संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : World Sanskritday Celebration @samskrt_samvadah on 22nd August2021
Date : 20th August 2021 ; Friday
Pls share your ideas on how best we can celebrate the day meant for Sanskrit.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
गतदिवसे हिमाचलप्रदेशे संस्कृतसप्ताहस्य शुभारम्भ: हर्षोल्ल्लासेन मानित:। अस्मिन्नावसरे प्रदेशस्य शिक्षामन्त्रिणा गोविंदठाकुरेण सर्वेभ्यः शुभकामना: प्रदत्ताः।
गतदिवसे हिमाचल- संस्कृत- अकादमी, समग्र- शिक्षा- अभियानम् हिमाचल-प्रदेश: हिमाचल- राजकीय- संस्कृत- शिक्षक- परिषद् चेत्येतेषां संयुक्तोपक्रमे आयोज्यमानस्य संस्कृतसप्ताहस्य माङ्गलिक: शुभारम्भ: अकादम्या: सचिवेन डॉ केशवानंदकौशलेन कृतम्, समग्र-शिक्षा-अभियानम् इत्यस्य शिक्षण-प्रशिक्षण प्रभारी डॉ मंजुला शर्मा महोदयया विशिष्टातिथि- उद्बोधने कार्यक्रमस्य प्रशंसा कृता। कार्यक्रमे मालिनीशर्मा द्वारा संस्कृतस्वागतगीतम्, डॉ अमनदीपशर्मा द्वारा सरस्वती वन्दना, शिवकुमार शर्मा द्वारा च भारतजनताऽहम् इति गीतम् प्रस्तुतम्।
भारतदेशस्य प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना संस्कृतसप्ताहस्योपलक्ष्ये सर्वेभ्य: लिखितशुभकामना: प्रदत्ता: । प्रधानमन्त्रिणा कथितं यत् "एष: आनन्दस्य विषय: अस्ति अद्य तन्त्रज्ञानस्य माध्यमेन संस्कृतम् अधिकाधिकान् जनान् सहजतया प्राप्नुवत् अस्ति। विश्वे सर्वत्र संस्कृतभाषां प्रति जनानाम् अनुराग: नितरां वर्धते।
पँजाबप्रान्ते विद्यालयशिक्षायाम् संस्कृतस्य संभावना इति विषये एकदिवसीयाया: अन्तर्जाल- संगोष्ठ्याः आयोजनम् जातम्। कार्यक्रमेऽस्मिन् श्रीमान् देशराजशर्मा मुख्यातिथि:, श्रीमान् दिनेशकामतमहोदयश्च मुख्यवक्तारूपेण उपस्थित: आसीत्।
हिमाचल-प्रदेश-कर्मचारी-चयन-आयोग-हमीरपुर-द्वारा उद्घोषितम् यत् अगस्त मासस्य विंशतिः दिनाङ्के निर्धारिता टीजीटी (आर्ट्स) इत्यस्य पञ्चदश-अङ्कानां मूल्यांकन-प्रक्रिया, जूनियर ऑफिस असिस्टेंट इत्यस्य च टंकण-परीक्षा यथासमयम् एव भविष्यति। आयोगस्य सचिव-डॉ जितेंद्र-कंवर-महोदयेन कथितं यत्- सोशलमीडियामध्ये भ्रामक- सूचनानां अभ्यार्थिनः अनुपालनं मा कुर्युः।
हिमाचलप्रदेशे अग्रिमे मासे छात्राणां कृते मेलिष्यन्ति स्यूतकानि। एतानि स्यूतकानि शिक्षाविभागपक्षत: प्रदास्यन्ते।
मुख्यमंत्री-जयराम-ठाकुरेण हिमाचलप्रदेशस्य "चम्बा" जनपदस्य जनजातीय-क्षेत्रं "पाङ्गी-घाटी" इत्यस्य पर्यटन-स्थलानां मानचित्रस्य विमोचनं कृतम्, अस्य मानचित्रस्य निर्माणं सेवा-संस्थया कृतम्। अनेन "पाङ्गी" इत्यस्मिन् स्थले पर्यटकानां वृद्धि: भविष्यति। अवसरेऽस्मिन् लोकसभा- सांसद- सुरेशकश्यप:, विधानसभाया: अध्यक्षः हंसराज:, विधायक: जियालाल- कपूरसहितम् अन्ये गणमान्याः उपस्थिताः आसन्।
हरियाणा विधानसभायाः मानसून-सत्रम् "अगस्त"मासस्य विंशतिः दिनाङ्कतः प्रारभ्यते। सत्रेऽस्मिन् विपक्ष: आक्रामकतायाः सङ्केतम् दत्तवान्। एवं प्रतीयते यत् सत्रेऽस्मिन् विपक्षस्य पार्श्वे पेगासस, कृषकाणां-आन्दोलनम्, अपराधः, बेरोजगारी इत्यादयः प्रमुखाः विषयाः सन्ति येन कोलाहलं भविष्यति।
"मशरूम" इत्यस्य उत्पादने हिमाचलप्रदेशः आभारतं पञ्चमं स्थानम् प्राप्तवान्। प्राप्त सूचनानुसारं कोविड काले "मशरूम" इत्यस्य उत्पादने व्यापारे च वृद्धिः जाता। "मशरूम" इत्यस्य उत्पादने "ओडिशा" इति राज्यं भारते प्रथमं स्थानम् अलभत।
द्विवर्षात् अष्टादश- आयुवर्गाणां कृते भारते सितम्बरमासे स्वदेशी कोरोना वैक्सीन इत्यस्य निर्माणं पूर्णं भवितुं शक्नोति इति उक्तं आई-सी-एम-आर निदेशकः प्रिया अब्राहम महोदयया। ध्यातव्यमस्ति यत् अधुना अष्टादशवर्षात् अधिक- आयुवर्गाणां कृते एव कोराना टीकाकरणं प्राचल्यमानः अस्ति ।
पर्यटनविभागस्य निदेशकेन श्रीअमितकश्यपमहाभागेन विशेषवार्तायां कथितं यत् हिमाचलप्रदेशे पर्यटनविकासाय पञ्च 'नूतन-टूरिस्ट-सर्किट' इति स्थापयिष्यन्ते। इतोऽपि तेनोक्तं प्रदेशे पर्यटनस्य अनेका: सम्भावना: सन्ति।
जम्मू कश्मीरे राजौरी-जिलायां गतदिवसे सुरक्षाबलस्य आंतकीजनैः सह समाघातः। समाघातेन एकः आंतकीजनः मृतः, अपि च सेनायाः जेसीओ वीरगतिं प्राप्तः । ~ हिमसंस्कृतवार्ताः
Live stream scheduled for
Sanskrit Degree from Indra Gandhi National Open University, NewDelhi
MA Sanskrit at IGNOU
Eligibility: Bachelor's Degree or a higher degree from a recognised University.
Fee Structure: Rs.13,200/- for the full programme to be paid year wise Rs. 6,600/- Fee to be paid in the first year is Rs. 6800/- including a registration fee of Rs. 200.
MA Sanskrit course details here
BA Sanskrit at IGNOU
Eligibility 10+2 or its equivalent
Fee Structure: Rs.9,900/- for full programme to be paid year wise @ Rs. 3,300/- per year. Fee to be paid in 1st year is Rs.3,500/- including a registration fee of Rs.200/-
BA Sanskrit Course Details here
To Register
To Register for courses click here
Last date to apply: 31st August 2021
#SanskritEducation
Forwarded from kathaaH कथाः
सम्भाषणसन्देश: आगस्त् 2010
ओ३म्

638. संस्कृत वाक्याभ्यासः

एका भगिनी लोकयाने यात्रां कुर्वती अस्ति।
= एक बहन बस में यात्रा कर रही है।

तस्याः अङ्के लघ्वी बालिका अस्ति।
= उसकी गोदी में छोटी बच्ची है।

सा बालिका यानात् बहिः हस्तं निष्कासयति।
= वह बालिका बस से हाथ बाहर निकालती है।

वातायनात् बहिः बालिकायाः हस्तं दृष्ट्वा यानचालकः उच्चैः वदति।
= खिड़की से बाहर बालिका का हाथ देखकर ड्राइवर जोर से बोलता है।

कस्य/कस्याः हस्तः बहिः अस्ति ?
= किसका हाथ बाहर है ?

हस्तम् अन्तः करोतु।
= हाथ अंदर करिये।

एकः यात्री चालकं सूचयति।
= एक यात्री ने ड्राइवर को सूचित किया।

“बालिकायाः हस्तः बहिः अस्ति”
= बालिका का हाथ बाहर है।

चालकः बालिकायाः मातरं निवेदयति।
= ड्राइवर बालिका की माँ से निवेदन करता है।

ओ भगिनि ! बालिकायाः हस्तम् अन्तः करोतु।
= ओ बहन , बालिका का हाथ अंदर करिये।

सा भगिनी बालिकायाः हस्तम् अन्तः नयति।
= वह बहन बालिका का हाथ अंदर लेती है।

ओ३म्

639. संस्कृत वाक्याभ्यासः

महाराणा प्रतापः राजपूतवंशस्य वीरः नृपः आसीत्।
= महाराणा प्रताप राजपूत वंश के वीर राजा थे।

पञ्चशतं वर्षेभ्यः पूर्वं मुगलराजा अकबरेण सह तेन युद्धं कृतम्।
= पाँच सौ वर्ष पहले मुगल राजा अकबर के साथ उन्होंने युद्ध किया।

अनेकवारं मुगलराजानः महाराणा प्रतापेन पराजिताः अभवन्।
= अनेक बार मुगल राजा महाराणा प्रताप से पराजित हुए।

कुम्भलगढ़े महाराणाप्रतापस्य जन्म अभवत्।
= कुम्भलगढ़ में महाराणा प्रताप का जन्म हुआ।

तस्य मातुः नाम राज्ञी जयवंत कँवर आसीत्।
= उनकी माँ का नाम रानी जयवंत कँवर था।

महाराणा उदयसिंहः तस्य पिता आसीत्।
= महाराणा उदयसिंह उनके पिता थे।

हल्दीघाटीयुद्धं बहु सुप्रसिद्धम् अस्ति।
= हल्दी की घाटी का युद्ध बहुत प्रसिद्ध है।

महाराणाप्रतापस्य अश्वः चेतकः अपि बहु बलिष्ठः आसीत्।
= महाराणा प्रताप का घोड़ा चेतक भी बहुत बलवान था।

चेतकेन प्राणदानं कृत्वा महाराणाप्रतापस्य रक्षा कृता।
= चेतक ने प्राणदान करके महाराणा प्रताप की रक्षा की।

अद्य महाराणाप्रतापस्य जयन्तिः अस्ति।
= आज महाराणा प्रताप की जन्मजयंति है।

वयं तं महावीरं वन्दामहे।

ओ३म्

640. संस्कृत वाक्याभ्यासः

अधुना उपनेत्रमयं जगत् अभवत्।
= अब चश्मेवाली दुनिया हो गई है।

सर्वे उपनेत्रं धारयन्ति।
= सभी चश्मा पहनते हैं।

अहमपि उपनेत्रं धारयामि।
= मैं भी चश्मा पहनता हूँ।

बाल्यकालात् एव उपनेत्रम् आवश्यकं जातम्।
= बचपन से ही चश्मा आवश्यक हो गया है।

बाल्यात् प्रभृतिः एव दृष्टिः क्षीणा भवति।
= बचपन से ही दृष्टि कमजोर हो जाती है।

उद्याने ये बालकाः क्रीडन्ति तेषां नेत्रयोः उपनेत्रं वयं पश्यामः।
= बगीचे में जो बच्चे खेलते हैं उनकी आँखों में भी हम चश्मा देखते हैं।

कारणं किम् ?
= क्या कारण है ?

सर्वे चलभाषस्य उपयोगम् अधिकं कुर्वन्ति।
= सभी मोबाइल का उपयोग अधिक करते हैं।

पौष्टिकं भोजनं न खादन्ति।
= पौष्टिक भोजन नहीं खाते हैं।

जनाः गोदुग्धं न पिबन्ति।
= लोग गाय का दूध नहीं पीते हैं

सूर्यनमस्कारं न कुर्वन्ति।
= सूर्यनमस्कार नहीं करते हैं।

हरितानि शाकानि न खादन्ति।
= हरी सब्जियाँ नहीं खाते हैं।

शीतलेन जलेन स्नानं न कुर्वन्ति।
= ठंडे पानी से नहीं नहाते हैं।

अद्य एकः वृद्धः जनः एतानि कारणानि उक्तवान्।
= आज एक वृद्ध जन ने ये कारण बताए। #vakyabhyas
Namaste

TOPIC : *Samskrita Sambhashana Varga: (Spoken Samskritam Course)* (Level 1)

Duration: *22-Aug-2021 to 02-Sept-2021*

We have arranged batches at three different time slots of Samskrita Sambhashana Varga.

*Please click on the  google link to register yourself.*

https://forms.gle/Q8RxZTzZiMHEgSZCA

For any queries, please email to sbsamskritavarga@gmail.com

Dhanyavada:

⚛️ Jayatu Samskritam Jayatu Manukulam ⚛️
Namaste

TOPIC :  *Abhyasa Varga:*

 Eligibility : Those who have attended online sambhashna varga : (level 1) can attend this level 2 class.

Date: *20-Aug-2021 to 27-Aug-2021*

*Three batches are arranged.Please click on the  google link to  register yourself.*

https://forms.gle/2b5oPjEVGb8NjeuE8

For any queries, please email to
sbabhyasavarga@gmail.com

Dhanyavada:

⚛️Jayatu Samskritam Jayatu Manukulam⚛️