संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
July 31, 2021

 प्रतिगृहम् एकैकः सैनिकः इति क्रमेण  टिबट्ट् युवकान्  सैनिकपरिशीलनाय प्रेषयितुं चीनेन आदेशो दत्तः।

 बेय्जिङ्> टिबेट्ट् देशीयाः स्वकुटुम्बात् एकैकं युवकं निश्चयेन पीप्पिल्स् लिबरल् सेनायां (पि एल् ए) सेवां कर्तुं  प्रेषणीयम् इति चीनेन  आदिष्टम् । भारतस्य यथार्थ नियन्त्रणरेखायां सेनाविन्यासं सुशक्तं कर्तुमेव अयं प्रक्रमः।  टिबट्ट् देशीयानां युवकानां चीनं प्रति सहकारित्वं परीक्षणनिरीक्षणेन दृढीकृत्यैव सेनायां निवेशनमिति इन्ट्या टुडे वार्तामाध्यमेन आवेदितम्। यथार्थ नियन्त्रणरेखासु सैनिकसानिध्यं संवर्धयितुं प्रतिकुटुम्बात् एकैकं युवानं सैन्ये निवेशयितुं चीनेषु परियोजना समारब्धा इत्येव प्रतिवेदनम्। भारतस्य यथार्थनियन्त्रणरेखायामेव स्थिररूपेण तेषां विन्यासः। तेषां कृते दीयमानं सैनिक शिक्षणमपि अस्यां प्रविश्यायां सीमारक्षणम् आधारीकृत्यैव भविष्यति इत्यपि प्रतिवेद्यते।

~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - अष्टमी सुबह 07:56 तक तत्पश्चात नवमी

⛅️ दिनांक - 01 अगस्त 2021
⛅️ दिन - रविवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - भरणी शाम 07:36 तक तत्पश्चात कृत्तिका
⛅️ योग - गण्ड रात्रि 10:02 तक तत्पश्चात वृद्धि
⛅️ राहुकाल - शाम 05:39 से शाम 07:18 तक
⛅️ सर्योदय - 06:13
⛅️ सर्यास्त - 19:16
⛅️ दिशाशूल - पश्चिम दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Forwarded from 🏆 Sanskrit Mantram Classes 🏆
चाणक्य नीति ⚔️

✒️ षोडशः अध्याय

♦️श्लोक :- २०

पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् २०

षोडश अध्यायः समाप्तः

भावार्थ - जो विद्या पुस्तकों तक ही सीमित है और जो धन दूसरों के पास पड़ा है, आवश्यकता पड़ने पर न तो वह विद्या काम आती है और न ही वह धन उपयोगी हो पाता है।

आचार्य कहना चाहते हैं कि विद्या कण्ठाग्र होनी चाहिए तथा धन सदैव अपने हाथ में होना चाहिए, तभी इनकी सार्थकता है।

सोलहवां अध्याय‌ समाप्त हुआ।

#chanakya
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः जुलै २०१२
ओ३म्

565. संस्कृत वाक्याभ्यासः

अद्य प्रातः संजाता एषा घटना
= आज प्रातः ये घटना घटी

दारिका नामिका एका महिला मम गृहम् आगतवती
= दारिका नाम की एक महिला मेरे घर आई

नाम परिवर्तनं कृत्वा लिखामि
= नाम बदल कर लिख रहा हूँ

सा रोदिति स्म = वह रो रही थी

सा उक्तवती =वह बोली

मम पतिः मां ताडितवान् = मेरे पति ने मुझे मारा

अहं प्रतिदिनं श्रमं करोमि = मैं रोज मेहनत करती हूँ

मम पुत्रस्य शिक्षार्थं धनं संचयामि
= मेरे पुत्र की शिक्षा के लिए धन जोड़ती हूँ

अद्य मम पतिः तद् धनं नीतवान
= आज मेरा पति वो धन ले गया

बलात् नीतवान् = जोर जबरदस्ती से ले गया

तेन धनेन सः मद्यपानं करिष्यति
= उस धन से वह मद्यपान करेगा

मम पुत्रस्य कृते पुस्तकं क्रयणीयम् अस्ति।
= मेरे पुत्र के लिये पुस्तक खरीदनी है।

तस्यै मम भार्या धनं दत्तवती
= उसे मेरी पत्नी ने धन दिया

मद्यपानं तु दूषणम् अस्ति
= मद्यपान दूषण है।

ओ३म्

566. संस्कृत वाक्याभ्यासः

सः श्रीकान्तः अस्ति , सा श्रीकला अस्ति

श्रीकला श्रीकान्तस्य भगिनी अस्ति

श्रीकान्तः श्रीकलाया: भ्राता अस्ति

श्रीकान्तः अष्टाध्यायीम् पठति

श्रीकला धातुपाठं पठति

द्वौ संस्कृत विद्वान्सौ ।

श्रीकान्तः विद्वान् अस्ति

श्रीकला विदुषी अस्ति

तौ द्वौ वेदपाठम् अपि कुरुतः

तौ द्वौ वेद मन्त्राणाम् अर्थम् अपि जानीतः

ओ३म्

567. संस्कृत वाक्याभ्यासः

पत्नी – गृहे एकः मूषकः प्रविष्टः
= पत्नी – घर में एक चूहा घुस गया है

पति: – तर्हि अहं किं करोमि ?
= तो मैं क्या करूँ

पत्नी – अहं बहु चिन्तिता अस्मि
= मैं बहुत चिन्तित हूँ

पति: – किमर्थम् ? = किसलिए ?

पत्नी – मूषकः मम शाटिका: एव खादति
= चूहा केवल मेरी साड़ियाँ ही खाता है

पति: – एवं वा ? = ऐसा क्या ?

पत्नी – आम् = हाँ

पति: – मूषकः मम मित्रम् अस्ति । सः मम युतकं न खादति
= चूहा मेरा मित्र है । मेरी शर्ट नहीं खाता

पत्नी – परिहासं मा करोतु = मजाक मत करिए

पत्नी – किमपि करोतु = कुछ करिये

( पति: उच्चै: वदति = पति जोर से बोलता है )
पति: – ओ मूषक ! रे मूषक ! पश्य , यथा अहं बहिः गच्छामि
= ओ चूहे , ओ चूहे । देखो , जैसे मैं बाहर जा रहा हूँ

पति: – तथैव त्वमपि गृहात् बहिः गच्छ ।
= वैसे ही तुम भी घर से बाहर चले जाओ ।

पतिः – अन्यथा एषा त्वां ताड़यिष्यति
= नहीं तो ये तुम्हें मारेगी

पतिः गृहात् बहिः अगच्छत्
= पति घर से बहार चला गया ।

न जानामि मूषकस्य किं जातम्
= नहीं मालूम कि चूहे का क्या हुआ

ओ३म्

568. संस्कृत वाक्याभ्यासः

शोभा – विभे , चल आवां द्वौ वित्तकोषं चलावः ।
= विभा हम दोनों बैंक चलते हैं

विभा – वित्तकोषम् ? किमर्थम् ?
= बैंक ? किसलिये ?

शोभा – तत्र आवयोः लेखां उद्घाटयावः ।
= वहाँ हम दोनों का अकाउंट खुलवाते हैं

शोभा विभा च वित्तकोषं गच्छतः ।
शोभा और विभा बैंक जाती हैं

ते द्वे प्रपत्रम पूरयतः ।
= वो दोनों फॉर्म भरती हैं

शोभा – अत्र हस्ताक्षरं करणीयम् अस्ति ।
= यहाँ हस्ताक्षर करने हैं

विभा – आम् , तर्हि कुरु , अहमपि करोमि ।
= हाँ , तो करो , मैं भी करती हूँ ।

शोभा – हस्ताक्षरं तु देवनागर्याम् एव करणीयम् ।
= हस्ताक्षर तो देवनागरी में ही करने चाहिये ।

विभा – सत्यम् , अहमपि तथैव करोमि ।
= सच है , मैं भी वैसा ही करती हूँ ।

ते द्वे देवनागर्याम् एव हस्ताक्षरं कुरुतः ।
= वो दोनों देवनागरी में ही हस्ताक्षर करती हैं

ओ३म्

569. संस्कृत वाक्याभ्यासः

सः स्वचित्रं स्वीकरोति।
= वह सेल्फी ले रहा है।

चित्रं सम्यक् न आगतम् ।
= चित्र सही नहीं आया ।

सः पुनः आत्मचित्रं स्वीकरोति।
= वह फिर से सेल्फी लेता है।

सः आत्मचित्रं पश्यति।
= वह अपनी सेल्फी देखता है।

सः केशसंधानं करोति।
= वह बाल बनाता है ।

पुनः स्वचित्रं स्वीकरोति।
फिर से सेल्फी लेता है।

सः स्वं चित्रं पश्यति।
= वह अपना चित्र देखता है।

ओह …. इतः चित्रं सम्यक् न आगच्छति।
= यहाँ से चित्र सही नहीं आता है।

ततः स्वीकरोमि।
= वहाँ से लेता हूँ।

न … न .. अत्र प्रकाशः नास्ति।
= नहीं … यहाँ उजाला नहीं है।

आम् … अत्र स्थानं सम्यक् अस्ति।
= हाँ … यहाँ जगह सही है।

इतः स्वीकरोमि।
= यहाँ से लेता हूँ।

…. उत्तमं चित्रम् आगतम्।
….. बढ़िया चित्र आया


#vakyabhyas
श्रीकाञ्चीकामकोटिपीठाधिपति जगद्गुरु श्रीजयेन्द्रसरस्वती

श्रीपादानामष्टोत्तरशतनामावलिः ।



जयाख्यया प्रसिद्धेन्द्रसरस्वत्यै नमो नमः ।

तमोऽपहग्रामरत्न सम्भूताय नमो नमः ।

महादेव महीदेवतनूजाय नमो नमः ।

सरस्वतीगर्भशुक्तिमुक्तारत्नाय ते नमः ।

सुब्रह्मण्याभिधानीतकौमाराय नमो नमः । ५

मध्यार्जुनगजारण्याधीतवेदाय ते नमः ।

स्ववृत्तप्रीणिताशेषाध्यापकाय नमो नमः ।

तपोनिष्ठगुरुज्ञातवैभवाय नमो नमः ।

गुर्वाज्ञापालनरतपितृदत्ताय ते नमः ।

जयाब्दे स्वीकृततुरीयाश्रमाय नमो नमः । १०

जयाख्यया स्वगुरुणा दीक्षितायनमो नमः ।

ब्रह्मचर्यादेव लब्धप्रव्रज्याय नमो नमः ।

सर्वतीर्थतटे लब्धचतुर्थाश्रमिणे नमः ।

काषायवासस्संवीतशरीराय नमो नमः ।

वाक्यज्ञाचार्योपदिष्टमहावाक्याय ते नमः । १५

नित्यं गुरुपदद्वन्द्वनतिशीलाय ते नमः ।

लीलया वामहस्ताग्रधृतदण्डाय ते नमः ।

भक्तोपहृतबिल्वादिमालाधर्त्रे नमो नमः ।

जम्बीरतुलसीमालाभूषिताय नमो नमः ।

कामकोटिमहापीठाधीश्वराय नमो नमः । २०

सुवृत्तनृहृदाकाशनिवासाय नमो नमः ।

पादानतजनक्षेमसाधकाय नमो नमः ।

ज्ञानदानोत्कमधुरभाषणाय नमो नमः ।

गुरुप्रिया ब्रह्मसूत्रवृत्तिकर्त्रे नमो नमः ।

जगद्गुरुवरिष्ठाय महते महसे नमः । २५

भारतीयसदाचारपरित्रात्रे नमो नमः ।

मर्यादोल्लङ्घिजनतासुदूराय नमो नमः ।

सर्वत्र समभावाप्तसौहृदाय नमो नमः ।

वीक्षाविवशिताशेषभावुकाय नमो नमः ।

श्रीकामकोटिपीठाग्र्यनिकेताय नमो नमः । ३०

कारुण्यपूरपूर्णान्तःकरणाय नमो नमः ।

श्रीचन्द्रशेखरचित्ताब्जाह्लादकाय नमो नमः ।

पूरितस्वगुरूत्तंससङ्कल्पाय नमो नमः ।

त्रिवारं चन्द्रमौलीशपूजकाय नमो नमः ।

कामाक्षीध्यानसंलीनमानसाय नमो नमः । ३५

सुनिर्मितस्वर्णरथवाहिताम्बाय ते नमः ।

परिष्कृताखिलाण्डेशीताटङ्काय नमो नमः ।

रत्नभूषितनृत्येशहस्तपादाय ते नमः ।

वेङ्कटाद्रीशकरुणाऽऽप्लाविताय नमो नमः ।

काश्यां श्रीकामकोटीशालयकर्त्रे नमो नमः । ४०

कामाक्ष्यम्बालयस्वर्णच्छादकाय नमो नमः ।

कुम्भाभिषेकसन्दीप्तालयव्राताय ते नमः ।

कालट्यां शङ्करयशःस्तम्भकर्त्रे नमो नमः ।

राजराजाख्यचोलस्य स्वर्णमौलिकृते नमः ।

गोशालानिर्मितिकृतगोरक्षाय नमो नमः । ४५

तीर्थेषु भगवत्पादस्मृत्यालयकृते नमः ।

सर्वत्र शङ्करमठनिर्वहित्रे नमो नमः ।

वेदशास्त्राधीतिगुप्तिदीक्षिताय नमो नमः ।

देहल्यां स्कन्दगिर्याख्यालयकर्त्रे नमो नमः ।

भारतीयकलाचारपोषकाय नमो नमः । ५०

स्तोत्रनीतिग्रन्थपाठरुचिदाय नमो नमः ।

युक्त्या हरिहराभेददर्शयित्रे नमो नमः ।

स्वभ्यस्तनियमोन्नीतध्यानयोगाय ते नमः ।

परधाम पराकाशलीनचित्ताय ते नमः ।

अनारततपस्याप्तदिव्यशोभाय ते नमः । ५५

शमादिषड्गुणयत स्वचित्ताय नमो नमः ।

समस्तभक्तजनतारक्षकाय नमो नमः ।

स्वशरीरप्रभाधूतहेमभासे नमो नमः ।

अग्नितप्तस्वर्णपट्टतुल्यफालाय ते नमः ।

विभूतिविलसच्छुभ्रललाटाय नमो नमः । ६०

परिव्राड्गणसंसेव्यपदाब्जाय नमो नमः ।

आर्तार्तिश्रवणापोहरतचित्ताय ते नमः ।

ग्रामीणजनतावृत्तिकल्पकाय नमो नमः ।

जनकल्याणरचनाचतुराय नमो नमः ।

जनजागरणासक्तिदायकाय नमो नमः । ६५

शङ्करोपज्ञसुपथसञ्चाराय नमो नमः ।

अद्वैतशास्त्ररक्षायां सुलग्नाय नमो नमः ।

प्राच्यप्रतीच्यविज्ञानयोजकाय नमो नमः ।

गैर्वाणवाणीसंरक्षाधुरीणाय नमो नमः ।

भगवत्पूज्यपादानामपराकृतये नमः । ७०

स्वपादयात्रया पूतभारताय नमो नमः ।

नेपालभूपमहितपदाब्जाय नमो नमः ।

चिन्तितक्षणसम्पूर्णसङ्कल्पाय नमो नमः ।

यथाज्ञकर्मकृद्वर्गोत्साहकाय नमो नमः ।

मधुराभाषणप्रीतस्वाश्रिताय नमो नमः । ७५

सर्वदा शुभमस्त्वित्याशंसकाय नमो नमः ।

चित्रीयमाणजनतासन्दृष्टाय नमो नमः ।

शरणागतदीनार्तपरित्रात्रे नमो नमः ।

सौभाग्यजनकापाङ्गवीक्षणाय नमो नमः ।

दुरवस्थितहृत्तापशामकाय नमो नमः । ८०

दुर्योज्यविमतव्रातसमन्वयकृते नमः ।

निरस्तालस्यमोहाशाविक्षेपाय नमो नमः ।

अनुगन्तृदुरासाद्यपदवेगाय ते नमः ।

अन्यैरज्ञातसङ्कल्पविचित्राय नमो नमः ।

सदा हसन्मुखाब्जानीताशेषशुचे नमः । ८५

नवषष्टितमाचार्यशङ्कराय नमो नमः ।

विविधाप्तजनप्रार्थ्यस्वगृहागतये नमः ।

जैत्रयात्राव्याजकृष्टजनस्वान्ताय ते नमः ।

वसिष्ठधौम्यसदृशदेशिकाय नमो नमः ।

असकृत्क्षेत्रतीर्थादियात्रातृप्ताय ते नमः । ९०

श्रीचन्द्रशेखरगुरोः एकशिष्याय ते नमः ।

गुरोर्हृद्गतसङ्कल्पक्रियान्वयकृते नमः ।

गुरुवर्यकृपालब्धसमभावाय ते नमः ।

योगलिङ्गेन्दुमौलीशपूजकाय नमो नमः ।

वयोवृद्धानाथजनाश्रयदाय नमो नमः । ९५

 

अवृत्तिकोपद्रुतानां वृत्तिदाय नमो नमः ।

स्वगुरूपज्ञया विश्वविद्यालयकृते नमः ।

विश्वराष्ट्रीयसद्ग्रन्थकोशागारकृते नमः ।

विद्यालयेषु सद्धर्मबोधदात्रे नमो नमः ।

देवालयेष्वर्चकादिवृत्तिदात्रे नमो नमः । १००

कैलासे भगवत्पादमूर्तिस्थापकाय ते नमः ।

कैलासमानससरोयात्रापूतहृदे नमः ।

असमे बालसप्ताद्रिनाथालयकृते नमः ।

शिष्टवेदाध्यापकानां मानयित्रे नमो नमः ।
महारुद्रातिरुद्रादि तोषितेशाय ते नमः । १०५

असकृच्छतचण्डीभिरर्हिताम्बाय ते नमः ।

द्रविडागमगातॄणां ख्यापयित्रे नमो नमः ।

शिष्टशङ्करविजयस्वर्च्यमानपदे नमः । १०८

 

परित्यज्य मौनं वटाधःस्थितिं च

व्रजन् भारतस्य प्रदेशात्प्रदेशम् ।

मधुस्यन्दिवाचा जनान्धर्ममार्गे

 नयन् श्रीजयेन्द्रो गुरुर्भाति चित्ते ||

🙏
लोकमान्य-तिलक-महाभागस्य सादरं वन्दनानि !

महाभाग-विषये मराठी-भाषायां किञ्चन पद्यम् अस्ति । तस्य यथामति स्वैर-संस्कृतानुवादः ।

तव स्मरणं सन्ततं स्फुरणदायि अस्मभ्यं भवेत् ,
त्वदीय-गुण-कीर्तन-सुरम्य-ध्वनिः च सञ्जायेत।
स्वदेश-हित-चिन्तनं विना अन्या वार्ता न श्रूयेत ,
तव तनुः इव अस्माकं तनुः च अपि देशकार्ये पतेत् ।।
💐💐💐

कस्यचन गायकस्य गानकार्यक्रमः समाप्तः । तदा प्रकोष्ठे केवलं जनद्वयम् उपविष्टम् आसीत् । अन्ये सर्वे श्रोतृजनाः पूर्वम् एव गतवन्तः ।

खिन्नः भूत्वा सः गायकः एकं श्रोतृजनं प्रति गतवान् । उक्तवान् च ,

“महोदय ! भवतः महत् सङ्गीताकलनम् अस्ति । भवान् इव श्रोता दुर्लभः एव ।"

तदा सः उक्तवान् ,
“तथा न महोदय ! अहं सङ्गीत-विषये किम् अपि न जानामि । अहं तु वक्ता । भवतः गान-कार्यक्रमस्य अनन्तरं मम व्याख्यान-कार्यक्रमः अस्ति । अतः अहम् अत्र उपविष्टः अस्मि ।"

अधिकः एव खिन्नः सः गायकः अपरं जनं प्रति गतवान् । तं च उक्तवान् ,
“भवतः सङ्गीतानुरागः प्रशंसनीयः । भवान् इव श्रोता लब्धः इति मम भाग्यम् !"

तदा सः उक्तवान् ,
“तथा किम् अपि न महोदय ! अहं तु अत्रस्थः ध्वनिव्यवस्था-तन्त्रज्ञः अस्मि । ध्वनिक्षेपणविषये का अपि समस्या न दृश्यते अतः अत्र केवलम् उपविष्टः अस्मि ।"

#hasya
Sanskrit-1820-1830
१/८ सायंकाल आकाशवाणी
August 1, 2021

 कोविड् वैराणोः नूतनभेदपरिणामात् पूर्वं कोविडस्य उन्मूलनम् अत्यन्तापेक्षितमिति विश्वस्वास्थ्यसंस्था। 

     जनीव> इतःपरं नूतनभेदपरिणामात् पूर्वं कोविडस्य उन्मूलनाय पूर्वसूचना एव डेल्टा विभेदः इति विश्वस्वास्थ्यसंस्थया प्रतिवेदितम्। वाक्सिनस्वीकरणमेव कोविडं नाशयितुम् उपायमिति विश्वस्वास्थ्यसंस्थायाः आपत्कालीन विभागस्य निदेशकेन मैक्किल् रयानेन प्रोक्तम्। डेल्टा विभेदः अनेकेषु राष्ट्रेषु रोगव्यापनाय हेतुरभवत्। सामूहिकदूरपालनं, मुखावरणधारणं, हस्तशुचीकरणं इत्यादयः प्रतिरोधमार्गाः नूतन विभेदाय अघुनापि फलप्रदा भवन्ति। गतचतुष्सप्ताहाभ्यन्तरे रोगव्यापनं वर्धितं दृश्यते इति विश्व स्वास्थ्यसंस्थायाः अधिपेन टेड्रोस् अथनोम् गेब्रियेसूसेन निगदितम्। रोगव्यापनम् अनुवर्तते चेत् अतिमारकवैराणुविभेदाः जायन्ते। सामूहिकदूरपालनं विना सम्मिलितान् तथा अन्यप्रतिरोधमार्गपालनविमुखान् च डेल्टा विभेदः अधितया बाधते इति प्रमाणानि द्योतयन्ति।

~ संप्रति वार्ता
@samskrt_samvadah is starting संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes
Time : 11:00 AM 🕚
Topic : Sanskrit News
Date : 2 August 2021 ; Monday

Please Join the voicechat on time.
Please come after watching sanskrit news from Sudharma, DD news Vaarta and other sources, If possible.
We are waiting for you.😇
Set a reminder.

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat