रामदूतः — The Sanskrit News Platform
2.11K subscribers
7.74K photos
28 videos
2.96K files
4.82K links
Main branch @samvadah
Super group @Ask_sanskrit

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
e-संस्कृतवार्तापत्रम् 26.12.2021 (SANSKRIT E-NEWSPAPER) दैनिकवार्ताः।। संस्कृतवार्ता
Sunday, December 26, 2021

भारते पञ्चदशाधिकवयस्केभ्यः वाक्सिनं दातुं तथा स्वास्थ्यप्रवर्तकेभ्यः षष्ठ्युपरिवयस्केभ्यः रोगिभ्यः च वाक्सिनस्य संवर्धितमात्रां प्रदातुं च निश्चितः।
नवदिल्ली> राष्ट्रे १५ वयः आरभ्य१८ वयपर्यन्तेभ्यः बालकेभ्यः जनुवरि तृतीयदिनादारभ्य वक्सिनं प्रदास्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घोषितम्। ओमिक्रोण् व्यापनसन्दर्भेऽस्मिन् राष्ट्रं अभिसंबोधयित्वा भाषमाणः आसीत् सः। स्वास्थ्यप्रवर्तकेभ्यः षष्ठ्यधिकवयस्केभ्यः रोगिभ्यः च वाक्सिनस्य प्रतिरोधसंवर्धकमात्राम् दातुमपि निर्णयं कृतम्। जनुवरि मासस्य दशमदिनादारस्य संवर्धकमात्रां प्रदास्यति। षष्ठ्युपरिवयस्केभ्यः भिषग्वराणां निर्देशानुसारमेव संवर्धकमात्रां प्रदास्यति। भारतबयोटेक् संस्थया निर्मितं कोवाक्सिनं बालकेभ्यः दातुं डि सि जि ए संस्थया अङ्गीकारः प्रदत्तः आसीत्।

ओमिक्रोण्- विश्वस्मिन् द्विदिनाभ्यन्तरे ४५०० विमानानि निरस्तानि।
न्यूयोर्क्> ओमिक्रोण् व्यापनाशङ्कां अनुवर्तमाने सन्दर्भेऽस्मिन् द्विदिनाभ्यन्तरे विश्वस्मिन् ४५०० यात्राविमानानि निरस्तानि। क्रिस्तुमस् वारान्त्ये यात्रार्थं सज्जानां सहस्रशः जनानां यात्राविघ्नमभवत्। वैमानिकानाम् अन्येषां कर्मकराणां च कोविड्बाधा तथा सम्पर्केण एकान्तवासः इत्यादि कारणेनैव प्रायेण विमानानि निरस्तानि इति प्रतिवेदनमस्ति।

बालभारती पब्लिक् स्कूल् द्वारा संस्कृतभाषासंवर्धनपरा अन्तर्जालीया सङ्गोष्ठी समनुष्ठिता।
नवदिल्ल्या: गंगाराम-चिकित्सालय-मार्गस्थितेन बालभारती पब्लिक स्कूल इत्याख्यस्य प्रशासनेतर विद्यालयस्य संस्कृतविभाग द्वारा दिसम्बर पञ्चविंश्यां छात्रान् संस्कृताध्ययनम् प्रति प्रेरणार्थं मार्गदर्शनपर: अन्तर्जालीय: व्याख्यानकार्यक्रम: भव्यतया समायोजित:। एष: कार्यक्रम: प्रधानाचार्यस्य श्री एल. वी. सहगलवर्यस्य नेतृत्वे, उपप्रधानाचार्याया: श्रीमत्या: मीनामल्होत्रायाश्च प्रेरणया छात्रेभ्य: अभिभावकेभ्यश्च समायोजित:। कार्यक्रमस्य प्रारम्भ: संगीतविषयस्य अध्यापकेन श्री सुमनझामहोदयेन प्रस्तुत मंगलाचरणेन विहितः। विद्यालयस्य माध्यमिकविभागस्य मुख्याध्यापिका पूनम सौंधी वर्या अभ्यागतानाम् अतिथिजनानां वाचिकं स्वागतं सत्कारं च कृतवती।

~ संप्रति वार्ता
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - अष्टमी शाम 07:28 तक तत्पश्चात नवमी

⛅️ दिनांक - 27 दिसम्बर 2021
⛅️ दिन - सोमवार
⛅️ शक संवत -1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शिशिर
⛅️ मास - पौस
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - हस्त 28 दिसम्बर प्रातः 05:08 तक तत्पश्चात चित्रा
⛅️ योग - सौभाग्य सुबह 08:54 तक तत्पश्चात शोभन
⛅️ राहुकाल - सुबह 08:36 से सुबह 09:57 तक
⛅️ सर्योदय - 07:15
⛅️ सर्यास्त - 18:04
⛅️ दिशाशूल - पूर्व दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Monday, December 27, 2021

भारत-दक्षिण अफ्रीका-दलयोः मध्ये क्रिकेट-निकष-शृङ्खलायाः प्रथमा स्पर्धा रविवासरे प्रारब्धा।
दक्षिण-अफ्रिकायाः सेन्‍चूरियन-क्रीडाङ्गणे भारत-दक्षिण अफ्रीका-दलयोः मध्ये क्रिकेट-निकष-शृङ्खलायाः प्रथमा स्पर्धा रविवासरे प्रारब्धा। भारतेन पणकं विजित्य धावनाङ्कनिर्माणं चितम्। प्रथमे दिने क्रीडावसानं यावत् भारतीयदलेन क्रीडकत्रयस्य हानौ द्विसप्तयुत्तरद्विशतं २७२ धावनाङ्काः समर्जिताः। भारताय के.एल.राहुलः १२२ द्वाविंशत्युत्तरैकशतम् अथ च अजिङ्क्‍य-रहाणे चत्वारिंशत् धावनाङ्कान् निर्मीय क्रीडारतौ वर्तेते।

सूत्रिकानिर्माणयन्त्रागारे स्फोटनम्। षट् जनाः मृताः। बहवः जनाः व्रणिताश्च।
पाट्ना> बीहारे मुसाफर्पुरे सूत्रिकानिर्माणयन्त्राकारे (Noodles factory ) जाते स्फोटने षट् जनाः मृताः। बहवः जनाः व्रणिताश्च। यन्त्रागारस्थे बाष्पित्रं (boiler) प्रभज्य एव अपघातः सञ्जातः। स्फोटनस्य ध्वनिः पञ्चकिलोमीट्टर् अतिक्रम्य श्रुतमिति प्रदेशवासिनः अवदन्। मुसाफर्पुरे बेल इन्डस्ट्रियल् अङ्कणे एव यन्त्राकारः वर्तते। स्फोटनस्य आघातेन समीपस्थः पेषणयन्त्राकारः (Mill) अपि भञ्जितः अभवत्। पेषणयन्त्राकारे सुप्तौ द्वौ सेवकौ अपि व्रणितौ। अन्वेषणं समारब्धमिति जनपदस्य न्यायाध्यक्षेण (Magistrate) प्रणवकुमारेण प्रोक्तम्।

~ संप्रति वार्ता
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - नवमी शाम ०६:०९ तक तत्पश्चात दशमी

⛅️ दिनांक - २८ दिसम्बर २०२१
⛅️ दिन - मंगलवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शिशिर
⛅️ मास - पौस
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - चित्रा २९ दिसम्बर प्रातः ०४:११ तक तत्पश्चात स्वाती
⛅️ योग - अतिगण्ड २९ दिसम्बर प्रातः ०४:२० तक तत्पश्चात सुकर्मा
⛅️ राहुकाल - शाम ०३:२३ से शाम ०४:४५ तक
⛅️ सर्योदय - ०७:१५
⛅️ सर्यास्त - १८:०४
⛅️ दिशाशूल - उत्तर दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/