संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
अद्य प्रातरहं मम मित्रस्य विद्याधरस्य गृहमगच्छम्। तत्रावां सम्भाषमाणाअभूवम्।

अहम्। अमितो नाम गायकः स मे रोचते।
विद्याधरः। अहो बत कस्य नाम शुभवेलायामस्याम् उच्चारितस्त्वया।

अहम्। किमभवत्।
विद्याधरः। सर्वममङ्गलं कृतम्।
अहम्। कथमेवं ब्रवीषि।
विद्याधरः। सोऽनार्यः।
अहम्। तत्कथम्।
विद्याधरः। त्वं सत्यं न जानासि।
अहम्। कारणं ह्युच्यतां प्रभो।
विद्याधरः मन्दस्वरेण। स नग्नः समजायत।
अहम्। किम्।
विद्याधरः। जन्मसमये तृणमात्रमपि न धरन्नासीत् सः।
अहम्। मूढोऽसि किम्।
विद्याधरः। अनेन ज्ञायते स दिगम्बरजैनः।
अहम्। जन्मानन्तरं मूढोऽभवः किं वा गर्भेऽपि मूढ आसीः।

एतच्छ्रुत्वा क्रुद्धः स मां गृहाद्बहिरक्षिपत्। अन्यन्मित्रमपि नास्ति मे। कुत्र गच्छानि।

@samvadah #hasya
Please open Telegram to view this post
VIEW IN TELEGRAM
कश्चन पुरूषो भार्यायै यानस्य द्वारम् उद्घाटयति चेत् तत्र कारणद्वयं स्यात् । भार्या नूतना यानं वा नूतनम् इत्येव।

If a man opens the car-door for the wife, there could be two reasons. It's either a new wife or a new car.

#hasya
रेलचिटिकापरीक्षकः । महात्मन् कुत्र गच्छन् असि।

साधु: । रामजन्मभूमिम् ।

रेलचिटिकापरीक्षकः । चीटिकां दर्शय।

साधु: । नास्ति ।

चिटिकापरीक्षकः । तर्हि गच्छ।

साधु: । कुत्र ।

चिटिकापरीक्षकः । कृष्णजन्मभूमिम् ।

#hasya