संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
⚠️ Very Important Information

❗️Dive into संस्कृत संवादः by clicking on the hashtags (#) below. Use 🔼 and 🔽 to browse through posts.

🖱 #vakyabhyas for a collection of vakyabhyas. 
🖱 #ramayan for shlokas from Valmiki Ramayan. 
🖱 #rgveda for inspiring Vedic mantras. 
🖱 #hasya for delightful jokes in Sanskrit. 
🖱 #viloma_kavya for shlokas in reverse order. 
🖱 #chanakya for wisdom from Chanakya Neeti. 
🖱 #Geeta for profound shlokas from Gita. 
🖱 #Celebrating_Sanskrit for interesting posts. 
🖱 #sanskritlanguageteaching for Sanskrit learning videos. 
🖱 #NavratrispecialMusic for enchanting Carnatic music in Samskrit. 
🖱 #NavratriSpecialDrama for captivating dramas in Samskrit. 
🖱 #SankshepaRamayanam for shlokas from संक्षेपरामायणम्. 
🖱 #Subhashitam for wise shlokas. 
🖱 #sanskriteducation for info on academic courses. 
🖱 #VedicChanting for audios and videos of Vedic mantras. 
🖱 #Atmabodha for insightful videos and shlokas of आत्मबोध. 
🖱 #samlapshala for recordings from संलापशाला. 
🖱 #chitram for practicing Vakyabhyas through images. 
🖱 #shabdah for enriching Sanskrit vocabulary. 
🖱 #sanskritlessons for quick and easy lessons. 
🖱 #Sanskritcarnaticmusic for captivating Carnatic music videos. 
🖱 #shudhhi for finding errors posts. 
🖱 #dhyana for tributes to revered figures. 
🖱 #quote for inspiring Sanskrit quotes. 
🖱 #quiz for fun Sanskrit quizzes. 
🖱 #samvadah for conversations in Sanskrit. 
🖱 #gita for recitations of the Bhagavad Gita. 
🖱 #special for daily Sanskrit greetings. 
🖱 #Song for melodious songs in Sanskrit. 
🖱 #film to enjoy films in Sanskrit. 
🖱 #streeratnamaala to celebrate our legendary women. 
स्त्रीरत्नमाला
(सनातन भारतस्य स्त्रीरत्नानां चरितानि)
शतरूपा
मानवानां मूलपुरुषः मनुः इति मन्यते। चतुर्दशमनुषु ज्येष्ठः स्वायम्भुवमनुः। तस्य पत्नी शतरूपा। एषा मानवानां समेषां मातृस्थाने विराजते। सृष्टेरियं प्रथमा स्त्री ब्रह्मणः वामभागतः समुत्पन्नेति ब्रह्मांडपुराणे उल्लेखः वर्तते।
एषा ब्रह्मणः दक्षिणभागतः समुद्भूतं स्वायम्भुवं भर्तारम् अङ्गिकृत्य विरिञ्चेः सर्जनकार्यम् अन्ववर्तयत् । प्रियव्रतः,उत्तानपादः इत्यादीनां सप्तपुत्राणां आकूतिः,प्रसूतिः देवहूतिश्चेति तिसॄणां पुत्रीणाञ्च जन्मदात्री समभवत्।
विवाहात् पूर्वमियं कठिनां तपस्यां समाचरत् । तत्पुण्येनैव सृष्टेः प्रथमं पुरुषं स्वायम्भुवमनुं पतिरूपेण प्राप्नोत्।स्वायम्भुवशास्त्रे नार्योऽपि समानदायभागिन्यः इति प्रतिपादितमिति उल्लेखनीयः विषयः ।
दृढः सङ्कल्पस्य भगवद्भक्तेश्च प्रतीकरूपः ध्रृवः अस्याः पौत्रः।ध्रृवकुमारे संस्कारबीजवपनमनयैव विधत्तम्।पत्यनुकूला,श्रेष्ठसन्तानसमन्विता,महातपस्विनी शतरूपा नारीणाम् आदर्शभूता विद्योतते।

सौ. विजया उल्हासः गोखले ,रोहा,रायगडः
🙏🙏🙏

#streeratnamaala
स्त्रीरत्नमाला
देवहूति:
सनातनभारतस्य स्त्रीरत्नानां चरितानि
स्वायम्भुवशतरूपयोः तिसृषृ पुत्रिषु अन्यतमा देवहुतिः। कर्दममहर्षेः गुणसम्पन्नतां देवर्षे नारदात् निशम्य तमेव पतिरूपेण वरयितुं निर्धारमकरोत्। पृथिव्याः अद्यपार्थिवस्य पुत्री भूत्वाऽपि भोगजीवनं तिरस्कृत्य तपोधनं महर्षिम् अवृणोत्।सा स्वयं पितृभ्यां सह कर्दममुनेराश्रमं गतवती। प्राचीनकाले स्त्रीणां स्वातन्त्र्यस्य निदर्शनमेतत्।
उद्वाहानन्तरं कर्दमः तस्याः सन्तोषार्थं दिव्यं विमानं निर्माय तया सह लोकोन्तरेषु विहारमकरोत्। परन्तु भोगे अनासक्तहृदया देवहूतिश्चेतिः तपसि मतिं व्यदधात् ।जीवनस्य बहुवारं तपश्चरणे व्ययीकृत्यापि सा कला,अनसूया, अरुन्धती,श्रद्धा,हविर्भूगतिः क्रिया,शान्तिः,ख्यातिः,गतिः इति नवकन्यानां माताऽभवत्। ताभ्यः उत्तमं संस्कारं प्रदाय उत्कृष्टव्यक्तित्वनिर्माणमकरोत् ।
कन्याजननसमनन्तरं तपश्चर्यार्थं प्रस्थितं कर्दमं पितृ कर्तव्यविषये अबोधयत्। तस्याः तार्किकोपदेशेन समाहितचित्तः कर्दमः संसारजीवनमन्ववर्तयत्। कालान्तरे तस्याः 'कपिल' नामा पुत्रोऽ जायत।श्रीहरि रेव कपिलः रूपेण धरणीमवातरत् इति तुलसीदासवर्येण रामचरितमानसग्रन्थे कीर्तितम्।

देवहूतिर्मनोः कन्या
कर्दममुनेः प्रेमसम्पन्ना।
आदिदेवः प्रभुर्दीनदयालुः
उदरेऽजनि कपिलकृपालुः।।(भावानुवादः)
देवहूतिः अन्त्यकाले स्वपुत्रादेव आत्मज्ञानं सम्प्राप्य सायुज्यमगच्छत्।

सौ.विजया उल्हासः गोखले,रोहा , रायगडः।

#streeratnamaala
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)
सन्ध्या
ब्रह्ममानसपुत्री सन्ध्या दूरदृष्टियुता विवेकवती कन्या असीत्। सा चन्द्रभागपर्वतस्य बृहल्लोहितसरसः निकटे तपश्चरणचिकीर्षया कस्यचित् सद्गुरोः प्रतीक्षायाम् अवर्तत।

कदाचित् तत्र समागतः वशिष्ठमहर्षिः तस्यै 'नमो भगवते वासुदेवाय' इति द्वादशाक्षरमन्त्रोपदेशम् अकरोत् । तपसः पद्धतिमपि तस्मादेव ज्ञात्वा सा महत् तपः समाचरत्।

तस्याः तपसा संतुष्टे श्रीहरौ प्रत्यक्षे सति सा वरत्रयमयाचत। प्रथमं तावत् लोककल्याणार्थं याचनामकरोत्। 'भूमौ जातस्य जीविनः जन्मना एव कामविकारः न भूयात्' इति तस्याः याञ्चा आसीत्। तदङ्गिकृत्य परमात्मा बाल्यं, कौमार्यं, यौवनं वार्धकमिति अवस्था चतुष्टयं सृष्ट्वा तृतीयावस्थायामेव कामभावस्य प्रादुर्भावः भवत्विति अन्वगृह्णत्।अत्रैव सन्ध्याकुमार्याः दूरदृष्टिः विद्योतते। मनसः विकासात्पूर्वमेव कामभावस्य उत्पत्या अपराधप्रकारणानि आधिक्येन भवेयुरिति तस्याः चिन्तनमासीत्।

द्वितीयवररूपेण अखण्डं सतीत्वं प्राप्नोत्।तृतीयवरेण 'पतिं विहाय अन्यः कोऽपि यदि तां कामभावनया पश्यति तर्हि सः नपुसकः भवतु ' इत्यनुग्रहं प्राप्तवती।परस्रियं कामभावनया वीक्षमाणाः पुरुषत्वनाशशिक्षार्हाः इति तस्या तत्समये एव सूचितम्। नारीबलवर्धनस्य आद्या प्रतिपादिका इयं धीरकन्या इति वक्तुं शक्यते।

महाविष्णोः आदेशानुसारं वसिष्ठमेव भर्तुरूपेण वरयितुं इष्ट्वा मेदाथिनः होमाग्रिं प्राविशत्। तस्याः भौतिकदेहं द्विधा विभज्य दिनकरः प्रातः सन्ध्यां सायं सन्ध्यां च असृजत्।

सन्ध्याकुमारी अरुन्धतीति नाम्नापुनर्जन्म प्राप्य वसिष्ठं पतिरूपेण अविन्दत।

। नमो नमः।
सौ.विजया उल्हासः गोखले रोहा, रायगड:।

#streeratnamaala
अरुन्धती
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)
देवहूतिकर्दमयोः अष्टपुत्री अरुन्धती सप्तर्षिषु अग्रगण्यस्य वशिष्ठस्य धर्मपत्नी।विद्याविवेकसम्पन्ना इयम् ऋषिमण्डले विशेषगौरवस्थानम् अभजत।
पुराणान्तरानुसारं मेधातिथिमहर्षेः कन्या इयम् ।सन्ध्याकुमारी वशिष्ठवरणार्थं मेधातिथेः यज्ञकुण्डे देहत्यागं विधाय अरुन्धतीरूपेण पुनर्जन्म प्राप्तवती ।सावित्रीबहुलादेव्योः सविधे अध्ययनं कृत्वा सकलविद्यासपन्ना समभूत्।

विश्वामित्रः अरुन्धतीवशिष्ठयोः शतं पुत्राणां वधमकरोत् ।परम् अरुन्धती अनन्तपारं पुत्रशोकं सोढ्वा विश्वामित्राय क्षमादानम् अकरोत्।शक्तिनामकः अपरः पुत्रोऽपि कौशिकस्य कुतन्त्रेण मारितः। तदापि इयं सहनशीलतां नामुञ्चत्।तस्याः पुत्रः सुयज्ञः रामस्य सहपाठी आसीत् ।

अग्निपत्नी स्वाहा सप्तर्षीणां पत्नीनां रूपधारणं कर्तुमयतत।षण्णां रूपं धृत्वा अरुन्धतीरूपधारणे असमर्था सञ्जाता। तस्य कारणम् अरुन्धत्याः विशिष्टं व्यक्तित्वं पाण्डित्यञ्च। पराजिता स्वाहादेवी बहुधा अरुन्धत्याः स्तुतिं चकार।

एषा रामायणे दाम्पत्यजीवनविषये सीतारामौ उदबोधयत्। इन्द्रादिदेवताभ्योऽपि गृहस्थधर्मोपदेशम् अयच्छत् ।
अरुन्धतीवशिष्ठयोः दाम्पत्यं आदर्शदाम्पत्यमिति परिगण्यते। विवाहे अरुन्धतीपूजनं अरुन्धतीनक्षत्रदर्शनं च शुभमातनोति इति अस्तिकानां विश्वासः।

। नमो नमः।
सौ.विजया उल्हासः गोखले, रोहा, रायगडः।

#streeratnamaala
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)
लोपामुद्रा
वैदिककालस्य वेदद्रष्ट्रीषु नारिषु अत्यन्तं गौरवान्वितं स्थानं वहति लोपामुद्रा। हरिणस्य नेत्रे ,मयूरस्य लास्यं, मल्लिकायाः हासः , सिंहस्य कटिः , कोकिलस्य कण्ठः... एवं विविधप्राणिनां विशिष्ठाङ्गानि मेलयित्वा अगस्तमहर्षिः लोपामृद्रां असृजत् । तेन सा जगति अप्रतिमसुन्दरी बभूव।

सा दाक्षायिणीविदर्भराजयोः आश्रये व्यवर्धत।सकलशास्त्राणि तया आत्मसातकृतानि। प्रायप्रबुद्धां ताम् अगस्त्यमुनिः पत्नीरूपेण अयाचत। तथा कर्तुं विदर्भराजस्य इच्छा नासीत्। तदा लोपामुद्रा एव सकलाभरणानि विमुच्य अगस्त्येन सह गन्तुमुद्यता।

गृहिणीधर्मं श्रद्धया पालयन्ती लोपामुद्रा अगस्त्यस्य वेदाभ्यासजडतया विषण्णा अभवत्। सन्तानहीनताकारणात् अगस्त्यस्य पितरः ऊर्ध्वपादाः भूत्वा दोलायमानाः आसन्। तेषां मुक्तये संसारेऽनासक्तेन अगस्त्येन न किमपि कृतमासीत्। तं जागरयितुं सा रात्रिसूक्तम् रचितवती।ऋग्वेदस्य प्रथममण्डलस्य १७९ तमे सूक्ते लोपामुद्रया रचितौ द्वौ मन्त्रौ,अगस्त्येन रचितं मन्त्रद्वयं, तयोः संवादं शृण्वता शिष्येण कृतौ द्वौ मन्त्रौ च विलसन्ति। महाभारते विद्यमानकथानुसारं यदा अगस्त्यः लोपामुद्रायाः सौन्दर्याकर्षणेन कामातुरतां प्रादर्शयत् तदा लोपामुद्रा पितृगृहे तया परित्यक्तकनकतुल्यां सम्पत्तिः सम्पाद्य आगम्यतामिति समयं दत्तवती। अगस्त्यस्य जडतानिवारणमेव तस्याः उद्देश्यमासीत् । अर्थसङ्ग्रहोऽपि गृहस्थधर्म एव इति तया मुनिः सम्यक् बोधितः। अगस्त्यः इल्वलसकाशं गत्वा धनं सम्पाद्य आयात्।

लोपामृद्रा दृढस्युः इति नामकस्य पुत्रस्य माता बभूव।

दक्षिणभारते लोपामुद्रायाः विषये काचित् लोककथा प्रचलिता विद्यते । तत्र यदा भयङ्करेण क्षामकालेन बोभूयत तदा जनानां कष्ठपरिहारार्थं लोपामुद्रा अगस्त्यं प्राथयत। ताम् उदकरूपेण कमण्डलौ संस्थाप्य मुनिः तपश्चर्यार्थं उपाविशत् तस्मिन् ध्यानमग्ने गणेशः कामरूपेण समागत्य कमण्डलुं पातयामास। कमण्डलोः निःसृता लोपामृद्रा जलप्रवाहरूपेण प्रवहन्ति जनानाम् आर्तिनाशनं चकार।सा एव 'कावेरी' नदी इति प्रख्याता।

ललितासहस्रनामस्तोत्रं लोपामुद्रा जगति प्रासारयत्। देवगुर्वादयोऽपि तस्याः पादचिह्नं नेत्राभ्यामभिवन्द्य सम्मानयन्ति स्म।

।नमो नमः।

सौ.विजया उल्हासः गोखले, रोहा, रायगडः।

#streeratnamaala
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)
विदुला
पाण्डवानां रायभारिरूपेण हस्तिनापुरं समागतः श्रीकृष्णः विदुरस्य गृहे कुन्तीम् अमिलत्। युद्धविषये स्वाभिप्रायं प्रगटयन्ती कुन्ती विदुलायाः वृत्तान्तम् अकथयत्।

आसीत् पुरा सौविरराजपत्नी विदुला नाम्नी वीरमहिला । सा विद्यासम्पन्ना, विवेकशीला, क्षात्रगुणोपेता च आसीत् ।चतुरमत्याः तस्याः नृपमण्डल्यां विशेषगौरवमासीत्।

तस्याः सञ्जयः नामः पुत्रः आसीत्। एकदा सः सैन्धवैः पराजितः सन् युद्धपराङ्मुखो भूत्वा गृहं प्रत्यागच्छत्। शयनमन्दिरे निर्लज्जतया प्रसुप्तं तं दृष्ट्वा विदुला नितराम् अकुप्यत्। सा दृढस्वरेण अवोचत् -'हे सञ्जय! किं त्वं तव पराजयम् अङ्गीकृतवान्? धिक् त्वाम् । त्वं मत्पुत्रः भवितुं नार्हसि। पौरुषहीनस्त्वं शत्रोः कृते आनन्दम् अयच्छः। त्वज्जन्म क्षत्रियकुलेऽभवत् इति किं व्यस्मरः आत्मानं नपुंसकं मत्वा निन्दसि किम् प्राणरक्षणकाङ्क्षयायः रणात् पराङ्मुखो भवति तं मित्राणि बान्धवाश्च उपहसन्ति। तस्य जीवनं व्यर्थमेव । उत्तिष्ठ! शत्रुमर्दनं कृत्वा आयाहि' इति।

तच्छॄत्वा सञ्जयः अब्रवीत् - 'मातः! मया विना किं भवती जीवितुं शक्नोति वा? यदि अहं म्रिये राज्येन भवत्यै किं प्रयोजनम्?' इति।
तदा विदुला अवदत् - 'पुत्र! आजीविकायाश्चिता शत्रवे भवतु । परेषां सेवायां जीवनयापनं  अस्माकं कृते नैव शोभते। अतः मरणचिन्तां विहाय शत्रोः नाशं कुरु। तव नाम सार्थकं भवतु।'

पुत्रः पुनः अभणत् - 'मातः! भवत्याः एकमात्रं पुत्रं कठिणवचनैः किमर्थं तिरस्करोति? भवती मम मातेव न व्यवहरति। भवत्याः राज्यभोगो मम पेक्षया प्रियो वा?'

तस्य वचनं निशम्य विदुला पुनः अभाषत- 'पुत्र! प्राज्ञाः प्रापञ्चिकलाभं त्यक्त्वा यशसे कार्यं कुर्वन्ति। यदि मम पुत्रप्रेम पराजयेन कलङि्कतं भवति तर्हि न तत् श्रेयस्करम्। प्राज्ञ इव त्वं यदि तव क्षात्रकार्ये साफल्यं प्राप्नोषि,तदा मम प्रियो भवसि । अन्यथा पुत्रहीनत्वमेव वरम् ।

मातुः प्रेरकवचनांसि श्रृत्वा सञ्जयोऽजागरीत् मातरं अवदत्- 'अम्ब! भवत्याः मार्गदर्शनेन अहं निश्चयेन पितुः राज्यं पुनः प्राप्स्यामि। भवत्याः अमृततुल्यानि वचनानि श्रृत्वा मदीयः उत्साहोऽवर्धत् । मम सिंहसदृशभटान् सञ्घटय्य विजयं प्राप्स्यामि' इति।

कुन्ती कृष्णम् अगदत् - ' हे वार्ष्णेय! भीरुः सञ्जयः अपि मातुः वचनेन प्रेरितः सन् युद्धं कृत्वा शतृन् अजयत् । क्षत्रियोचितं मार्गं  स्वीकर्तुं  युधिष्ठिरं ब्रूहि' इति।

।नमो नमः ।

सौ.विजया उल्हासः गोखले, रोहा, रायगडः ।

#streeratnamaala
गार्गी वाचक्नवी
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)

गर्गगोत्रे समुत्पन्ना, वचक्नुमुनेः कन्या गार्गी वाचक्नवी इति नामद्वयेन प्रसिद्धा। अधीताखिलशास्त्रा कुण्डलिनीविद्यापारङ्गता एषा तत्कालीनायां ब्रह्मजिज्ञासापण्डितमण्डल्यां गौरवस्थानापन्ना अवर्तत।

विदेहस्य राजर्षिणा जनकेन बहुदक्षिणायागनिमित्तं ब्रह्मसंसद् आयोजिता।कुरुपाञ्चादिदेशेभ्यः वेदज्ञाः ब्राह्मणाः तत्र समागताः।तेषु श्रेष्ठतमः ब्रह्मिष्ठः कः इति जनकस्य जिज्ञासा समुत्पन्ना। सः सहस्त्रं गाः आभूषणैरलङ्कृत्य 'वरीयसे ब्रह्मज्ञानिने इमाः गाः उपायनीक्रियन्ते' इति उदघोषयत् । तच्छॄत्वा तत्र उपस्थितः याज्ञवल्क्यः ताः गाः स्वाश्रमं प्रति नेतुं स्वशिष्यं सामश्रवसं समादिशत्। तेन कुद्धाः अन्ये पण्डिताः याज्ञवल्योपरि प्रश्नशरवर्षणं चक्रुः।अश्वल-कहोल-उद्दालकेषु वादे पराजितेषु धैर्येण उदतिष्ठत् गार्गी वाचक्नवी बृहदारण्यकोपनिषतद् तृतीयाध्यायस्य षष्ठे ब्राह्मणे गार्ग्याः प्रश्नाः उल्लिखिताः वर्तन्ते।

यदि पृथिवी जलेनावृता, तर्हि जलं केन आवृतं इति तस्याः प्रथमः प्रश्नः आसीत्। वायुना इति उत्तरं दत्तं याज्ञवल्क्येन । वायुः केन व्याप्तः इति पृष्टः गार्ग्या। महर्षिः उत्तरमदात्।एवं तयोः प्रश्नत्तरसरणिः अनुवर्तते। अन्ते यदा वाचक्नव्या 'ब्रह्मलोकः केन व्याप्तः' इति प्रश्नः कृतः तदा याज्ञवल्क्यः 'गार्गि!अति प्रश्नं मां कार्षिः। त्वया जिज्ञासितं तत्वं प्रश्नातीतम्। तव मूर्धा एव अधः पतेत्' इति अगर्जत्।तदा गार्ग्या मौनमाश्रितम् ।तत्तु न भयेन। अन्यन्तं गूढविचारोऽयं जनसङ्कुलसभायां न चर्चार्हः इति तस्याः ज्ञानमासीत् । अन्येषु विद्वत्सु याज्ञवल्क्यप्रभया पराभूतेषु गार्गी एकाकिनीस्वप्रश्नकुन्तैः याज्ञवल्क्यं पीडयामास इति तुअनतिसाधारणविषयः।

'कीदृशं तत्त्वं यत् द्दुलोचस्य उपरि, भूमेः अधस्तात् तन्मध्येऽपि भूते वर्तमाने भविष्ये च शाश्वतं स्थित्वा व्यक्तं जगत् व्याप्नोति? इति गार्ग्या कृतः प्रश्नः अष्टमण्डले दृश्यते।याज्ञवल्क्यः ' अव्यक्तं आकाशम्' इत्युत्तरम् अददात्। आकाशे केन व्याप्तम्? इति अग्रिमप्रश्नः गार्ग्याः मुखादागतः। तदुत्तरूपेण याज्ञवल्क्यः अक्षरब्रह्मणः वर्णनम् अकरोत्। तेन सन्तुष्टा गार्गी 'याज्ञवल्क्यः ब्रह्मज्ञानी' इति अङ्ग्यकरोत्।

गार्गी वादे प्रजाभूता स्यात् । परन्तु याज्ञवल्क्यसदृशं ब्रह्मज्ञानिनं सम्मुखीकृत्य ब्रह्मतत्त्वविषये वादं कृत्वा धीरत्वं प्रादर्शयत्।प्राचीनकाले स्त्रीणां विद्यार्जनाधिकारः नासीत् प्रश्नकरणावसरोऽपि ताभिः न प्राप्यते स्म इति दुर्वादं केचन प्रसारयन्ति। गार्ग्याः निदर्शनं तादृशदुर्विचारनिरसनं करोति इत्यत्र नास्ति संशीतिः।

। नमो नमः।

सौ.विजया उल्हासः गोखले रोहा, रायगडः।

#streeratnamaala
मैत्रेयी
स्त्रीरत्नमाला (सनातनभारतस्य स्त्रीरत्नानां चरितानि)

याज्ञवल्क्यः नुत्तवत्याः गार्ग्याः भागिनेयी मैत्रेयी। विदेहराजस्य जनकस्य मित्रनामकस्य सचिवस्य पुत्री इयम्। कनिष्ठे वयष्येव गभीरम् अध्ययनम् अध्यापनं कृत्वा अध्यात्मविद्यायाम् आसक्ता मैत्रेयी याज्ञवल्क्यस्य पाण्डित्यं दृष्ट्वा अतीव विस्मिता आसीत्।निजज्ञानक्षुन्निवारणे याज्ञवल्क्यः एव क्षमः इत्यचिन्तयत् ।आत्मना तस्य ज्ञानसम्पदः उत्तराधिकारिण्या भवितव्यमिति विचिन्त्य आत्मानं परिणेतुं याज्ञवल्क्यं न्यवेदयत्। परन्तु कात्यायन्या सह सुखसंसारे निमग्रः याज्ञवल्क्यः अपरभार्यां नैच्छत्। तथापि मैत्रेय्याः उद्देश्यं ज्ञानार्जनमात्रमिति विज्ञाय तां पत्नीत्वेन स्व्यकरोत्।
ब्रह्मज्ञानिनः तस्य सान्निध्ये मैत्रेयी नैकानि अध्यात्मरहस्यानि आत्मसात् कृतवती।

कालान्तरे गृहस्थजीवननात् विरक्तः याज्ञवल्क्यः तृरियाश्रमस्वीकारार्थमुद्यतः। जनकस्य आस्थानपण्डितपदे विराजमानस्य तस्य समीपे गोधनकनकादिरूपा प्रभूता सम्पत्तिरासीत्। तां सम्पत्तिं विभज्य भार्याभ्यां दातुं सः चिन्तयामास । कात्यायनी तदङ्गीकृतवती। परन्तु लौकिकभोगे अनासक्ता मैत्रेयी 'अनया   सम्पत्या आत्मज्ञानप्राप्तिः शक्या वा? एतानि धनकनकादीनि अस्मभ्यं शाश्वतं सुखं प्रयच्छन्ति वा ? इति याज्ञवल्क्यम् अपृच्छत्। याज्ञवल्क्यः 'नैव' इत्यवादीत्। 'तर्हि इमा सर्वाः सम्पदः कात्यायन्यै प्रदाय मह्यं भवतः आध्यात्मसम्पत्तिं प्रदेहि ' इति मैत्रेयी याज्ञवल्क्यस्यं प्रार्थयत।

तस्याः प्रापञ्चिकसुखविरक्तिं ब्रह्मज्ञासक्तिं च जानानः याज्ञवल्क्यः आनन्देन कात्यायन्यै स्वीयां लौकिकसम्पत्तिं प्रदाय मैत्रेय्या सह वानप्रस्थः प्रपेदे। तस्यै अधिकं अखिलं ब्रह्मज्ञानं प्रदाय अन्वगृह्णत्।

बृहदारण्यकोपनिषदः द्वितीयाध्यायस्य चतुर्थमण्डले,चतुर्थाध्यायस्य पञ्चममण्डले च याज्ञवल्क्य-मैत्रेयीसंवादः वर्तते।

सुदिनं। नमोनमः ।सौ.विजया उल्हासः गोखले।
🙏🙏🙏

#streeratnamaala
इन्द्रसेना
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)

ऋग्वेदस्य दशममण्डलस्य दशसूक्ते उल्लिखिता अपरा वीरयोधा इन्द्रसेना। नलायनी मुद्गलानी इति अपरनामन्यपि एतस्याः आस्ताम्। विख्यातस्य नलमहाराजस्य पुत्रीयम् ।अश्वहृदयज्ञात् नलमहाराजात् सारथ्यविद्यामधिगतवती।अस्त्रशस्त्रकौशलमपि आत्मसात् कृतवती। एषा भर्म्यश्वभूपालस्य कुमारं मुद्गलं अवृणोत्। अपारगोसम्पदः स्वामिनः मुद्गलस्य धेनून् कदाचित् तस्कराः अपहृतवन्तः।तेषाम् ग्रहणार्थं मुद्गलः प्रस्थितः। तदा इन्द्रसेना एव तस्य सारथ्यं निरूढवती। किञ्चित्कालं यावत् उत्तमतया सारथ्यं ऊढ्वा पश्चात् सेनापतितं स्वीकृत्य शौर्येण अयुध्यत।

शुभ सायं। नमो नमः।
सौ.विजया उल्हासः गोखले।
रोहा,रायगडः।

#streeratnamaala
जुहूः
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)

वैदिकमन्त्रद्रष्ट्रीषु ऋषिकासु अन्यतमा जुहूः ब्रह्मणः पुत्री ,देवगुरोः बृहस्पतेः पत्नी च अविद्यत ।एषा सर्वशास्त्रपारङ्गता बृह्मज्ञानपरायणा च आसीत्। ऋग्वेदस्य दशममण्डलस्य १०९ तमसूक्तस्य ऋषिकेयम्।

कदाचित् सोमेन एतस्याः अपहरणं कृत्वा समागमः कृतः । तज्ञात्वा वरुणादयः तां प्रत्यानीय बृहस्पतये प्राददन् । पतितापि सा भर्त्रा वा समाजेन वा न तिरस्कृता । नात्र तस्याः कोऽपि दोषः इति वदतां सप्तर्षीणां वाचमङ्गीकृत्य देवगुरुरपि पुनः तां प्रर्यगृह्णात्।

नारीबलसंवर्धनस्य विचारं कृवतीषु जुहूः आद्या।
'समानगुणविचारभिरुचियुक्तयोः एव विवाहसम्बन्धः भवेत् ,विवाहात् प्राक् वधूवरयोः परस्परं अङ्गीकारः आवश्यकः,विवाहानन्तरं पत्या पत्न्याः हिंसनं त्यागः वा नोचितः ' इत्यादिविचारान् सा प्रत्यपादयत्।

यज्ञविज्ञाने अपारज्ञानं सम्प्राप्तवती एषा तद्विषये बृहस्पतिं बोधितवती। तदनीन्तनकालस्य स्त्रीणां विद्याभ्यासस्तरस्य ,समाजे ताभिः प्राप्तम् औन्नत्यञ्च एषा घटना द्योतयति।


। नमो नमः।
सौ.विजया उल्हासः गोखले,रोहा,रायगडः।

#streeratnamaala
शाण्डिली
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)

सती शाण्डिली अनसूयायाः समकालीना। सहनशीलतया पातिव्रत्येन च सर्वमान्या आसीत्। तस्याः पतिः कौशिकनामा महादृष्टः समभवत्।शाण्डिली निष्ठाया तस्य सेवां करोति स्म। किन्तु तस्य स्वपत्न्यां प्रीतिः आदरो वा नासीत् निरन्तरं तां निन्दन् हिनस्ति स्म ।सहनामूर्तिः शाण्डिली न कदापि प्रतिवदति स्म।

कदाचित् कौशिकः मार्गे चलन्तीं काञ्चित् वेश्यास्त्रियं वीक्ष्य तस्याः गृहं प्रति आत्मानं नेतुं पत्नीमादिशत् । तस्य कामानापूरणं स्वकर्तव्यमिति भावयन्ती शाण्डिली चलनशक्तिहीनं तम् उन्नीय स्वस्कन्धे निधाय वेश्यासद्ममार्गे अचलत् ।

तस्मिन्नेव मार्गे चोरशङ्कया माण्डव्यनामा मुनिः राजा शूले आरोपितः आसीत्।शाण्डिल्याः स्कन्धारूढस्य कौशिकस्य पादः शूलारोपितम् अनिर्गतप्राणं माण्डव्यमुनिं पीडयामास ।वेदनया क्रोधाविष्टः माण्डव्यः सूर्योदयसमये कौशिकस्य मरणं भवतु इति अपश्यत्।

महर्षेः शापवचनम् आकर्ण्य व्यग्रा शाण्डिली स्वतपोबलेन अद्य सूर्योदयः मां भवतु' इति दिनकरगतिमेव अवरुद्धवती ।सर्यम् पश्यतां जनानां हाहाकारः गगनमस्पृशत्। साध्व्याः सान्त्वनं अपरसाध्व्या एव शक्यमिति विचिन्त्य सुरपालमुख्यैः अनसूयादेवी प्रार्थिता।

कौशिकस्य पुनर्जीवनाश्वासनं अनसूया देव्याः सम्प्राप्य शाण्डिली सूर्यनिग्रहं शिथिलीचकार।
उदिते दिनकृति कौशिकः धराशायी सञ्जातः । परं अनसूयाकृपया जीवदानं लब्ध्वा उदतिष्ठत्।

सनातननार्यः असामान्यशक्तिसम्पन्नाः आसन् । कालचक्रमेव स्थगयितुं तासां शक्तिरासीत्। अतः एव भणितं ब्रह्मवर्तकपुराणे - 'सुराः सर्वे च मुनयो भीतास्ताभ्यश्च सन्ततम् ' इति।

सुदिनं । नमोनमः ।
सौ.विजया उल्हासः गोखले
🙏🙏🙏

#streeratnamaala
शशीयसी
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)

ऋग्वेदे वर्णितासु धीरनारीषु अग्रगण्या वर्तते महाराज्ञी शशीयसी। समाजोद्धारकार्ये रतानां महिलानां प्रेरणास्थानमियम् । श्यावाश्वेन प्रणीते पञ्चममण्डलस्य ६१तमे सूक्ते अस्याः वर्णनं वरीवर्तते।

एतस्याः पतिः तरन्तमहाराजः दुर्व्यसनानां दासो भूत्वा राज्यं निर्लक्षितवान्। प्रजानां शिक्षणाभावात् अज्ञानं दारिद्र्यञ्च नरीनृत्यति स्म।जनानां मारणं चोर्यम् इत्यादीनि अपराधकार्याणि ताण्डवायन्ते स्म । राजस्य कोशः राज्ञः विलासार्थमेव विनियुज्यते स्म।
उदारगुणसम्पन्ना ,मानवीयगुणोपेता राज्ञी शशीयसी जनान् जागरयितुं प्रायतत।मरुदः आहूय जनान् शिक्षयितुं प्रार्थयत। जनान् सङ्घटय्य जागृतिमानेतुं यत्नमकरोत्।

श्यावाश्वनामा कश्चन युवा मरुद्भ्यः शिक्षणणक्रान्तौ सहयोगमयच्छत्।

तरन्तेन एतेषां कार्याणां विरोधः कृतः। परन्तु जागरिताः शिक्षिताश्च जनाः आन्दोलनं कुर्युः इति भयेन तूष्णीमतिष्ठत्। शशीयसी राज्यभारं स्वहस्ते स्वीकृत्य सम्यक् नियन्त्रितवती।श्यावाश्वाय अपारां गोसम्पत्तिम् च अयच्छत्।

श्यावाश्वः दार्भ्यस्य कन्यां प्रीणाति स्म । परन्तु दार्भ्यः स्वकन्यां तस्मै दातुं नैच्छत् । शशीयशी दार्भ्यस्य मनः परिवर्तनं कारयित्वा श्यावाश्वस्य विवाहं न्यवर्तयत्।

राज्ञ्याः कार्येण सुप्रीतः यावाश्वः स्वप्रणीते सूक्ते तां बहुधा अश्वाघत।


। नमोनमः ।
🙏🙏🙏

सौ.विजया उल्हासः गोखले । रोहा, रायगडः।

#streeratnamaala
शची पौलोमी
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)
इयं काचित् स्वाभिमानिनी ऋषिका।अनया प्रणीते शचीपरके सूक्ते (ऋग्वेदः -मण्डलम्- १०;सूक्तम्-१५९) तस्याः आत्मगौरवं, जीवनोत्सवः ,अहमुग्रा विवाचनी' - अहं गृहस्य ध्वजः, अहं मद्गेहस्य शिरः (मुख्याबुद्धिमती),अन्यायस्य सम्मुखे उग्रा,अहं विवेचनशक्तियुता इति तया अभिमानेन गदितम् ।'मम निर्धारं मम भर्तापि सम्मानयति' इति कथयन्त्याः तस्याः आत्मगौरवस्य पारशून्यं प्रतीयते।
पुत्रास्तु उत्तमा एव ,परं दुहितरः नावराः इति स्पष्टतया सूक्तेऽस्मिन् तया भणितम् । 'मम पुत्रा शत्रुहणोथा मम दुहिता विराट्' इति गदन्ती सा नारीणामात्मर्स्थैर्य व्यवर्धयत् ।

'अहं शत्रुहन्त्री। तस्मात् पतिरपि मां सन्मानयति' इति तया सगर्वम् ईरितम् ।'त्यागः,शान्तिः ,सहनशील साता च नार्याः सहजगुणाः ।परन्तु अन्यैः दुरुपयोगः न करणीयः' इति तस्याः आशयः । 'माहिलया सर्वदाऽपि नतवदनया भवितव्यमिति नास्ति; तया शिरः उन्नीय समाजे गौरवमप्तव्यमिति पौलोम्या प्रत्यपाद्यत। स्त्रीणां स्वाभिमानजागृतिं कृतवतीषु ऋषिकासु शचीपौलोमी अन्यतमा ।वैदिकसम्प्रदाने उद्वाहात्पूर्वं वध्वा शचीपूजां कारयन्ति।तस्मिन्नवसरे इदं सूक्तं पठ्यते । वधूः पतिगृहे स्वाभिमानेन जीवनं यापयेदिति आशयः तत्रास्ति। पूजनसमये वधूः अस्मिन्विषये बोध्यते चेत् तस्याः आत्मस्थैर्यं वर्धेत।

।नमो नमः ।
सौ.विजया उल्हासः गोखले, रोहा, रायगडः।
🙏🙏🙏

#streeratnamaala
मदालसा
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)
विश्वावसुमहाराजस्य तनया मदालसा सर्वविद्यासम्पन्ना कन्या आसीत्।संसारपाशैः आत्मानं बद्धुम् नेच्छन्ती स्वतन्त्रतया ज्ञानविज्ञानानुसन्धानं कर्तुमभिलषति स्म ।ब्रह्मवादिन्या भवितव्यमिति तस्याः तीव्रतरेच्छा अवर्तत।पत्युः इच्छानुसारं पत्नी व्यवहरेदिति विचारः नैव साधुः गृहस्थाश्रमप्रयोगशालायां गृहिण्ये सम्पूर्णं स्वातन्त्र भवेदिति च तस्याः प्रतिपादनमासीत्।

सुदैवात् महाराजस्य शत्रुजितः पुत्रः ऋतध्वजः तस्याः आशयम् अङ्गिकृत्य स्वस्य गृहस्थजीवनसालाः हस्ते समर्पुयितुं सज्जोऽभवत्। मदालसा तस्य प्रस्थावं स्वीकृत्य भाविसन्तिं तस्याः इच्छानुसारं वर्धयितुं अङ्गीकारम॓वाप्नोत्।

कालक्रमेण तयोः मधुरदाम्पत्ये त्रयः पुत्राः जनिमलभन्त।ऋतध्वजः तेभ्यः विक्रान्तः सुबाहुः शत्रुमर्दनश्र्चेति क्षत्रियोचितनामानि प्रादआत् । नामकरणावसरे स्मितं हसन्ती मदालसाब्रवीत्—'नराः स्वनामसार्थक्यं भजन्ते एव इति नास्ति' इति । तस्याः वचसः अर्थः ऋतध्वजेन कालान्तरे अवगतः ।
ब्रह्मवेत्री मदालसा बालान् आन्दोलिकायां संस्थाप्य निद्रापनावसरे ब्रह्मतत्त्वमेव लललनगीतरूपेण आगायत्।

नृत्योऽसि बुद्धोऽसि निरञ्जनोऽसि
संसारमायापरिवर्जितोऽसि।
संसारस्वप्नं त्यज मोहनिद्रां
न जन्ममृत्यू तत्सत्स्वरूपे।।

ईदृशतत्वगानमेव आकर्णयन्तः तत्सूनवःब्रह्मजिज्ञासव समभवन्।आत्मजान् वैराग्यशालिनः दृष्ट्वा ऋतध्वजः चिन्ताकुवलः सञ्जातः।
सर्वैः सुतेः संन्यासिभिः भूयते चेत् वंशोद्धार कथामिति भूयते चेत् वंशोद्वारः कथमिति व्याकुलमनाः अभवत्।चतुर्थसुतं इहलोकासक्तं कर्तुं मदालसां प्रार्थयत। तन्निवेदनं पुरस्कृत्य मदालसा चतुर्थसूनुं इहलोकासक्तं कर्तुं मदालसां प्राथयत। तन्निवेदनं पुरस्कृत्य मदालसाचतुर्थसूनु अलर्कनामानं वीरगाथाभिः अलालयत्। तं राजनीतिनिपुणः युद्धविद्याविशारदञ्च अकरोत्। इहजीवनं निरुह्य तपश्चात् संन्यासाश्रमप्रवेशाय तं प्राबोधयत् । सः नैकानि वर्षाणि प्रजापालनं कृत्वा दत्तात्रेयवरप्रसादात् आत्मोन्नतिमविन्दत।

ध्येयनिष्ठता-स्वाभिमान आत्मविश्वासानां मूर्तिरूपा मदालसा साधनापथे जिगमिषूणां नारीणां पथदर्शिका वर्तते।

जयश्रीरामः। शुभ दिनम्।
सौ.विजया उल्हासः गोखले, रोहा, रायगडः।

#streeratnamaala