संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
संस्कृत संवादः । Sanskrit Samvadah
पाठ: - 5 स्त्रीलिङ्ग: - बहुवचनम् 1. इमा: स्यु:। -These  should be present.      2. एता: स्यु:। - These  should be present.      3. अमू: स्यु:।  - These  should be present.       4. ता: स्यु:। - Those should be present.      5. भवत्य: स्यु:। …
पाठ: - 7
पुंलिङ्ग: - द्विवचनम्

1. इमौ स्याताम्।
- These two persons should be present.

2. एतौ स्याताम्।
- These two persons should be present.

3. अमू स्याताम्।
- These two persons should be present.

4. तौ स्याताम्।
- Those two persons should be present.

5. सर्वौ स्याताम्।
- Every two persons should be present.

6. भवन्तौ स्याताम्।
- You two persons should be present.

7. कौ स्याताम्?
- Which two persons should be present?

8. यौ स्याताम्।
- Which two persons should be present?

9. अन्यौ स्याताम्।
- Some two persons should be present.

10. आवां स्याव।
- we two should be present.

11. युवां स्यातम्।
- you two should be present.

पाठ: - 8
स्त्रीलिङ्ग: - द्विवचनम्

1. इमे स्याताम्।।
- These two ladies should be present.

2. एते स्याताम्।
- These two ladies should be present.

3. अमू स्याताम्।
- These two ladies should be present.

4. ते स्याताम्।
- Those two ladies should be present.

5. भवत्यौ स्याताम्।
- You two ladies should be present.

6. के स्याताम्?
- Which two ladies should be present?

7. सर्वे स्याताम्।
- Every two ladies should be present.

8. ये स्याताम्।
- Which two ladies should be present?

9. अन्ये स्याताम्।
- Some two ladies should be present.

पाठ: - 9
नपुंसकलिङ्गम् - द्विवचनम्

1. ते स्याताम्।
- Those two things should be present.

2. एते स्याताम्।
- These two things should be present.

3. इमे स्याताम्।
- These two things should be present.

4. अमू स्याताम्।
- These two things should be present.

5. सर्वे स्याताम्।
- Every two things should be present.

6. के स्याताम्।
- Which two things should be present ?

7. ये स्याताम्।
- Which two things you should be present?

8. पुस्तके स्याताम्।
- Two books should be present.

~V.Kutumbarao
   
#vakyabhyas
Conch & oyster - conversation - Sanskrit poem

शङ्खशुक्तिसंवादः

एकः शङ्खश्चैका शुक्तिः
सागरतीरे स्थितौ सम्मुखे।
शुक्तिः पृच्छति शङ्खं भ्रातः!
कथं ध्वनिं कुरुषे गम्भीरम्॥१॥

निगदति शङ्खः स्वसः शुक्तिके!
प्रविशति वायुर्यदा मुखे मे
प्राणपूरितो ध्वनिं करोमि
गगनं नादमयं विदधामि॥२॥

कोऽपि मानवः करे गृहीत्वा
मुखात् समीरं दत्त्वा मह्यम्।
प्राणमयं मां यदा करोति
श्रवणगोचरस्तदा भवामि॥३॥

अहं वायुना त्वं सलिलेन
स्वातौ रत्नमयी जातासि।
उदरे ते मौक्तिकं सुन्दरं
जगते सौन्दर्यं प्रददासि॥४॥

शब्दः कथं मौक्तिकं भूत्वा
कर्णगोचरो भवति भ्रातः!
शङ्खो ब्रूते कविर्मनीषी
शुद्धचेतसा तस्मिन् सिद्धः॥५॥

मा कुरु जनधनयौवनगर्वं
वदति मनीषी यतिः शङ्करः।
हरति निमेषात् कालः सर्वं
सूक्तिस्तस्य सदा स्मरणीया॥६॥

-शशिपालशर्मा 'बालमित्र'
28-07-2022
Live stream scheduled for
प्रथमे दिवसे ईश्वरः श्वानं सृष्ट्वा तमभणत्,
“ गृहस्य पुरतः आप्रातः आसायं तिष्ठन् भषसि । तव जीवितावधिः वर्षाणां विंशतिः भविष्यति” इति । श्वा प्रत्युवाच, “प्रभो, भषन् विंशतिः वर्षाणि कालयापनं दुष्करं खलु । अतः मह्यं दशवर्षाण्येव देहि । मम दत्तजीवितस्य दशवर्षाणि प्रतिनिवर्तयामि”
ईश्वरः अवदत्, “तथास्तु” ।

द्वितीये दिवसे ईश्वरः वानरमसृजत् तमवदच्च, “ विनोदमयानि हास्यकराणि चेष्टितानि कुर्वन् कालं यापय । तव आयुः विंशतिः वर्षाणि भविष्यति” इति । वानरः प्रत्युवाच, “प्रभो, दुष्करं खलु विंशतिवर्षपर्यन्तं जीवनं हास्यकरचेष्टितानि कुर्वन् । दशवर्षैरलम् । मम आयुषः दशवर्षाणि प्रतिनिवर्तयामि” इति । ईश्वरः अवदत्, “तथास्तु” ।

ईश्वरः तृतीये दिवसे धेनुमसृजत् तामवदच्च, “ त्वं आप्रातः आसायं कर्षकेण सह क्षेत्रं गत्वा प्रखरातपे क्षेत्रकर्माणि करोषि । वत्सान् जनयसि कर्षकाय पयश्च ददासि च । तुभ्यं षष्ठिवर्षमितमायुः ददामि’ इति । धेनुः प्रत्यवदत्, “देव, दुःखभूयिष्ठं जीवितं विंशतिवर्षमितमेव पर्याप्तम् । मम आयुषः चत्वारिंशद्वर्षाणि प्रतिनिवर्तयामि” इति । ईश्वरः अनुमेने ।

चतुर्थे दिवसे ईश्वरः मानवमसृजत् तमवदच्च, “ यथेच्छं भुञ्जानः स्वपन् क्रीडन् कालं यापय । तुभ्यं विंशतिवर्षमितम् आयुः ददामि” इति । मानवः प्रत्यवदत्, “ईश्वर, विंशतिवर्षमितम् आयुः स्वल्पं खलु । श्वाप्रतिनिवर्तितदशवर्षाणि, वानरप्रतिनिवर्तितदशवर्षाणि धेनुप्रतिनिवर्तितचत्वारिंशद्वर्षाणि च मह्यं देहि” इति ।
ईश्वरः विहस्य अवदत्, “तथास्तु” ।

अत एव मानवः विंशतिवर्षादनन्तरं चत्वारिंशद् वर्षाणि धेनुवत् कुटुम्बसंरक्षणाय श्राम्यति, पश्चात् दशवर्षाणि वानरवत् पौत्रदौहित्रान् तोषयति, अन्ते दशवर्षाणि सारमेयवत् गृहस्यबहिः किमपि जल्पन् तिष्ठति खलु ।

~ जी एस् एस् मूर्तिः

#hasya
#⃣ ००८
🏬 नित्यं संस्कृतम्
👨🏻‍🏫 @NityamSanskritam
🔰 Sanskrit Learning (primary/intermediate level)
5:00 PM 🇮🇳
⌛️ 6:00 PM 🇮🇳
🗓 प्रतिदिनम्
🗣 Primarily English Medium
🔛 2nd January onwards
📱 Google meet
💰 वैकल्पिकः
👥 chat.whatsapp.com/BuSWtSOG9DgLbwACBy2Z0k
🌐 nityamsanskritam.in
🔗 meet.google.com/pso-ukjt-bys
📞 +917589315523 ✓UPI
🎞 youtube.com/@nityamsanskritam
🔒Closed
संस्कृत संवादः । Sanskrit Samvadah pinned «#⃣ ००८ 🏬 नित्यं संस्कृतम् 👨🏻‍🏫 @NityamSanskritam 🔰 Sanskrit Learning (primary/intermediate level) 5:00 PM 🇮🇳 ⌛️ 6:00 PM 🇮🇳 🗓 प्रतिदिनम् 🗣 Primarily English Medium 🔛 2nd January onwards 📱 Google meet 💰 वैकल्पिकः 👥 chat.whatsapp.com/BuSWtSOG9DgLbwACBy2Z0k…»
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 वार्ताः
🗓 ०३ जन्वरी २०२३, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(स्थानियां प्रादेशिकीं अन्ताराष्ट्रियां वा वार्तां श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - द्वादशी रात्रि 10:01 तक तत्पश्चात त्रयोदशी

⛅️दिनांक - 03 जनवरी 2023
⛅️दिन - मंगलवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शिशिर
⛅️मास - पौष
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - कृतिका शाम 04:26 तक तत्पश्चात रोहिणी
⛅️योग - साध्य सुबह 06:53 तक तत्पश्चात शुभ
⛅️राहु काल - दोपहर 03:25 से 04:46 तक
⛅️सर्योदय - 07:21
⛅️सर्यास्त - 06:07
⛅️दिशा शूल - उत्तर दिशा में
⛅️बराह्ममुहूर्त - प्रातः 05:35 से 06:28 तक
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
https://youtu.be/_ucIXMzdl4c
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃हस्ती हस्तसहस्त्रेण शतहस्तेन वाजिनः ।
शृगिणः दशहस्तेन देशत्यागेन दुर्जनः
।।

🔆 गजात् सहस्त्रहस्तपरिमितं दूरं तिष्ठ अश्वात् शतहस्तपरिमितं शृङ्गयुतेभ्य पशुभ्यः च दशहस्तपरिमितं किन्तु यत्र असभ्याः जनाः निवसन्ति तस्मात् स्थानात् अपि निर्गन्तव्यम्।

हाथी से हजार गज की दुरी रखे. घोड़े से सौ की. सींग वाले जानवर से दस की.
लेकिन दुष्ट जहाँ हो उस स्थान से ही निकल जाएं ।

#Subhashitam