संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃सत्येन रक्ष्यते धर्मॊ, विद्या यॊगेन रक्ष्यते।
मृजया रक्ष्यते रूपं, कुलं वृत्तेन रक्ष्यते

- विदुरनीतिः 34.37

Dharma is maintained by truth,
knowledge by practice,
beauty by cleanliness,
and lineage by conduct (character).

सत्य से धर्म की रक्षा की जाती है, अभ्यास से विद्या की रक्षा होती है। स्नान से रूप की रक्षा होती है और सदाचार से कुल की रक्षा होती है।

🔅सत्यम् उक्त्वा धर्मस्य रक्षा भवति अभ्यासं कृत्वा विद्यायाः रक्षणं भवति स्नानं कृत्वा रूपस्य/शरीरस्य रक्षणं भवति तथा उत्तमेन आचरणेन कुलस्य रक्षणं भवति।

#Subhashitam
अंशवो विद्यन्ते अस्य इति
Anonymous Quiz
20%
अंशुमान
57%
अंशुमान्
12%
अंशमान
12%
न जानामि
ओ३म्

संस्कृतानन्दः

अद्य अस्माकं भारतस्य स्वाधीनतायाः अमृतमहोत्सवः अस्ति।
= आज हमारे भारत की स्वाधीनता का अमृतमहोत्सव है।

वयं सर्वे गर्वम् अनुभवामः यत् अस्माकं जन्म भारतदेशे अभवत्।
= हम सभी गर्व अनुभव करते हैं कि हमारा जन्म भारतदेश में हुआ है।

स्वाधीनतायाः अनन्तरं भारतस्य प्रगतिं दृष्ट्वा गर्वः भवति।
= स्वाधीनता के बाद की भारत की प्रगति को देखकर गर्व होता है।

सर्वे कृषकाः अन्नोत्पादनाय श्रेष्ठं कार्यं कुर्वन्ति , बहु श्रमं कुर्वन्ति च।
= सभी किसान अन्न उत्पादन के लिये अच्छा काम कर रहे हैं और श्रम कर रहे हैं।

अस्माकं वीरसैनिकाः आधुनिकानि शस्त्राणि प्राप्तवन्तः।
= हमारे वीर सैनिकों ने आधुनिक शस्त्र प्राप्त किये हैं।

वयं सर्वे वीरान् सैनिकान् नमामः।
= हम सभी वीर सैनिकों को नमन करते हैं।

अस्माकं वैज्ञानिकाः तेजस्विनः सन्ति।
= हमारे वैज्ञानिक तेजस्वी हैं।

वैज्ञानिकाः विविधानि संशोधनानि कुर्वन्ति।
= वैज्ञानिक विविध संशोधन करते हैं।

अस्माकं शिल्पकाराः , अभियन्तारः , श्रमिकाः , उद्योगपतयः इत्यादयः सर्वे अपि जनाः भारतस्य विकासार्थं प्रयत्नरताः सन्ति।
= हमारे शिल्पकार , इंजीनियर , श्रमिक , उद्योगपति इत्यादि सभी लोग भी भारत के विकास के लिये प्रयत्नरत हैं।

भारतीयभाषाणां रक्षणाय , संवर्धनाय च बहवः जनाः कार्यं कुर्वन्तः सन्ति।
= भारतीय भाषाओं के रक्षण और संवर्धन के लिये बहुत से लोग कार्य करते हैं।

भारतीय संस्कृतेः रक्षार्थं संस्कृतभाषा बहु आवश्यकी अस्ति।
= भारतीय संस्कृति की रक्षा के लिये संस्कृत भाषा बहुत आवश्यक है।

सर्वेभ्यः अमृतमहोत्सवस्य हार्दिक्यः शुभकामनाः।

#vakyabhyas
अहं च त्वं च राजेन्द्र लोकनाथावुभावपि।
बहुव्रीहिर् अहं राजन् षष्ठीतत्पुरुषो भवान्।।

This is a verse a beggar supposedly tells a king.
Read on.

"You (त्वं च) and I (अहं च) are both (उभौ अपि) "Lokanātha"s (लोकनाथौ), O King (राजेन्द्र); I am the बहुव्रीहि (अहं बहुव्रीहिः), O Rājan(राजन्), while you (भवान्) are the षष्ठीतत्पुरुष [compound] (षष्ठीतत्पुरुषः)".

लोकः नाथः यस्य सः = लोकनाथः
He whose lord is the world (=a beggar, a destitute person) (बहुव्रीहिः)
लोकस्य नाथः = लोकनाथः
The lord of the world (or better, if the people/ citizens =a king) (षष्ठीतत्पुरुषः)

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 भगवद्गीता
🗓 22nd अगस्त 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (भगवद्गीतायाः एकस्य श्लोकस्य अर्थः विवरणेन सह वक्तव्यः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩विक्रम संवत - २०७९
🌥️ 🚩शक संवत - १९४४
🚩तिथि - एकादशी 23 अगस्त प्रातः 06:06 तक तत्पश्चात द्वादशी

दिनांक - 22 अगस्त 2022
दिन - सोमवार
अयन - दक्षिणायन
ऋतु - वर्षा
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - मृगशिरा सुबह 07:41तक तत्पश्चात आर्द्रा
योग - वज्र रात्रि 11:41 तक तत्पश्चात सिद्धि
राहु काल - सुबह 07:54 से 09:30 तक
सूर्योदय - 06:18
सूर्यास्त - 07:06
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:49 से 05:34 तक
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 भगवद्गीता
🗓 22nd अगस्त 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (भगवद्गीतायाः एकस्य श्लोकस्य अर्थः विवरणेन सह वक्तव्यः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃असतां सङ्गदोषेण, साधवो यान्ति विक्रियाम्।
दुर्योधनप्रसङ्गेन, भीष्मो गो-हरणे गतः


By being associated with bad people, even the good are forced to do bad things. Because of his association with Duryodhana, Bhīṣma, he had to accompany him in stealing the cows of King Virāṭ.

🔅दुष्टजनैः सह वासकरणेन उत्तमाः जनाः अपि अनुचितं कार्यं कर्तुं बद्धाः भवन्ति।
यथा पितामहः भीष्मः दुर्योधनस्य सङ्गकारणेन विराटराज्ञः गोहरणसदृशीं निम्नां क्रियाम् अपि कृतवान्।

#Subhashitam
Live stream scheduled for
ओ३म्

संस्कृतानन्दः

अटल बिहारी वाजपेयी महोदयस्य नाम प्रायः सर्वे जानन्ति एव।
= अटल बिहारी वाजपेयी जी के नाम को प्रायः सभी जानते हैं।

अटलबिहारी महोदयः अस्माकं प्रधानमन्त्री आसीत्।
= अटलबिहारी जी हमारे प्रधानमन्त्री थे।

तस्य प्रधानमंत्रीकाले सुशासनम् आसीत्।
= उनके प्रधानमंत्री काल में सुशासन था।

भारतरत्न अटलबिहारी श्रेष्ठः कविः अपि आसीत्।
= भारतरत्न अटलबिहारी जी श्रेष्ठ कवि भी थे।

सः वारत्रयम् अस्माकं प्रधानमन्त्री अभवत्।
= वे तीन बार हमारे प्रधानमंत्री बने।

तेषामेव कार्यकाले कारगिलयुद्धम् अभवत्।
= उन्हीं के कार्यकाल में कारगिल युद्ध हुआ था।

तेषामेव कार्यकाले पोखरणे परमाणुपरीक्षणम् अस्माभिः कृतम्।
= उन्हीं के कार्यकाल में हमने पोखरण में परमाणु परीक्षण किया।

स्वर्णिमचतुर्भुजपरियोजना तेन एव आरब्धा।
= स्वर्णिम चतुर्भुज परियोजना को उन्होंने ही शुरू किया।

डीएवी महाविद्यालये सः उच्चशिक्षां प्राप्तवान्।
= डीएवी कॉलेज में उन्होंने उच्चशिक्षा पाई।

सः आजीवनम् अविवाहितः आसीत्।
= वे आजीवन अविवाहित थे।

आपातकाले सः कारागारम् अपि गतवान् आसीत्।
= आपातकाल के दोनों में वे जेल भी गए थे।

मोरारजी देसाई महोदयस्य शासनकाले अटलबिहारी महोदयः विदेशमन्त्री अपि आसीत्।
= मोरारजी देसाई के शासनकाल में अटलबिहारी जी विदेशमंत्री भी थे।

तस्य शासनम् अद्य अपि सर्वे स्मरन्ति।
= उनके शासन को आज भी सभी याद करते हैं।

अद्य वयं अटलबिहारी वाजपेयी महोदयाय हार्दिकं श्रद्धाञ्जलिं दद्मः।
= आज हम अटलबिहारी जी को हार्दिक श्रद्धाञ्जलि देते हैं।

#vakyabhyas