संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः जलसमस्या तन्निवारणं च
🗓२६/०३/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (विश्वे प्रवर्धमानायाः जलसमस्यायाः कारणं किं निवारणं च किम्) एतद्विषयम् अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - प्रतिपदा दोपहर 02:55 तक तत्पश्चात द्वितीय

दिनांक - 26 मार्च 2024
दिन - मंगलवार
अयन - उत्तरायण
ऋतु - वसंत
मास - चैत्र
पक्ष - कृष्ण
नक्षत्र - हस्त दोपहर 01:34 तक तत्पश्चात चित्रा
योग - ध्रुव रात्रि 10:18 तक तत्पश्चात व्याघात
⛅️ राहु काल - शाम 03:49 से 05:21 तक
सूर्योदय - 06:38
सूर्यास्त - 06:53
दिशा शूल - उत्तर
ब्राह्ममुहूर्त - प्रातः 05:04 से 05:51 तक

#panchang
इन्द्रसेना
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)

ऋग्वेदस्य दशममण्डलस्य दशसूक्ते उल्लिखिता अपरा वीरयोधा इन्द्रसेना। नलायनी मुद्गलानी इति अपरनामन्यपि एतस्याः आस्ताम्। विख्यातस्य नलमहाराजस्य पुत्रीयम् ।अश्वहृदयज्ञात् नलमहाराजात् सारथ्यविद्यामधिगतवती।अस्त्रशस्त्रकौशलमपि आत्मसात् कृतवती। एषा भर्म्यश्वभूपालस्य कुमारं मुद्गलं अवृणोत्। अपारगोसम्पदः स्वामिनः मुद्गलस्य धेनून् कदाचित् तस्कराः अपहृतवन्तः।तेषाम् ग्रहणार्थं मुद्गलः प्रस्थितः। तदा इन्द्रसेना एव तस्य सारथ्यं निरूढवती। किञ्चित्कालं यावत् उत्तमतया सारथ्यं ऊढ्वा पश्चात् सेनापतितं स्वीकृत्य शौर्येण अयुध्यत।

शुभ सायं। नमो नमः।
सौ.विजया उल्हासः गोखले।
रोहा,रायगडः।

#streeratnamaala
🌿आशाया ये दासास्ते दासाः सर्वलोकस्य।
आशा येषां दासी तेषां दासायते लोकः।।

🌞ये आशायाः दासाः भूत्वा जीवन्ति ते सर्वस्य लोकस्य दासाः भवन्ति यदि आशां दासीरूपेण स्थापयन्ति चेत् सर्वः लोकः एव तेषां दासः भवति।

🌷जो आशा के दास हैं, वे संपूर्ण लोक के दास हैं तथा आशा जिनकी दासी है, संपूर्ण लोक उनका दास बन जाता है।

#Subhashitam
Live stream scheduled for
गम् धातुः लृट्लकारः कर्मणि प्रयोगस्य प्रथमपुरुषैकवचनस्य रूपं किं भविष्यति।
Anonymous Quiz
64%
गमिष्यते
17%
गंस्यते
13%
गच्छ्यते
7%
गम्ष्यते
https://youtu.be/Qw-FxR2d1UY?si=jj8rWOWd5vgIQngO

उरुगुं धुगुरुं युत्सु चुक्रुशुस्तुष्टुवुः पुरु।
लुलुभुः पुपुषुर्मुत्सु मुमुहुर्नु मुहुर्मुहुः॥

The gods took refuge in Brihaspati, the lord of speech, the preceptor of the gods in heaven, when they went for the battle. They prayed so that he would remain happy and strong, and not withdraw into unconsciousness, again and again.

#Celebrating_Sanskrit
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - वाक्याभ्यासः
🗓२७/०३/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (चित्राणि दृष्ट्वा वाक्यानि वदितव्यानि) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - द्वितीया शाम 05:06 तक तत्पश्चात तृतीया

दिनांक - 27 मार्च 2024
दिन - बुधवार
अयन - उत्तरायण
ऋतु - वसंत
मास - चैत्र
पक्ष - कृष्ण
नक्षत्र - चित्रा शाम 04:16 तक तत्पश्चात स्वाती
योग - व्याघात रात्रि 10:54 तक तत्पश्चात हर्षण
राहु काल - दोपहर 12:45 से 02:17 तक
सूर्योदय - 06:37
सूर्यास्त - 06:53
दिशा शूल - उत्तर
ब्राह्ममुहूर्त - प्रातः 05:03 से 05:50 तक
#panchang
जुहूः
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)

वैदिकमन्त्रद्रष्ट्रीषु ऋषिकासु अन्यतमा जुहूः ब्रह्मणः पुत्री ,देवगुरोः बृहस्पतेः पत्नी च अविद्यत ।एषा सर्वशास्त्रपारङ्गता बृह्मज्ञानपरायणा च आसीत्। ऋग्वेदस्य दशममण्डलस्य १०९ तमसूक्तस्य ऋषिकेयम्।

कदाचित् सोमेन एतस्याः अपहरणं कृत्वा समागमः कृतः । तज्ञात्वा वरुणादयः तां प्रत्यानीय बृहस्पतये प्राददन् । पतितापि सा भर्त्रा वा समाजेन वा न तिरस्कृता । नात्र तस्याः कोऽपि दोषः इति वदतां सप्तर्षीणां वाचमङ्गीकृत्य देवगुरुरपि पुनः तां प्रर्यगृह्णात्।

नारीबलसंवर्धनस्य विचारं कृवतीषु जुहूः आद्या।
'समानगुणविचारभिरुचियुक्तयोः एव विवाहसम्बन्धः भवेत् ,विवाहात् प्राक् वधूवरयोः परस्परं अङ्गीकारः आवश्यकः,विवाहानन्तरं पत्या पत्न्याः हिंसनं त्यागः वा नोचितः ' इत्यादिविचारान् सा प्रत्यपादयत्।

यज्ञविज्ञाने अपारज्ञानं सम्प्राप्तवती एषा तद्विषये बृहस्पतिं बोधितवती। तदनीन्तनकालस्य स्त्रीणां विद्याभ्यासस्तरस्य ,समाजे ताभिः प्राप्तम् औन्नत्यञ्च एषा घटना द्योतयति।


। नमो नमः।
सौ.विजया उल्हासः गोखले,रोहा,रायगडः।

#streeratnamaala
🌿अर्थहीनोऽपि मधुरः शब्दो लोकप्रियङ्करः।
वीणावेणुमृदङ्गादीन्यत्रोदाहरणानि नः।।

🌞निरर्थकः अपि शब्दः यदि मधुरः भवेत् तदा कर्णप्रियः भवति।
उदाहरणार्थ वीणा मृदङ्गादिनां ध्वनिः।
अतः सर्वदा मधुमेह वक्तव्यम्।

🌷निरर्थक शब्द भी यदि मधुर हो तो लोगों को अच्छा लगता है। हम वीणा, मृदंग आदि इसके उदाहरण के रूप में उपस्थित कर सकते हैं।

- सभारञ्जनशतक, २९.

#Subhashitam
Live stream scheduled for