संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
*गृहे गृहे रामायणम्*

विद्वत्परिषत् संस्कृतभारती कर्णाटकदक्षिणम्।

प्रौढोपन्यासमालिका

विषयः - *श्रीमद्वाल्मीकिरामायणस्य सौन्दर्यमाला*

व्याख्याता - *विद्वान् हेच्. वि. नागराजराव्*
(राष्ट्रपतिप्रशस्तिपुरस्कृतः संस्कृतवाङ्मये च सिद्धहस्तः सहृदयो विद्वान् मैसूरुनगरीयश्च)

🗓️ 12 - 09 - 2022 त: 21 - 09 - 2022 पर्यन्तम्। (दश दिनानि)

🕕 सायं 6 वादनतः 7.30 पर्यन्तम्।

साक्षात्प्रसारणम्
https://youtube.com/c/sbdakshinakar
🍃गृहाऽऽसक्तस्य नो विद्या न दया मांसभोजिनः।
द्रव्य लुब्धस्य नो सत्यं न स्त्रैणस्य पवित्रता


घर में आसक्ति,मोह रखने वाले को कभी विद्या प्राप्त नहीं होती। मांस सेवन करने वाले में दया नहीं होती। धन लोभी में सच्चाई नहीं होती और भोग-विलासी व्यक्ति में पवित्रता नहीं होती।

🔅गृहे आसक्तस्य मोही जनः विद्यां न प्राप्नोति। मांससेवनस्य मनसि दया न भवति। धनलोभिनः पार्श्वे सत्यं न भवति तथा विलासी जनः पवित्रः न भवति।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
lesson - 5 पदानि - Words अत्र - Here तत्र - There सर्वत्र - Everywhere अन्यत्र - elsewhere कुत्र - where किमर्थं - Why इदानीं - Now तदा - …
Lesson - 7

1.त्वं अत्र असि।
You are here.

2 त्वं तत्र न असि।
You are not there.

3 त्वं अन्यत्र असि।
You are elsewhere.

4 त्वं कुत्र असि।
Where are you?

5 त्वं सर्वत्र असि।
You are everywhere.

6 त्वं इदानीं अत्र असि।
Now you are here.

7 त्वं सर्वदा अत्र असि।
Always you are here.

8 त्वं प्रतिदिनं अत्र एव असि।
Everyday you are here only.

9 त्वं किमर्थं अत्र असि?
Why are you here?

10 त्वं कदा अत्र असि।
When are you here?


Day - 7

1. स: नयति।
He is taking.

2 स: आनयति।
He is bringing.

3 स: ददाति।
He is giving.

4 स: उपविशति।
He is sitting.

5 स: उत्तिष्ठति।
He is standing up.

6 स: तिष्ठति।
He is standing.

7. स : पृच्छति।
He is asking.

8 स: हसति।
He is Laughing.

9 स: रोदिति।
He is weeping.

10 स: अटति।
He is wandering.


#vakyabhyas
संस्कृतसंवादः

जया। भ्रातः अहम् आपणं गच्छामि। 

जयः। किमर्थं गच्छसि । 

जया। गृहे घृतं नास्ति। 

जयः। मध्याह्ने आनय। 

जया। नैव अधुना यज्ञार्थं घृतम् अर्हति। 

जयः। अस्तु तर्हि गच्छ। कथं गच्छसि । 

जया। यानेन । 

जयः। केन यानेन ।
 
जया। भवतः कारयानेन। 

जयः। केवलं घृतमेव आनेतव्यम् अस्ति। तदर्थं कारयानेन किमर्थम् । 

जया। शीघ्रमेव आगत्य यज्ञं कर्तुम् इच्छामि। 

जयः। भगिनि कृपया द्विचक्रिकया गच्छ। अधुना ईन्धनस्य मूल्यं बह्वधिकम् अस्ति। 

जया। मां गच्छ नाम। (मुझे जाने दीजिये) 

जयः। अस्तु शीघ्रमेव आगच्छ। 
     कारयानं ध्यानपूर्वकं चालय। 

जया। आं भ्रातः अहं ध्यानपूर्वकमेव चालयिष्यामि। शीघ्रमेव आगमिष्यामि। 

जयः। अस्तु भगिनि तावद् अहं यज्ञस्य व्यवस्थां करोमि। 

जयतु संस्कृतम्। जयतु भारतम्॥

#samvadah
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰पूरणप्रत्ययाभ्यासः
🗓 09 सितम्बर 2022, शुक्रवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
कौचन अशीतिवर्षीय-दम्पती आस्ताम्। तयोः स्वास्थ्यम् उत्तमम् आसीत्।
तयोः उत्तमस्वास्थ्यस्य रहस्यं किम् इति कश्चन अपृच्छत्।
पतिः अवदत् - आवयोः विवाहात् परं हि आवां निर्णयं कृतवन्तौ यद् यदि आवयोः मध्ये कदाचिद् विवादः भवेत्, विवादे च यस्य/यस्याः दोषः भवेत् सः/ सा पञ्च किलोमीटरमितं पादाभ्याम् अटेत्।
अपिच भवन्तः जानन्ति एव यत् पतिपत्न्योः विवादे कदापि पत्न्याः दोषः न भवति।
तर्हि भवतः पत्न्याः स्वास्थ्यस्य किं रहस्यम् इति पुनः अपृच्छत् सः।
पतिः - यदा अहम् अटितुं गच्छामि तदा सा अपि मम पृष्ठतः मां द्रष्टुम् आगच्छति यदहं अटामि उत न।
अतः आवयोः स्वास्थ्यं समीचीनं वर्तते।
प्रतिदिनं व्यायामं कुर्वन्तु उत्तमस्वास्थ्यं च लभन्ताम्।

#hasya
रक्षाम मृदम्

मृत्तिका अस्माकं जीवनस्य आधारः अस्ति। किन्तु

कृषिः वनोन्मूलनम् अन्ये च कारकाः अतितीव्रतया शीर्षभूमिम् अक्षाययन्। वैश्विकरूपेण ५२ प्रतिशतं कृषिभूमिः पूर्वमेव क्षीणा अस्ति । पृथिवी सङ्कटे अस्ति। यदि वर्तमानकाले मृदाक्षयः निरन्तरम् अभविष्यत् तर्हि एतत् जीवनस्य अन्तः स्यात् यथा वयं जानीमः।

अस्य निरोधने जनजागरणे च सहयोगं कुरुत। अस्मिन् जालस्थले अधिकां सूचनां प्राप्नुयात।

https://consciousplanet.org/soil
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 10th सितम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एक श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_