संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Please open Telegram to view this post
VIEW IN TELEGRAM
संस्कृतवाक्याभ्यासः

अद्य आभारते अनेके जनाः यज्ञं कृतवन्तः।
= आज पूरे भारत में अनेक लोगों ने यज्ञ किया।

सर्वे स्वगृहे एव यज्ञं कृतवन्तः।
= सबने अपने घर में ही यज्ञ किया।

ये यज्ञं कर्तुं जानन्ति ते यज्ञं कृतवन्तः।
= जो यज्ञ करना जानते हैं उन्होंने ने भी यज्ञ किया।

ये यज्ञं कर्तुं न जानन्ति ते यज्ञं कृतवन्तः।
= जो यज्ञ करना नहीं जानते हैं उन्होंने ने भी यज्ञ किया।

सर्वेषां गृहे प्रातः सार्ध-नववादनतः यज्ञः आरब्धः।
= सबके घरों में प्रातः साढ़े नौ बजे यज्ञ प्रारम्भ हुआ।

यः गृहे एकाकी अस्ति सः एकाकी एव
यज्ञं कृतवान्।

= जो घर में एकाकी है उसने अकेले ही यज्ञ किया।

अनेके जनाः परिवार जनैः सह यज्ञं कृतवन्तः।
= अनेक लोगों ने परिवारजनों के साथ यज्ञ किया।

सपरिवारं यज्ञं कृतवन्तः।
= परिवार सहित यज्ञ किया।

यज्ञेन वातावरणं शुद्धं भवति।
= यज्ञ से वातावरण शुद्ध होता है।

वातावरणस्य शुद्धयर्थं यज्ञः तु करणीयः भवति।
= वातावरण की शुद्धि के लिये यज्ञ तो करना चाहिये।

सरलानि वाक्यानि प्रतिदिनं वदन्तु
सरल वाक्य प्रतिदिन बोलें

#vakyabhyas
"इत्याख्यः" means "called" or "known as", E.g.

"आयुष" इत्याख्या स्वास्थ्य सुरक्षा योजना
"अभियानं लक्षाधिकम्" इत्याख्यं महाभियानं
"sanskritize.com" इत्याख्यं जालपुटं
"मन की बात" इत्याख्यं कार्यक्रमम्
"दि गुड अर्थ" इत्याख्यस्य पुस्तकस्य लेखक:
"वाड़ीपट्टी" इत्याख्ये ग्रामे
"संस्कृति" इत्याख्ये उपहारगृहे
"गुरुनानकदेव" इत्याख्ये महाविद्यालये
सुब्रह्मण्यम् इत्याख्यः कृषिमन्त्रिपदं प्राप्तवान्
कलशेश्वर इत्याख्यः सर्वपापप्रणाशनः
जन-धन इत्याख्यायाः योजनायाः
में
----
(१) ये अंगूर खाने में मीठे हैं।
= एता: मृद्वीका: स्वादे मधुरा: सन्ति। एता: द्राक्षा: स्वादिष्टा: सन्ति।

(२) यह पुस्तक समझने में आसान है।
= एतत् पुस्तकम् अवगमने सरलमस्ति।

(३) यह कमीज पहने में बिल्कुल ठीक है।
= एतत् परिधानं संवस्त्रयितुं सर्वथैव आप्तमस्ति/उपयुक्तमस्ति।

(४) आजकल फर्स्ट क्लास में सफर करना खतरे से खाली नहीं।
= अद्यत्वे रेलयानेन प्रथमश्रेण्यां भ्रमणं सुरक्षितं नास्ति।

(५) शिक्षक सेकंड क्लास में सफर करते हैं।
= अध्यापका: रेलयानेन द्वितीयश्रेण्यां भ्रमणं कुर्वन्ति।

(६) मैं सेकंड क्लास में सफर नहीं करता हूं।
= अहं द्वितीयश्रेण्यां भ्रमणं न करोमि।

(७) मैं उससे सुबह में मिलूंगा।
= अहं तं/तां प्रात: मेलिष्यामि।

(८) मैं उनसे आज सुबह में मिलूंगा।
= अद्य अहं तं/ तां प्रात: मेलिष्यामि।

(९) वह एक गांव में रहता है।
= स: एकं ग्रामम् उपवसति।

(१०) मैं शहर में रहता हूं।
= अहं नगरम् अनुवसामि।

(११) तुम पटने में रहते हो।
= त्वं पाटलिपुत्रम् अधिवससि।

(१२) मैं मोतिहारी में रहता हूं।
= अहं मोतिहारीनगरम् आवसामि।

#vakyabhyas
संस्कृतभाषा में आधारभूत किन्तु ध्यान देने योग्य नियम:
Basic but important rules in Sanskrit:

1) "अहम्" के साथ उत्तम पुरुष का प्रयोग होता है।
- We use "Utama Purusha" (First Person) with "I".
- अहं पठामि। (I read.)
- अहं लिखामि। (I write.)
- अहं गच्छामि। (I go.)

2) "त्वम्" के साथ मध्यम पुरुष का प्रयोग होता है।
- We use "Madhyam Purusha" (Second Person) with "You".
- त्वं पठसि। (You read.)
- त्वं लिखसि। (You write.)
- त्वं गच्छसि। (You go.)

यदि "त्वम्" के स्थान पर "भवान्" शब्द का प्रयोग हो, तो तृतीया पुरुष का प्रयोग होता है।
- If "भवान्" (Bhawān) is used instead of "त्वम्", "Prathama Purusha" (Third Person) is used.
- भवान् पठति। (He/She reads.)
- भवान् लिखति। (He/She writes.)
- भवान् गच्छति। (He/She goes.)

3) "अहम्" और "त्वम्" के अलावा किसी अन्य व्यक्ति या वस्तु के लिए तृतीया पुरुष का प्रयोग होता है।
- "Tritiya Purusha" (Third Person) is used for every other person or thing.
- सः पठति। (He reads.)
- सः लिखति। (He writes.)
- सः गच्छति। (He goes.)

ध्यान रखें:

- भवान् - You (respectful)
- भवत: - Your (respectful)
- भवन्तः - You all (respectful)
- भवतां - Your all (respectful)

#sanskritlessons
Everyone please join the discussion group
By clicking on 💬 like icon in group info
Please open Telegram to view this post
VIEW IN TELEGRAM
  Ninety is navatihi and we keep adding the prefixes till hundred.

91. Ninety one एकनवतिः (ekanavatihi)

92. Ninety two द्विनवतिः (dvinavatihi)

93. Ninety three त्रिनवतिः (trinavatihi)

94. Ninety four चतुर्णवतिः(chaturnavatihi)

95. Ninety five पञ्चनवतिः (panchanavatihi)

96. Ninety six षण्णवतिः (shannavatihi)

97. Ninety seven सप्तनवतिः (saptanavatihi)

98. Ninety eight अष्टनवतिः (ashtanavatihi)

99. Ninety nine नवनवतिः (navanavatihi)

100. A hundred शतम् (shatam)

~ डो॰ प्रवीणकुमारशास्त्री #Sanskritlessons
*नमोनमः*
दिनाङ्कः -१२.१.२०२१
___________________________________
*अद्यतनं‌ पञ्चाङ्गम्*
शार्वरी-संवत्सरः दक्षिणायनम् हेमन्त-ऋतुः
मार्गशीर्ष-मासः कृष्ण-पक्षः चतुर्दशी-तिथिः
मूला-नक्षत्रम् मंगलवासरः
व्याघात-योगः शकुनि-करणम्
सौर : धनु-मासः : दिनम्-28 उत्तराषाढ़-नक्षत्रम् : प्र्थमः-पादः
ग्रेगोरियन् : जनवरी-12
__________________________________
*६३१.।। वमति।।*
*जडोऽयमिति नात्यन्तं*
*हीनमप्युपघातयेत् ।*
*निर्दयं हतमप्यश्म*
*वमति ज्योतिषः कणान् ।।*
~जो दुर्बलों को भी प्रताडित करता हो उस के जैसा अत्यन्त मूर्ख कोई हो नहीं सकता । निर्दयता से घिसने पर पत्थर से भी चिंगारी उत्पन्न होती हैं ।
~No one is as fool as him , who strikes hard even to a weak and dull person . Even a static stone when struck mercilessly , emits sparks .
__________________________________
*संस्कृत वार्ताः*
मुख्यवार्ताः
●प्रधानमन्त्री नरेन्द्र-मोदी अद्य एतद्वर्षीयस्य द्वितीय-राष्ट्रिय-युव-संसद् महोत्सवस्य समापनसत्रं संबोधयिष्यति।
●प्रधानमन्त्री प्रावोचत् यत् मसूरणाभियानस्य प्रथमचरणे त्रि-कोटि-मितेभ्यः स्वास्थ्यकर्मिभ्यः अग्रिमपङ्क्तौ वर्तमानेभ्यः तत्संबद्ध-कर्मकरेभ्यश्च सूच्यौषधं निःशुल्कं प्रदास्यते।
●केन्द्रीयो गृहमन्त्री अमितशाहः प्राभाषत यत् चतुर्विंशत्युत्तर-दविसहस्रतमं वर्ष यावत् अस्मद्देशीयं कृष्णाङ्गार-क्षेत्रम्, भारतीयार्थव्यवस्थां कर्तुं पञ्च-खर्बुद डालर्-मुद्रात्मिकां विधातुं क्षममस्ति।
__________________________________
*कोविडोपनिंग्*
प्रियाः पाठकाः कोविड् नाइन्टीन् इति वैश्विक संक्रमणं विरुध्य राष्ट्रं ऐक्यभावनया युध्यते। भवन्तोऽपि संक्रमण इदं परास्तुं सन्नद्धाः भवन्तु। मुखनासिकाच्छादकं, सामाजिकदौर्यानुपालनं, पाणिपाद-प्रक्षालनञ्च इति उपायत्रयं सर्वदैव अवधारयन्तु। यतोहि यावन्न औषधं तावन्न शैथिल्यम्।
__________________________________
*प्रधानमन्त्री/समापनसत्रम्*
प्रधानमन्त्री नरेन्द्र मोदी अद्य एतद्वर्षीयस्य द्वितीय-राष्ट्रिय-युव-संसद् महोत्सवस्य समापनसत्रं संबोधयिष्यति। दृश्य-श्रव्य-संवाद-तन्त्र-द्वारा श्रीमता मोदिना प्रातः सार्ध-दश-वादने सत्रमेतत् सम्बोधयिष्यते।
__________________________________
*प्रधानमन्त्री/नवारम्भः*
प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् देशे आयोज्यमानैः आन्तर्जालिकोपवेशनैः देशस्य नवयुवकयुवतिभ्यः रोचक: वैश्विक मञ्चः अधिगम्यते । एकस्मिन् ट्वीट्-संदेशे श्रीमता मोदिना निगदितं यत् 'प्रारम्भ स्टार्टअप इन्डिया इन्टरनेशनल समिट्' इति एतादृशः एव एक: मञ्च: विद्यते, यस्य आयोजनं मासस्यास्य पञ्चदश-षोडशतालिकयो: भविष्यति । तेन हि देशस्य युवान: कार्यक्रमेऽस्मिन् सहभागितां कुर्युरिति प्रार्थितम्। आयोजनस्यास्य उद्देश्यम् अस्ति औद्योगिक-नैवेशिकादमिक-वित्तकोषीयानां च नवोद्योगेच्छूनां यूनां मञ्चैकदानमिति।
__________________________________
*प्रधानमन्त्री/कोविड्*
प्रधानमन्त्री नरेन्द्र मोदी प्रावोचत् यत् देशे आगामि-शनिवासरात् कोविड् ऊनविंशति-महामार्याः उन्मूलनाय विश्वस्य बृहत्तमं मसूरणाभियानम् आरप्स्यते। गतवासरे समेषां राज्यानां मुख्यमन्त्रिभिः समं सम्भाषणोपवेशनावसरे असौ कोरोणा महामार्याः वर्तमान-स्थितिं समीक्षितवान्, मसूरणाभियान-सज्जाता-विषये च सविस्तरं परिचर्चितवान्। तनोक्तं यत् देशे निर्मितं कोविशील्ड्-कोवैक्सीन-इति-सूच्यौषध द्वयम् अपि अल्पार्ध विद्यते। प्रधानमन्त्री प्रावोचत् यत् मसूरणाभियानस्य प्रथमचरणे त्रि-कोटि-मितेभ्यः स्वास्थ्यकर्मिभ्यः अग्रिमपङ्क्तौ वर्तमानेभ्यः तत्संबद्ध-कर्मकरेभ्यश्च सूच्यौषधं निःशुल्कं प्रदास्यते।
__________________________________
*कोविड्/स्थिति:*
देशे, कोविड्-रोगिणां स्वस्थतायाः प्रतिशतता प्रवर्ध्य षण्णवति- दशमलव - चतुस्त्रिमिता संवृत्ता। स्वास्थ्य-मन्त्रालयस्य अनुसारि, संक्रमण-मुक्तानां संख्या समेध्य सम्प्रति दुवि-नवति-सहस्राधिकैक-कोटिमिता संजातास्ति। विगते अहोरात्रावधौ संक्रमणस्य एकादशाधिक-त्रिशतोत्तर-षोडश-सहस्रं नूतनानि प्रकरणानि समक्षमागतानि। अपरत:, कोविड्-जन्य-मृत्युमितिः सम्प्रति अपचीय एक-दशमलव- एक-त्रि-मिता एव वर्तते, या हि विश्वस्य अन्यदेशापेक्षया सर्वतो न्यूनास्ति। आईसीएमआर-इति-भारतीयायुर्विज्ञानानुसन्धानपरिषदः अनुसारि देशे अधुनावधि प्रायः सप्तदश-लक्षाधिकाष्ट-दश-कोटि-मितानि कोविड्-ऊनविंशति-प्रतिदर्श-परीक्षणानि संवृत्तानि।
___________________________________
*अमितशाहः/कृष्णाङ्गारः*
केन्द्रीयो गृहमन्त्री अमितशाहः प्राभाषत यत् चतुर्विंशत्युत्तर-द्विसहस्रतमं वर्ष यावत् अस्मद्देशीयं कृष्णाङ्गार-क्षेत्रम्, भारतीयार्थव्यवस्थां कर्तुं पञ्च-खर्बुद-डालर् मुद्रात्मिकां विधातुं क्षममस्ति । कृष्णाइ्गारक्षेत्रसंबद्धे एकस्मिन् कार्यक्रमे असौ अब्रवीत् यत् विगतेषु षड्-वर्षेषु देशे कृष्णाइ्गारस्योत्पादनं संतोषजनकरूपेण प्रवृद्धम् अस्ति ।
___________________________________
*||इति वार्ताः||*
हरिःॐ। भौमवासर-सुप्रभातम्।

आकाशवाण्या अद्यतनप्रातःकालवार्ताः।

जयतु संस्कृतम्॥
हरिःॐ। २०२१-०१-१२ मङ्गलवासरः।

https://youtu.be/APROvhS3DuE

जयतु संस्कृतम्॥