संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
सन्धिः शब्दस्य लिङ्गं किम्।
Anonymous Quiz
59%
पुल्लिङ्गम्
32%
स्त्रीलिङ्गम्
9%
नपुंसकलिङ्गम्
ओ३म्

संस्कृतानन्दः

बाल्यावस्थायाः शिक्षकान् स्मरामि।
= बाल्यावस्था के शिक्षकों को याद करता हूँ।

प्रथमकक्षायां पठामि स्म तदा मुंशी दीदी माता सदृशी भासते स्म।
= पहली कक्षा में पढ़ता था तब मुंशी दीदी माँ जैसी लगती थीं।

एका लता दीदी अपि आसीत्।
= एक लता दीदी थीं।

लता दीदी बहु स्नेहं ददाति स्म।
= लता दीदी बहुत स्नेह देती थीं।

शब्दस्य सम्यक् उच्चारणं न करोमि स्म चेत् सा पुनः पुनः उच्चारणं कारयति स्म।
= शब्द का सही उच्चारण नहीं करता था तो वे पुनः पुनः उच्चारण कराती थीं।

कदापि कुपिता न भवति स्म।
= कभी गुस्सा नहीं करती थीं।

सुमित्रा दीदी अपि पाठयति स्म।
= सुमित्रा दीदी भी पढ़ाती थीं।

गङ्गा दीदी विज्ञानं पाठयति स्म।
= गंगा दीदी विज्ञान पढ़ाती थीं।

श्यामसिंहः गणितं पाठयति स्म।
= श्यामसिंह जी गणित पढ़ाते थे।

सर्वे शिक्षकाः मयि बहु स्निह्यन्ति स्म।
= सभी शिक्षक मुझे बहुत प्यार करते थे।

अद्य शिक्षकदिवसे अहं सर्वान् शिक्षकान् आदरभावेन वन्दे।
= आज शिक्षक दिवस पर सभी शिक्षकों को आदर भाव से वन्दन करता हूँ।

#vakyabhyas
(तत: प्रविशति तपस्यारत: तपोदत्त:)

तपोदत्त: - अहमस्मि तपोदत्त:। बाल्ये पितृचरणै: क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि। तस्मात् सर्वै: कुटुम्बिभि: मित्रै: ज्ञातिजनैश्च गर्हितोऽभवम्।

(ऊर्ध्वं नि:श्वस्य)

हा विधे! किम् इदं मया कृतम्? कीदृशी दुर्बुद्धि आसीत् तदा। एतदपि न चिन्तितं यत्-

परिधानैरलङ्कारैर्भूषितोऽपि न शोभते।
नरो निर्मणिभोगीव सभायां यदि वा गृहे।।
1।।

(किञ्चिद् विमृश्य)

भवतु, किम् एतेन? दिवसे मार्गभ्रान्त: सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्। नाऽसौ भ्रान्तो मन्यते। अतोऽहम् इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि।

(जलोच्छलनध्वनि: श्रूयते)

अये कुतोऽयं कल्लोलोच्छलनध्वनि:? महामत्स्यो मकरो वा भवेत्। पश्यामि तावत्।
(पुरुषमेकं सिकताभि: सेतुनिर्माण-प्रयासं कुर्वाणं दृष्ट्वा सहासम्)

हन्त! नास्त्यभावो जगति मूर्खाणाम्! तीव्रप्रवाहायां नद्यां मूढोऽयं सिकताभि: सेतुं निर्मातुं प्रयतते!

(साट्टहासं पार्श्वमुपेत्य)
भो महाशय! किमिदं विधीयते! अलमलं तव श्रमेण। पश्य,

रामो बबन्ध यं सेतुं शिलाभिर्मकरालये।
विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्।।
2।।

चिन्तय तावत्। सिकताभि: क्वचित्सेतु: कर्तुं युज्यते?

पुरुष: - भोस्तपस्विन्! कथं माम् अवरोधं करोषि। प्रयत्नेन किं न सिद्धं भवति? कावश्यकता शिलानाम्? सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढतया।

तपोदत्त: - आश्चर्यम् किम् सिकताभिरेव सेतुं करिष्यसि? सिकता जलप्रवाहे स्थास्यन्ति किम्? भवता चिन्तितं न वा?

पुरुष: - (सोत्प्रासम्) चिन्तितं चिन्तितम्। सम्यक् चिन्तितम्। नाहं सोपानसहायतया अधि- रोढुं विश्वसिमि। समुत्प्लुत्यैव गन्तुं क्षमोऽस्मि।

तपोदत्त: - (सव्यङ्ग्यम्)
साधु साधु! आञ्जनेयमप्यतिक्रामसि!

पुरुष: - (सविमर्शम्)
कोऽत्र सन्देह:? किञ्च,

विना लिप्यक्षरज्ञानं तपोभिरेव केवलम्।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम।।
3।।

तपोदत्त: - (सवैलक्ष्यम् आत्मगतम्)
अये! मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति! नूनं सत्यमत्र पश्यामि। अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि! तदियं भगवत्या: शारदाया अवमानना। गुरुगृहं गत्वैव विद्याभ्यासो मया करणीय:। पुरुषार्थैरेव लक्ष्यं प्राप्यते।

(प्रकाशम्)

भो नरोत्तम! नाऽहं जाने यत् कोऽस्ति भवान्। परन्तु भवद्भि: उन्मीलितं मे नयनयुगलम्। तपोमात्रेण विद्यामवाप्तुं प्रयतमान: अहमपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि। तदिदानीं विद्याध्ययनाय गुरुकुलमेव गच्छामि।

(सप्रणामं गच्छति)

#samvadah
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰शतृस्त्रीलिङ्गाभ्यासः
🗓 19th सितम्बर 2022, सोमवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
हास्यम्...

एकस्मिन् वर्गे एकः शिक्षकः गणितविषयस्य पाठनं करोति स्म । तदा वर्गे निरीक्षकः आगतः ।

तेन एकं छात्रं पृष्टं, “त्रीणि गुणितं पञ्च ( 3 x 5 ) कति” ? उत्तरम् आगतं , “त्रयोदश (13)।”

अनुक्षणं शिक्षकः छात्रम् उक्तवान् , “वरं, प्रगतिः अस्ति भवतः” ।

चकितः निरीक्षकः शिक्षकं पृष्टवान् , “महोदय ! एतस्य छात्रस्य उत्तरम् अयोग्यम् । तर्हि भवान् ‘प्रगतिः’ इति कथं वक्तुं शक्नोति ?”

शिक्षकः उत्तरितवान् , “महोदय , गतसमये एतेन छात्रेण एतस्य एव प्रश्नस्य उत्तरम् ‘एकादश (11)’ इति दत्तम् आसीत् । इदानीं सः ‘त्रयोदश’ इति उक्त्वा योग्यस्य उत्तरस्य समीपम् आगतवान् । एषा प्रगतिः न किम् ?”

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 क्रीडापरिचयः
🗓 20th सितम्बर 2022, मंगलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्याश्चित् क्रीडायाः विवरणं संस्कृतेन कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - दशमी रात्रि 09:26 तक तत्पश्चात एकादशी

दिनांक - 20 सितम्बर 2022
दिन - मंगलवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - पुर्नवसु रात्रि 09:07 तक तत्पश्चात पुष्य
योग - वरियान सुबह 08:25 तक तत्पश्चात परिघ
राहु काल - अपरान्ह 03:36 से 05:05 तक
सूर्योदय - 06:28
सूर्यास्त - 06:38
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:53 से 05:40 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 क्रीडापरिचयः
🗓 20th सितम्बर 2022, मंगलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्याश्चित् क्रीडायाः विवरणं संस्कृतेन कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃शून्यमापूर्णतामेति मृत्युरप्यमृतायते ।
आपत्सम्पदिवाभाति, विद्वज्जन-समागमात्

(योगवाशिष्ठसारः )

The zero turns into completeness, even the death turns into immorality, calamity appears to be prosperity when wise people assemble!

🔅शून्यं स्वस्मिन् पूर्णत्वं प्राप्नोति तथा मृत्युः अपि अमरतां प्राप्नोति तथैव समस्याः समृद्धिवत् प्रतिभान्ति यदा बुद्धिमन्तः एकत्र भवन्ति।

#Subhashitam