29 june
ट्विट्टर् माध्यमस्य भूमानचित्रे जम्मू तथा लडाकः च प्रत्येकराष्ट्रम्। प्रक्रमाय भारतसर्वकारः।
नवदिल्ली> नूतन-सूचनाप्रौद्योगिक-विद्यानियमान् संबन्ध्य भारतसर्वकारस्य ट्विट्टर् माध्यमस्य च मिथः विवादे अनुवर्तमाने पुनः अपि ट्विट्टर् माध्यमः नूतनविवादे पतितः। केन्द्रशासनप्रदेशौ जम्मूः लडाकः च भारतस्य बहिः प्रत्येकं राष्ट्रे इति रूपेण ट्विट्टर् माध्यमः स्वजालपुटे (website) भूमानचित्रे सूचितः। नूतन विवादे भारतसर्वकारस्य कठिनप्रक्रमाः ट्विट्टर् माध्यमः अभिमुखीकरिष्यति इति सूचना। राष्ट्रस्य अपूर्णभूमानचित्रस्य प्रदर्शने सामूहिकमाध्यमादिषु प्रतिषेधाणि अनुवर्तन्ते। ट्विट्टर् माध्यमं विरुध्य कठिनप्रक्रमाः समालोचयन्ति इति एतद्विषयसंबन्धिभिः अधिकारिभिः निगदितम्।
औद्योगिकदृढीकरणमभवत्। २०-२० विश्वचषकं यु ए इ राष्ट्रे भविष्यति।
मुम्बै> अस्मिन् संवत्सरस्य ट्वन्टि- ट्वन्टि विश्वचषकक्रीडायाः आतिथेयः यु यू ए ई भविष्यति। बि सि सि ऐ संस्थायाः अध्यक्षेण सौरव् गाङ्गुलिना एव अस्मिन् विषये औद्योगिकदृढीकरणं दत्तम्। यु ए इ आतिथेयः भविष्यति इति पूर्वसूचना आसीत् तथापि औद्योगिकतया न दृढीकृतमासीत्। भारते कोविड् महामारी न नियन्त्रणविधेयः तथा वैराणोः तृतीयतरङ्गस्य साध्यता अपि अस्ति इत्यतः एव वेदिका परिवर्तिता। कार्यमिदम् औद्योगिकतया ऐ सि सि संस्थायै आवेदितमस्ति। ओक्टोबर् नवम्बर् मासयोः क्रिकट् प्रतियोगिताः प्रचलिष्यन्ति इति गाङगुलिना प्रोक्तम्।
~ संप्रति वार्ता

🚩आज की हिंदी तिथि
🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
⛅ 🚩तिथि - षष्ठी दोपहर 01:18 तक तत्पश्चात सप्तमी
⛅ दिनांक - 30 जून 2021
⛅ दिन - बुधवार
⛅ शक संवत - 1943
⛅ अयन - दक्षिणायन
⛅ ऋतु - वर्षा
⛅ मास - आषाढ़
⛅ पक्ष - कृष्ण
⛅ नक्षत्र - पूर्व भाद्रपद 01 जुलाई रात्रि 02:03 तक तत्पश्चात उत्तर भाद्रपद
⛅ योग - प्रीति सुबह 11:15 तक तत्पश्चात सौभाग्य
⛅ राहुकाल - दोपहर 12:42 से दोपहर 02:23 तक
⛅ सूर्योदय - 06:01
⛅ सूर्यास्त - 19:23
⛅ दिशाशूल - उत्तर दिशा में

Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news. https://www.youtube.com/watch?v=C_qffT7ZGpI
YouTube
Vaarta: News and updates in Sanskrit | 30.6.2021
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/

नागपुरे घटिता एका चौर्यघटना - काचित् लज्जास्पदा, काचित् हास्यास्पदा च। एकं स्पष्टीकरोमि यत् कापि चौर्यघटना दु:खावहा एव वर्तते, तस्या: कृते हास्यं न योग्यम्। किन्तु एतस्य प्रसङ्गस्य कृते अपवादं निवेदयामि।
नैऋत्यनागपुरे एकं लक्ष्मीनगरम् इति क्षेत्रम् अस्ति। अखिले लक्ष्मीनगरे सुशिक्षिता:, धनसम्पन्ना: च जना: निवसन्ति। दीक्षाभूमि:, राष्ट्रीय-पर्यावरण-अभियान्त्रिकी-अनुसन्धान-संस्था, इत्यादीनां सान्निध्यं लब्धम् अस्ति लक्ष्मीनगराय। नागपुरे अतिसुरक्षितक्षेत्रेषु एकम् अस्ति क्षेत्रम् इदम्। चौर्यप्रसङ्गा:, अपराधघटना: तु अतीव विरला: अत्र। किन्तु पञ्चषेभ्य: मासेभ्य: पूर्वम् अत्र एका घटना घटिता, सापि न कस्यापि सामान्यनिवासिन: गृहे, अपि तु नागपुरस्य प्राक्तनमहापौरस्य निवासे।
महापौरपदं भूषयितु: जनस्य गृहं, कियत् विशालं, तस्य गृहे कति, कीदृशाणि च कारयानानि एतत् तु सर्वे अवगच्छेयु: एव। भृत्यानां, कर्मकराणां, सुरक्षाकर्मिणां, कारचालकानां, अन्या: सेवा: पूरयितॄणां च सङ्ख्या अधिका, तेषां सततं सञ्चार: च तद्गृहे। मन्त्रिण:, तस्य परिवारजनानां च सर्वेषां सेवकानां मुखपरिचय: अपि नास्ति। एतस्य एव लाभ: चोरेण साधित:। एकस्मिन् दिने स: महापौरस्य गृहं प्राप्य प्रवेशद्वारं खटखटायितवान्। मन्त्रिण: पत्नी च द्वारम् उद्घाटितवती (सा स्वयम् उद्घाटितवती वा कोऽपि सेवक: उद्घाटितवान् तां च आहूतवान् इति स्पष्टं न जानामि)। स: जन:, "अहं कारक्षालक: अस्मि, कृपया XUV यानस्य कुञ्चिकां ददातु", इति उक्तवान्। प्रतिदिनमेव कोऽपि कारक्षालक: आयाति, अत: तस्मै कुञ्चिकादानं तु दैनन्दिनक्रम: एव। अत: नि:शङ्कतया मन्त्रिण: पत्नी तस्मै कुञ्चिकासञ्चं दत्त्वा स्वकार्ये व्यस्ता अभवत्। एष: कुशल: जन: सुरक्षाकर्मिणं "कारयानं सुधारार्थं नेयम् अस्ति" इति व्याजेन कारयानं हर्म्यस्य बहि: आनीय पलायितवान्। एवं च कुशलतया धनाढ्यस्य गृहात् महार्घतमं कारयानं चोरितवान्। प्राय: "Oye Lucky Lucky Oye" चित्रपटात् प्रेरणा प्राप्ता स्यात् तेन।
वस्तुत: एषा घटना कुत्रापि न प्रकाशिता। यदि सा प्रकाशिता अभविष्यत्, तर्हि महापौरस्य प्रतिष्ठां क्षतिम् अगमिष्यत्। अनेका: व्यापारिकसंस्थया सुरक्षासंस्थया नियुक्ता: सुरक्षाकर्मिण: चेदपि कथं चोरस्य धार्ष्ट्यम् अभवत्, सुरक्षाकर्मिण: मनसि शङ्का कथं नागता, कथम् एतावतां जनानां निर्बाधसञ्चार: मन्त्रिण: हर्म्ये (सोऽपि कोरोनाकाले) इत्यादय: अनेका: प्रश्ना: उदभविष्यन्। एतां स्थितिं वर्जयितुं वार्ताम् इमां यथा न प्रसरेत् तथा मन्त्रिणा गोपिता। किन्तु परितस्थेभ्य: जनेभ्य: तु गोपनम् अशक्यप्रायम्।
अस्तु, प्राक्तनमहापौरस्य कृते एकस्य कारयानस्य हानि: तु न महती। किन्तु चोरस्य कौशल्यं, धार्ष्ट्यं च ज्ञात्वा हासम् उत्पद्यते।
- चिन्मयफडके

400. संस्कृत वाक्याभ्यासः
पत्नी – सेविका तु न आगतवती।
= सेविका तो नहीं आई।
– पात्राणि कः प्रक्षालयिष्यति ?
= बर्तन कौन धोएगा ?
– अद्य मम विद्यालयं शिक्षणाधिकारी आगामिष्यति।
= आज मेरे विद्यालय में शिक्षणाधिकारी आएँगे।
पतिः – कति सन्ति पात्राणि ?
= कितने बर्तन हैं ?
– ओह , केवलं विंशतिः खलु।
= ओह , केवल बीस न ।
– अष्ट तु चमसाः सन्ति।
= आठ तो चम्मच हैं।
– चत्वारः चषकाः ।
= चार गिलास।
– तिस्रः स्थालिकाः सन्ति।
= तीन थालियाँ हैं।
– अन्यानि पात्राणि लघूनि एव।
= अन्य पात्र छोटे ही हैं।
– आवां द्वौ प्रक्षालयितुं शक्नुवः।
= हम दोनों धो सकते हैं।
पत्नी – सेविका कदा आगमिष्यति ?
= सेविका कब आएगी ?
पतिः – अधुना तु सेवकः आगतः ।
= अभी तो सेवक आ गया है।
– आगच्छ , पात्राणि प्रक्षालयावः।
= आओ , बर्तन धोते हैं ।
401. संस्कृत वाक्याभ्यासः
मित्राणि !!! भो: मित्राणि !!!
श्रुतम् ??
= सुना ??
प्रधानमन्त्री महोदयः अस्माकं छात्रावासम् आगच्छति।
= प्रधानमंत्री महोदय हमारे छात्रावास आ रहे हैं।
प्रधानमन्त्रिणे स्वच्छता बहु रोचते।
= प्रधानमंत्री को स्वच्छता बहुत पसंद है।
मेहुल ! त्वं दीर्घां स्वच्छां कुरु ।
= मेहुल ! तुम गलिहारा साफ करो।
तव गौतमगणस्य छात्राः सहयोगं करिष्यन्ति।
= तुम्हारे गौतम गण के छात्र सहयोग करेंगे।
किरीट ! अत्र पश्य , ऊर्णनाभस्य जालानि सन्ति।
= किरीट ! यहाँ देखो , मकड़ी के जाले हैं।
तव कणादगणस्य छात्राः एतद् कार्यं करिष्यन्ति।
= तुम्हारे कणाद गण के छात्र ये काम करेंगे।
नलिन ! त्वं छात्रावासात् बहिः आगच्छ ।
= नलिन ! तुम छात्रावास से बाहर आओ।
अत्र पश्य , जनाः अत्रैव निष्ठीवनं कुर्वन्ति।
= यहाँ देखो , लोग यहीं पर थूकते हैं।
तव कपिल गणस्य छात्राः भित्तिं स्वच्छां करिष्यन्ति।
= तुम्हारे कपिल गण के छात्र दीवाल साफ करेंगे।
मम वसिष्ठगणस्य छात्राः छात्रावासे सुशोभनं करिष्यन्ति।
= मेरे वसिष्ठ गण के छात्र सुशोभन करेंगे।
402. संस्कृत वाक्याभ्यासः
तस्य केशाः पतन्ति।
= उसके बाल गिर रहे हैं।
सः यदा स्नानं करोति तदा केशाः भ्रष्टाः भवन्ति।
= वह जब नहाता है तब बाल झड़ते हैं।
प्रतिदिनं केशाः क्षरन्ति।
= हररोज़ बाल झड़ रहे हैं।
भोजनसमये स्थालिकायां केशाः पतन्ति।
= भोजन के समय थाली में बाल गिरते हैं।
मार्गे तस्य युतके अपि केशाः आगच्छन्ति।
= रास्ते में उसकी शर्ट पर भी बाल आ जाते हैं।
अधुना सः शिरसि रिष्टकस्य लेपनं करोति।
= अभी वह सिर पर रीठे का लेप कर रहा है।
आमलकस्य अपि सेवनं करोति।
= आँवले का भी सेवन करता है।
यदाकदा दध्ना केशान् प्रक्षालयति।
= कभी कभी दही से बाल धोता है।
यथा वैद्येन उक्तं तथैव सः करोति।
= जैसा वैद्य ने कहा वैसा वह कर रहा है।
तस्य केशाः सुदृढ़ाः भविष्यन्ति इति अहं मन्ये।
= उसके बाल मजबूत हो जाएँगे ऐसा मैं मानता हूँ।
ओ३म्
403. संस्कृत वाक्याभ्यासः
कदलीवृक्षे पुष्पम् अपि भवति।
= केले के पेड़ पर फूल भी होते हैं।
पुष्पं बहु दीर्घं भवति।
= फूल बहुत बड़ा होता है।
तद् पुष्पं यदा अपक्वं भवति तदा कर्त्यते।
= वो फूल जब कच्चा होता है तब काटा जाता है।
दक्षिणभारतीयाः जनाः तस्य शाकं प्रचुरं खादन्ति।
= दक्षिण भारत के लोग उसकी सब्जी अधिक खाते हैं।
तद् शाकम् अहं खादितवान्।
= वो सब्जी मैंने खाई।
बहु स्वादिष्टं भवति।
= बहुत स्वादिष्ट होती है।
लवणयुक्ते जले कदलीपुष्पं क्वथ्यते।
= नमकीन पानी में केले का फूल उबाला जाता है।
अनन्तरं तस्य शाकं निर्मीयते।
= उसके बाद उसकी सब्जी बनाई जाती है।
मधुमेहरोगिणः एतद् शाकं खादन्ति।
= मधुमेह के रोगी इस सब्जी को खाते हैं।
अपक्वं कदलीफलम् अपि आपणे मिलति।
= कच्चा केला भी बाजार में मिलता है।
तस्य अपि शाकं महिलाः पचन्ति।
= उसकी भी सब्जी महिलाएँ बनाती हैं।
ओ३म्
404. संस्कृत वाक्याभ्यासः
अहं तं बीमाशुल्कम् सूचितवान्
= मैंने उसे बीमा प्रीमियम बताया ।
सः त्वरितमेव धनगणनाम् आरब्धवान्।
= उसने तुरन्त धन गिनना शुरू कर दिया।
एकम्
द्वे
त्रीणि
चत्वारि
पञ्च
षट्
सप्त
अष्ट
नव
दश
एकादश
द्वादश
त्रयोदश
चतुर्दश
पञ्चदश
षोडश
सप्तदश
अष्टादश
नवदश
विंशतिः
एकविंशतिः
द्वविंशतिः
त्रयोविंशतिः
चतुर्विंशतिः
पञ्चविंशतिः
षड्विंशतिः
सप्तविंशतिः
सः तु सप्तविंशतिः पर्यन्तं गणनां कृतवान्।
= उसने सत्ताईस तक गिन लिया।
सः मह्यम् सप्तविंशतिः सहस्रं दत्तवान्।
= उसने मुझे सत्ताईस हजार दिये।
मया उक्तं ” न , केवलं एकविंशतिः सहस्रमेव भवति।”
= मैंने कहा ” नहीं केवल इक्कीस हजार ही होते हैं।”
अहं षड्सहस्रं तस्मै प्रत्यर्पितवान्।
= मैंने उसे छः हजार वापस किये।
सः अवदत् – “ भवति मम विश्वासः अस्ति।”
= उसने कहा – “आप पर मुझे विश्वास है”
अधुना सः पुनः गणयति।
= अभी वह फिर से गिन रहा है।
मह्यं केवलं एकविंशतिः सहस्रं दास्यति।
= मुझे केवल इक्कीस हजार देगा।
भवन्तः / भवत्यः अपि गणयन्तु।
= आप भी गिनिये।
#vakyabhyas

अद्य तस्य पुण्यतिथि🙏🏼🌺
दादाभाई नवरोजिवर्यः महाराष्ट्रराज्यस्य अभिजनः कश्चन देशभक्तः आसीत् ।
जन्म बाल्यञ्च
दादाभाई नवरोजि १८२५तमस्य वर्षस्य सप्टेम्बर्-मासस्य ४ दिनाङ्के फारसि कुटुम्बे जन्म प्राप्तवान् । तेषां पूर्वजानां स्थलं बरोडा । दादाभाई नवरोजिवर्यस्य बाल्यकाले एव पिता नवरोजि पालञ्जिदोर्दिः मरणं प्राप्तवान् । तदनन्तरं माता मणिकाबाई तं पोषितवती । दादाभाई नवरोजि कुशाग्रबुद्धियुतः आसीत् । आङ्ग्लशिक्षणे तेन सम्यक्शिक्षणमपि प्राप्तम् । उन्नतशिक्षणं मुम्बई नगरे विद्यमाने एल्फिन्स्टन् महाविद्यालये समापितवान् । अग्रे तस्मिन्नेव महाविद्यालये गणितशास्त्रस्य अध्यापकरूपेण सेवां कृतवान् ।
सामाजिकानि राजकीयानि च कार्याणि
दादाभाई नवरोजि महिलानां शिक्षणार्थं प्रयासं कृतवान् । के एन् कामा इत्येतस्य आर्थिकसहाय्येन दादाभाई नवरोजिवर्यः ज्ञानप्रसारकनामिकां पत्रिकां प्रारब्धवान् । तदनन्तरं गोफ्तार् (सत्यवादी) पाक्षिकपत्रिकाम् आरब्धवान् । तस्यां पत्रिकायां तस्य कालस्य सामाजिक-राजनैतिकदोषान् प्रदर्शितवान् । पत्रिकायाः सङ्घसंस्थानां च साहाय्येन जनेषु जागरणम् आनीतवान् । १८५५ तमे वर्षे कामावर्येण लन्डन्नगरे स्थापितायाः वाणिज्यसंस्थायाः विचारणार्थं दादाभाई नवरोजिवर्यः गतवान् । सः इङ्ग्लेण्ड्देशे भूत्वा भारतस्य स्वातन्त्र्यार्थं प्रयतमानः तत्रत्यानां जनानां प्रियतमः जातः । ब्रिटिश् जनानां शासनस्य विरोधं तत्र प्रथमवारम् आरब्धवान् । तेषां शासनस्य विषये भारतदेशस्य दारिद्र्यं तथा ब्रिटिश् जनानाम् अयोग्यशासनम् इति बृहत् ग्रन्थं प्रकटितवान् । भारतस्य उच्चस्थानस्य चयनार्थं क्रियमाणा सिविल् सर्विस् परीक्षा इङ्ग्लेण्ड्देशे तथा भारते च एकस्मिन्नेव काले सञ्चालनीया इति सः सङ्ग्रामम् आरब्धवान् । एतेषां कार्याणां समीचीनव्यवस्थायाः निमित्तं ईस्ट् इण्डिया असोसियेषन् इति संस्थां लन्डन्नगरे स्थापितवान् । १८९२ तमे वर्षे दादाभाई नवरोजिवर्यः ब्रिटिश् कामन् सभार्थं प्रिन्स्बरि क्षेत्रात् विजयी जातः,ब्रिटिश् पार्लिमेण्ट् मध्ये सदस्यत्वं च प्राप्तवान् । ब्रिटिश् पार्लिमेण्ट् मध्ये सदस्यत्वं प्राप्तः प्रथमः भारतीयः अयम् । तत्र भूत्वा भारतस्य अभिवृद्ध्यर्थं रुरल् कमिशन् समितेः संस्थापनाय प्रयत्नं कृतवान् । सः अपि तस्याः सदस्यः भूत्वा नियुक्तिं प्राप्तवान् । तन्मध्ये यदा भारतं प्रति आगतः आसीत् तदानीं भारतीयराष्ट्रियकाङ्ग्रेस्संस्थायाः अध्यक्षः भूत्वा सेवां कृतवान् । लार्ड् कर्जन्वर्यस्य दमननीतिः भारतीयानां मनसि आक्रोशम् उदपादयत् । तस्मात् काङ्ग्रेस् पक्षे यथार्थवादिनः तथा उपायवादिनः इति विभागस्य आरम्भः जातः । एवं न भवेत् इति धिया तस्य एकीकरणाय दादाभाई नवरोजिवर्येण प्रयत्नः कृतः, परन्तु तस्मिन् प्रयत्ने सः विफलः जातः । १९०७तमे वर्षे सः पुनः इङ्ग्लेण्ड्देशं गतवान् । तदनन्तरं तस्य आरोग्यस्थितिः सम्यक् नासीत्, अतः भारतमागत्य मुम्बई नगरस्य समीपे विद्यमाने तिर्पोवाग्रामे निवसितवान् । तस्य अन्तिमदिनेषु तस्य चिन्ता भारतस्य स्वातन्त्र्यविषये एव आसीत् । १९१५ तमे वर्षे आनिबेसेण्ट्-वर्यया आरब्धं हों रूल् लीग् सङ्ग्रामं दादाभाई नवरोजिवर्यः प्रोत्साहितवान् । १९१७ तमे वर्षे जून्मासस्य ३० तमे दिनाङ्के मरणं प्राप्तवान् ।

एककुटुंबं नदीतीरं गन्तुमिच्छति।कुटुंबे माता पिता पुत्र:च सन्ति।किंभवति पश्याम:।
माता — पुत्र ।शीघ्रं सिद्धाः भवाम:।पिता ओला यानं योजयति।
पुत्र: — अंब,तत्र कन्दुकेन क्रीडामि वा?
माता — अस्तु ,कन्दुकं स्वीकरोतु।
गृहात् मन्दिरं गच्छाम:।तस्मात् नदीतीरं गच्छेम।
पुत्र: — कदा पिता कार्यालयात् आगच्छति?
मार्गे आपणात् फलाहारानि,आलुकं बर्जनानि च आनेष्यामि इत्युक्तवान् खलु?
पिता — पुत्र ओलायानम् आगतम्।मातरं आह्वयतु।
भवते खाद्यानि आनीतवान् ।
पुत्र: — धन्यवाद:।अम्ब,पिता आगत:।
पिता तीरे क्रीडतु।
पुत्र: — एकं द्वे त्रीणि
मम कन्दुकं जलेपतितम्।
मम कन्दुकम्।मम कन्दुकम् आवश्यकम्।
माता — पुत्र ।चिन्तामास्तु।प्रात:यदा जलं नलिकाया:आगच्छति तथा कन्दुकम् आगच्छति।रोदनेन अलम्।
पुत्र: — निश्चयेन कन्दुकमागच्छति खलु?
पिता — आम् निश्चयेन।
(धमाल्)
माता — मम पति:नद्यां पतितवान्।रक्षयन्तु।रक्षयन्तु।
पुत्र: — अम्ब,चिन्तामास्तु।पिता स्वयमागच्छति।
माता — कथम्
पुत्र — अंब श्व:नलिकात: मम कन्दुकं यदागच्छति तदा एव पिता आगच्चति।
विजी संस्कृतभारती चेन्नै।
😁😄🤣😂😀😂😁
#hasya

June 30, 2021
सुधर्मा पत्रिकायाः सम्पादक: के.वी.सम्पत्कुमारः दिवङ्गतः।
बडुलूरु> संस्कृतजगति प्रथितयशः पद्मश्री के.वी.सम्पत्कुमारः अद्य पञ्चत्वे निलीनः। सुधर्मेति पाक्षिकस्य संस्कृतवार्तापत्रस्य सम्पादकः सम्पत्कुमारः वार्तासम्पादनाय प्रतिदनमिव अद्यापि कार्यालयं सम्प्राप्तः। वार्तासम्पादनकाले जायमानेन हृदयाघातेन असौ संस्कृतपुत्रः चिरकालाय परमेश्वरस्य चरणौ अगच्छत्। समग्रं संस्कृतजगदनेनाघातेन पीड्यमानो विद्यते। सम्प्रतिवार्ताः-पत्रिकायाः पक्षतः तस्मै विनम्रश्रद्धाञ्जलिः समर्प्यते। तदीयात्मनः शान्तये प्रार्थयामः।
संस्कृत-चलनचित्र गानानि यू ट्यूब् द्वारा प्रकाशितानि।
अनन्तपुरी> संस्कृतभाषायां प्रप्रथमतया निर्मितस्य शिशुकेन्द्रीकृत-चलन-चित्रस्य गीतानि यूट्यूब् द्वारा ( https://youtu.be/E_y787RowWM ) प्रकाशितानि। मधुरस्मितम् इति चलन-चित्रस्य मधुरगीतानि एव एते।
अस्य चलनचित्रस्य निदेशकः सुरेष् गायत्री भवति। गीतानां रचयितारः बिजिला किशेरः सुरेष् विट्टियरं डा. कुमार् च भवन्ति। राजेष् नारायणेन गीतानि संङ्गीतनिर्देशेन पुष्टी कृतानि। रुग्मा, ऐफुननुजुं, आर्या एं नायर्, अपर्णा श्रीकुमार्, अद्वैत् प्रभृतिभिः गीतानि श्रवणसुभगतया आलपितानि। चलनचित्रस्य चित्रस्य प्रदर्शनकाले बहवः विद्यालयछात्राः चलनगृहं गत्वा चित्रं दृष्टवन्तः सन्ति।
तापमानं ४९.५° सेल्ष्यस्। कानडे अपूर्वाधिकतापमानं रेखाङ्कितम्।
वान्कूवर्> उष्णतरङ्गस्य पश्चात् कानड राष्ट्रे मङ्गलवासरे अन्तरिक्षतापमानं ४९.५° (डिग्रि सेल्ष्यस्) इति रेखाङ्कितम्। ब्रिट्टीष् कोलम्बियायां लिट्टन् प्रदेशे एव राष्ट्रस्य अपूर्वाधिकतापमानं रेखाङ्कितम्। अनस्यूततया तृतीये दिने अधिकतापमानम् अनुवर्तते। प्रतिदिनतापमानं पूर्वकालप्रमाणान् विभिद्य १२१° डिग्रि फारन् हीट्ट् इति 'एन्वयोण्मेण्ड् आन्ट् क्लैमट् चेन्ज्' संघेन ट्विट्टर् मध्ये उक्तम्। जाग्रतां पालयितुं तथा पूर्वसज्जीकरणानि कर्तुं च जनेभ्यः निर्देशो दत्तः।
'मोडेणा'वाक्सिनाय अनुमतिः दत्ता।
नवदिल्ली> अमेरिक्कया निर्मितं कोविड्वाक्सिनं मोडेणा नामकं भारतम् देशान्तरानयनं कृत्वा उपयोक्तुम् औषधीयगुणविज्ञानसंस्थायाः अनुमतिः लब्धा। प्रमुखं औषधवितरणमाध्यमं मुम्बयीस्थं 'सिप्ला' इत्यनेन एव देशान्तरानयनं कृत्वा वितरणं करिष्यते इति नीति आयोगस्य सदस्यः डो. वि के पोल् प्रोक्तवान्।
वाक्सिनान्तरमिव मोडेणा अपि मात्राद्वयस्य सूचीकरणमपेक्षते। सप्ताहचतुष्टयस्य अन्तरालकालः निर्दिष्टः।
ड्रोण् आक्रमणं - भारतेन यु एन् मध्ये आशङ्का निवेदिता।
न्यूयोर्क्> यू एन् संस्थायाः भीकरविरुद्धकार्यकर्तॄणाम् उपवेशने भारतं जम्मुकाश्मीरे जातं ड्रोण् यन्त्राक्रमणमधिकृत्य आशङ्कां न्यवेदयत्।
वृत्तान्त- आशयविनिमयपारिभाषिकविद्या आतङ्कप्रवर्तनेभ्यः दुरुपयोगं क्रियते इति रक्षामन्त्रालये सुरक्षाविभागस्य सविशेषसचिवया वि एस् के कौमुद्या उक्तम्। आयुधघटितड्रोणुपकरणैः यत्र कुत्रापि आक्रमणानि भवेयुरिति भारतं यू एन् राष्ट्रेभ्यः जाग्रतासूचनामदात्।
गोदावरीतीरे तरङ्गताडनेन तीरं प्राप्तस्य भीमाकारस्य शम्बूकस्य सघोषणविक्रयणे १८००० रुप्यकाणि लब्धानि।
आन्ध्रा प्रदेशः> गोदावरीतीरे तरङ्गताडनेन तीरं प्राप्तस्य भीमाकारस्य शम्बूकस्य सघोषणविक्रयणे १८००० रूप्यकाणि लब्धानि। ७० से .मि आयतं तथा १८ किलो परिमितं भारयुक्तं सैरिङ्स् अरुवानस् इत्याख्यः एषः लोके आकारे बृहत्तमस्य शम्बूकविभेदे अन्तर्भवति । ओस्ट्रेलियन् ट्रंपट्ट् अथवा फाल्स् ट्रंपट्ट् इति नाम्ना सामान्यतया विख्यात: एषः मांसभोजी भवति। आभरणनिर्माणार्थं अस्य बाह्यकवचं अधिकतया उपयुज्यते इत्यतः एषः विभेदः वंशनाशभीषां अभिमुखीकरोति। अत्याकर्षकं केसरवर्णयुक्तं भवति अस्य बाह्य कवचम्।

Sanskrit-1820-1830
AIR Sanskrit News(Evening)
🚩आज की हिंदी तिथि
🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - सप्तमी दोपहर 02:01 तक तत्पश्चात अष्टमी
⛅️ दिनांक - 01 जुलाई 2021
⛅️ दिन - गुरुवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - आषाढ़
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - उत्तर भाद्रपद 02 जुलाई रात्रि 03:49 तक तत्पश्चात रेवती
⛅️ योग - सौभाग्य सुबह 10:47 तक तत्पश्चात शोभन
⛅️ राहुकाल - दोपहर 02:23 से शाम 04:04 तक
⛅️ सर्योदय - 06:01
⛅️ सर्यास्त - 19:23
⛅️ दिशाशूल - दक्षिण दिशा में