रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.29K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
Tuesday, May 28, 2024

दिल्ल्यां सप्त नवजातशिशवः अग्निदाहेन हताः।

नवदिल्ली>पूर्वदिल्ल्यां विवेकविहारप्रदेशे नवजातशिशुभ्यः प्रचाल्यमाने निजीये आतुरालये दुरापन्नया अग्निबाधया सप्त नवजातशिशवः हताः। शनिवासरस्य अर्धरात्रौ 'बेबी केयर् न्यूबोण्' नामके आतुरालये आसीत् दुर्घटना। आतुरालयस्य अधःश्रेण्यां अनधिकृतेन प्रवर्तमाने प्राणवायुपूरणकेन्द्रे जातं स्फोटनमेव अत्याहितस्य हेतुरिति सूच्यते।
आतुरालस्य स्वामी पश्चिमविहारनिवासी डो नवीन किच्ची गतदिने दिल्ली आरक्षकसेनया निगृहीतः। #SampratiVartah
सार्थककण्डवालेन त्रिस्वर्णपदकेन राज्ययोगस्पर्धा विजिता

।हरिद्वारं।”WFFYS” इत्यस्य 2024वर्षस्य उत्तराखण्डराज्ययोगासनस्पर्धा 26 मेमासे हरिद्वारशिवालिक- नगरे आयोजिता अभवत् । यत्र उत्तराखण्डस्य सर्वेभ्य: जनपदेभ्य: योगक्रीडका: भागं गृहीतवन्त:। प्रतियोगितायां जनपदपौडीगढ़वालस्य राजकीयवरिष्ठमाध्यमिक- विद्यालयकाण्डाखालस्य क्रीडकै: अपि प्रतिभाग: कृत: । यत्र मानसी रावत:, यशिका नेगी, संतोषी रावत: स्वर्णपदकं प्राप्तवन्त:, तथा च शुभमसिंह: रजतपदकं प्राप्तवान्। प्रियांशी, सोनाक्षी, मेघा, शीर्षदशसु स्थानम् अवाप्तवत्य: । अस्यां प्रतियोगितायां जनपदपौडीगढ़वालस्य
राजकीयवरिष्ठमाध्यमिकविद्यालयकाण्डाखालस्य
शारीरिकशिक्षकस्य राकेशकण्डवालस्य मार्गदर्शने 35 योगासनक्रीडकै: प्रतियोगितायां भाग: गृहीत: । सार्थककण्डवालेन प्रतियोगितायाम् भागं गृह्णन् त्रिस्वर्णपदकं सम्प्राप्य स्पर्धाविजेतृपदं सम्प्राप्तं।
परमार्थवैदिकगुरुकुलकण्वाश्रमस्य योगासनयोगिभि: अस्यां प्रतियोगितायां भागं गृह्णन् शोभनम् प्रदर्शनं कृत्वा राष्ट्रिययोगासनप्रतियोगितायां स्थानं सुरक्षितं कृतं। अवंतिका, श्रेया, अवनी नेगी, अंजलिनेगी, आद्रिका, संस्कृतिः च ई-टेक्नोमाइण्ड्-इन्स्टिट्यूट्-कोटद्वार-सद्भावना-कालोनी- -शिब्बुनगरं इत्यस्मात् अपि योगासनप्रतियोगितायां भागं गृहीत्वा राष्ट्रियस्तरे स्वस्थानं सुरक्षितं कृतवत्य: ।
#sanskritsamachar