संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
June 16, 2021

 समुद्रहत्याप्रकरणे दशकोटि- परिहारधनस्य विषये निर्णयः। नियमप्रक्रमाणां परिसमाप्तिः।

     नवदिल्ली> भारते समुद्रहत्याप्रकरणे प्रचाल्यमानाः सर्वे प्रक्रमाः सर्वोच्चन्यायालयेन समापिताः। इट्टलीराष्ट्रेण परिहारधनत्वेन दत्तानि दशकोटिरूप्यकाणि धीवरयोः कुटुम्बाभ्यां तथा नौकायाः स्वामिने च दातुं केरलस्य उच्चन्यायालयाय उत्तरदायित्वम् अदात्। इट्टलीदेशे प्रचाल्यमानेषु विचारणा प्रक्रमेषु केन्द्रसर्वकारस्य केरलसर्वकारस्य च परस्परसहकारित्वम् आवश्यकम् इत्यपि सर्वोच्चन्यायालयेन निगदितम्। २०१२ फेब्रुवरिमासस्य१५ तमे दिने द्वौ केरलीयधीवरौ इट्टलीदेशस्य नाविकसेनायाः गोलिकाप्रहरेण मारितौ। अस्मिन् प्रकरणे अनुवर्तमानाः न्यायालयप्रक्रमाः एव सर्वोच्चन्यायालयेन समापिताः। केन्द्रसर्वकारस्य प्रार्थनां परिगणय्य एव न्यायालयस्य आदेशः। प्रकरणस्य समाप्तये केरलसर्वकारः अपि अनुकूलयत्। नाविकानां गोलिकाप्रहरेण मृतस्य जलस्तिनस्य, अजेष् पिङ्केः च कुटुम्बाय प्रत्येकं चतुष्कोटिरूप्यकाणि तथा नौकायाः स्वामिने परिहारधनत्वेन द्विकोटिरूप्यकाणि च लप्स्यन्ते। सर्वोच्चन्यायालयस्य आदेशम् अनुसृत्य दिल्लीस्थे 'पाट्याल-गृहन्यायालये' संभूतानि सर्वाणि प्रकरणानि इदानीं समापितानि।

~ संप्रति वार्ता
Do you read all posts by this channel?
Anonymous Poll
36%
Yes, I read all posts
64%
No, I read some posts
0%
No, I skip all posts
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - सप्तमी रात्रि 09:59 तक तत्पश्चात अष्टमी
दिनांक - 17 जून 2021
दिन - गुरुवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - शुक्ल
नक्षत्र - पूर्वाफाल्गुनी रात्रि 10:13 तक तत्पश्चात उत्तराफाल्गुनी
योग - वज्र सुबह 06:50 तक तत्पश्चात सिद्धि
राहुकाल - दोपहर 02:20 से शाम 04:01 तक
सूर्योदय - 05:58
सूर्यास्त - 19:20
दिशाशूल - दक्षिण दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
*१० चतुर्थगणधातवः (य)*

नश्, नश् - णश - अदर्शने
पुष्, पुष् - पुष - पुष्टौ
नृत्, नृत् - नृती - गात्रविक्षेपे
क्रुध्, क्रुध् - क्रुध - कोपे
कुप्, कुप् - कुप - क्रोधे
तुष्, तुष् - तुष - तुष्टौ
अस्, अस् - असु - क्षेपणे
क्लिद्, क्लिन्द् - क्लिन्दू - आर्द्रीभावे
तृप्, तृप् - तृप - प्रीणने (तृप्तिः तर्पणं च)
दुष्, दुष् - दुष - वैकृत्ये
----------------------
*१० षष्ठगणधातवः (अ)*

लिख् लिख् - लिख - अक्षरविन्यासे
विश् विश् - विश - प्रवेशने
सृज् सृज् - सृज - विसर्गे
स्पृश् स्पृश् - स्पृश - स्पर्शने
चर्च् चर्च् - चर्च - अध्ययने
स्फुट् स्फुट् - स्फुट - विकसने
त्रुट् (त्रुट्यति, त्रुटति) त्रुट् - त्रुट - छेदने
प्रच्छ् (पृच्छ्) पृच्छ् - प्रच्छ - ज्ञीप्सायाम्
मृश् मृश् - मृश - आमर्शने
स्फुर् स्फुर् - स्फुर - स्फुरणे
----------------------

*१० दशमगणधातवः (अय)*

चुर् (चोर्), चुर् - चुर - स्तेये
कॄत् (कीर्त्) कॄत् - कॄत - संशब्दने
घुष् (घोष्) घुष् - घुष - कान्तिकरणे
दण्ड् दण्ड् - दण्ड - दण्डनिपाते
पाल् पाल् - पाल - रक्षणे
पीड् पीड् - पीड - अवगाहने
चूर्ण् चूर्ण् - चूर्ण - प्रेरणे, सङ्कोचने च
तर्क् तर्क् - तर्क - भाषायाम्, वितर्कणे च
पूर् पूर् - पूरी - आप्यायने
भक्ष् भक्ष् - भक्ष – अदने
Forwarded from ~संस्कृतानन्दः ।

चित् / चन इति एतयोः विषये प्रश्नक्रीडा अस्ति एषा ।

क्रीडनस्य आरम्भात् पूर्वं स्वरान्त-शब्दानां रूपाणि सम्यक् अवगच्छन्तु ।

किम् इति एतस्य शब्दस्य रूपाणि ( त्रीषु लिङ्गेषु ) सम्यक् स्मरणे स्थापयन्तु ।

चित्-चन-रचनाविषये सम्यक् अभ्यासः भवेत् ।

एषा प्रश्नक्रीडा प्रथम-शतेच्छुकानां कृते एव तथैव १६-जून-दिनाङ्के रात्रौ ११-००-वादनयावत् एव क्रीडितुं शक्यते । तस्मात् अनन्तरं सम्बन्धनी ( link ) कालबाह्या ( expired ) भविष्यति ।

रूपकनाम ( nickname ) लिखित्वा अपि क्रीडितुं शक्यते ।
नामपरिवर्तनं कृत्वा पुनः पुनः अपि क्रीडनं भवितुं शक्नोति ।

क्रीडनार्थं कृपया किञ्चित् नोदनं कुर्वन्तु ।
👇 👇 👇

https://kahoot.it/challenge/01512630?challenge-id=012c0a64-a559-4d0c-b45d-811e0d326dd4_1623865686205
🍃 हतपापचये हेयः लंकेशः अयम् असारधीः।
रजिराविरतेरापः हा हा अहम् ग्रहम् आर घः ॥ २०॥


🔸पापी राक्षसों का संहार करनेवाले (राम) पर आक्रमण का विचार, नीच, विकृत लंकेश – सदैव जिसके संग मदिरापान करनेवाले क्रूर राक्षसगण विद्यमान हैं – ने किया।


विलोम श्लोक :—

🍃 घोरम् आह ग्रहं हाहापः अरातेः रविराजिराः।
धीरसामयशोके अलं यः हेये च पपात हः ॥ २०॥


🔸व्यथाग्रसित हो, शत्रु के शक्ति को भूल, उन्हें (कृष्ण को) बंदी बनाने का आदेश गन्धर्वराज इंद्र – सूर्य की तरह शुभ्र स्वर्णाभूषण अलंकृत मगर कुत्सित बुद्धि से ग्रस्त - ने दे दिया

#Viloma_Kavya
चाणक्य नीति ⚔️

✒️ पंचदशः अध्याय

♦️श्लोक :- १४

अयममृतणनिधानं नायको अपि औषधीनां कमलासहजातः कान्तियुक्तोऽपि चन्द्रः।
भवति विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को न लघुत्वं याति।।१४।।

♦️भावार्थ -- चन्द्रमा अमृत का भण्डार है, औषधियों को रसयुक्त करने वाला होने से उनका अधिपति है। समुद्र से लक्ष्मी जी के साथ उत्पन्न होने के कारण उनका भाई है। अत्यन्त चमकीला होने के कारण तेजवान है, किन्तु सूर्यमण्डल में पहुंचते ही वह निस्तेज हो जाता है। सच है दूसरे के घर जाकर कौन लघुता को प्राप्त नहीं होता।

#Chanakya
Forwarded from kathaaH कथाः
जून् २०१७ सम्भषणसन्देश:
ओ३म्
३४३. संस्कृत वाक्याभ्यासः

बहु विशालं सदनम् अस्ति।
= बहुत विशाल सदन है।

सदनस्य द्वारम् अपि बहु विशालम्
= सदन का द्वार भी बहुत बड़ा है।

सदनं प्रविशामि अहम् ।
= सदन में मैं प्रवेश करता हूँ।

द्वारस्य अन्तः उद्यानम् अस्ति।
= दरवाजे के अंदर बगीचा है।

स्वागतकक्षः तु बहु विशालः अस्ति।
= स्वागत कक्ष तो बहुत विशाल है।

सदने अष्ट प्रकोष्ठा: सन्ति।
= सदन में आठ कमरे हैं

पाकशाला अपि बहु विशाला अस्ति।
= रसोई भी बहुत विशाल है।

कति जनाः निवसन्ति ?
= कितने लोग रहते हैं ?

एकः एव वृद्धः निवसति।
= एक वृद्ध ही रहता है।

अन्ये सर्वे कुत्र सन्ति ?
= अन्य सब कहाँ है ?

ज्येष्ठ: पुत्रः हाँगकाँग-देशे निवसति।
= बड़ा बेटा हाँगकाँग रहता है।

कनिष्ठ: पुत्रः जोहान्सबर्ग-नगरे निवसति।
=छोटा बेटा जोहान्सबर्ग में रहता है।

वृद्ध: कथं जीवति ?
= वृद्ध कैसे रहता है ?

पुत्रौ धनं प्रेषयतः ।
= दोनों पुत्र धन भेजते हैं।

सदने चत्वारः सेवकाः सन्ति।
= सदन में चार सेवक हैं ।

तिस्रः सेविकाः सन्ति ।
= तीन सेविकाएँ हैं ।

पुत्रयोः धनेन सेवकाः अपि लाभान्विताः भवन्ति।
= पुत्रों के धन से सेवक भी लाभान्वित होते हैं ।


ओ३म्
३४४. संस्कृत वाक्याभ्यासः

ह्यः रात्रौ सम्मान समारोहः अभवत्।
= कल रात सम्मान समारोह हुआ।

लवजी भ्रातुः सर्वे सम्मानं कृतवन्तः।
= लवजी भाई का सम्मान किया गया।

लवजी किं करोति ?
= लवजी क्या करता है ?

लवजी नववादने कार्यालयम् उद्घाटयति।
= लवजी नौ बजे कार्यालय खोलता है।

कार्यालये स्वच्छतां करोति।
= कार्यालय में स्वच्छता करता है।

कार्यालयस्य अवकरं बहिः क्षिपति।
= कार्यालय का कूड़ा बाहर फेंकता है।

कार्यालयस्य पात्राणि प्रक्षालयति।
= कार्यालय के पात्र धोता है।

घटे जलं पुरयति।
= घड़े में पानी भरता है।

पत्रालयतः पत्राणि आनयति।
= डाकघर से पत्र लाता है।

पत्राणि पञ्जिकायां ग्रथ्नाति।
= कागजातों को फाइल में संगृहीत करता है।

अतिथीन् जलं पाययति।
= अतिथियों को जल पिलाता है।

लवजी सर्वदा हसति।
= लवजी हमेशा हँसता है।

सायंकाले सः कार्यालयं पिधायति।
= शाम को वह कार्यालय बन्द करता है।

कार्यालयस्य कुञ्चिकां गृहे नयति।
= कार्यालय की चाभी घर ले जाता है।

लवजी कदापि न ग्लायति।
= लवजी कभी भी नहीं थकता है।


ओ३म्
३४५. संस्कृत वाक्याभ्यासः

सिंगापुरतः कञ्चन-भगिन्याः दूरवाणी आसीत् ।
= सिंगापुर से कंचन बहन का फोन था।

* अहं कञ्चन , सिंगापुरतः ।

* कथम् अस्ति भवान् ?

* अहम् अधुना सिंगापुरे निवसामि ।

* मम पौत्रः अत्र अभियन्ता अस्ति।

* पौत्रवधू अपि पर्यटन-संस्थाने कार्यं करोति।

* सिंगापुरे लघुभारतम् अस्ति।

* तत्र वयं निवसामः।

* मम गृहस्य पार्श्वे आर्यसमाजः अपि अस्ति।

* अहं यज्ञार्थं तत्र गच्छामि।

* अत्र किमपि कष्टं नास्ति।

कञ्चन भगिनी सर्वम् एकसाकम् उक्तवती।

अहं तु मध्ये मध्ये ” आम् , उत्तमम् , शोभनम् , एवं वा ? ” इति उक्तवान् ।


ओ३म्
३४६. संस्कृत वाक्याभ्यासः

सुधा – पश्य भ्रातरम् !
= देखो भैया को

विभा – कुत्र अस्ति सः ?
= कहाँ है वो ?

सुधा – रेलयानेन अवतरति ।
= रेल द्वारा उतर रहा है।

विभा – ” रेलयानात् अवतरति” तथा वद ।
= “रेल से उतर रहा है” ऐसे बोलो ।

सुधा – आम् अहम् अशुद्धम् उक्तवती।
= हाँ मैं अशुद्ध बोली ।

विभा – तर्हि शुद्धं किम् ?
= तो शुद्ध क्या है ?

सुधा – भ्राता रेलयानेन आगतवान् ।
= भैया रेल द्वारा आए ।

भ्राता रेलयानात् अवतरति।
= भैया रेल से उतर रहा है।

विभा – आम् अधुना शुद्धम् ।
= हाँ अब शुद्ध है।

विभा – चल , भ्रातरं मिलावः ।
= चलो , भैया को मिलते हैं।


ओ३म्
३४७. संस्कृत वाक्याभ्यासः

ये ज्ञानिनः सन्ति ते मम गुरवः
= जो ज्ञानी हैं वे मेरे गुरु हैं ।

ये वेदपाठिनः सन्ति ते मम गुरवः
= जो वेदपाठी हैं वे मेरे गुरु हैं

ये सदाचारिणः सन्ति ते मम गुरवः
= जो सदाचारी हैं वे मेरे गुरु हैं

ये सर्वदा सन्मार्गे चलितुं प्रेरयन्ति ते मम गुरवः
= जो हमेशा सन्मार्ग पर चलने के लिये प्रेरित करते हैं वे मेरे गुरु हैं

ये मम दोषान् दूरीकुर्वन्ति ते मम गुरवः
= जो मेरे दोषों को दूर करते हैं वे मेरे गुरु हैं

ये मम विकारान् नाशयन्ति ते मम गुरवः
= जो मेरे विकारों को नष्ट करते हैं वे मेरे गुरु हैं

ये मां निर्भयं कुर्वन्ति ते मम गुरवः सन्ति
= जो मुझे निर्भय बनाते हैं वे मेरे गुरु हैं

सर्वेभ्यः वन्दनीयेभ्यः गुरुभ्यः सादरं नमांसि भूयांसि।
= सभी वन्दनीय गुरुओं को सादर अनेक बार नमन

श्रद्धास्पदेषु गुरुचरणेषु सादरं प्रणतयः
= श्रद्धास्पद गुरुचरणों में सादर अनेक प्रणाम ।

गुरुपूर्णिमा-पर्वणः सर्वेभ्यः मङ्गलकामनाः
= गुरुपूर्णिमा पर्व की सभी को मंगलकामनाएँ

#Vakyabhyas
अद्य तस्याः पुण्यतिथि🙏🏼💐

झांसीराणीलक्ष्मीवर्यायाः (हिन्दी: झांसी की रानी लक्ष्मीबाई, आङ्ग्ल: Rani of jhansi) (१८३५-१८५८) जन्म १८३५तमे संवत्सरे नवेम्बरमासस्य १९ तमे दिनाङ्के अभवत् । सा १८५८ तमे वर्षे जूनमासस्य १७ दिनाङ्के दिवङ्गता। लक्ष्मीबायी वारणास्याम् अजायत। सा 'झान्सी की राणी' इति नाम्ना ख्यातम् अगात । भारतस्य प्रथमे स्वातन्त्र्यसङ्ग्रामे तस्याः प्रमुखं योगदानम् आसीत्। सा आङ्लविरोधनीतेः प्रतीका आसीत्। लक्ष्मीबायी उत्तरभारतस्थितस्य झान्सीराज्यस्य राज्ञी आसीत्। सा आङ्लेयान् विरुद्ध्य भारतस्य स्वातन्त्र्यसङ्ग्रामम् आरब्धवती।


महाराज्ञी लक्ष्मीः इत्यस्याः वीरांगनायाः जन्म महाराष्ट्रे राज्ये कृष्णानद्यास्तटे एकस्मिन् ग्रामे पञ्चत्रिंशदधिके अष्टादशशततमे वर्षे (१८३५) समभूत् । शैशवे अस्याः नाम् 'मनुबाई' इति अभूत् । अस्याः जनकः मोरोपन्तः तदानीं पेशवा बाजीरावस्य सेवायामसीत् । अस्याः जननी 'भागीरथी बाई' साध्वी ईशभक्ता च नारी आसीत् । उभावपि तां प्रियां सुतां मनुदेवीं स्नेहेन अपालयताम् । तदा बाजीरावः कानपुर नगरस्य समीपस्थे बिठूरनामके स्थाने न्यवसत्, मनुदेव्याः शिक्षणं तत्र अभवत् । तत्र सा अचिरं शास्त्रविद्यां शस्त्रविद्यां च अलभत । सा तत्र नैपुण्यम् अवाप्नोत् । अश्वारोहणेऽपि मनुवाई अतीव कुशलिनी अभवत् ।

अनन्तरं झांसीजनपदस्य नरेशः गंगाधरः मनुदेव्याः पाणिग्रहणम् अकरोत् । ततः परं मनुबाई, 'रानी लक्ष्मीबाई' इति नाम्ना प्रसिद्धा अभवत् । उद्वाहाद् अनन्तरम् अपि सा अश्वारोहणं शस्त्राभ्यासञ्च नात्यजत् । एतस्मिन्नेव काले आंग्लजनाः भारते स्व प्रभुत्वस्थापनाय यत्नशीलाः अभवन् । कूटनीतिप्रयोगेण दिने दिने तेषां प्रभुत्वम् अवर्धत । तदैव दैवयोगात् गंगाधरस्य एकलः पुत्रः स्वर्गं गतः । पुत्रवियोगसंतप्तो गंगाधरः दामोदरनामकं शिशुमेकं दत्तकपुत्ररूपेण स्वीचकार । किञ्चित् कालानन्तरं गंगाधरोऽपि स्वयमेव् पञ्चत्वं गतः ।

अथ पतिपुत्रवियोगेन नितरां संतप्ताऽपि राज्ञी सधैर्यं राज्यस्य शासनसूत्रम् अधारयत् । अस्याः शासनकाले प्रजाः सर्वथा सुखम् अभजन्, किन्तु एतत् वैदेशिकानां कृते असहनीयम् जातम् । ते अस्याः राज्यम् उत्तराधिकारिहीनम् उद्घोष्य हस्तगतम् अकुर्वन्, राज्ञ्यै लक्ष्म्यै च स्वल्पां मासिकवृत्तिं प्रादुः । आंग्लजनाः न केवलं राज्ञ्यां ;लक्ष्म्याम् अपि तु अन्येष्वपि जनेषु अत्याचारान् अकुर्वन् । अतः सम्पूर्णे भारते यत्र तत्र स्वातन्त्र्यस्य अग्नेः स्फुलिंगाः प्रकटिताः ।

अद्य सङ्घस्य तृतीयसरसङ्घचालकः मधुकरदत्तात्रेयदेवरसस्यापि पुण्यतिथि🙏🏼💐
हितोपदेशः - HITOPADESHAH

मूल श्लोकः:

चन्दनतरुषु भुजङ्गा।
जलेषु कमलानि तत्र च ग्राहाः।।
गुणघातिनश्च भोगे।
खला न च सुखान्यविघ्नानि।। 395/148।।

अर्थः:

चंदन के वृक्षों में सर्प होते हैं, कमल के पुष्प मगरमच्छों से भरे तालाबों में खिलते हैं, और भोग से भरपूर साधन दुर्गुण से भरे व्यक्तियों के पास होते हैं। इसलिये सभी सुख विघ्न रहित नहीं होते। अर्थात सभी सुख विघ्न से भरे होते हैं।

Translation:

The sandalwood trees house poisonous serpents, the beautiful lotuses blossom in lakes where cruel crocodiles reside, and pleasures are often controlled by wicked individuals. Therefore, all pleasures are inevitably accompanied by obstacles.

ॐ नमो भगवते हयास्याय।

#Subhashitam
Forwarded from प्रदीपः नाथः
*सर्वः अपि प्राणी ब्रह्मस्वरूपः।*
अस्माकं विश्वासः यत् सर्वः अपि प्राणी ब्रह्मस्वरूपः इति।

प्रत्येकम् आत्मा हि मेघाच्छादितः सूर्यवत्।
एकेन सह अन्यस्य भेदः केवलम् एतदस्ति यत् कुत्रचित् सूर्यस्य उपरि घनमेघावरणं कुत्रचिच्च अल्पमेघावरणम् इति।

अस्माकं विश्वासः यत् प्रत्येकं मनुष्ये ईश्वरस्य चिन्तनं करणीयम्। तेन सह च तथैव व्यवहारः करणीयः।
कस्मै अपि घृणा कस्यापि वा निन्दा न करणीया, कस्यापि च अनिष्टं न करणीयम्।

एतत् कर्म न केवलं संन्यासिनाम् अपितु सधारणजनानां सर्वेषामपि कर्तव्यम् अस्ति।

अस्माकं विश्वासः यद् आत्मनि लिङ्गभेदो नास्ति तत्र च अपूर्णता नास्ति।

- स्वामी विवेकानन्दः।
वस्तु विक्रेता – गृहस्वामी गृहे अस्ति वा ?

तद्गृहस्य बालः- अहं दुःखितः, पिता गृहे नास्ति ।

वस्तुविक्रेता – परन्तु त्वं किमर्थं दुःखितः ?

बालः – कारणम्, असत्यं वचनं मह्यं न रोचते । इति । 😄

— नारदः ।

😁🤣😆😂😁😆😂🤣

#hasya
हितोपदेशः - HITOPADESHAH

मूल श्लोकः:

एक एव सुहृद्धर्मो।
निधनेऽप्यनुयाति यः।।
शरीरेण समं नाशं।
सर्वमन्यत्तु गच्छति।। 105/058।।

अर्थः:

जो आचरित धर्म है, वही एकमात्र सच्चा मित्र है जो मरण के बाद भी साथ चलता है। अन्य सभी चीजें शरीर के साथ नष्ट हो जाती हैं। अर्थात्, हमारे द्वारा किए गए अच्छे कर्म ही हमारे सच्चे मित्र हैं; बाकी संपत्ति, पत्नी, बच्चे, मित्र, बंधु आदि कोई भी मरने के बाद हमारे साथ नहीं होते।

Translation:

Dharma is the only true friend that accompanies one even after death. Everything else perishes with the body. This means that the good deeds we perform in our lives are our best companions after death, while wealth, family, and friends do not follow us.

ॐ नमो भगवते हयास्याय।

#Subhashitam
 June 17, 2021

 कोविडस्य द्वितीयतरङ्गेन भारते ७१९ वैद्याः मृताः।

   नवदिल्ली> कोविडस्य द्वितीयतरङ्गेण भारते ७१९ वैद्याः मृताः इति भारत-औषधीय- सङ्घः ( ऐ. एम्. ए)। बिहार राज्ये भवन्ति मृतेषु अधिकाः (१११)वैद्याः। दिल्यां (१०७) उत्तरप्रदेशे (७९) पश्चिम वंङ्गे (६३) राजस्थाने (४३) केरले (२४) च भवन्ति। बीहारे अधिकं मृत्युमानां कथम् अभवत् इति जातुं ऐ एम्. ए द्वारा अन्वेषणं समारब्धमासीत्। कोविड् वैराणोः प्रथम तरङ्गे ७४८ वैद्याः मृताः आसन्। बहवः अनुवैद्याः अपि मृताः सन्ति इति पूर्ववृत्तान्तः स्मर्तव्यः एव।

~ संप्रति वार्ता