संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
प्रथमे दिवसे ईश्वरः श्वानं सृष्ट्वा तमभणत्,
“ गृहस्य पुरतः आप्रातः आसायं तिष्ठन् भषसि । तव जीवितावधिः वर्षाणां विंशतिः भविष्यति” इति । श्वा प्रत्युवाच, “प्रभो, भषन् विंशतिः वर्षाणि कालयापनं दुष्करं खलु । अतः मह्यं दशवर्षाण्येव देहि । मम दत्तजीवितस्य दशवर्षाणि प्रतिनिवर्तयामि”
ईश्वरः अवदत्, “तथास्तु” ।

द्वितीये दिवसे ईश्वरः वानरमसृजत् तमवदच्च, “ विनोदमयानि हास्यकराणि चेष्टितानि कुर्वन् कालं यापय । तव आयुः विंशतिः वर्षाणि भविष्यति” इति । वानरः प्रत्युवाच, “प्रभो, दुष्करं खलु विंशतिवर्षपर्यन्तं जीवनं हास्यकरचेष्टितानि कुर्वन् । दशवर्षैरलम् । मम आयुषः दशवर्षाणि प्रतिनिवर्तयामि” इति । ईश्वरः अवदत्, “तथास्तु” ।

ईश्वरः तृतीये दिवसे धेनुमसृजत् तामवदच्च, “ त्वं आप्रातः आसायं कर्षकेण सह क्षेत्रं गत्वा प्रखरातपे क्षेत्रकर्माणि करोषि । वत्सान् जनयसि कर्षकाय पयश्च ददासि च । तुभ्यं षष्ठिवर्षमितमायुः ददामि’ इति । धेनुः प्रत्यवदत्, “देव, दुःखभूयिष्ठं जीवितं विंशतिवर्षमितमेव पर्याप्तम् । मम आयुषः चत्वारिंशद्वर्षाणि प्रतिनिवर्तयामि” इति । ईश्वरः अनुमेने ।

चतुर्थे दिवसे ईश्वरः मानवमसृजत् तमवदच्च, “ यथेच्छं भुञ्जानः स्वपन् क्रीडन् कालं यापय । तुभ्यं विंशतिवर्षमितम् आयुः ददामि” इति । मानवः प्रत्यवदत्, “ईश्वर, विंशतिवर्षमितम् आयुः स्वल्पं खलु । श्वाप्रतिनिवर्तितदशवर्षाणि, वानरप्रतिनिवर्तितदशवर्षाणि धेनुप्रतिनिवर्तितचत्वारिंशद्वर्षाणि च मह्यं देहि” इति ।
ईश्वरः विहस्य अवदत्, “तथास्तु” ।

अत एव मानवः विंशतिवर्षादनन्तरं चत्वारिंशद् वर्षाणि धेनुवत् कुटुम्बसंरक्षणाय श्राम्यति, पश्चात् दशवर्षाणि वानरवत् पौत्रदौहित्रान् तोषयति, अन्ते दशवर्षाणि सारमेयवत् गृहस्यबहिः किमपि जल्पन् तिष्ठति खलु ।

~ जी एस् एस् मूर्तिः

#hasya
#⃣ ००८
🏬 नित्यं संस्कृतम्
👨🏻‍🏫 @NityamSanskritam
🔰 Sanskrit Learning (primary/intermediate level)
5:00 PM 🇮🇳
⌛️ 6:00 PM 🇮🇳
🗓 प्रतिदिनम्
🗣 Primarily English Medium
🔛 2nd January onwards
📱 Google meet
💰 वैकल्पिकः
👥 chat.whatsapp.com/BuSWtSOG9DgLbwACBy2Z0k
🌐 nityamsanskritam.in
🔗 meet.google.com/pso-ukjt-bys
📞 +917589315523 ✓UPI
🎞 youtube.com/@nityamsanskritam
🔒Closed
संस्कृत संवादः । Sanskrit Samvadah pinned «#⃣ ००८ 🏬 नित्यं संस्कृतम् 👨🏻‍🏫 @NityamSanskritam 🔰 Sanskrit Learning (primary/intermediate level) 5:00 PM 🇮🇳 ⌛️ 6:00 PM 🇮🇳 🗓 प्रतिदिनम् 🗣 Primarily English Medium 🔛 2nd January onwards 📱 Google meet 💰 वैकल्पिकः 👥 chat.whatsapp.com/BuSWtSOG9DgLbwACBy2Z0k…»
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 वार्ताः
🗓 ०३ जन्वरी २०२३, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(स्थानियां प्रादेशिकीं अन्ताराष्ट्रियां वा वार्तां श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - द्वादशी रात्रि 10:01 तक तत्पश्चात त्रयोदशी

⛅️दिनांक - 03 जनवरी 2023
⛅️दिन - मंगलवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शिशिर
⛅️मास - पौष
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - कृतिका शाम 04:26 तक तत्पश्चात रोहिणी
⛅️योग - साध्य सुबह 06:53 तक तत्पश्चात शुभ
⛅️राहु काल - दोपहर 03:25 से 04:46 तक
⛅️सर्योदय - 07:21
⛅️सर्यास्त - 06:07
⛅️दिशा शूल - उत्तर दिशा में
⛅️बराह्ममुहूर्त - प्रातः 05:35 से 06:28 तक
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
https://youtu.be/_ucIXMzdl4c
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃हस्ती हस्तसहस्त्रेण शतहस्तेन वाजिनः ।
शृगिणः दशहस्तेन देशत्यागेन दुर्जनः
।।

🔆 गजात् सहस्त्रहस्तपरिमितं दूरं तिष्ठ अश्वात् शतहस्तपरिमितं शृङ्गयुतेभ्य पशुभ्यः च दशहस्तपरिमितं किन्तु यत्र असभ्याः जनाः निवसन्ति तस्मात् स्थानात् अपि निर्गन्तव्यम्।

हाथी से हजार गज की दुरी रखे. घोड़े से सौ की. सींग वाले जानवर से दस की.
लेकिन दुष्ट जहाँ हो उस स्थान से ही निकल जाएं ।

#Subhashitam
रथी सारथिना रथं ________।
Anonymous Quiz
29%
नयति
36%
आनयति
12%
नापयति
23%
नाययति
मशहूर गामा पहलवान, जिसका असली नाम गुलाम हुसैन था ।
•• प्रसिद्धो गामानामको मल्लक: , यस्य मूलनाम गुलाम हुसैन: बभूव।

उन से एक पत्रकार जैका फ्रेड ने पूछा: "आप एक हजार से भी अधिक कुश्तियां खेल चुके हैं और आज तक हारे नहीं हैं। आपकी इस जीत का राज क्या है ?"
•• जैका फ्रेडनामक: एक: पत्रकार: तं प्रप्रच्छ - " भवान् सहस्राधिकान् मल्लकयुद्धान् अखेलत् , परन्तु इदानीमपि अपराजित: अस्ति।भवत: अस्य विजयस्य रहस्यं किम्?"

गुलाम हुसैन (गामा पहलवान) ने कहा: "मैं किसी परायी औरत को गंदी नज़र से नहीं देखता हूं।
•• गुलाम हुसैन:(गामानामक: मल्लक:)कथयञ्चकार - " अहं काञ्चनमपि परनारीं कामभावेन न पश्यामि।"

मैं जब अखाड़ा में उतरता हूं तो गीताके महानायक श्रीकृष्णका ध्यान करता हूं और उनसे शक्ति पाने के लिए प्रार्थना करता हूं।
•• यदापि अहं मल्लकभूमौ अवतरामि तदा गीताग्रन्थस्य महानायकं श्रीकृष्णं ध्यायामि तथा तं बलप्राप्ते: हेतो: प्रार्थये।"

इसीलिए हजारों कुश्तियोंमें मैं एक कुश्ती भी हारा नहीं हूं, यह संयम, ब्रह्मचर्य और श्रीकृष्ण की ध्यान की महिमा का परिणाम है।"
•• अत एव सहस्रेषु मल्लकयुद्धेषु अहम् एकस्मिन्नपि मल्लकयुद्धे अपराजितोऽस्मि , अयं संयमब्रह्मचर्यश्रीकृष्णध्यानस्य महिम्न: परिणाम: अस्ति।"


जंगल में एक गर्भवती हिरनी बच्चे को जन्म देने को थी।
•• वने एका गर्भिणी हरिणी आसन्नप्रसवा आसीत्।

वो एकांत जगह की तलाश में घुम रही थी कि उसे नदी किनारे में ऊँची और घनी घास दिखी।
••सा एकान्तस्थानस्य अन्वेषणे इतस्तत: भ्रमति स्म यत् तया नद्या: तटे दीर्घाणि सघनानि च तृणानि दृष्टानि।

उसे वो उपयुक्त स्थान लगा शिशु को जन्म देने के लिये।
•• तया अनुभूतं यत् शावकं जनयितुं तदुपयुक्तं स्थानमस्ति।

वहां पहुँचते ही उसे प्रसव पीडा शुरू हो गयी।
•• तत्र प्राप्नुवती एव सा प्रसवपीडया ग्रसिता अभवत्।

उसी समय आसमान में घनघोर बादल वर्षा को आतुर हो उठे और बिजली कडकने लगी।
••तदैव व्योमे सघनमेघा: वर्षणस्य कृते उत्सुकाः: अभवन् तथा आकाशीयविद्युत् नादेन सह देवितुमारभत।

~उमेशगुप्तः

#vakyabhyas