संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - द्वितीया शाम 06:05 तक तत्पश्चात तृतीया

⛅️ दिनांक - 10 अगस्त 2021
⛅️ दिन - मंगलवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - मघा सुबह 09:53 तक तत्पश्चात पूर्वाफाल्गुनी
⛅️ योग - परिघ रात्रि 08:30 तक तत्पश्चात शिव
⛅️ राहुकाल - शाम 03:58 से शाम 05:35 तक
⛅️ सर्योदय - 06:16
⛅️ सर्यास्त - 19:10
⛅️ दिशाशूल - उत्तर दिशा में
👆yesterday's (09.08.2021). Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Live stream scheduled for
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
@samskrt_samvadah is starting संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Healthy Diet
Date : 10 August 2021 ; Tuesday

Please Join the voicechat on time.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
चाणक्य नीति ⚔️

✒️ सप्तदशः अध्याय:

♦️श्लोक :- १३

सद्यः प्रज्ञाहरा तुण्डी सद्यः प्रज्ञाकरी वचा ।
सद्यः शक्तिहरा नारी सद्यः शक्तिकरं पयः ।।

♦️भावार्थ - कुंदरु खाने से तत्काल मनुष्य की बुद्धि नष्ट होती है, वच खाने से तत्काल बुद्धि बढ़ती है, नारी शीघ्र ही शक्ति का हरण करती है और दूध पीने से उसी क्षण बल प्राप्त होता है।।१३।।

#chanakya
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः जुलै २००७
ओ३म्

604. संस्कृत वाक्याभ्यासः

अद्य सायं महिलानां संगोष्ठि: अस्ति।
= आज शाम महिलाओं की बैठक है।

बालकान् किं पाठनीयम् ? तस्मिन् विषये ते विमर्शं करिष्यन्ति।
= बच्चों को क्या पढ़ाएँ ? इस विषय पर विमर्श करेंगे।

ध्रुवी भगिनी आगतवती।
= ध्रुवी बहन आ गई ।

मैथिली भगिनि मार्गे अस्ति।
= मैथिली बहन रास्ते में है।

अञ्जना भगिनी पुत्रेण सह आगच्छति।
= अंजना बहन पुत्र के साथ आ रही है।

सुनीतिभगिनी पुत्र्या सह आगच्छति।
= सुनीति बहन पुत्री के साथ आ रही है।

द्वादश भगिन्यः आगतवत्यः ।
= बारह बहनें आ गई हैं।

सर्वप्रथमं सर्वाः प्रार्थनां कुर्वन्ति।
= सबसे पहले सभी प्रार्थना कर रही हैं।

बालकाः अपि प्रार्थनां कुर्वन्ति।
= बच्चे भी प्रार्थना कर रहे हैं।

अनन्तरं ताः श्लोकान् गास्यन्ति।
= बाद में वे श्लोक गाएँगी।

गणितक्रीड़ाम् अपि कारयिष्यन्ति।
= गणितक्रीड़ा भी कराएँगी।

सर्वे बालकाः मातृभिः सह क्रीडिष्यन्ति।
= सभी बच्चे माताओं के साथ खेलेंगे।

ओ३म्

605. संस्कृत वाक्याभ्यासः

लोकयानस्थानके एकं सुन्दरं दृश्यं दृष्टवान्।
= बस स्टेशन पर सुंदर दृश्य देखा।

एका स्नुषा श्वशुरं ननान्द्रीं च आप्रष्टुम् आगतवती।
= एक बहू ससुर और ननंद को छोड़ने आई थी।

स्नुषा कारयानं चालयित्वा तौ आनीतवती।
= बहू कार चला कर दोनों को लाई।

स्नुषा एकत्र कारयानं स्थापितवती।
= बहू ने एक जगह कार पार्क की

यानात् यानपेटिकाः निष्कासितवती।
= कार से बैग्स उतारे।

सर्वे लोकयानस्य प्रतीक्षार्थम् एकत्र उपविष्टवन्तः।
= सभी बस की प्रतीक्षा में एक जगह बैठ गए।

स्नुषायाः शिरसि शाटिकावस्त्रम् आसीत्।
= बहू के सिर पर साड़ी का पल्लू था।

सा ननान्द्र्या सह वार्तालापम् आरब्धवती।
= उसने ननंद के साथ बात शुरू की

छात्रावासे प्रेम्णा निवसतु।
= होस्टल में प्रेम से रहियेगा।

सम्यक् अध्ययनं करोतु।
= अच्छे से पढ़ाई करियेगा।

चलभाषचालनं मास्तु।
= मोबाइल मत चलाइयेगा।

प्रतिदिनं प्राणायामं करोतु।
= हररोज प्राणायाम करियेगा।

तातः परश्वः प्रत्यागमिष्यति।
= पिताजी को परसों लौट जाएँगे।

स्वाम् अभिरक्षतु
= अपना ध्यान रखियेगा।

ओ३म्

606. संस्कृत वाक्याभ्यासः

कानजी – आकाशं प्रति किमर्थं पश्यति ?
= आकाश की तरफ क्यों देख रहे हो ?

भीमजी – अहं मेघान् पश्यामि।
= मैं बादलों को देख रहा हूँ।

– कदा पर्जन्याः आगमिष्यन्ति।
= वर्षा के बादल कब आएँगे।

कानजी – केवलं वायुमेघाः दृश्यन्ते।
= केवल हवा के बादल दिख रहे हैं।

भीमजी – वायुः अपि वेगेन प्रवहति।
= हवा भी वेग से बह रही है।

कानजी – श्याममेघाः न दृश्यन्ते।
= काले बादल नहीं दिख रहे हैं।

भीमजी – एतस्मिन् वर्षे वर्षा न भविष्यति चेत् दुर्भिक्षः आपतिष्यति।
= इस वर्ष यदि वर्षा नहीं हुई तो अकाल आ पड़ेगा।

– अहं प्रतिदिनं यज्ञं करोति।
= मैं प्रतिदिन यज्ञ करता हूँ।

कानजी – अहमपि प्रार्थनां करोमि।
= मैं भी प्रार्थना

भीमजी – सर्वत्र वर्षा भवति , केवलम् अत्रैव न भवति।
= सब जगह वर्षा हो रही है , केवल यहीं नहीं हो रही है।

कानजी – अत्रापि वर्षा भवतु

ओ३म्

607. संस्कृत वाक्याभ्यासः

मयूरः अस्माकं राष्ट्रीयः खगः अस्ति।
= मोर हमारा राष्ट्रीय पक्षी है।

ग्रामेषु मयूराः दृश्यन्ते।
= गाँवों में मोर दिखते हैं।

नगरेषु न दृश्यन्ते।
= नगरों में नहीं दिखते हैं

मयूरात् सर्पः बिभेति।
= मोर से साँप डरता है।

मयूरः सर्पं मारयित्वा खादति।
= मोर साँप को मार कर खाता है।

मयूरः कृषकानां मित्रम् अस्ति।
= मोर किसानों का मित्र है।

वटवृक्षेषु मयूराः निवसन्ति।
= वटवृक्षों पर मोर रहते हैं

यत्र हरितिमा भवति तत्र मयूराः वसन्ति।
= जहाँ हरियाली होती है वहाँ मोर रहते हैं

वर्षाकाले मयूराः नृत्यन्ति।
= वर्षाकाल में मोर नाचते हैं।

मयूरः सर्वेभ्यः रोचते।
= मोर सबको पसंद आता है।

मयूरस्य नृत्यं सर्वेभ्यः रोचते।
= मोर का नृत्य सबको पसंद आता है।

ओ३म्

608. संस्कृत वाक्याभ्यासः

एकः सज्जनः यवतमालतः आगतवान्।
= एक सज्जन यवतमाल से आए।

स्वपरिचयं दत्तवान्।
= अपना परिचय दिया।

“मम नाम आशुतोषः”
= मेरा नाम आशुतोष है

अहं वायुसैनिकः अस्मि।
= मैं वायुसैनिक हूँ।

यवतमाले मम कृषिक्षेत्रम् अस्ति।
= यवतमाल में मेरा खेत है।

मम मातापितरौ तत्रैव निवसतः।
= मेरे माता पिता वहीं रहते हैं।

यवतमालस्य कारलामन्दिरस्य वर्णनं सः कृतवान्।
= यवतमाल के कारला मंदिर का उसने वर्णन किया

पुसदविस्तारे कारलादेवस्थानम् अस्ति।
= पुसद विस्तार में कारला देवस्थान है।

देवस्थानं परितः वनम् अस्ति।
= देवस्थान के चारों ओर वन है।

बहुप्राचीनं स्थलं द्रष्टुम् जनाः दूरतः आगच्छन्ति।
= बहुत प्राचीन मंदिर देखने लोग दूर से आते हैं।

सः मह्यमपि निमन्त्रणं दत्तवान्
= उसने मुझे भी निमंत्रण दिया।

गमिष्यामि …


#vakyabhyas
अद्य तस्य जन्मजयंती🙏🏼🌺

वराहगिरिः वेङ्कटगिरिः अथवा वि. वि. गिरिः कश्चित् भारतीयः राजनेता । एषः क्रि.श. १८९४तमे वर्षे ओरिस्साराज्यस्य ब्रह्मपुरे अजायत । अस्य पिता जोगय्य पन्तुलु न्यायवादी आसीत् । तदीयः द्वादशबालानां बृहत्कुटुम्बः। वेङ्कटगिरेः प्राथमिकविद्याभ्यासः महाविद्यालयाध्ययनं च ब्रह्मम्पुरे एव अभवत् । सः भारतदेशस्य चतुर्थ: राष्ट्रपति: इति निर्वाचितः। यदा बाङ्ग्लादेशः इति राष्ट्रं निर्मितं तदा सः भारतराष्ट्रस्य राष्ट्रपतिः आसीत्‌ । सः उच्चतमेन नागरपुरस्कारेण भारतरत्नप्रशस्त्या सम्मानितः ।


देशविदेशे शिक्षा

प्राथमिकशिक्षातः महाविद्यालयाध्ययनपर्यन्तं बर्हाम्पुरे एव आभवत् । कल्लिकोटेमहाविद्यालयतः स्नातनकपदवीम् अलभत । पश्चात् मद्रास्(चेन्नै)नगरस्य सीनियर् केम्ब्रिज़् परीक्षाम् उत्तीर्य क्रि.श. १९१३तमवर्षे ऐर्लेण्डदेशस्य राजधानीं डब्लिन् प्रति आधुनिकन्यायशास्त्रस्य पदवीं प्राप्तुं गतवान् । तदा तस्मिन् देशे स्वातन्त्र्यन्दोलनं प्रचलति स्म । तदा गिरिः ऐर्लेण्ड् नायकस्य डेवेलेरा इत्यनेन सन्दृष्टवान् । ऐर्लेण्ड्देशे अध्ययनं कुर्वाणाः भारतीयविद्यार्थिनः क्रान्तिकारिणां सङ्घमेकं रचितवन्तःआसन् । तस्य देशस्य स्वातन्त्र्यप्राप्तये सङ्घर्षं कुर्वन्ति स्म । गिरिः अपि एतं सङ्घं प्रविष्टवान् । क्रि.श. १९१४तमे वर्षे यदा महात्मा गान्धिः लण्डन् नगरम् आगतवान् तदा गिरिः तस्य दर्शनं कृतवान् । अस्य मनसि महात्मा गान्धिः बहुधा प्रभावम् अजनयत् । क्रि.श. १९१९तमे वर्षे ऐर्लेण्ड्देशे ईस्टर् विप्लवः आरब्धः । सः विप्लवः गिरिमहोदयाय नवां दिशाम् अदर्शयत् । भारतस्य श्रमिकवर्गीयानाम् अपि ईस्टर्विप्लवः सदृशं भारतीयस्वातन्त्र्यान्दोलनं कर्तुं शक्यते इति सः अचिन्तयत् । अत्रान्तरे ईस्टर्विप्लवे वि.वि.गिरिः अपि भागी इति वदन्ती प्रसृता।अतः तेन एम्.एल्.पदवीं प्राप्तुंम् अमेरिकागमनम् अशक्यम् अभवत् । अतः क्रि.श. १९१६तमे वर्षे भारतं प्रत्यागतवान् ।

वृत्तिजीवनम्

भारतम् आगत्य वि.वि.गिरिः बर्हाम्पुरे न्यायवादिनः वृत्तिम् आश्रितवान् । पश्चात् भारतीयराष्ट्रियकाङ्ग्रेस् पक्षस्य सदस्यः अभवत् । क्रि.श. १९१६तमे वर्षे सञ्चालिते सम्मेलने भागम् अवहत् । स्ववृत्तौ अतिशीघ्रं यशः प्राप्तवान् । क्रि.श. १९२०तमे वर्षे भारतस्य स्वातन्त्र्यसङ्ग्रामे सक्रियः अभवत् । गञ्जाम्प्रदेशे क्रि.श. १९२२तमे वर्षे मदिरापणस्य पुरतः विप्लवनिरतः सः आरक्षकैः बद्धः सन् बर्हाम्पुरस्य कारागारं प्रति प्रेषितः । तत्र सत्याग्रहिभ्यः प्रदुष्टाहारः दीयते स्म। कारागारे प्रवृत्तं भ्रष्टाचारं विरुध्य उपवाससत्याग्रहं कृतवान् । पश्चात् कारागारा विमुक्तः रेलयानस्य श्रमिकवर्गाणां सङ्घं प्रतिष्ठापितवान् । एषः सङ्घः अतिशीघ्रं संवृद्धः भूत्वा अखिलभारतरेल्वेफेडरेशन् इति ख्यातम् अभवत् । तत्र वि.वि.गिरिः एव अध्यक्षः अभवत् । अनेन एषः कश्चित् समर्थः कर्मकरनायकः अभवत् । क्रि.श. १९३५तमे वर्षे भारतसर्वकारस्य नियमानुगुणं काङ्गेस् पक्षः प्रान्तीयशासनसभानिर्वाचने स्पर्धित्वा सप्तराज्येषु विजयी अभवत् । वि.वि.गिरिवर्यः मद्रास् विधानसभायाः प्रतिनिधित्वेन जयं प्राप्य मन्त्री अभवत् । तस्मै कर्मकराणां, यन्त्रोद्यमानां, सहकारस्य, वाणिज्यस्य, मत्स्योद्यमस्य विभागानां दायित्वं दत्तम् । क्रि.श.१९३८तमे वर्षे अखिलभारतराष्ट्रिययोजनायोगस्य सञ्चालकः अभवत् । आयोगस्य सम्मेलने गिरिवर्यः पञ्चवार्षिकयोजनाः अथवा दशवार्षिकयोजनाः वा रचनीयाः इति उक्तवान् । एषः कर्मकराणां नायकः चेदपि कदापि झटिति कार्यन्यासं न कारयति स्म । श्रमिकवर्गेषु समास्याः भवन्ति चेत् सन्धिं कृत्वा समापयितुं यतते स्म । क्रि.श. १९४७ तमवर्षस्य अगस्टमासस्य पञ्चदशतमे दिने भारतं पारतन्त्र्यात् मुक्तं स्वतन्त्रम् अभवत् । क्रि.श. १९४८तमे वर्षे गिरिवर्यः श्रीलङ्कायां भारतस्य राजदूतः इति नियोजितः । अग्रे भारतस्य संविधानं रचितम् । तदनुगुणं क्रि.श. १९५२तमे वर्षे प्रथमं महानिर्वाचनं सञ्चालितम् । तस्मिन् लोकसभानिर्वाचने स्पर्धित्वा जयं प्राप्तवान् गिरिवर्यः केन्द्रसर्वकारस्य सचिवमण्डले कर्मकरविभागस्य मन्त्री अभवत् । क्रि.श. १९५४तमे वर्षे इण्डस्ट्रियल् अपलेट् ट्रिब्युनल् वित्तकोशस्य उद्योगिनां विरुद्धम् आगतं न्यायालयनिर्णयं तिरस्कृत्य स्वपदत्यागम् अकरोत् ।


राजनीतिनिवृत्तिः

पश्चात् क्रि.श. १९५७ तमे वर्षे उत्तरप्रदेशस्य, क्रि.श. १९६०तमे वर्षे केरळराज्यस्य, क्रि.श. १९६५तमे वर्षे कर्णाटकस्य च राज्यपालः अभवत् । सक्रियराजनीत्या निवृत्तः चेदपि राज्यपालः केवलम् उत्सवमूर्तिः न । सः जनप्रतिनिधिः केवलं नित्यकार्याणि कुर्वन् भवति चेत् समीचीनं न । तेनापि जनसेवायां निरतेन भूत्वा मुख्यकार्याणि करणीयानि इति गिरिवर्यः वदति स्म । गिरिवर्यः क्रि.श. १९६७ तमे वर्षे भारतस्य उपराष्ट्रपतिः इति नियुक्तः । स्वाधिकारपदं सुयोग्यम् उपयुज्य राज्यसभायाः नूतनवर्चः समानीतवान् । क्रि.श.
१९६९तमवर्षे अकस्मात् भारतस्य राष्ट्रपतिः झाकिर हुसैन् दिवङ्गतः । तदा बेङ्गळूरुनगरस्य लालबाग् काचगृहे सञ्चालिते काङ्ग्रेस् अधिवेशने समितिः नीलं सञ्जीवरेड्डीवर्यं राष्ट्रपतिरिति नियोजयितुं निरचिनोत् । किन्तु तदानीन्तनप्रधानामन्त्रिणी इन्दिरा गान्धिः एतत् नाङ्ग्यकरोत् । सा वि.वि.गिरेः नाम सूचितवती । अनिवार्यस्पर्धया काङ्ग्रेस् द्विधा विभक्तम् । वि.वि.गिरिः एव जित्वा राष्ट्रपतिः अभवत् । क्रि.श. १९६९तमवर्षस्य अगस्ट् २३तमदिनात् क्रि.श. १९७४तमवर्षस्य २४तमदिनपर्यन्तं राष्ट्रपतिस्थानम् अलङ्कृतवान् । तस्य काले एव क्रि.श१९७१तमे वर्षे बाङ्ग्लाविमोचनसमस्या सम्मुखीकृता । क्रि.श. १९७५तमे वर्षे अस्मै भारतरत्नप्रशस्तिः प्रदत्ता । क्रि.श. १९८०तमवर्षस्य जून् मासे वि.वि.गिरिः दिवङ्गतः ।
Live stream scheduled for

राहुलः मेहुलः च मित्रद्वयम् । कस्मिंश्चित् दिने मेहुलः प्रभाते एव राहुलस्य गृहं गच्छति । सः अवलोकयति यद् राहुलस्य प्रत्येकं गृहजनः स्नानगृहं गच्छति । द्वारस्य पिधानं करोति । गानं कर्तुम् आरभते । स्नानं समाप्य बहिः आगच्छति । तत् दृष्ट्वा मेहुलः राहुलं पृच्छति -----

मेहुलः - रे मित्र ! भवतः गृहे सर्वे जनाः अतीव गानानुरागिणः दृश्यन्ते । बाढम् !

राहुलः - तथा किम् अपि न रे ! अस्माकं स्नानगृहस्य अर्गला कार्यरहिता जाता अस्ति । ( the bolt is not working. )
ऽऽऽऽऽऽऽऽऽऽऽऽऽ

#hasya