यल्लाप्रगडसुब्बरावाय तथा सैरस् फिस्काय च यः “नोबेल्” पुरस्कारः दातव्यः आसीत् सः पुरस्कारः अन्येभ्यः प्रदत्तः । तदर्थं वैज्ञानिकवलये महती अतृप्तिः प्रकटिता । तथापि एषः यल्लाप्रगडसुब्बरावः असमाधानं न प्रकटितवान् । स्वस्य सर्वस्य अपि संशोधनस्य कारणीभूताः मम सहोद्योगिनः इत्येव सर्वदा वदति स्म । एषः यल्लाप्रगडसुब्बरावः अर्जितं सर्वम् अपि धनं जनकल्याणार्थम् एव व्ययीकरोति स्म । जन्मसमये मया किमपि न आनीतम् । गमनसमये अपि किमपि नेतव्यं नास्ति । अतः मया किमपि सङ्ग्रहणीयं नास्ति । प्रतिवर्षम् अपि मम गणनापुस्तके आयः व्ययः च समानः भवेत् । किमपि न शिष्येत इति वदति स्म । सः यल्लाप्रगडसुब्बरावः १९४८ तमे वर्षे आगस्ट्-मासस्य ९दिनाङ्के ५३ तमे वयसि इहलोकम् अत्यजत् ।


अद्य विश्व आदिवासिनः दिवसमपि
ईमोज्यः न संस्कृताय हितकारी ?!*

ये संस्कृतस्य हितचिन्तकाः तेभ्यः एकः अति कठिनः त्यागः अपेक्षितः।
करिष्यामः वा ? किम्?
विचारयन्तु सः नितरां कठिनः अस्ति।

तोऽपि संस्कृतानुरागिनः संस्कृताय सर्वं समर्पयितुं तत्पराः इति प्रतिदिनं वदन्ति (ध्येयमन्त्रं स्मरन्तु!)। अतः मया विश्वासः यत् भवन्तः एतस्मै त्यागाय अपि रुचिं दर्शयेयुः।
*****************************
आदौ अहं विषयस्य उपस्थापनं करिष्यामि।

अस्मासु अधिकानां कृते संस्कृतम् मुख्या भाषा नास्ति। वयं सर्वे संस्कृतेन वक्तुं, लेखितुंं, चिन्तयितुं च प्रयत्नशीलाः सन्ति।
अहं एतदपि जानामि यत् निर्दोषेण संस्कृतं वक्तुं, लेखितुं च वारंवारं प्रयत्नः आवश्यकः अस्ति। यावत् अधिकं वयं संस्कृतेन वदामः लिखामः च, तावत् अधिकं शुद्धं वयं संस्कृतं वदामः लिखामः च।
किन्तु अस्माकं एकः व्यवहारः अस्मान् संस्कृतेन अधिकं लेखनात् निवारयति।
*कः सः?*
स अस्ति *ईमोजी* नां निरङ्कुशः प्रयोगः।

एतेन वयं संस्कृतं न लिखित्वा *ईमोजी* एव लिखामः। अस्मिन्नेव गणे पश्यन्तु। शताधिके सन्देशे *ईमोजी* मात्र भवन्ति संस्कृतस्य एकमपि पदम् न दृश्यते। वस्तुतः तु *ईमोजी* विना
सन्देशः अत्र एतावत् दुर्लभाः ,
यावत् संसदभवने काङ्ग्रेसी सांसदाः भवेयुः!

एषा तो अस्माकं घोषितः लक्ष्यस्य विपरीता स्थितिः अस्ति निश्चयेन।

वयं अत्र *ईमोजी* लेखनार्थं न कटिबद्धः अपितु संस्कृतं लेखनार्थम्। सत्यं किल्?

अतः किम् अद्य एव वयं *सङ्कल्पं* कर्तुं शक्यते यत् इतः परं अहं यदा संस्कृतेन लिखामि तदा *ईमोजी* त्यक्त्वा संस्कृतेन एव लिखामि?

प्रारम्भे अस्य सङ्कल्पस्य पालनं किञ्चित् क्लेशकरं भवितुं शक्यते परन्तु किञ्चित् अभ्यासेन *ईमोजी* नां स्थाने तुल्यैः संस्कृतशब्दैः भाव अभिव्यक्ति कर्तुं वयं निपुणाः भवेयुः।

एतस्मिन् सहाय्यार्थम् अधः काचन बहुप्रयुक्ताः *ईमोजी* नां तुल्यवाक्यानि ददामि अहम्। अधिकं संस्कृतं ये जानन्ति ते अस्मिन् आवल्यां अन्ये विकल्पे अपि योजयितुं शक्नुवन्ति।

👍👌अत्युत्तमम्।
😂😄😀 हास्योक्तिःअतीवा मनोरञ्जका अस्ति।
🙏स्तुत्यः प्रयासः। नमस्तुभ्यम्। नमाम्यहम् ।👌👌सम्यक् अस्ति ।
👏करतलध्वन्या सह भवतः अभिनन्दनम्।
👎महोदय, एततु न समीचीनम्।
उपरि पश्यतु।
👉एतत् पश्यतु। अग्रे पश्यतु।
👈पूर्वं पश्यतु।
👇अधः पश्यतु।

एतानि दृष्ट्वा भवान् ज्ञातुं शक्यते यत् *ईमोजीः* त्यक्त्वा वयं कियत् अधिकं संस्कृतं लेखितुं शक्नुमः।

*ईमोजी* तु तेषां कृते नास्ति येषां लक्ष्यः भाषापठनं अस्ति। *ईमोजी* नां कारणेन वयं संस्कृतेन चिन्तनस्य लेखनस्य च कठिनमार्गं त्यक्त्वा सरलमार्गं स्वीकुर्मः। किन्तु एषः सरलः मार्गः अस्मान् संस्कृतात् दूरं नयति। अतः सः त्याज्यःइति मन्ये।

~लक्ष्मीनारायण
*संस्कृतं व्यावहारिकी भाषा भवेत्*

😛😛😛😛😛😛😛😛😛

एकः शिक्षकः निज-कार-यानेन गच्छन्नासीत् । तदैव तेन महिषेन चाल्यमाने शकटे आरुढः स्वकीयः कश्चित् पुरातनः शिष्यः दृष्टः *{ तभी उस शिक्षक ने झोटे (भैंसे) द्वारा खींची जा रही बग्घी पर बैठे हुये अपने एक पुराने शिष्य को देखा"}*

असंवेदनशीलेन अनेन शिक्षकेन व्यंगात्मक-स्वरेण कथितम्---
अरे ! महिषशकटं चालयसि ? *(अरे झोटा बग्गी चला रहा है ?)*

एवम् अपमानितेन शिष्येन अपि अपमान-जनकम् उत्तरम् एवं दत्तम् ----

"श्रीमन् ! अन्यत् किम् ? किं त्वया अध्यापिताः तव शिष्याः विमानं चालयिष्यन्ति ?" *(और क्या, तेरे पढाये हुये चेले जहाज़ चलायेंगे ?*)

शिक्षकः न केवलं तूष्णीं स्थितः अपितु अधुना-पर्यन्तं निश्चेता अस्ति ।---KSG

😛😛😛😛😛😛😛😛😛

#hasya
Monday, August 9, 2021
ओलिम्पिक्स् महोत्सवस्य परिसमाप्तिः; आगामी ओलिम्पिक्स्२०२४ मध्ये पारीस्।

टोक्यो> कोविड्कालखण्डे सम्पन्नस्य ३२तमस्य ओलिम्पिक्स् महोत्सवस्य शुभकरसमाप्तिः। कोविड्कारणेन संवत्सरैकं परिवर्त्य परित्याज्यमिति चिन्तायाः अन्ते एव मानवराशेः अतिजीवनस्य निश्चयदार्ढ्यस्य प्रतिरूपमिव महामहस्यास्य विजयकरः परिसमाप्तिः।

आगामी ओलिम्पिक्स् २०२४ तमे वर्षे फ्रान्स् राष्ट्रस्य राजधान्यां पारीस् नगरे सम्पत्स्यति। ~ संप्रति वार्ता