संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
ओ३म्

संस्कृताभ्यासः

वयं न स्मः
= हम सब नहीं हैं।

वयं पाकिस्तानिनः न स्मः।
= हम पाकिस्तानी नहीं हैं।

वयं दुर्बलाः न स्मः।
= हम सब दुर्बल नहीं हैं।

वयं वञ्चकाः न स्मः।
= हम ठग नहीं हैं।

ते न सन्ति।
= वे नहीं हैं। (पुंलिङ्ग)

ताः न सन्ति।
= वे नहीं हैं । ( स्त्रीलिंग)

तानि न सन्ति।
= वो नहीं हैं ( नपुंसकलिंग)

ते वृद्धाः न सन्ति।
= वे वृद्ध नहीं हैं।

ते मूर्खाः न सन्ति।
= वे मूर्ख नहीं हैं।

ते निर्दोषाः न सन्ति।
= वे निर्दोष नहीं हैं।

ताः सामान्याः युवत्यः न सन्ति।
= वे सामान्य युवतियाँ नहीं हैं।

ताः नृत्याङ्गनाः न सन्ति।
= वे नृत्यांगनाएँ नहीं हैं।

ताः अशिक्षिताः न सन्ति।
= वे अशिक्षित नहीं हैं।

तानि फलानि मधुराणि न सन्ति।
= वे फल मीठे नहीं हैं।

तानि पुस्तकानि भवतः न सन्ति।
= वो पुस्तकें आपकी नहीं हैं।

तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।
= इसी प्रकार सरल वाक्यों का अभ्यास करें।


ओ३म्
संस्कृताभ्यासः

अहं भविष्यामि
= मैं होऊँगा / हो जाऊँगा

अहं जागृतः भविष्यामि।
= मैं जाग जाऊँगा।

अहं स्वस्थः भविष्यामि।
= मैं स्वस्थ हो जाऊँगा।

अहं निपुणः भविष्यामि।
= मैं निपुण हो जाऊँगा।

अहं धनिकः भविष्यामि।
= मैं धनवान बन जाऊँगा।

अहं लेखकः भविष्यामि
= मैं लेखक बनूँगा।

अहं लेखिका भविष्यामि।
= मैं लेखिका बनूँगी।

सः भविष्यति
= वह होगा (पुंलिङ्ग)

सा भविष्यति
= वह होगी (स्त्रीलिंग)

एषः भविष्यति
= यह होगी (पुंलिङ्ग)

एषा भविष्यति
= यह होगी (स्त्रीलिंग)

सः प्रसन्नः भविष्यति
= वह प्रसन्न होगा।

सा प्रसन्ना भविष्यति
= वह खुश होगी।

विजयः उत्तीर्णः भविष्यति।
= विजय उत्तीर्ण होगा।

सुरभिः उत्तीर्णा भविष्यति।
= सुरभि उत्तीर्ण होगी।

तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।
= इसी प्रकार सरल वाक्यों का अभ्यास करें।


ओ३म्
संस्कृताभ्यासः

अहं गच्छामि
= मैं जाता हूँ।

अधुना अहं गच्छामि
= अब मैं जा रहा हूँ।

अधुना अहं पुलवामां गच्छामि।
= अभी मैं पुलवामा जा रहा हूँ।

प्रतिदिनम् अहं कार्यालयं गच्छामि।
= प्रतिदिन मैं कार्यालय जाता हूँ।

अहं स्नानं कर्तुं गच्छामि।
= मैं स्नान करने जा रहा हूँ।

अहं चिकित्सालयं न गच्छामि।
= मैं चिकित्सालय नहीं जाता हूँ।

इदानीं रागिणी अल्मोड़ां गच्छति।
= अभी रागिणी अल्मोड़ा जा रही है।

श्रेया भोजनालयं न गच्छति।
= श्रेया भोजनालय नहीं जाती है।

सञ्जयः कुरुक्षेत्रं गच्छति।
= संजय कुरुक्षेत्र जाता है।

छात्रः विद्यालयं गच्छति।
= छात्र विद्यालय जा रहा है।

भवान् किमर्थं न गच्छति ?
= आप क्यों नहीं जा रहे हैं ?

भवती किमर्थं न गच्छति ?
= आप क्यों नहीं जा रही हैं ?

#vakyabhyas
Courtesy: Dr. Shivani Sharma
समस्यापूर्तिश्लोकाः

।।गोपाङ्गनालिङ्गितः ।।

श्रीकृष्णो ननु भारतेऽवतरितः कंसस्य कारागृहे
देवोऽयं वसुदेवगोपतनुजः श्रीदेवकीनन्दनः ।
प्राप्तश्चैव यशोदया परमया भक्त्या च बालस्तथा
ज्ञातोऽयं निजपुत्ररूपकशिशु-र्गोपाङ्गनालिङ्गितः ।।१।।

ज्ञातो हि व्रजमण्डले सुरनरैः बालश्च कृष्णो यथा
आनन्दोत्सव एव सुन्दरतमो नन्देन चायोजितः ।
तस्मिन्नुत्सवमङ्गले सुललिते सर्वाश्च गोपाङ्गना
दृष्ट्वा दिव्यमयं मुखं सुकमलं गोपाङ्गनालिङ्गितः ।।२।।

गोलोके स करोति बालचपलो लीलां मनोहारिणीं
दृष्ट्वा बालमुकुन्दरूपविमलं गीतानि गायन्ति ताः ।
धावन्तं नवनीतचोरकुहकं पश्यन्ति वै गोपिकाः
श्रीवंशीधरबालगोकुलवरो गोपाङ्गनालिङ्गितः ।।३।।

आसारं स चकार गोकुलपुरे शक्रोऽभिमानी हि यो
गर्वं तस्य जहार दानवहरो दामोदरो माधवः ।
अङ्गुल्यां तु दधार पर्वतमिमं गोलोकभद्राय वै
गोपालो ननु बालको गिरिधरो गोपाङ्गनालिङ्गितः ।।४।।

दैत्यान् यश्च जघान गोकुलपतिर्लक्ष्मीपतिः श्रीपति-
र्यो गोपैः सह कानने भ्रमितवान् गोचारणार्थं यथा ।
रासं यः कृतवान्यथा स रमणः पीताम्बरः श्रीकरः
गोपीनाथवरस्सुपङ्कजधरो गोपाङ्गनालिङ्गितः ।।५।।

गोपास्ते बहवो हि सन्ति सरलाः मित्राणि कृष्णस्य वै
राधाया ननु गोपिका विमलकाः सख्यस्तु सन्त्येव हि ।
द्रोण्यां मिश्रितवर्णपूरकजलं तद्धोलिकापर्वणि
वर्णं क्षेपितवान्यदा यदुवरो गोपाङ्गनालिङ्गितः ।।६।।

अक्रूरो ब्रजमण्डलं प्रति गतो नेतुं च कृष्णं यदा
प्राणा यान्ति यथा तनोः प्रियकराः पित्रोस्तथा वै स्थितिः ।
श्रुत्वा वाचमिमं च गोकुलजनाः खिन्नास्तथा व्याकुला
गोपालो ननु दृष्टवान् सुविविधान्गोपाङ्गनालिङ्गितः ।।७।।

गच्छन्तं किल गोपवर्यचपलं गोप्यो ददर्शुर्यदा
मार्गे ताश्शयिताश्च गोपदयिताः सर्वा रथस्याग्रतः ।
दूरात्पश्यति राधिका नटवरं नाथं मुकुन्दं यथा
कृष्णो धावितवांश्च तां प्रति यदा गोपाङ्गनालिङ्गितः ।।८।।

कंसं यश्च जघान नन्दतनयो देवास्तदा हर्षिताः
श्रीमातामह उग्रसेनकुशलो राजा तु जातस्तदा ।
यो मातापितरौ मुमोच भगवान् श्रीवासुदेवो यथा
ध्यायन्त्या मनसा तथा ललितया गोपाङ्गनालिङ्गितः ।।९।।

ज्ञानं शुष्कमयं सदा हि विमलं भक्त्या विना सर्वथा
तज्ज्ञानं किल बोधनाय परमं येनोद्धवः प्रेषितः ।
गोपीभिर्गदितो हि कृष्णसुसखा तद्ब्रह्मरूपं तथा
यो गोपीषु विराजते यदुवरो गोपाङ्गनालिङ्गितः ।।१०।।

यो गोपीषु शिवानि! तिष्ठति सदा श्रीमाधवः श्रीधरः
दृष्ट्वा गोपतिनाथरूपमतुलं तृप्तस्तदा ह्युद्धवः ।
तद्भक्तेः सुजलेन सिञ्चितमिदं ज्ञानं महत्कारकं
श्रीकृष्णो ननु राधिकादिसहितं गोपाङ्गनालिङ्गितः ।।११।।
(शार्दूलविक्रीडितं छन्दः)
डा. शिवानी शर्मा आत्रेयी, ढाटरथग्रामः, जयन्तीपुरं, हरियाणाराज्यम् ।

GopAnganAlingitaH - Sanskrit poem
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा।
यायास्संलापशालां वै, भवति यत्र भाषणम्।।

45 निमेषाः
🕚 IST 11:00 AM
🔰विश्वपर्यावरणदिवसः
🗓06th june 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (वयं स्वस्तरे भूत्वा पर्यावरणसंर्क्षणाय किं कर्तुं शक्नुमः) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते
।।14.25।।

♦️manapamanayostulyastulyo mitraripaksayoh.
sarvarambhaparityagi gunatitah sa ucyate৷৷14.25৷৷

Who is the same in honour and dishonour, the same to friend and foe, abandoning all undertakings he is said to have transcended the alities.(14.25)

जो मान और अपमान में सम है शत्रु और मित्र के पक्ष में भी सम है ऐसा सर्वारम्भ परित्यागी पुरुष गुणातीत कहा जाता है।।14.25।।

#geeta
🍃मां च योऽव्यभिचारेण भक्ितयोगेन सेवते।
स गुणान्समतीत्यैतान् ब्रह्मभूयाय कल्पते
।।14.26।।

♦️man ca yovyabhicarena bhakitayogena sevate.
sa gunansamatityaitan brahmabhuyaya kalpate৷৷14.26৷৷

And he who serves Me with unswerving devotion, he, crossing beyond the alities, is fit for becoming Brahman.(14.26)

जो पुरुष अव्यभिचारी भक्तियोग के द्वारा मेरी सेवा अर्थात् उपासना करता है वह इन तीनों गुणों के अतीत होकर ब्रह्म बनने के लिये योग्य हो जाता है।।14.26।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - षष्टी सुबह 06:39 तक तत्पश्चात सप्तमी

दिनांक 06 जून 2022
दिन - सोमवार
शक संवत - 1944
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - शुक्ल
नक्षत्र - मघा रात्रि 02:26 तक तत्पश्चात पूर्वाफाल्गुनी
योग - हर्षण ( 07 जून प्रातः 04:53) तक तत्पश्चात वज्र
राहुकाल - सुबह 07:35 से 09:16 तक
सूर्योदय - 05:53
सूर्यास्त - 07:23
दिशाशूल - पश्चिम दिशा में
ब्रह्म मुहूर्त- प्रातः 04:29 से 05:11 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा।
यायास्संलापशालां वै, भवति यत्र भाषणम्।।

45 निमेषाः
🕚 IST 11:00 AM
🔰विश्वपर्यावरणदिवसः
🗓06th june 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (वयं स्वस्तरे भूत्वा पर्यावरणसंर्क्षणाय किं कर्तुं शक्नुमः) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
https://youtu.be/F8lcMPok-So
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃यादृशैः संविवदते यादृशांश्चोपसेवते।
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः


मनुष्य जिससे निरन्तर संवाद करता है, जिसकी सेवा करता है तथा जिसके जैसा बनना चाहता है - वैसा ही बनता है।

A man becomes like the one he converses with, like the one he serves and like the one he wishes to be. - विदुरनीतिः

🔅मनुष्यः यैः सह संवादं करोति, येषां सेवां करोति, येषां सदृशः भवितुम् इच्छति तादृशः भवति।

#Subhashitam
अस्मिन् ______ बहवः जनाः सन्ति।
Anonymous Quiz
4%
विश्वं
75%
विश्वे
15%
विश्वेषु
6%
विश्वस्मिन्