संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
ओ३म्

392. संस्कृत वाक्याभ्यासः

अद्य रजकः न आगतवान्।
= आज धोबी नहीं आया।

सः स्वं पुत्रं प्रेषितवान्।
= उसने अपने पुत्र को भेजा।

मम प्रक्षालितानि वस्त्राणि तेन सह प्रेषितवान्।
= मेरे साफ किये हुए वस्त्र उसके साथ भेज दिये।

रजकस्य पुत्रः मम वस्त्राणि आनयति स्म।
= धोबी का पुत्र मेरे वस्त्र ला रहा था।

रजकस्य पुत्रः द्विचक्रिकया आगच्छति स्म।
= धोबी का पुत्र साइकिल से आ रहा था।

मार्गे गर्तः आसीत् ।
= रास्ते में गड्ढा था।

सः बालकः पतितवान्।
= वह बालक गिर गया।

मम वस्त्राणि अपि पतितानि।
= मेरे कपड़े भी गिर गए।

तस्य जानौ व्रणः अभवत्।
= उसकी जांघ पर घाव हो गया।

रक्तम् अपि प्रवहति स्म।
= खून भी बह रहा था।

सः तत्रैव उपविश्य रोदनम् आरब्धवान्।
= उसने वहीं बैठकर रोना शुरू कर दिया।

मम पुत्रः मार्गे तं दृष्टवान्।
= मेरे पुत्र ने रास्ते में उसे देख लिया।

मम पुत्रः तम् उत्थापितवान्।
= मेरे पुत्र ने उसे उठाया।

तस्य चिकित्सां कारितवान्।
= उसकी चिकित्सा करवाई।

मम वस्त्राणि गृहे आनीतवान्।
= मेरे वस्त्र घर ले आया।

केवलं द्वे वस्त्रे एव मलिने जाते।
= केवल दो ही वस्त्र मैले हुए।

ओ३म्

393. संस्कृत वाक्याभ्यासः

शीतलभगिनी यात्रां कृत्वा प्रत्यागतवती।
= शीतल बहन यात्रा करके लौट आई।

सा विवृणोति।
= वह वर्णन करती है।

सर्वप्रथमम् अहम् अमृतसरं गतवती।
= सबसे पहले मैं अमृतसर गई।

तत्र अहं स्वर्णमन्दिरं दृष्टवती।
= वहाँ मैंने स्वर्णमंदिर देखा।

अहं जलियांवाला उद्यानम् अपि गतवती।
= मैं जलियांवाला बाग भी गई।

तत्र अहं प्राणत्यागिभ्यः श्रद्धाञ्जलिम् अर्पितवती।
= वहाँ मैंने शहीदों को श्रद्धांजलि दी।

अमृतसरतः अहं बाघां गतवती।
= अमृतसर से मैं बाघा गई।

तत्र अहं बाघासीमां दृष्टवती।
= वहाँ मैंने बाघा सीमा देखी।

तत्रत्यानां सैनिकानाम् अभिवादनं कृतवती।
= वहाँ के सैनिकों को मैंने अभिवादन किया।

पंजाबराज्ये अहं सतलज , झेलम , रावी नदीषु स्नानं कृतवती।
= पंजाब राज्य में मैंने सतलज , झेलम , रावी नदियों में स्नान किया।

पंजाबतः अद्य अहं गृहम् आगतवती।
= पंजाब से मैं आज घर आ गई।

ओ३म्

394. संस्कृत वाक्याभ्यासः

पौत्री आगत्य पश्यति।
= पोती आकर देखती है।

पौत्री – पितामही शेते ।
= दादीजी सो रही हैं।

कथम् एतस्यै औषधं ददानि।
= इनको औषधि कैसे दूँ ?

माता उक्तवती नववादने पितामह्यै औषधं देहि।
= माँ ने कहा था नौ बजे दादीजी को औषधि देना।

अहं सपाद नववादने दास्यामि।
= मैं सवा नौ बजे दूँगी।

( सपाद नववादने पुनः पौत्री पश्यति )

पौत्री – पितामही गाढनिद्रायां स्वपिति।
= दादीजी तो गहरी नींद में सो रही हैं।

सा शयनं करोतु नाम।
= इनको सोने दो ।

रात्रौ मां कथां श्रावितवती।
= रात को मुझे कथा सुनाई।

रात्रौ पितामही बहु कासते स्म।
= रात में दादीजी बहुत खाँस रही थीं।

औषधं दशवादने दास्यामि।
= औषधि दस बजे दूँगी।

अधुना तु सुखेन निद्राति।
= अभी तो सुख से सो रही हैं।

माता विद्यालयतः द्वादशवादने आगमिष्यति।
= माँ विद्यालय से बारह बजे आएँगी।

तावद् दास्यामि।
= तब तक दे दूँगी।

ओ३म्

395. संस्कृत वाक्याभ्यासः

एका बालिका गणेशमण्डपं गच्छति।
= एक बच्ची गणेशमंडप जाती है।

तत्र सा जनान् पूजनं कुर्वतः पश्यति।
= वहाँ वह लोगों को पूजा करते हुए देखती है।

सा अपश्यत् ।
= उसने देखा।

सर्वे किमपि न किमपि याचन्ते।
= सभी कुछ न कुछ माँग रहे हैं।

सा अपि तत्र गत्वा तिष्ठति।
= वह भी वहाँ जाकर खड़ी हो जाती है।

सा प्रार्थयते।
= वह प्रार्थना करती है।

” भवान् तु गणनायकः अस्ति।”
= आप तो गणनायक हैं।

” मम पितरं जानाति स्यात्।”
= मेरे पिता को जानते होंगे।

“सः मद्यपानं करोति।”
= वो शराब पीते हैं।

” गृहम् आगत्य मम मातरं ताड़यति।”
= घर आकर मेरी माँ को मारते हैं।

“गृहे धनाभावः अस्ति।”
= घर में धन का अभाव है।

“अतः अहं विद्यालयात् आगत्य गृहेषु कार्यं करोमि।”
= इसलिये मैं विद्यालय से आकर घरों में काम करती हूँ।

“अहं पठितुम् इच्छामि।”
= मैं पढ़ना चाहती हूँ।

“मम गृहे शान्तिम् इच्छामि।”
= मेरे घर में शान्ति चाहती हूँ।

“मम पिता मद्यपानं त्यजेत् इति अहम् इच्छामि।”
= मेरे पिता मद्यपान छोड़ दें यह मैं चाहती हूँ।

“मम इच्छापूर्तिः भवति तदा अहं बालकेभ्यः मोदकानि दास्यामि।”
= मेरी इच्छापूर्ति होगी तो मैं बच्चों को लड्डू दूँगी।

“बालकेषु अपि भवान् अस्ति एव।”
= बच्चों में भी आप हैं ही।

सा बालिका बहु श्रद्धया प्रार्थनां कृतवती।
= उस बच्ची ने बहुत श्रद्धा से प्रार्थना की।


#vakyabhyas
अद्य पी•वी•नरसिंहाराववर्यस्य जयंती 🙏🏼
भारतस्य प्रधानमन्त्रिषु अन्यतमः । अस्य जन्म १९२१ तमे वर्षे अभवत् । अयं भारतस्य प्रधानमन्त्रिरूपेण १९९१ तमात् वर्षात् -१९९६ तमवर्षपर्यन्तं कार्यम् अकरोत् ।
आत्मीयबन्धो !
सादरं नमो नमः।

परिश्रम पूर्वक प्राप्त किये हुए संस्कृतसम्भाषण कौशल को बनाये रखने के लिए निरन्तर भाषा अभ्यास करना होता है। इसके लिए कोई न कोई माध्यम होना आवश्यक है। आप सभी के समक्ष ऐसा ही एक माध्यम है -
*सम्भाषणसन्देश:*
यह संस्कृतमासिकपत्रिका आपके सम्भाषण कौशल को जीवन्त बनाये रखने में शत-प्रतिशत सक्षम है, अत: आज ही इसकी ग्राहकता लिजिये ...

ग्राहकता के लिए आवश्यक जानकारी --

👉 *सम्भाषणसन्देश पत्रिका प्रिंट रूप में और E-पत्रिका के रूप में उपलब्ध है*

👉दोनो ही रूपों के लिए सहयोग राशि एक समान है।

👉 एकवार्षिक -- 200/-
👉 द्वैवार्षिक -- 400/-
👉 त्रैवार्षिक -- 550/-
👉 चातुर्वार्षिक -- 750/-
👉 पाञ्चवार्षिक -- 950/-

👉यदि आप E-पत्रिका प्राप्त करना चाहते हैं तो
सम्भाषणसन्देश की इस वेबसाईट पर जाकर रजिस्ट्रेशन करके E-पत्रिका प्राप्त कर सकते हैं। http://sambhashanasandesha.in/


👉 यदि आप प्रिंट स्वरूप में पत्रिका‌ चाहते हैं तो --

१ - सर्वप्रथम सम्भाषण सन्देश के नीचे लिखे हुए खाते में किसी भी ऑनलॉईन के माध्यम से अपना शुल्क जमा कीजिये ।

*Name of account -* *Sambhashana Sandesha*
*Bank details: Union Bank of India, Girinagar, Bangalore*
*Account Type - CLSB*
*A/c No. – 520141000016922*
*IFSC No – UBIN0907464*

२- आपके द्वारा भेजी गई धनराशि का बैंक विवरण ( ट्रांजेक्शन आईडी) आपको मेसेज के माध्यम से या अन्यलॉईन माध्यम से बैंक से प्राप्त होगा।

३ - शुल्क भेजने के बाद आपको नीचे दिये हुए गुगल् फार्म को भरना है जिसमें आपकी सभी आवश्यक जानकारी सही रूप से देना है।

गुगल् फार्म की लिंक --

https://forms.gle/6irvM7GkZVmARFqV9

४- गुगल् फार्म में ही आपको भेजे गये शुल्क का विवरण देना है।

५ -अन्त में फार्म सबमिट करना है

६ - आपके द्वारा फार्म सबमिट करने के बाद आपकी जानकारी हमारे द्वारा सन्देशकार्यालय बैंगलोर को पहूँचा दी जायेगी जिससे आपकी ग्राहकता‌ सुनिश्चित हो जायेगी ।

धन्यवाद:
संस्कृतं सरलम् अस्ति ।
पत्नी – (पतिम्) नाथ ! पतिकृते ” करवा चौथ ” व्रतम् अपेक्षया केनपि सम्यक् व्रतम् अस्ति चेत् सूचयतु l

पतिः – अस्ति अस्ति !

पत्नी – किम् ?

पतिः – मौनव्रतम् l

😁😄🤣😂😀😂😁
#hasya
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - पंचमी दोपहर 01:22 तक तत्पश्चात षष्ठी

दिनांक - 29 जून 2021
दिन - मंगलवार
शक संवत - 1943
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - कृष्ण
नक्षत्र - शतभिषा 30 जून रात्रि 01:02 तक तत्पश्चात पूर्व भाद्रपद
योग - प्रीति दोपहर 12:21 तक तत्पश्चात आयुष्मान्
राहुकाल - शाम 04:03 से शाम 05:44 तक
सूर्योदय - 06:01
सूर्यास्त - 19:23
दिशाशूल - उत्तर दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
An ode to jackfruit - Sanskrit poem

॥ तस्मै नमो भगवते पनसाय तुभ्यम् ॥


योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां
सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान् नमो भगवते पनसाय तुभ्यम् ॥१॥ (सक्षमायाचनम्)


घर्मादपेतकरुणादुरुदाहधर्माद्
वर्षाच्च भूरिविरुवत्सलिलप्रकर्षात् ।
त्रात्वा निजं रसमयानि फलानि दत्से
तत्र त्वदीयमधुरप्रकृतिर्निदानम् ॥२॥

    
बाह्येऽजिरे विधरतोत्कटकण्टकानि
बाह्येतरे च मधुमन्ति फलोत्तमानि ।
सत्यं सनातनमिदं भवता स्फुटं यद्
व्यक्ता भवेन्न वपुषा प्रकृतिर्जनस्य ॥३॥


दाक्ष्यं श्रमं च सहनां च धरेन्नृणां य-
स्तेनैव तावकरसो भवतीह लभ्यः ।
सञ्चोदनाय भविनां सुगुणेष्वमीषु
मन्ये स्वयं त्वमवहस्तदिदं स्वरूपम् ॥४॥


आमं नु तेमनमुखेषु नियुञ्जते त्वां
पक्वं च पायसमुखेषु लषन्ति लोकाः ।
धन्यस्त्वमेव यदुपैषि दशासु सर्वा-
स्वेवं जनातिशयितां जननार्थवत्ताम् ॥५॥


काष्ठैस्तव प्रचलिता भुवि नैकयज्ञाः
पर्णैश्च ते कलशकर्म समेति पूर्तिम् ।
पीठादिकान्यपि भवत्त्वगपेक्षकाणि
प्रेम त्वयि क्रतुभुजामपि वागगम्यम् ॥६॥


स्तुत्यानया पनस! नन्द यथार्थगत्या
प्रेष्ठं वरं च वितर त्वमुदारमत्या ।
येनाप्नुयामकृतपुण्यचयैर्दुरापं
त्वां हायनेषु निखिलेषु विना प्रयासम् ॥७॥ 


फलश्रुतिः -
यः स्तोत्रमेतदनघं पठति प्रभाते
भक्त्या समाहितमना नियतेन्द्रियश्च ।
सोयं न याति पनसान्मनुजो वियोगं
जन्मान्तरेष्वपि पुनर्लभतेsपवर्गम् ।।८।।

डा. रामकृष्णपेजत्तायः
Forwarded from kathaaH कथाः
जून् २०१४ सम्भषणसन्देश:
ओ३म्

396. संस्कृत वाक्याभ्यासः

कथं गच्छामि ?
= कैसे जाऊँ ?

यानं तु सः नीतवान्।
= वाहन तो वह ले गया।

पदभ्यां गच्छामि।
= पैदल जाता हूँ।

न…न…मम पार्श्वे भारः अपि अस्ति।
= नहीं …नहीं … मेरे पास भार भी है।

कथं नेष्यामि ?
= कैसे ले जाऊँगा ?

प्रतिवेशी अपि गृहे नास्ति।
= पड़ोसी भी घर में नहीं है।

अस्तु, मुख्य मार्गं गच्छामि।
= ठीक है, मेन रोड पर जाता हूँ।

कमपि हस्तं दर्शयामि।
= किसी को भी हाथ दिखाता हूँ।

कदाचित् कोsपि तिष्ठेत् ।
= शायद कोई रुक जाए।

कदाचित् कोsपि नयेत् ।
= शायद कोई ले चले।

ओ३म्

397. संस्कृत वाक्याभ्यासः

सः कदा विरंस्यति
= वह कब रुकेगा।

द्विहोरातः सः व्यायामं करोति।
= दो घंटे से व्यायाम कर रहा है।

पञ्चदश निमेष पर्यन्तं सः अकूर्दत।
= पंद्रह मिनट तक वह कूदा।

अर्धहोरा पर्यन्तं सः अधावत्।
= आधा घंटे तक वह दौड़ा।

पञ्चदश निमेष पर्यन्तं सः दण्डम् अकरोत्।
= पन्द्रह मिनट तक उसने दण्ड किये।

पञ्चदश निमेष पर्यन्तं सः हस्तौ चालितवान्।
= पन्द्रह मिनट तक उसने दोनों हाथ चलाए।

पञ्चदश निमेष पर्यन्तं सः मुद्गरम् अधुनोत्
= पन्द्रह मिनट तक उसने मुद्गर घुमाया।

अधुना सः आसनानि करोति।
= अभी वह आसन कर रहा है।

अर्धहोरा अभवत्।
= आधा घंटा हो गया।

विविधानि आसनानि कुर्वन् अस्ति सः।
= वह विविध आसन कर रहा है।

तस्य शरीरात् प्रस्वेदः निर्गच्छति।
= उसके शरीर से पसीना निकल रहा है।

अधुना कदाचित् विरमेत्।
= अब शायद रुक जाए।

अधुना सः शवासनं करोति।
= अभी वह शवासन कर रहा है।

ओ३म्

398. संस्कृत वाक्याभ्यासः

वयं सर्वे लाहौर-नगरस्य नाम श्रुतवन्तः।
= हम सबने लाहौर नगर का नाम सुना है।

लवकुशाभ्यां तस्य निर्माणं कृतम्।
= लवकुश द्वारा उसका निर्माण किया गया।

आधुनिकस्य लाहौरस्य निर्माणं केन कृतं तद् वयं न जानीमः।
= आधुनिक लाहौर का निर्माण किसने किया वह हम नहीं जानते।

सर गंगाराम नाम्नः एकः अभियन्ता आसीत्।
= सर गंगाराम नाम के एक इंजीनियर थे।

तस्य जन्म 1851 तमे वर्षे अभवत्।
= उनका जन्म 1851 के वर्ष में हुआ था।
( एक सहस्र अष्ट शतं एक पञ्चाशत् )

सः मरुभूमौ कृषिकार्यम् आरब्धवान्।
= उन्होंने मरुभूमि पर खेती शुरू की।

सः यत्किमपि धनम् अर्जयति स्म तस्य सदुपयोगं लाहौरस्य विकासाय एव करोति स्म।
= वह जो कुछ भी धन कमाते थे उसका सदुपयोग लाहौर के विकास के लिये ही करते थे।

लाहौर नगरे मुख्य पत्रालयः, लाहौर संग्रहालयः , मेयो महाविद्यालयः , गंगाराम चिकित्सालयः इत्यादीनां भवनानां निर्माणं तेनैव कृतम्।
= लाहौर नगर में मुख्य डाकघर , लाहौर संग्रहालय, मेयो कॉलेज गंगाराम चिकित्सालय, आदि भवनों का निर्माण उन्होंने ही किया।

विद्युत्उत्पादन केन्द्रस्य निर्माणम् अपि तेनैव कृतम्।
= बिजली उत्पन्न करने के केंद्र का भी निर्माण उन्होंने किया।

पठानकोटतः अमृतसर पर्यन्तं रेलमार्गस्य निर्माणम् अपि सः एव कृतवान् आसीत्।
= पठानकोट से अमृतसर तक रेलमार्ग का निर्माण भी उन्होंने ही किया था।

दिल्ही-नगरे अपि सर गंगाराम चिकित्सालयः वर्तते।
= दिल्ली में भी सर गंगाराम अस्पताल है।

लाहौर नगरे अधुना अपि सर गंगारामस्य समाधिः विद्यते।
= लाहौर में आज भी सर गंगाराम की समाधि है।

वयं सर गंगारामं वन्दामहे।
= हम सर गंगाराम को वन्दन करते हैं।

दुःखस्य विषयः लाहौर अधुना पाकिस्थाने अस्ति।
= दुख का विषय है लाहौर अब पाकिस्तान में है।

ओ३म्

399. संस्कृत वाक्याभ्यासः

मातुलानी – संजय ! उत्तिष्ठ ।
= संजय , उठो ।

– संजयः तु अत्र नास्ति।
= संजय तो यहाँ नहीं है।

– शीघ्रमेव उत्थितवान् ।
= जल्दी उठ गया वह।

– एषः तु अत्र ध्यानं करोति।
= ये तो यहाँ ध्यान कर रहा है।

– संजयः ध्यानं करोति !!! आश्चर्यम्
= संजय ध्यान कर रहा है , आश्चर्य ।

( संजयः यदा उत्थास्यति तदा प्रक्ष्यामि।
= संजय जब उठता है तब पूछती हूँ। )

मातुलानी – त्वं कदा आरभ्य ध्यानं करोषि ?
= तुम कब से ध्यान करने लगे।

संजयः – गतमासे अहं संस्कारशिबिरं गतवान्।
= पिछले महीने मैं संस्कार शिबिर गया था।

तत्र ते योगध्यानस्य अभ्यासं कारितवन्तः ।
= वहाँ उन्होंने योग ध्यान का अभ्यास कराया।

मातुलानी – संजय !! त्वं तु श्रेष्ठः जातः।
= तुम तो सुधर गए।


#vakyabhyas

यदा कः अपि जनः भारन्यूनीकरणार्थं प्रयत्नं करोति तदा सः “ पूर्वं मम भारः कियान् आसीत् , इदानीं च कियान् अस्ति " इति एव तुलनां कृत्वा चिन्तनं करोति । “ मम भारः कियान् तथा च मम पार्श्वनिवासीजनस्य भारः कियान् " ईदृशीं तुलनां न करोति ।

परीक्षासु प्राप्तानां गुणाङ्कानां विषये तथैव अस्ति । स्वस्य तुलना स्वयेन सह करणीया । अन्यैः सह न । ये गुणाङ्काः मया प्राप्ताः ते मम गुणाङ्काः । तेषां इतः आपि वर्धनं करिष्यामि इति चिन्तनं भवेत् ।

न्यूटनस्य नियमान् स्वीकृत्य जनाः विवरणात्मक-प्रबन्धान् लिखित्वा प्रगत-गणितशास्त्रे विद्यावारिधिः ( Ph. d. ) इति पदवीं प्राप्तुम् प्रयत्नं कुर्वन्ति । सः एव न्यूटनः , बाल्ये चतुर्थी-कक्ष्यायां गणितविषये दोषार्थं दण्डं स्वीकृत्य , एषः कठिनः विषयः न च किम् अपि अवगन्तुं शक्नोमि इति चिन्तयित्वा , पाठशाला-शिक्षणं त्यक्तवान् आसीत् ।

गते एव शतके जातः , सर्वैः ज्ञातः बहुचर्चितः च भौतिक-वैज्ञानिकः आईनस्टाइनः ( यस्य संशोधनम् आधुनिक-चमत्कारः इति मन्यन्ते वैज्ञानिकाः ) केवलं शालान्त-परीक्षाम् ( S. S. C. ) उत्तीर्णः आसीत् ।

परीक्षा प्रमाणपत्रं च इति सर्वं शैक्षणिकं कर्मकाण्डम् एव । स्वस्य अभ्यासार्थं स्वप्रगति-विषये च ज्ञानार्थं तथैव कदाचित् चरितार्थ-प्राप्त्यर्थं तु तस्य महत्वम् अस्ति एव । किन्तु तस्य ज्ञानेन सह साक्षात् कः अपि सम्बन्धः न भवेत् ‌। ( एतस्य साक्षात् प्रमाणम् -
बहुभिः संस्कृत-प्रसारक-संस्थाभिः सञ्चालितासु विविध-परीक्षासु मया , अनुचितं व्यवहारम् अकृत्वा अपि , ९८ , ९९ , १०० इति गुणाङ्काः प्रमाणपत्राणि च प्राप्तानि । 😁😄। तत्र न केवलं सम्भाषण-विषये अपि च साहित्य-व्याकरणविषये अपि बहवः प्रश्नाः आसन् । साक्षात् व्यवहारे एव घटितः एषः महान् विनोदः । )

इति अलम् ‌।
🙏
शिक्षकः छात्रान् पाठयति।

वयं नेत्रे निमीलयामः चेत् किमपि द्रष्टुं न शक्नुमः।

एकः छात्रः तदा उत्थाय उक्तवान् श्रीमन्। अहन्तु नेत्रे निमीलयामि चेदपि द्रष्टुं शक्नोमि।

शिक्षकः- किम्? त्वं किं द्रष्टुं शक्नोसि

छात्रः- श्रीमन्, केवलं अन्धकारः एव दृश्यते।

-प्रदीपः!

😁😄🤣😂😀😂😁

#hasya