संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
कश्चन पूजकः राजपथे चरन् अन्योन्यं वाग्युद्धं कुर्वतः कांश्चन बालकानपश्यत् । बालकान् वाग्युद्धात् वारयितुम् तानभिससार पप्रच्छ च, “बालकाः, यूयं कुतः इत्थं कलहं कुर्वन्तः स्थ ? किं कारणम्?” इति । तेषु एकः प्रत्यवदत्, “ अयं सुन्दरः ग्रामशुनकः सर्वत्र अटति । वयं सर्वे तम् आबद्ध्य गृहं नेतुं वाञ्छामः । अस्मासु एकेन एव तं नेतुं शक्यं खलु । अतः यः मृषावादे अन्यान् जयति स एव शुनकं गृहं नयेत् इति अस्माभिः निर्णीतम् । इदानीमस्मासु एकैकः अन्यान् मृषावादे जेतुं यतते” इति । पूजकः गंभीरध्वनिना अवदत्, “बालकाः! मा एवम् । अनृतं कदापि न ब्रूयात् । यदा अहं बालः आसं तदा कदापि मया अनृतं नोक्तम्” इति । गतेषु केषुचित् क्षणेषु, बालकेषु यविष्ठः कश्चन तदा अवदत्, “ एष पूजक एव शुनकं नेतुं योग्यः इति भाति । स एव शुनकं नयतु” इति ।

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 ३ फेब्रुवारी २०२३, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज का पञ्चाङ्ग 🚩

🌥️ 🚩 युगाब्द - ५१२४
🌥️ 🚩 शक संवत - १९४४
🌥️ 🚩 विक्रम संवत - २०७९
🚩 तिथि - त्रयोदशी शाम 06:57 तक तत्पश्चात चतुर्दशी


दिनांक - 03 फरवरी 2023
दिन - शुक्रवार

अयन - उत्तरायण
ऋतु - शिशिर
मास - माघ
पक्ष - शुक्ल
नक्षत्र - पुनर्वसु पूर्णरात्रि तक
योग - विष्कम्भ दोपहर 01:02 तक तत्पश्चात प्रीति
राहु काल - सुबह 11:30 से 12:54 तक
सूर्योदय - 07:19
सूर्यास्त - 06:28
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:36 से 06:27 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 ३ फेब्रुवारी २०२३, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃एतदर्थ कुलीनानां नृपाः कुर्वन्ति संग्रहम्।
आदिमध्याऽवसानेषु न त्यजन्ति च ते नृपम्


🔆 श्रेष्ठजनाः सदा सज्जनानां सहवासं कुर्वन्ति यतो हि ते औन्नत्याय सहयोगं कुर्वन्ति तथैव विपरीतसमये सामान्यसमये च न त्यजन्ति।

राजा कुलीन लोगों को साथ इसलिए रखते हैं की सुसंस्कारों की वजह से वे उनकी उन्नति में सहायक होंगे। सामान्य और मुश्किल समय संकट आदि आने पर भी उसका साथ देंगे।

#Subhashitam
संलापशाला
संस्कृत संवादः (Sanskrit Samvadah)
अद्यतनीया संलापशाला
सुभाषितम्
#samlapshala
Live stream scheduled for
संस्कृतभारती Singapore has UPDATED time for daily कथामाला 🙏  NOW at 9:30 pm (Singapore time) starting today - 1st February 2023  https://join.freeconferencecall.com/pdkm 😊 (which is equivalent to 7pm India time)

संस्कृतभारती UK's daily कथामाला (same as earlier - 7:30pm British time)

संस्कृतभारती Canada/US volunteers' daily कथामाला (same as earlier- 9:30pm Eastern time)
क्रैस्तालयपूजकः अम्रियत, स्वर्गद्वारे अन्यैः मृतैः साकं स्वर्गप्रवेशानुमत्यै प्रतीक्षते स्म च। तस्य पुरतः आतपोपनेत्रे वर्णरञ्जितवस्त्रे च धारयमाणः कश्चन आर्यः अपि प्रतीक्षते स्म । स्वर्गद्वारपालकः तमार्यमवदत्, “भोः, कस्त्वम्? कथय । तव स्वर्गप्रवेशयोग्यता अस्ति किमिति परीक्षे “ इति । स आर्यः अवदत्, “ अहं विमानचालकः आसम् । कतिपयवर्षेभ्यः पूर्वम् उद्योगात् निवृत्तः अभवम् “ इति । स्वर्गद्वारपालकः स्मयमानः तमवदत्, “स्वागतं भोः, इमे कौशेयवस्त्रे, इमं सौवर्णदण्डं च गृहाण, स्वर्गे सुखमास्स्व,“ इति ।
अथ द्वारपालकः क्रैस्तालयपूजकं तथैव अपृच्छत् । क्रैस्तालयपूजकः गम्भीरस्वरेण अवदत्, “भोः, अहं त्रयस्त्रिंशत् वर्षात् लंडन्-नगरे जेम्स्-क्रैस्तालयस्य पूजकः आसम्” इति । द्वारपालकः तमवदत्, “ बाढम्, इमे कार्पासवस्त्रे इमं दारुदण्डं च गृहाण । स्वर्गे सुखमास्स्व “ इति । ईषत्कुपितः क्रैस्तालयपूजकः द्वारपालकमपृच्छत्, “अहो, कथमित्थम्? अस्मै विमानचालकाय सौवर्णदण्डं कौशेयवस्त्रे च दत्तानि, मह्यं पूजकाय दारुदण्डं कार्पासवस्त्रे च दत्तानि । इदं न्याय्यं किम्?” । स्मयमानः द्वारपालकः अवोचत्, “ यदा त्वया क्रैस्तालये धर्मोपदेशः कृतः तदा सभ्याः सर्वे अस्वपन्, यदा सः विमानमचालयत् तदा विमानयात्रिकाः सर्वे ईश्वरं प्रार्थयन्त । अत एव सः स्वर्गसुखाय योग्यतरः,” इति ।

~ जी एस् एस् मूर्तिः

#hasya