संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
This media is not supported in your browser
VIEW IN TELEGRAM
विशिष्टं व्याख्यानम्
on the occasion of Samskrit Week Celebrations.

वक्ता -
@ChamuKShastry

विषयः - संस्कृतं भारतीयभाषाः च
Fb Live - https://fb.me/e/1h9Oa4IgL
तमालपत्रम्

तमालचूर्णं रचयतो नस्यं जिघतः तथा वस्त्रशंसां कुर्वतो ग्राम्यवेषधारिणः पुरुषस्य प्रवेशः।

प्रथमः। अहो कीदृशं पवित्रं यस्तु इदं तमालपत्रं वर्तते वेदे शास्त्रे सर्वत्र अस्य महिमा वर्णितः अस्ति यथा त्रिपथगा गङ्गा सा
जगत् पवित्रं करोति तथैव तमालपत्रम् अपि सर्वं जगत् पवित्रं करोति।

क्वचित् हुक्का ववचित् थुक्का क्वचिन्नासाग्रवर्तिनी।
इयं त्रिपथगा गंगा पुनाति भुवनत्रयम्॥


द्वितीयः। अरे मूर्ख कथं वृथा अनर्गलं प्रलापं करोषि। ईदृशम् अपवित्रम् अनर्थंकरं च वस्तु सभायां निर्भयो भूत्वा एवं प्रशंससि।

प्रथमः। अरे किं तमालपत्रम् अपवित्रं वस्तु वर्तते शास्त्रेऽपि तमालपत्रस्य पवित्रताया वर्णनं वर्तते श्रूयताम् मम श्वसुरः महान् पण्डितः आसीत् स एकं श्लोकं कथयति स्म

विडोजाः पुरा पृष्टवान् पद्मयोनिं धरित्रीतले सारभूतं किमस्ति।
चतुर्भिर्मुखेरुत्तरं तेन दत्तम् तमालं तमालं तमालं तमालम्
॥ १॥

द्वितीयः। श्रुतं प्रमाणम् तर्हि कथ्यताम् कस्मिन् ग्रन्ये अयं श्लोकः अस्ति।

प्रथमः। अहं ग्रन्थस्य नाम न जानामि मम श्वसुरो महान् पण्डित आसीत् स एव इमं श्लोकं कथयति स्म।

द्वितीयः। आः तर्हि महत् अकाट्यं प्रमाणं वर्तते तव श्वसुरस्य वाक्यं वेदवाक्यम् अस्ति।

प्रथमः। अरे दुष्ट कथं मम श्वसुरस्य उपहासं करोषि यदि तमालपत्रं शास्त्रविरुद्धं तथा अपवित्रं वर्तते तर्हि कथं सर्वे पण्डिताः तमालपत्रं भक्षयन्ति।

द्वितीयः। कि पण्डिता अपि तमालपत्रं भक्षयन्ति।

प्रथमः। आं पण्डिता अपि भक्षयन्ति वैदिका ज्योतिर्विदः पौराणिका वैद्या व्याकरणाचार्याः साहित्याचार्याः वेदान्ताचार्याः किम्। धिक् धर्मशास्त्राचार्या अपि तमालपत्रं भक्षयन्ति न च केवलं गृहे प्रत्युत यज्ञे मन्दिरे विद्यालये पूजायां पाठे सभायां तीर्थे आश्रमे सर्वत्र निस्सङ्कोचं भक्षयन्ति।

द्वितीयः। यद्येवं तर्हि एष महान् अनर्थविषयः तथापि पण्डितानां भक्षणेन तमालपत्रस्य प्रामाणिकता न सिद्धयति। न खलु अस्माकं पण्डिताः प्रमाणं प्रत्युत शास्त्रं प्रमाणं बुद्धिश्च प्रमाणं वर्तते। साधारणबुद्धयाऽपि विचार्यमाणे तमालपत्रस्य उत्तमता न सिद्ध्यति अत एव लिखितं वर्तते।

न स्वादु नौषधमिदं न च वा सुगन्धि
नाऽक्षिप्रियं किमपि शुष्कतमा कुचूर्णम्।
किं चाक्षिरोगजनकं च तदस्य भोगे
बीजं नृणां नहि नहि व्यसनं विनाऽन्यत् ॥१॥


प्रथमः। अस्तु मन्ये अहं ते वचनं यत् पण्डिता अनुचितं कुर्वन्ति परन्तु अनेके अंग्रेज्यध्यापका यत् बीडीसिगरेटादिकं पिबन्ति एकम् एकं च बण्डलाख्यम् एकैकस्मिन् दिने समाप्तं कुर्वन्ति तत् किं तेऽपि अनुचितं कुर्वन्ति ते तु सभ्यमानवाः सन्ति।

द्वितीयः हसित्वा। अरे अंग्रेज्यध्यापकानां किमपि पुच्छं वर्तते यत् ते अनुचितं न कुर्वन्ति। शृणु तावत् तमालपत्रं धूमपानं वा इदं सर्वमपि स्वास्थ्यस्य कृते महत् हानिकरं वर्तते द्रव्यस्यापि अपव्ययो भवति समाजे निन्दापि जायते अतः कदापि तमालभक्षणं धूमपानं वा न कर्तव्यं दूरे निक्षिप निजं सर्वं तमालपत्रम्।

प्रथमः। गच्छ गच्छ यावत् सर्वं पण्डिताः मास्टराश्च परित्यागं न करिष्यन्ति तावत् अहमपि परित्यागं न करिष्यामि। निर्गच्छति।

द्वितीयः। मा परित्यागं कुरु कः त्वया सह शिरःस्फोटं कुर्यात् सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्। निष्क्रान्तः।

#samvadah #hasya
संस्कृत संवादः । Sanskrit Samvadah pinned «टेलीग्राम्मध्ये उपलब्धाः संस्कृतसंश्लेषकाः Sanskrit Stickers available on Telegram»
Rig Moolam G7.mp3
Rig Moolam G7
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥 🚩युगाब्द-५१२५
🌥 🚩विक्रम संवत-२०८०
⛅️ 🚩तिथि - चतुर्थी शाम 06:24 तक तत्पश्चात पंचमी

⛅️ दिनांक - 03 सितम्बर 2023
⛅️ दिन - रविवार
⛅️ शक संवत् - 1945
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास - भाद्रपद
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - रेवती सुबह 10:38 तक तत्पश्चात अश्विनी
⛅️ योग - गण्ड सुबह 06:01 तक तत्पश्चात वृद्धि
⛅️ राहु काल - शाम 05:21 से 06:056 तक
⛅️ सूर्योदय - 06:22
⛅️ सूर्यास्त - 06:56
⛅️ दिशा शूल - पश्चिम दिशा में
⛅️ ब्राह्ममुहूर्त - प्रातः 04:51 से 05:37 तक

#panchang
🍃अहन्यहनि भूतानि गच्छन्तीह यमालयम्।
शेषास्स्थावरमिच्छन्ति किमाश्चर्यमतः परम्


🔆 अस्मिन् संसारे सदैव जनाः प्रतिदिनं प्रतिक्षणं म्रियन्ते तथापि आश्चर्यं यत् तान् दृष्ट्वापि अन्ये तथा आचरन्ति यथा वयन्तु चिरञ्जीविणः स्मः।

इस संसार में जीव प्रतिदिन यमलोक में जाते हैं। इससे अधिक आश्चर्य की बात क्या है कि तथापि लोग अपने आप को चिरंजीव समझते हैं?

In This World, People Die Everyday.
What Is More Surprising That Despite This, People Think They Are Eternal

#Subhashitam
एषः तथा सः इति अनयोः परे अकारं विहाय अन्यः वर्णः चेत् विसर्गस्य _________ भवति।
Anonymous Quiz
17%
रेफः
63%
लोपः
8%
किमपि न भवति
13%
सकारः भवति।
पीला रंग बृहस्पति का प्रधान रंग है।
••पाण्डुवर्णः बृहस्पते: प्राथमिकवर्णः अस्ति।

इस रंग का व्यक्ति के पाचन तंत्र, रक्त संचार और आंखों पर सीधा प्रभाव पड़ता है।
••अस्य वर्णस्य प्रत्यक्षः प्रभावः व्यक्ते: पाचनतन्त्रे, रक्तसञ्चारस्य नेत्रयोः च उपरि भवति ।

कहा तो यह भी जाता है कि पीले रंग के अंदर मन को बदलने की क्षमता होती है।
••इदमपि तु कथ्यते यत् पीतवर्णे मनः परिवर्तयितुं क्षमता भवति।

इस रंग को शुभता का प्रतीक माना जाता है।
••एषः वर्णः मङ्गलस्य प्रतीकः इति मन्यते।

यदि आपका पसंदीदा रंग पीला है तो आपके व्यक्तित्व के लक्षण बताता है कि आप एक रचनात्मक, खुशमिजाज, मौज-मस्ती करने वाले, आशावादी, मिलनसार और गतिशील व्यक्ति है।
••यदि भवते पाण्डुरवर्ण: रोचेत तर्हि भवतः व्यक्तित्वगुणाः वदन्ति यत् भवान् सृजनात्मकः, प्रसन्नः, विनोदप्रियः, आशावादी, मिलनसारः, गतिशीलः च पुरुष: स्यात्।

आप मानसिक रूप से अत्यधिक सक्रिय हैं।
••भवान् मानसिकरूपेण अतीव सक्रियः अस्ति।

आप परिस्थितियों से दिल की बजाय दिमाग से निपटना पसंद करते हैं।
••भवते हृदयात् अपेक्षया बुद्ध्या परिस्थितिभ्यः सह संघर्षः रोचते।

आप व्यवस्थित, विश्लेषणात्मक और गणनात्मक हैं।
••भवान् व्यवस्थित:, विश्लेषणात्मक: गणनात्मक: च अस्ति।

स्कूल बस का रंग पीला ही क्यो होता है?
••विद्यालयीययानस्य वर्णः हरिद्राभ: किमर्थं भवति?

दरअसल स्कूल की बसों का रंग सुरक्षा की दृष्टि से पीला रखा जाता है।
••वस्तुतः विद्यालयीययानानां वर्णः सुरक्षायै पीतः एव भवति।

माना जाता है कि पीला रंग होने से बस दूर से देखी जा सकती है।
••मन्यते यत् हरिद्राभवर्णस्य कारणात् दूरतः विद्यालयीययानं द्रष्टुं शक्यते ।

साथ ही यह बस बारिश, रात, दिन, कोहरे में आसानी से दिखाई दे जाती है इसलिए दुर्घटना का खतरा बहुत कम होता है।
••अपि च वर्षायां, रात्रौ, दिने, नीहारे च एतत् विद्यालयीययानं सुलभतया दृश्यते अतः दुर्घटनायाः त्रासदकम् अतीव न्यूनं भवति ।

इसके पीछे की वजह है कि बाकी रंगों की तुलना में पीले रंग में 1.24 गुना ज्यादा आकर्षण होता है और अन्य किसी भी रंग की तुलना में यह आंखों को जल्दी दिखाई देता है।
••एतस्य पृष्ठतः कारणम् यत् हरिद्राभवर्णः अन्येषां वर्णानाम् अपेक्षया द्वौ चत्वार: दशांशोत्तर एक: गुणाधिक: आकर्षको भवति एष च वर्ण: अन्येषां वर्णानाम् अपेक्षया नेत्राभ्याम् अधिकं दृश्यते।

~उमेशगुप्तः

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः वार्ताः
🗓०४/०९/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं तद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Rig Moolam G8.mp3
Rig Moolam G8
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - पंचमी शाम 04:41 तक तत्पश्चात षष्ठी

दिनांक - 04 सितम्बर 2023
दिन - सोमवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - अश्विनी सुबह 09:26 तक तत्पश्चात भरणी
योग - ध्रुव रात्रि 12:59 तक तत्पश्चात व्याघात
राहु काल - सुबह 07:57 से 09:31 तक
सूर्योदय - 06:23
सूर्यास्त - 06:55
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:51 से 05:37 तक
निशिता मुहूर्त - रात्रि 12:16 से 01:01 तक
व्रत पर्व विवरण - नाग पंचमी (राजस्तान), माधवदेव तिथि (असम)

#panchang