संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Saturday, September 11, 2021
बहिराकाशनिलये चलनचित्रं ग्रहीतुं रष्यः।
मोस्को> अन्ताराष्ट्रियबहिराकाशनिलये प्रथमं चलनचित्रं निर्मातुं सज्जतां प्राप्नोति रष्ययः। नटी युलिया पेरेसिल्ड् तथा चित्रोत्पादकेन क्लिं षिपेन्को सहितेन चलनचित्रकाराणां संघः ओक्टोबर् मासे पञ्चमे दिने बहिराकाशनिलयं प्रति प्रस्थास्यति। साहाय्यार्थं अन्ये द्वे, रष्यायाः बहिराकाशयात्रिकः लैग् आर्तेमिये च संघे भविष्यतः। सोयस् एम् एस्१८ आकाशबाणः एव संघं बहिराकाशनिलयं प्रति नयति। बहिराकाशनिलये प्रथमतया चित्रीकरिष्यमाणस्य चलनचित्रस्य चलञ्च् इति नाम दत्तमस्ति इति रष्यायस्य रोस्कोस्मस् नाम बहिराकाश -विज्ञापनसंस्थया अवेदितम्। भूमौ प्रत्यागन्तुम् अपि अशक्यं रोगबाधितं यात्रिकं शस्त्रक्रियां कर्तुं नियुक्तायाः वनिताभिषक्वरायाः कथा एव चलनचित्रस्य प्रतिपाद्यमिति रष्यस्य आर् ऐ ए नाम वार्तामाध्यमेन प्रतिवेदितम्।
केरले कोविडः नियन्त्रणे ; लाघवं प्रख्यापितम्।
अनन्तपुरी> अस्य मासस्य प्रारम्भादारभ्य केरलस्य कोविडप्रकरणेषु न्यूनता दृश्यते। अष्टादशाधिकं प्राप्तं टि पि आर् मानं साप्ताहिकं यावत् १६.५ इति क्रमेण आकुञ्चितम्। अतः सर्वकारेण केषुचित् मण्डलेषु लाघवं विज्ञापितम्।
रविवासरेषु अनुवर्तितं पिधानम् अपाकृतम्। ओक्टोबरमासस्य चतुर्थे दिनाङ्के कलालयाः व्यवस्थां परिपाल्य उद्घाटयिष्यन्ते। ततः पूर्वम् अध्यापकानां छात्राणां च वाक्सिनीकरणं पूर्तीकरिष्यति इति सर्वकारेण उक्तम्।
तालिबानेन सह चर्चा अनुवर्तनीया - यू एन्।
यूनाइटेड् नेषन्स्> अफ्गानजनतायाः हितं संरक्षणं च पुरस्कृत्य तालिबानेन सह निरन्तरचर्चा अनुवर्तनीया इति यू एन् प्रतिनिधिसभा राष्ट्रगणं प्रति निरदिशत्। सचिवप्रमुखः अन्टोणियो गुट्टरसः उक्तवान् यत् अफ्गानजनतां प्रति ऐक्यदार्ढ्यं विज्ञाप्य जनहिततत्वेषु संस्थाय चर्चाः अनुवर्तयितुं अन्ताराष्ट्रसमूहः सज्जः भवेत्।
आर्थिकभञ्जनेन अफ्गानिस्थाने लक्षशः जनानां मृतिमपाकर्तुं राष्ट्राणि यतेयुरिति सभया अपेक्षितम्। तालिबानेन प्रख्यापितः नूतनसर्वकारः संतृप्तिं न प्रददातीति सभया सूचितम्। ~ संप्रति वार्ता
Audio
संस्कृत साप्ताहिकी ११ सिप्तम्बर
🍃द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्
।।1.18।।

♦️drupado draupadeyaashcha sarvashaH pRRithiviipate|
saubhadrashcha mahaabaahuH sha~NkhaandadhmuH pRRithakpRRithak||1.18||

1.18. Drupada and the sons of Draupadi, O Lord of the earth, and the son of Subhadra, the mighty-armed, blew their conches separately.

।।1.18।।हे राजन् राजा द्रुपद द्रौपदी के पुत्र और महाबाहु सौभद्र (अभिमन्यु) इन सब ने अलगअलग शंख बजाये।

#Geeta
Audio
श्रीमद्भगवद्गीता [01.18]
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२३
🌥️ 🚩विक्रम संवत-२०७८
🚩तिथि - षष्ठी शाम ०५:२१ तक तत्पश्चात सप्तमी

दिनांक - १२ सितम्बर २०२१
दिन - रविवार
शक संवत - १९४३
अयन - दक्षिणायन
ऋतु - शरद
मास-भाद्रपद
पक्ष - शुक्ल
नक्षत्र - विशाखा सुबह ०९:५० तक तत्पश्चात अनुराधा
योग - वैधृति सुबह ११:४४ तक तत्पश्चात विष्कंभ
राहुकाल - शाम ०५:१२ से शाम ०६:४५ तक
सूर्योदय - ०६:२६
सूर्यास्त - १८:४३
दिशाशूल - पश्चिम दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes Sanskrit news. https://youtu.be/F-tQOyCD9xM
⚠️ आवश्यक सूचना⚠️
कल से प्रतिदिन दो भगवद्गीता श्लोक भेजे जायेंगे। प्रथम सुबह 4:45 (ब्रह्म मुहूर्त) और द्वितीय रात 9:00 (पुष्य मुहूर्त) में।
आशा है आपलोग प्रतिदिन अवश्य पढ़कर इस स्वर्णिम अवसर का लाभ उठायेंगे

⚠️ An Important Announcement⚠️
From tomorrow onwards two Bhagvadgeeta Shlokas would be sent everyday. First, 4:45 AM (Brahma Muhurat) and Second 9:00 PM (Pushya Muhurat).
Hope You will certainly read the shlokas grabbing this golden opportunity.

Time is Ujjain Standard time
ओ३म्

706. संस्कृत वाक्याभ्यासः

वीरयुयुत्सुः अभिनन्दन् ।

अरिहन्ता योद्धा अभिनन्दन्।

निर्भीकः अचलः अभिनन्दन्।

रिपुविमानपातकः अभिनन्दन्।

संग्रामविजेता अभिनन्दन् ।

तव मनसा वचसा अभिनन्दन् ।

तव भूयोभूयः अभिनन्दन्।

आसेतुहिमालये अभिनन्दन्।

भारतमातुः पुत्रः अभिनन्दन् ।

भारतभूमौ अद्य तव अभिनन्दन्।

ओ३म्

707. संस्कृत वाक्याभ्यासः

युद्धं योद्धाभिः युध्यते।
= युद्ध योद्धाओं द्वारा लड़ा जाता है

वयं तु नागरिकाः स्मः।
= हम तो नागरिक हैं।

वयं तु न युध्यामहे।
= हम तो नहीं लड़ते हैं।

समराङ्गणे वयं स्थातुम् अपि न शक्नुमः।
= युद्ध के मैदान में हम खड़े भी नहीं हो सकते हैं।

शस्त्रं कदा , कुत्र , कथं च प्रयोजनीयं तद् वयं न जानीमः ।
= शस्त्र का कब , कहाँ और कैसे प्रयोग किया जाए यह हम नहीं जानते हैं।

अस्माभिः केवलं नागरिकभावेन आचरणीयम् ।
= हमें केवल नागरिक भाव से आचरण करना चाहिये।

सेनां प्रति अस्माकम् अपि कर्तव्यानि सन्ति।
= सेना के प्रति हमारे भी कर्तव्य हैं।

मिथ्या सूचना कदापि न प्रसारणीया।
= गलत सूचना नहीं फैलानी चाहिये।

सामाजिकं सौहार्दं वर्धनाय यतनीयम् ।
= सामाजिक सौहार्द बढ़ाने के लिये यत्न करना चाहिये।

युद्धसमये वस्तूनां मूल्यं वर्धते एव।
= युद्ध के समय वस्तुओं का मूल्य बढ़ता ही है।

मूल्यं वर्धते चेत् चिन्ता न करणीया।
= मूल्य बढ़ता है तो चिन्ता न करें।

राष्ट्रसेवार्थं तत्पराः भवितव्यम् ।
= राष्ट्र सेवा के लिये तत्पर रहना चाहिये।

प्रशासनम् अस्मत् यत्किमपि अपेक्षते तद् अस्माभिः करणीयम् ।
= प्रशासन हमसे जो अपेक्षा करे वो हमें करना चाहिये।

ओ३म्

708. संस्कृत वाक्याभ्यासः

वयम् आश्वस्ताः आस्म।
= हम आश्वस्त थे।

मनसि पूर्णः विश्वासः आसीत्।
= मन में पूरा विश्वास था।

सैन्य प्रतिक्रिया भविष्यति एव।
= सैन्य प्रतिक्रिया होगी ही ।

ह्यः अस्माकं वायुयानानि पाकिस्थानं प्रविष्टानि।
= कल हमारे विमान पाकिस्तान में प्रविष्ट हुए।

द्वादश यानानि उड्डीय ख़ैबरप्रान्त पर्यन्तं गतानि।
= बारह विमान उड़कर ख़ैबर प्रान्त तक गए।

पर्वतीयविस्तारे बालाकोट ग्रामः अस्ति।
= पर्वतीय विस्तार में बालाकोट गाँव है।

तत्र प्रायः चतुश्शतम् आतंकवादिनः आसन्।
= वहाँ लगभग चार सौ आतंकवादी थे।

तत्र अस्माकं वायुसैनिकाः अग्न्यस्त्रं क्षिप्तवन्तः।
= वहाँ हमारे सैनिकों ने बम गिराए।

आतंककेन्द्राणि ध्वस्तानि कृतानि।
= आतंक के केंद्र ध्वस्त किये।

अस्माकं वीराः सुरक्षितैह प्रत्यागतवन्तः।
= हमारे वीर सुरक्षित लौट आए।

जयतु वीरभारतीयाः


#vakyabhyas
*जरासन्धवधः।*

इन्द्रप्रस्थस्य निर्माणात् परं युधिष्ठिरः राजसूययज्ञस्य आयोजनम् अकरोत्। तस्मिन् यज्ञे श्रीकृष्णः सहभागं गृह्णातु सत्परामर्शमपि ददातु तदर्थं युधिष्ठिरः श्रीकृष्णमपि आह्वयत्।

भगवान् श्रीकृष्णः तत्र आगत्य यज्ञस्य समर्थनम् अकरोत्, परन्तु श्रीकृष्णः युधिष्ठिरम् अवदत् आदौ अत्याचारिणः ये राजानः सन्ति तेषां विनाशः भवेत्, तदा हि राजसूययज्ञस्य महत्त्वं तिष्ठेत्, अपिच देश-विदेशेषु च यज्ञस्य प्रसिद्धिः भवेत्।

सर्वप्रथमं जरासन्धस्य उपरि आक्रमणं भवतु इत्यस्य उपदेशं श्रीकृष्णः युधिष्ठिराय अददात्।

तदनन्तरं श्रीकृष्णः अर्जुनेन भीमेन च सह मगधाय प्रस्थितवान्, शीघ्रं च ते सर्वे मगधस्य राजधानीं गिरिब्रजं प्राप्नुवन्।

भगवतः श्रीकृष्णस्य नीतिः सफला अभवत्। सः भीमेन जरासन्धम् अघातयत्।

जरासन्धस्य मृत्योः परं भगवान् श्रीकृष्णः तस्य पुत्रं सहदेवं मगधस्य राजानम् अकरोत्। तदानीं च जरासन्धस्य कारागारे ये राजानः बन्दीरूपेण आसन् तान् सर्वान् ततः विमुच्य तेभ्यः स्व-स्वराज्यं प्रत्यर्पयत्।

एवं प्रकारेण भगवान् श्रीकृष्णः समाजे बहुधा ख्यातिम् अलभत।
*-प्रदीपः!*
Sunday, September 12, 2021
आतङ्कवादः प्रतिरुध्यते इति भारतम् आस्ट्रेलिया च।
नवदिल्ली> अफ्गानिस्थाने तालिबानेन उन्नीतानि वैरनिर्यातनानि आगोलभीकरतां च युगपद् प्रतिरोद्धुं भारत - आस्ट्रेलिया राष्ट्रयोर्मध्ये निर्णयः जातः। भारत-पसफिक् मण्डले निर्व्याजः स्वतन्त्रः च नीतिमार्गः रूपीकरणीयः इति उभयोः राष्ट्रयोः मन्त्रितलचर्चायां निर्णयोSभवत्।
भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः रक्षामन्त्री राजनाथसिंहः. आस्ट्रेलियायाः विदेशकार्यमन्त्री मारिस् पेयिनः रक्षामन्त्री पीटर् डट्टणश्च चर्चायां भागभागित्वं कृतवन्तः।
भारत-प्रशासनेन खाद्य-तैलानाम् मानकमूल्यानि न्यूनीकृतानि
नवदिल्ली> केन्द्र-प्रशासनेन उपभोक्तृभ्यः उचितमूल्येषू खाद्य-तैलानाम् उपलब्धता सुनिश्चेतुं क्रूड- पाम सोयाबीन-सूरजमुखी इत्येषां तैलेषु मानक-दरः अपचीय द्वि दशमलव पञ्च- प्रतिशतन्मिता कृता अस्ति। नूतनमूल्यानि शनिवारात् प्रभावितानि जातानि। वर्तमान-वर्षे अन्ताराष्ट्रियस्तरे राष्टिय-स्तरे खाद्य-तेलानां मूल्येषु वृद्धिः अभवत्। या हि मुद्रास्फीतेः उपभोक्तृणां च संदर्भे चिन्तायाः विषयः अस्ति। खाद्यतैलेषु आयात-शुल्कम् एकं महत्वपूर्णं कारकम् अस्ति यस्य प्रभावः खाद्यतैलानां मूल्येषु दृष्टः। मूल्यवृद्धेः प्रभावम् अपाकर्तुं अस्मिन् वर्षे फरवरी मासात् अगस्त मासं यावत् नैके पदक्षेपाः उत्थापिताः।
नवदिल्ल्यां विमानपत्तने जलसञ्चयः।
अतिवृष्ट्या विमानसेवायां विध्नः अभवत्।।
नवदिल्ली> अतिवृष्टिकारणेन नवदिल्ल्यां इन्दिरागान्धि विमानपत्तने विविधेषु भागेषु जलसञ्चयः जातः। ४६ संवत्सराभ्यन्तरे जाता अत्युच्चतमा वृष्टिरेव रेखाङ्‌किता। शुक्रवासरे नवदिल्ल्यां १००० एम् एम् वृष्टिः एव वर्षिता। वातावरणं विमानसेवाम् अबाधत। इन्डिगो, स्पैस् जेटट् प्रभृतयः विमानसंस्थाभिः गृहतः विमाननिलयागमनात् पूर्वं विमानस्थितिः (flight status) द्रष्टव्या इति यात्रिकाः समभ्यर्थिताः । आकस्मिकतया जातः घोरवर्षा एव जलसञ्चयस्य कारणं, समस्याः परिहृताः इति नवदिल्ल्याः विमानपत्तनाधिकारिभिः ट्विट्टर् माध्यमेन संवेदितम्। ~ संप्रति वार्ता