संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
ll वन्दे मातरम् ll

मानवानां वयः यथा यथा वर्धते , तथा तथा ते श्रीमंत / धनवान् भवन्ति l

केशेसु रजतः , दन्ते सुवर्णम् , नयने मौक्तिकम् , रुधिरे शर्करा , पाषाणखण्डः (kidney stone) मूत्रपिन्डे , पोलादस्य शलाका (steel rod) अस्थिषु च आगच्छति l

😁😄🤣😂😀😂😁

#hasya
Forwarded from Markdown
कालिदासदिनम् 2021

संस्कृतभारती हडपसरभागेन जूलै 11 दिनाङ्के कालिदासदिनम् आचर्यते | तस्मिन् दिने एकघण्टात्मकम् कार्यक्रमम् कर्तुं योजना अस्ति |

अत: ये ये प्रस्तुतिं कर्तुम् इच्छन्ति, कृपया अत्र पञ्जीयनम् कुर्वन्तु |

कार्यक्रमस्य मुख्यविषय: (Theme) अस्ति -

”कालिदासस्य साहित्ये भारतीय संस्कृत्या: दर्शनम्"

एतत् अतिरिच्य, महाकविकालिदासस्य जीवने घटिता: रोचकववृत्तन्ता:, महाकवे: रचनानां वैशिष्ट्यम्, महाकवे: रचनानां लघुपरिचय: इत्यादि विषयान् आधृत्य अपि प्रस्तुती: कर्तुं शक्नुवन्ति |

प्रस्तुतय: संस्कृते भवेयु:
भाषणम्, रूपकम्, PPT presentation, चलचित्रम्, प्रश्नमञ्च: इत्यादिरूपेण प्रस्तुतय: कर्तुं शक्नुवन्ति |

आदर्शप्रस्तुति: 5-7 निमेषे भवति |

पञ्जीयनाय अन्तिमं दिनम् 4 जूलै 2021

पञ्जीयनाय धारा
July 1, 2021
अद्य राष्ट्रिय वैद्यदिनम्।
कोविड् द्वितीयतरङ्गे आराष्ट्रं मृताः वैद्याः ७९८।

नवदिल्ली> भारते कोविड् महामार्याः द्वितीयतरङ्गे विनष्टप्राणानां वैद्यानां संख्या ७९८ इति भारतीय वैद्यक संघटनेन [ऐ एम् ए] प्रोक्तम्। दिल्लीमध्ये एव अधिकाधिकं वैद्याः मृताः -१२८ । अन्येषु राज्येषु एवम् - बिहारः [११५], यू पि [७९], महाराष्ट्रं [२३], केरलं [२४], पश्चिमवंगः [६२], राजस्थानं [४४], झार्खण्डः [३९],आन्ध्रप्रदेशः [४०] ।
कोविडं विरुद्धयुद्धे अग्रिमस्थानमावहन्तः वैद्याः अनुमोदनमर्हन्तीति प्रधानमन्त्री नरेन्द्रमोदी प्राशंसयत्।


विनोदसञ्चारिणः स्पृहयन् अट्टपाटिदेशस्य सूर्यकान्तिकेदारः।

अट्टपाटि (केरलम्)> कुन्नन्चालप्रदेशेषु सूर्यकान्तिः विकसिता। प्लामरं सरसिक्कमुक्कस्थे यानमार्गस्य पार्श्वे पलनिस्वामिकौण्डर् नामकस्य कृषकस्य केदारे अर्ध एकर् परिमितौ भूमौ एव सूर्यकान्तिः प्रफुल्लिता। सूर्यकान्तिक्षेत्रं द्रष्टुं बहवः विनोदसञ्चारिणः विविधेभ्यः प्रदेशेभ्यः आगच्छन्ति। अर्ध एकर् परिमितौ भूमौ सार्धद्विकिलो मितं बीजम् उप्त्वा अनेन कृषिः समारब्धा। एतस्मात् १५० किलो परिमितं तैलबीजं लप्स्यते। तस्मात् ६० लिट्टर् तैलमपि लप्स्यते। विंशति वर्षात् पूर्वं पलनिस्वामिकौण्डरः सूर्यकान्त्याः कृषिं कृतवान् आसीत्। अन्ये कृर्षकाः अपि सूर्यकान्तिकृषिं अधिकतया कृतवन्तः आसन्। तत्समये तैलमर्दनाय यन्त्रशाला समीपे आसीत्। इदानीं कृषकाः सूर्यकान्तिकृषिं परित्यक्तवन्तः तदा यन्त्रशालायाः प्रवर्तनमपि स्थगितम्। इदानीं तैलमर्दनाय सुविधा विदूरस्थे कोयम्पत्तूर् देशे भवति।


वै. अनिलकान्तः केरलस्य आरक्षकाधिकारी।

अनन्तपुरी> राज्यस्य ३४तम आरक्षकाधिकारिरूपेण [डि जि पि] दिल्ली प्रदेशीयः १९८८ विभागस्थ ऐ पि एस् अधिकारी च वै अनिलकान्तः पदं स्वीकृतवान्। केरलस्य मार्ग सुरक्षा कम्मीषणर् स्थाने वर्तमानः सः लोकनाथ बेह्रस्य सेवानिवृत्त्या जाते स्थाने एव नियुक्तः।

दलितविभागात् डि जि पि पदं प्रापन् प्रथमः पुरुषः भवत्ययम्। गतदिने आरक्षकास्थाने सम्पन्ने कार्यक्रमे लोकनाथ बह्रातः अधिकारदण्डं स्वीकृत्य नूतनपदं समारोहयत्।


कोविड्रोगबाधया मरणम्- आर्थिकसमाश्वासाय अर्हता अस्ति। षट्सप्ताहाभ्यन्तरे धनांशः निश्चेतव्य:।


नवदिल्ली> कोविड्रोगबाधया मृतजनानां परिवाराय आर्थिकसमाश्वासः दातव्यमिति सर्वोच्चन्यायालयेन अभिप्रैतम्। प्रकृतिदुरन्त-बाधितानाम् आर्थिक-समाश्वासं दातुं व्यवस्था अस्ति। तत्समानमेव राष्ट्रियदुरन्त-निवारणनियमस्य १२ तमं खण्डमनुसृत्य कोविड्रोगबाधया मृतानां परिवाराणामपि अपि समाश्वासाय अर्हता अस्ति इति सर्वोच्चन्यायालयेन निरीक्षितम्। कोविड्महामारी अपि प्रकृतिदुरन्तत्वेन प्रख्यापिता अस्ति। सन्दर्भेऽस्मिन् कोविड्बाधया मृतानां कुटुम्बेभ्यः समाश्वासधनं दातव्यम् इति न्यायालयेन आदिष्टम्।

~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - अष्टमी शाम 03:28 तक तत्पश्चात नवमी

दिनांक - 02 जुलाई 2021
दिन - शुक्रवार
शक संवत - 1943
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ
पक्ष - कृष्ण
नक्षत्र - रेवती पूर्ण रात्रि तक
योग - शोभन सुबह 10:54 तक तत्पश्चात अतिगण्ड
राहुकाल - सुबह 11:02 से 12:43 तक
सूर्योदय - 06:02
सूर्यास्त - 19:23
दिशाशूल - पश्चिम दिशा में
कल की सुधर्मा पत्रिका — 01/07/21
Forwarded from kathaaH कथाः
जून् २०१० सम्भाषणसन्देशः
ओ३म्

410. संस्कृत वाक्याभ्यासः

सः दिनदर्शिकां दर्शयति।
= वह कलेंडर दिखाता है।

* पश्यतु , प्रथमतः पञ्चदशदिनाङ्क पर्यन्तम् अहं छात्रावासे न आसम् ।
= देखिये , पहली से पंद्रह तारीख तक मैं छात्रावास में नहीं था।

षोडशदिनाङ्के मम मित्रस्य जन्मदिनम् आसीत्।
= सोलह तारीख को मेरे मित्र का जन्मदिन था।

मम मित्रस्य गृहे भोजनं कृतवान् अहम् ।
= मेरे मित्र के घर मैंने भोजन किया।

अतः षोडशदिनाङ्क पर्यन्तम् अहं छात्रावासे भोजनं न कृतवान्।
= अतः सोलह तारीख तक मैंने छात्रावास में खाना नहीं खाया।

श्वः रविवासरः अस्ति।
= कल रविवार है।

रविवासरे अहं मम गृहं गच्छामि।
= रविवार को मैं मेरे घर जा रहा हूँ।

अतः त्रयोदश दिनानामेव भोजनशुल्कम् अहं ददामि।
= इसलिये तेरह दिन का ही भोजनशुल्क मैं देता हूँ।

स्वीकरोतु …

ओ३म्

411. संस्कृत वाक्याभ्यासः

दूरवाण्या सः वार्तालापं करोति।
= फोन से वह बात करता है।

* गणेश ! किं करोषि त्वम् ?
= गणेश ! तुम क्या कर रहे हो ?

* अद्य रविवासरः ।
= आज रविवार है ।

* अधिकं शयनं मा कुरु।
= अधिक मत सोना।

* गृहे त्वम् एकाकी असि।
= घर में तुम अकेले हो ।

* माता तव मातुलस्य गृहे अस्ति।
= माँ तुम्हारे मामा के घर है।

* अहम् उदयपुरे अस्मि।
= मैं उदयपुर में हूँ।

* तव भगिनी कोलकातायाम् अस्ति।
= तुम्हारी बहन कोलकाता में है।

* दूरदर्शनम् अधिकं मा पश्य।
= टीवी अधिक मत देखना।

* त्वं तु भोजनं पक्तुं जानासि।
= तुम तो भोजन पकाना जानते हो।

* प्रेम्णा भोजनं खाद ।
= प्रेम से भोजन खा लेना।

पुत्रः – आं तात ! अहं प्रवेशपरीक्षायाः अभ्यासं करोमि।
= हाँ पिताजी ! मैं प्रवेश परीक्षा की तैयारी कर रहा हूँ।

भवान् अपि जानाति।
= आप भी जानते हैं।

अहम् एकान्ते प्रेम्णा पठामि।
= मैं एकान्त में प्रेम से पढ़ रहा हूँ।

चिन्ता मास्तु।
= चिंता मत करिये।

ओ३म्

443. संस्कृत वाक्याभ्यासः

सः पठन् आसीत्।
= वह पढ़ रहा था।

सद्यः एव तस्य उदरे पीड़ा जाता।
= अचानक उसके पेट में दर्द शुरू हुआ।

सः त्वरितमेव उत्थितवान्।
= वह तुरन्त खड़ा हो गया।

मातुः समीपं गतवान्।
= माँ के पास गया।

माता तस्मै यवानीं गुडं श्यामलवणं च सम्मेल्य दत्तवती।
= माँ ने उसे अजवाइन गुड़ और काला नमक मिला कर दिया।

एक होरा पर्यन्तं सः विश्रामं कृतवान्।
= एक घंटा तक उसने आराम किया।

अनन्तरं सः शौचलयं गतवान्।
= बाद में वह शौचलय गया।

उदरं स्वच्छम् अभवत्।
= पेट साफ हो गया।

सः स्वस्थः अभवत्।
= वह स्वस्थ हो गया।

प्रायः बुद्धिमत्यः मातरः गृहोपचारमेव कुर्वन्ति।
= प्रायः बुद्धिमती माताएँ घर में ही उपचार करती हैं।

लाभः अपि भवति।
= लाभ भी होता है।

ओ३म्

444. संस्कृत वाक्याभ्यासः

माता – चल पुत्र ! रुग्णालयं चल।
= चलो बेटा ! अस्पताल चलो।

पुत्रः – किमर्थम् ?
= क्यों ?

माता – तव मतुलः रुग्णः अस्ति।
= तुम्हारे मामा बीमार हैं।

पुत्रः – आं चलामि।
= हाँ चलता हूँ।

माता – तव कृते कूप्यां जलं स्वीकृतवती।
= तुम्हारे लिये बोतल में पानी ले लिया है।

मातुलस्य चषकेन जलं मा पिब ।
= मामा के गिलास से पानी मत पीना।

– सः तु रुग्णः।
= वो तो बीमार है।

-रुग्णस्य चषकेन जलं न पेयम् ।
= बीमार के गिलास से पानी नहीं पीना चाहिये।

पुत्रः – सः तु मम मातुलः अस्ति।
= वह तो मेरे मामा जी हैं।

माता – सः तव मातुलः … तद् सत्यम् ।
= वो तुम्हारे मामाजी हैं … वो सच है।

– अधुना सः रुग्णः।
= अभी वो बीमार है।

ओ३म्

445. संस्कृत वाक्याभ्यासः

सः दिनदर्शिकां पश्यति।
= वह कैलेण्डर देखता है।

चिन्तयति।
= विचारता है। 🤔

“श्वः अवकाशः अस्ति।”
= कल छुट्टी है ।

परश्वः अवकाशः नास्ति।
= परसों छुट्टी नहीं है।

प्रपरश्वः अपि अवकाशः नास्ति।
= नरसों भी छुट्टी नहीं है।

अनन्तरं दिनद्वयम् अवकाशः अस्ति।
= बाद में दो दिन छुट्टी है।

तर्हि सोमवासरस्य मङ्गलवासरस्य च अवकाशावेदनं ददामि।
= तो सोमवार और मंगलवार की छुट्टी का आवेदन देता हूँ।

षट् दिनानां कृते गृहं गमिष्यामि।
= छः दिनों के लिये घर जाऊँगा।

भ्रातृद्वितीया: अनन्तरम् आगमिष्यामि।
= भाई दूज के बाद आऊँगा।

सः मां पृच्छति।
= वह मुझसे पूछता है।

भवान् अवकाशे अस्ति वा ?
= आप छुट्टी पर हैं क्या ?

अहम् उक्तवान् ” न अहम् अवकाशे नास्मि।”
= मैंने कहा ” नहीं मैं छुट्टी पर नहीं हूँ।

सः अवकाशस्य आवेदनं ददाति।
= वह छुट्टी का आवेदन देता है।

#vakyabhyas
युवकाः यदा केशकर्तनालयतः गृहम् आगच्छन्ति l अनन्तरम् स्नानं कुर्वन्ति l

किन्तु युवतयः …..

सौन्दर्यप्रसाधनगृहातः (युवतीनां केशकर्तनालयम्) गृहम् आगच्छन्ति तदा मुखम् अपि न प्रक्षालयन्ति l

😆😁😂😆🤣😁😂😆🤣

#hasya
विश्वस्य न्यूनातिन्यूनवयस्कः चतुरङ्गक्रीडकः-भारतस्य अभिमन्युः नूतनं प्रमाणं व्यरचयत्।

न्यूयोर्क्> विश्वस्य न्यूनातिन्यूनवयस्कः चतुरङ्गक्रीडकः इति पदं भारतस्य बालकः प्राप्तवान्। द्वादशवयस्कः अभिमन्यु मिश्रः भवति एषः बालकः। हङ्गरिराष्ट्रस्य बुडापेस्ट नगरे आयोजिते चतुरङ्ग स्पर्धायामेव अस्य प्रामाणिको विजयः। १५ वयस्कं प्रति द्वन्दिं लियोण् लूक् मेन्डोण्के इत्याख्यं  विजित्य भवति अस्य प्रामाणिको विजयः।


यूरो चषकः - तुरीयपादस्पर्धाः अद्य आरभन्ते।

> पादकन्दुकक्रीडाराधकाणाम् उत्साहं वितीर्य 'यूरोकप्' नामक पादकन्दुकक्रीडापरम्परायाः Samora चतुर्थांशपादस्पर्धाः अद्य रात्रौ सार्धनववादने [भारतसमयः] आरभन्ते। रूस्थे सेन्ट्पीटेर्स् बर्ग क्रीडाङ्कणे सम्पत्स्यमाना स्पेयिन-स्विट्सर्लान्ट् स्पर्धा एव चतुर्थांशक्रीडासु प्रथमा।

२४ दलैः सम्पन्ना यूरोचषकयुद्धभूमिः अष्टराष्ट्राणां स्पर्धाक्षेत्ररूपेण आकुञ्चितास्ति। स्पेयिन-स्विट्सर्लान्ट् स्पर्धां विना इट्टली-बल्जियम्, चेक् रिप्पब्लिक्-डेन्मार्क्, इङ्लण्ट् - युक्रैन् स्पर्धाश्च शुक्रशनिदिनयोः सम्पत्स्यन्ते। कुजवासरे बुधवासरे च पूर्वान्तिमस्पर्धा, तदनन्तरं रविवासरे अन्तिमस्पर्धा च सम्पत्स्यते।


वीथीशुनकेभ्यः अपि भोज्याय अधिकारः अस्ति। तेभ्यः आदरः देयः इति दिल्ली उच्चन्यायालयेन आदिष्टम्।


नवदेहल्ली> वीथीशुनकेभ्यः भोज्याय तथा तेभ्यः भोज्यं दातुं नागरिकाणां च अधिकारः अस्ति इति दिल्ली उच्चन्यायालयेन निरीक्षितम्। पशूनां संरक्षणं नागरिकाणां धार्मिकं कर्तव्यं भवति। वन्ध्यंकृतान् तथा वाक्सिनीकृतान् शुनकान् गृहीतुं नगरसभाधिकारिणाम् अधिकारः नास्ति। कारुण्येन, आदरेेण च वीथीशुनकाः पालयितव्याः इति उच्चन्यायालयेन आदिष्टम्। शुनकेभ्यः अवश्यं जलं अन्नं च लभते इति दृढीकरणमपि करणीयम्। खाद्य-पेयेभ्यः प्रत्येकं स्थलम् अपि सज्जीकरणीयम् इति राष्ट्रिय-जन्तुसंरक्षणसभां प्रति देहल्याः उच्चन्यायालयेन आदेशो दत्तः।


~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - नवमी शाम 05:30 तक तत्पश्चात दशमी

दिनांक - 03 जुलाई 2021
दिन - शनिवार
शक संवत - 1943
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - कृष्ण
नक्षत्र - रेवती सुबह 06:14 तक तत्पश्चात अश्विनी
योग - अतिगण्ड सुबह 11:29 तक तत्पश्चात सुकर्मा
राहुकाल - सुबह 09:22 से सुबह 11:03 तक
सूर्योदय - 06:02
सूर्यास्त - 19:23
दिशाशूल - पूर्व दिशा में