रामदूतः — The Sanskrit News Platform
2.11K subscribers
7.74K photos
28 videos
2.96K files
4.82K links
Main branch @samvadah
Super group @Ask_sanskrit

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
Audio
🔹आपदलनेत्रा अरविन्देन इण्डियाटीविसंस्थां प्रति कोङ्ग्रेसदलेन सह सङ्गठनाय उक्तं यद् अस्माभिर् विवाहो नहि कृतः। न अस्माकं विवाहो जातः। सामान्यविवाहो न जातः। प्रेमविवाहो न जात। वयं देशरक्षणार्थं निर्वाचनाय चतुर्दिनाङ्को यावत् सम्मिलिताः तावद् एव। किं तस्य नामकरणेन अर्हेत्। सद्यः अस्माकं लक्ष्यं भाजपादलस्य पराजयमात्रम् एव इति।

🔹 मङ्गले वासरे अन्तर्दिनात्मके सत्रे पञ्चप्रतिशतं वर्धनेन भीतिसूच्याङ्कः सार्धचतुर्विंशतिः समागतः। अयं सूच्याङ्कः समांशपण्यस्थलस्य आगामित्रिंशद्दिवसानां स्थैर्यम् इङ्गते। एष लोकसभानिर्वाचनारभ्य एव वर्धमानः अस्ति। गते सप्ताहे द्वादशप्रतिशतं विगतमासि च चतुर्विंशत्यधिकशतं प्रतिशतं वर्धितोऽयम्।

🔹 अमूर्तजगति दत्तांश एव नवतैलम् इव धनम् इति उद्यमी निखिलः। नेटफ्लिक्ष्णामधेयस्य उपसंस्थापकं रीडम् अयम् प्रत्यवदद् वयं नो ग्राहकानां समयाय स्पर्धामहे अतश्च अस्माकं स्पर्धकेषु निद्रा अपि एका‌। सोऽवदत् तस्माद् अपि दुर्लभतरं ते अवधानम् इति। तथा तेन कथितं यद् वयं प्रचारस्य दृश्यसम्मोहस्य च युगे स्मः।

🔹 भारतं पप्प्वान्यूगीनीयानाम्ने देशाय अष्टकोटितोऽपि अधिकं धनं दास्यति। देशेऽस्मिन् महाभूस्खलेन बहुविनाशो जातः येन द्विसहस्राधिका जनाः जीवन्तः सन्तः भूगर्भे विनिर्गताः। विदेशमन्त्रालयेन उक्तं अनुदानोऽयं तत्र पुनर्निर्माणाय पुनर्निवासनाय च समर्थनम्।

🔹 पञ्चायतस्य तृतीयांशः अस्मिन् मङ्गलवासरे अमेजनप्रैमनामविस्थले प्रसारितः। अस्मिन् नीनागुप्ता च जितेन्द्रकुमारश्च फैजलमलिकश्च अभ्यनयन्। विकासश्च मञ्जुदेवी च क्रान्तिदेवी च इत्यादयः विश्वासप्रदानां पात्राणां कृते सौहार्दं समस्थापयन्। एकश्च समीक्षकोऽवदत् धाराप्रवाहिका कियती अपि रुचिकारिणी स्यात् परन्तु कस्याश्चिद् अपि यशसः संरक्षणं कठिनम्।

🔹 अग्रिमे मासे प्रथमदिनाङ्कारभ्य वाहनचालकाः वाहनचालनशिक्षणसंस्थानेषु प्रशिक्षणं प्राप्य वाहनचालनपरीक्षां समधिगन्तुं शक्नुवन्ति। लघुवाहनचालकेभ्यः एकोनत्रिंशद्घण्टाकालो यावत् प्रशिक्षणम् अपेक्षते। तदारभ्य विना चालनानुज्ञापत्रं चालनेन द्विसहस्रं यावद् दण्डो दातव्यः। पूर्ववयस्कानां वाहनचालनाद् पञ्चविंशतिगुणं सहस्राणि दण्ड्यानि। प्रशिक्षुप्रपत्रं प्राप्तुम् अधुना द्विशतम् एव दातव्यं नाधिकम्।

👉🏻 @ramdootah
प्रधानमन्त्री इव स्वीये भाषणे संस्कृतमाचरणीयम् – सतीशशर्मा

वार्ताहरः-शशिकान्तः।उत्तरप्रदेशसंस्कृतसंस्थानेन भाषाविभागस्य अन्तर्गतं सञ्चालितस्य ऑनलाइन संस्कृतभाषायोजनायाः अन्तर्गतं सञ्चालितस्य सद्यास्कसरलसंस्कृतसम्भाषणकक्षायां प्रेरकसत्रस्य आयोजनं कृतम्। उद्घाटनमस्य प्रशिक्षु महक द्वारा विहितम्। सत्रास्य संचालनं विनयः कृतवान्। उद्घाटनसम्बोधनकथनं प्रशिक्षक शशिकांत: कृतवान् । डॉ. विदुषी अनुभवमुक्तवती । संस्थानगीतिका रेखामहोदया द्वारा प्रस्तुता। ज्योति स्वागतीकरणरूपेण मधुरकण्ठेन हरिस्तोत्रं गीतवती। स्वागतभाषणं वृत्तकथनञ्च समन्वयक दिव्यरञ्जन महोदयेन कृतमुक्तञ्च संस्थानमस्मिन् विषये महत् कार्यं कुर्वदस्ति। अनेन गृहे उपविश्य बहूनां जनानां हितं भवति । एतत् केवलं कार्यं न अपितु अभियानमस्ति ।अतिथिपरिचयं च प्रशिक्षकः रजनीशः दत्तवान् । मुख्यातिथिः संस्कृतप्रेमी, भाषणदक्षश्च विद्वान् सतीश शर्मा इतीदं कथितवान् यत् संस्कृतज्योतिः सर्वत्र प्रसरेत् । सर्वत्र संस्कृतदीपः ज्वालनीयः एव । संस्कृते एव नूतनाविष्कारशैली वर्तते । मोदिमहोदय: इव अस्माकं वक्तव्ये संस्कृतसूक्तः भवेयुः एव । यत्र गच्छामः तत्र संस्कृतात् एव प्रारम्भं कुर्याम । अस्माकं संस्कृत वार्तालापेन एव वृत्ति-अवसरा: उपलप्स्यन्ते ।बहुविषयेषु सूचनां दत्त्वा कथाभिः तेन छात्राः प्रेरिताः। एतत् श्रुत्वा एव सर्वे मुग्धाः सम्मोहिताः च भवन्ति । संस्कृतभाषा न केवलं भारते एव पूज्यते अपितु सम्पूर्णं जगत् तया दर्शितं मार्गम् अनुसरति। सः अवदत् यत् वेदपुराणादिकं संस्कृते एव निहितमस्ति । गीता इत्यादिषु विषयेषु अपि प्रकाशं क्षिप्तवान्।
प्रशिक्षकान् प्रोत्साहयन् मुख्यातिथिः अवदत् यत् अस्माकं चरित्रम् एव सर्वं सर्वप्रथमञ्च । चरित्रं संस्कृतं निर्माति । अतः संस्कृतप्रचारः एकेन न अपितु सर्वैः करणीयः । जीवने काश्चन समस्याः उत्पद्यन्ते एव अस्माकं सुखदं दुःखदं च भवति, तदा संस्कृतभाषायां निहितग्रन्थान् अवलोक्य तेषां दर्शितः मार्गः अनुसरणीयः। सत्रे प्रशिक्षकः डॉ. सत्यप्रकाशः सर्वेभ्यः धन्यवादं दत्तवान्।
प्रशिक्षकः रजनीशमहोदयः शान्तिमन्त्रं कृतवान् । कार्यक्रमस्य अन्ते प्रशिक्षकः डॉ. लक्ष्मीनारायण छात्राणां कृते कक्षासम्बद्धा: सूचना: प्रदत्तवान्, प्रचारार्थं च प्रेरितवान्। कार्यक्रमे विनय श्रीवास्तवः उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः, प्रो. अधिकारी डॉ. दिनेश मिश्र:, सर्वेक्षिकः भगवान् सिहः, प्रशिक्षण प्रमुख: सुधिष्ठ मिश्र:, समन्वयक: धीरज मैठाणी, दिव्य रंजन राधा शर्मा, अनिल गौतम:, संस्थान प्रशिक्षक डॉ. सत्यप्रकाश मिश्र:, विनयशुक्लः , शशिकांत:, रजनीशः, लक्ष्मीनारायणः, इत्यादयः अन्ये शिक्षकाः अन्ये च शताधिकसामाजिकाः जनाः ऑनलाइनमाध्यमेन उपस्थिताः आसन्। #sanskritsamachar
 #AkashVani_Text

⚠️बहुत्र दोषाः सन्ति। अतः अवधानेन पठत।
Complaints/Queries :
ddnews4sanskrit@gmail.com
V. P. Vidyanidhi High School
English Medium
JVPD, Juhu (Mumbai)

Required :
Sanskrit Teacher on Clock Hour Basis For Std 8, 9, 10

Contact : Ms. Aarti Adhyapak (Supervisor) : 9819152721

#career
📢 Sanskrit Teacher Required In Rajahmundry Bharatiya Vidya Bhavans School. Post - Sanskrit PRT
Salary - 22 k to 25 k.
Food and accommodation will be provided,
AC Campus
contact : 9493480832

✍🏼Dr. Kumar Bagewadimath #career
࿗ उज्जयिनीसमयानुसारम् #panchangam by @adyatithi