संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता
।।

🔆 यस्य कस्मिन्नपि वस्तुनि आसक्तिः नास्ति तथा शुभम् अशुभं वा प्राप्य न हर्षं प्राप्नोति न च अवसादं तादृशस्य प्रज्ञा प्रतिष्ठिता वर्तते।

He, who has no desire in anything; and who neither rejoices nor hates on getting this or that, good or bad-his intellect is properly stabilized.

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
पाठ: - 15 नपुंसकलिङ्गम् - बहु वचनम् 1. तानि आसन्। - Those were present. 2. एतानि आसन्। - These were present. 3. अमूनि आसन्। - These were present. 4. कानि आसन्? - which were present? 5. इमानि आसन्। - These were present.…
पाठ: - 17
स्त्रीलिङ्ग: - द्विवचनम्

1. इमे आस्ताम्।
- These two ladies were present.

2. एते आस्ताम्।
- These two ladies were present.

3. अमू आस्ताम्।
- These two ladies were present.

4. ते आस्ताम्।
- Those two ladies were present.

5. भवत्यौ आस्ताम्।
- you two were present.

6. के आस्ताम्।
- which two ladies were present?

7. सर्वे आस्ताम्।
- Every two ladies were present.

8. ये आस्ताम्।
- which two ladies were present?

9. अन्ये आस्ताम्।
- Other two ladies were present.

पाठ: - 18
नपुंसकलिङ्गम् - द्विवचनम्

1. ते आस्ताम्।
- Those two were present.

2. एते आस्ताम्।
- These two were present.

3. इमे आस्ताम्।
- These two were present.

4. अमू आस्ताम्।
- These two were present.

5. सर्वे आस्ताम्।
- Every two were present.

6. के आस्ताम्।
- which two were present?

7. ये आस्ताम्।
- Which two were present?

8. पुस्तके आस्ताम्।
- Two books were present.


~V.Kutumbarao

#vakyabhyas
काचन ललना विपणिवीथ्यां गच्छन्ती विपण्यां पञ्जरस्थं शुकमेकमपश्यत् । शुकस्य सौन्दर्यमनुभवन्ती तत्रैव क्षणमात्रं तस्थौ । शुकः तामवदत्, “भवति, कुरूपासु प्रथमा खलु भवती” इति । अतिकुपिता सा भ्रुकुटिं कृत्वा द्रुतं स्वोद्योगाय निर्जगाम । यदा सा सायमुद्योगात् प्रतिन्यवर्तत तदापि तं शुकमपश्यत् । तदापि शुकः तामवदत्, “भवति, कुरूपासु प्रथमा खलु भवती” इति । परेद्युः यदा सा स्वोद्योगाय गच्छन्ती तं शुकमपश्यत्, स शुकः पुनरुवाच, “भवति, कुरूपासु प्रथमा खलु भवती” इति । अतीव कुपिता सा तद्विपणिं प्रविश्य आपणिकमवदत्, “अयि, भोः, तव शुकः दुर्वचांसि वदति । यदि सः पुनरपि यदि तथैव कथयति अहं राजभटे अभियोगं दास्यामि” इति । आपणिकः तस्याः क्षमामयाचत अवदच्च, “भवति, अद्यप्रभृति सः शुकः दुर्वचांसि यथा त्वां न भणति तथा करोमि” इति। सायमुद्योगात् प्रतिनिवर्तनसमये सा सकुतूहलं तं शुकमपश्यत् । तदा शुकः अवदत्, “आर्ये” इति । सा भ्रुकुटिं कृत्वा प्रत्यवदत्,”ततः किम्” । सः शुकः सगर्वमभणत्, “मम कथनेन किम्? भवती वेत्ति खलु” इति ।

~ जी एस् एस् मूर्तिः

#hasya
https://youtu.be/9-Z1gwm1xRg
#SanskritCarnaticMusic

Dikshitar Kriti - Ramachandrasya Dasoham - Raga Dhamavathi

pallavi
dAsO-ahaM - I am the slave
rAma candrasya - of Ramachandra,
SrI sItA nAyakasya - the husband of Sita,
guru guha hitasya - the one favourable to Guruguha,

samashTi caraNam
sAma dAna bhEda-Adi caturasya - the one well-versed in harmony, rewarding, creating rivalry etc.,
sajjana pAlasya - the saviour of the good,
dushTa harasya - the remover of evil ones,
samaya-AcAra saMpradAyakasya - the one who adheres to familial traditions,
SabarI mOksha pradasya - the one who granted Moksha to Shabari,
varasya - the distinguished one.

Comments:
This kriti is in the sixth Vibhakti
The four means of achieving ends (particularly in politics) are - harmony or peace, rewarding with gifts, creating rivalry and punishing.
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - प्रतिपदा दोपहर 12:06 तक तत्पश्चात द्वितीया

दिनांक - 24 दिसम्बर 2022
दिन - शनिवार
विक्रम संवत् - 2079
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - पूर्वाषाढ़ा रात्रि 01:13 तक तत्पश्चात उत्तराषाढ़ा
योग - वृद्धि सुबह 09:27 तक तत्पश्चात व्याघात
राहु काल - सुबह 09:58 से 11:19 तक
सूर्योदय - 07:18
सूर्यास्त - 06:01
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:31 से 06:24 तक
🍃कन्यादातान्नदाता च ज्ञानदाताभयप्रदः ।
जन्मदो मन्त्रदो ज्येष्ठभ्राता च पितरः स्मृता:
।।

🔆यः कन्यां ददाति यः भोजनं ददाति यः ज्ञानं ददाति यः भयात् त्रायते यः जन्म कारयति यः मन्त्रं ददाति तथा अग्रजः एते सर्वे पितृसमानाः भवन्ति।

कन्यादाता ( कन्यादान करने वाला ) अन्न-भोजन देने वाला , ज्ञान देने वाला (गुरु) , भय से रक्षा करने वाला, जन्म देने वाला, मन्त्र देने वाला एवं ज्येष्ठ भाई ये पिता के प्रकार है ।।

#Subhashitam
कस्य उपसर्गस्यः प्रयोगेन अर्थपरिवर्तनं भवति।
Anonymous Quiz
20%
तिष्ठति - प्रतिष्ठते।
13%
लिखति - विलिखति
8%
ददाति - प्रददाति।
60%
हरति - विहरति
संस्कृत संवादः । Sanskrit Samvadah
पाठ: - 17 स्त्रीलिङ्ग: - द्विवचनम् 1. इमे आस्ताम्। - These two ladies were present. 2. एते आस्ताम्। - These two ladies were present. 3. अमू आस्ताम्। - These two ladies were present. 4. ते आस्ताम्। - Those two ladies were present.…
ओम्
------
सरलसंस्कृत पाठा:

तृतीय: अध्यायः - भविष्यत् काल:
पुंलिङ्ग: - एकवचनम्

पाठ: - 19
1. अहं भविष्यामि।
- I will be present.

2. त्वं भविष्यसि।
- you will be present.

3. सः भविष्यति।
- He will be present.

4. असौ भविष्यति।
- He will be present.

5. अयं भविष्यति।
- He will be present.

6. एष: भविष्यति।
- He will be present.

7. अन्य: भविष्यति।
- Some other person will be present.

8. सर्व: भविष्यति।
- Everyone will be present.

9. क: भविष्यति?
- Who will be present?

10. भवान् भविष्यति।
- You will be present.

11. यः भविष्यति।
- Who will be present.

पाठ : 20
स्त्रीलिङ्ग: - एकवचनम्

1. सा भविष्यति।
- She will be present.

2. एषा भविष्यति।
- She will be present.

3. असौ भविष्यति।
- She will be present.

4. इयं भविष्यति।
- She will be present.

5. सर्वा भविष्यति।
- Every lady will be present.

6. का भविष्यति?
- Who will be present?

7. अन्या भविष्यति।
- Some other lady will be present.

8. या भविष्यति।
- Who will be present.

9. भवती भविष्यति।
- You will be present.

~V.Kutumbarao

#vakyabhyas
वृद्धौ स्ववैद्ययोः विषये संलपतः स्म । प्रथमः अवदत्, “भोः, तव वैद्यः विश्वासानर्हः । कस्मैचिद्रुग्णाय सः मूत्रपिण्डव्याधिनिवारणार्थं औषधानि प्रायच्छत् । स रुग्णः पित्थकोशव्याधिना मृतः खलु” इति। द्वितीयः अवदत्, “तव वैद्यस्य विषये किं भणसि?” इति । प्रथमः प्रत्यवदत्, “ यदि मम वैद्यः तुभ्यं मूत्रपिण्डव्याधिनिवारणाय औषधानि प्रदास्यति, तदा त्वं निस्संशयं मूत्रपिण्डव्याधिना एव मरिष्यसि” इति ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - द्वितीया सुबह 08:24 तक तत्पश्चात तृतीया

⛅️दिनांक - 25 दिसम्बर 2022
⛅️दिन - रविवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शिशिर
⛅️मास - पौष
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - उत्तराषाढ़ा शाम 07:21 तक तत्पश्चात श्रवण
⛅️योग - व्याघात रात्रि 12:59 तक तत्पश्चात हर्षण
⛅️राहु काल -शाम 04:41 से 06:01 तक
⛅️सर्योदय - 07:18
⛅️सर्यास्त - 06:01
⛅️दिशा शूल - पश्चिम दिशा में
⛅️बराह्ममुहूर्त - प्रातः 05:32 से 06:25 तक