संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
😃🥇 सुवर्णम्🥇🔥
प्रिया मालिक् वर्यायै अभिनंदनानि🙏🏻💐
Sanskrit-1820-1830
२५/७ सायंकाल आकाशवाणी
July 25, 2021

 बालकानां कृते कोवाक्सिनं - परीक्षणफलं सेप्टम्बरमासे। 

नवदिल्ली> बालकेभ्यः भारतबयोटेक् संस्थया सज्जीक्रियमाणस्य कोवाक्सिनं प्रत्यौषधस्य परीक्षणफलानि सेप्टम्बरमासे लप्स्यन्ते इति 'एयिंस्'संस्थायाः निदेशकः डो. रणदीपगुलेरियः न्यवेदयत्। 

  परीक्षणानि पुरोगम्यन्ते। अधिकारिभिः अङ्गीक्रियन्ते चेत् सोपानत्रयमालक्ष्य १२-१८, ६-१२, २-६ वयस्केभ्यः बालकेभ्यः वाक्सिनवितरणं सम्पत्स्यतीति सः अवदत्। भारतबयोटेकं विना १२-१८वयस्केभ्यः वाक्सिनवितरणाय 'सैडस् काडिला' नामिका संस्थापि अनुमतिं प्रतीक्षमाणा वर्तते इति डो. रणदीपेनोक्तम्।


 वयोधिकेषु कोविड् प्रतिरोधक्षमतायुक्तांशः न्यूनः इति अध्ययनफलम्

वाषिङ्टण्> वयोधिकेषु जनेषु कोविड् १९  वैराणुं प्रतिरोद्धुं क्षमतायुक्तांशः न्यूनः इति 'ओरिगण् हेल्त् आन्ट् सयन्स्' विश्वविद्यालयस्य वैज्ञानिकैः कृताध्ययनात् अवगम्यते। प्रतिरोधसूच्यौषधं स्वीकृते अपि तेषां वृद्धानां स्थितिः न सुरक्षिता इति एते अभिप्रयन्ति। अमेरिकायाः वैद्यसंघातस्य पत्रिकायाम्  प्रतिवेदनमिदं प्रकाशितं वर्तते। फैसर् वाक्सिनस्य द्वितीयमात्रां स्वीकृत्य सप्ताहद्वयम् अतीतेषु ५० जनेषु  आसीत् अध्यनम्। जना वयोभेदानुसारं श्रेणीकृत्य एव अध्ययनं प्रचालितम्। 

  वृद्धानपेक्षया युवकेषु सप्तगुणितः प्रतिरोधक्षमतांशः अस्ति इति अध्ययनप्रतिवेदनेन  स्फुटीक्रियते। तथापि सर्वेभ्यः रोगतीव्रतायां न्यूनत्वं दातुं प्रतिरोधौषधं शक्तं भवति इति प्रतिवेदने दृढीकृतं वर्तते। 


~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - तृतीया 27 जुलाई रात्रि 02:54 तक तत्पश्चात चतुर्थी

⛅️ दिनांक 26 जुलाई 2021
⛅️ दिन - सोमवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - धनिष्ठा सुबह 10:46 तक तत्पश्चात शतभिषा
⛅️ योग - सौभाग्य रात्रि 10:40 तक तत्पश्चात शोभन
⛅️ राहुकाल - सुबह 07:49 से सुबह 09:28 तक
⛅️ सर्योदय - 06:11
⛅️ सर्यास्त - 19:18
⛅️ दिशाशूल - पूर्व दिशा में
चाणक्य नीति ⚔️

✒️ षोडशः अध्याय

♦️श्लोक :- २

जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः।
हृदये चिन्तयन्त्यन्यं न स्त्रीणामेकतो रतिः ॥

♦️भावार्थ - स्त्री (यहाँ लम्पट स्त्री या पुरुष अभिप्रेत है) का ह्रदय पूर्ण नहीं है वह बटा हुआ है। जब वह एक आदमी से बात करती है तो दुसरे की ओर वासना से देखती है और मन में तीसरे को चाहती है।



♦️श्लोक :- ३

यो मोहान्मन्यते मूढो रक्तेयं मयि कामिनी।
स तस्या वशगो भूत्वा नृत्येत् क्रीडाशकुन्तवत् ॥

♦️भावार्थ - मुर्ख को लगता है कि वह हसीन लड़की उसे प्यार करती है। वह उसका गुलाम बन जाता है और उसके इशारो पर नाचता है।



♦️श्लोक :- ४

कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राजप्रियः ।
कः कालस्य न गोचरत्वमगमत् कोऽर्थी गतो गौरवं
को वा दुर्जनदुर्गमेषु पतितः क्षेमेण यातः पथि ।।४।।

♦️भावार्थ - इस संसार में कोई ऐसा मनुष्य नहीं हुआ जो धन-ऐश्वर्य पाकर अहंकार ग्रस्त न हुआ हो। विषय भोगी ऐसा कोई नहीं जिसे संकटों का सामना न करना पड़ा हो। ऐसा कोई प्राणी नहीं हुआ जिसे रूपवतियों ने अपने वश में न किया हो। ऐसा कोई प्राणी नहीं जो राजा द्वारा सदा ही सम्मानित किया गया हो। ऐसा कोई प्राणी नहीं जो पैदा तो हुआ हो, किन्तु मृत्यु को प्राप्त न हुआ हो। ऐसा कोई प्राणी नहीं हुआ जो कभी याचक न बना हो। ऐसा कोई प्राणी नहीं जो दुर्जनों द्वारा सताया न गया हो अथवा जिसने दुर्गुण न अपनाए हो।

#chanakya
Forwarded from kathaaH कथाः
Jan. 2016 - सम्भाषणसन्देशः
ओ३म्

541. संस्कृत वाक्याभ्यासः

सा चलभाषस्य कूटाङ्कं विस्मृतवती।
= वह मोबाइल का पासवर्ड भूल गई।

चलभाषं संचालयितुं न शक्नोति सा ।
= वह मोबाइल ऑपरेट नहीं कर पा रही है।

मात्रा सह वार्तां कर्तुम् इच्छति सा।
= वह माँ के साथ बात करना चाहती है।

सा अनेकवारं प्रयत्नं कृतवती।
= उसने अनेक बार प्रयत्न किया।

जनाः चलभाषे कूटाङ्कं योजयन्ति।
= लोग मोबाइल में संख्या का पासवर्ड रखते हैं।

जनाः चलभाषे कूटाकृतिं योजयन्ति।
= लोग मोबाइल में आकृति वाला पासवर्ड रखते हैं।

सर्वेषां भिन्ना भिन्ना आकृतिः भवति।
= सबकी भिन्न भिन्न आकृति होती है।

अन्यः कोsपि जनः रक्षिताकृतिं विहाय किमपि आकृतिं रचयति तदा चलभाषः कार्यं न करोति।
= अन्य कोई भी व्यक्ति रक्षित आकृति के सिवाय कोई भी आकृति रचता तो मोबाइल काम नहीं करता है।

व्यक्तिगतं विवरणं सुरक्षितं भवेत् तदर्थं कूटाकृतिं वा कूटाक्षरं योजयन्तु।
= व्यक्तिगत विवरण सुरक्षित रहे इसके लिये आकृति या संख्या का पासवर्ड रखिये।

कूटाक्षरं मा विस्मरन्तु।
= पासवर्ड मत भूलिये।

ओ३म्

542. संस्कृत वाक्याभ्यासः

रेलस्थानके जनाः प्रतीक्षां कुर्वन्तः सन्ति।
= रेलवे स्टेशन में लोग प्रतीक्षा कर रहे हैं।

रेलयानम् आगामिष्यति।
= रेलगाड़ी आएगी।

केचन जनाः घटीं पश्यन्ति।
= कुछ लोग घड़ी देख रहे हैं।

केचन जनाः यानपेटिकां कर्षयन्ति।
= कुछ लोग सूटकेस खींच रहे हैं।

केचन जनाः परिजनम् आप्रष्टुम् आगतवन्तः सन्ति।
= कुछ लोग संबंधी को छोड़ने आए हैं।

यात्रिणः यात्राचिटिकां स्वीकुर्वन्ति।
= यात्री टिकट लेते हैं।

आगन्तुकाः अपि स्थानकचीटिकां कृणन्ति ।
= मुलाकाती लोग प्लेटफॉर्म टिकट खरीदते हैं।

रेलस्थानके कुत्रापि अस्वच्छता नास्ति।
= रेलवे स्टेशन में कहीं भी अस्वच्छता नहीं है।

रेलयानं यदा आगच्छति तदा सर्वे रेलरथं प्रति धावन्ति।
= रेलगाड़ी जब आती है तब सभी रेल के डिब्बे की ओर दौड़ते हैं।

बालकाः रेलयानं दृष्ट्वा प्रसन्नाः भवन्ति।
= बालक रेलगाड़ी देखकर खुश होते हैं।

रेलयानम् अधुना चलिष्यति।
= रेल अभी चलेगी।

अनन्तरं रेलस्थानकं रिक्तं भविष्यति।
= बाद में रेलवे स्टेशन खाली हो जाएगा।

ओ३म्

543. संस्कृत वाक्याभ्यासः

अद्य एकं पर्वतम् आरूढवान्।
= आज एक पर्वत पर चढ़ा।

पर्वते एकं मन्दिरम् अस्ति।
= पर्वत पर एक मंदिर है।

सर्वे पर्वतम् आरोहन्ति।
= सब पर्वत पर चढ़ते हैं।

पर्वते सोपनानि सन्ति।
= पर्वत पर सीढियाँ हैं।

अहं सोपानैः आरूढवान्।
= मैं सीढ़ियों से चढ़ा।

यदा पर्वतस्य उपरि प्राप्तवान् तदा अहं ताम्यामि स्म।
= जब मैं पर्वत पर पहुँचा तब मैं हाँफ रहा था।

ये ये पर्वतम् आरोहन्ति ते ताम्यन्ति।
= जो जो पर्वत पर चढ़ते हैं वे हाँफते हैं।

नेत्रे निमील्य अहम् उपविष्टवान्।
= दोनों आँखे बंद करके मैं बैठ गया।

अर्धहोरा अनन्तरम् अहं शान्तः अभवम्।
= आधे घंटे बाद मैं शान्त हुआ।

अनन्तरं शनैः शनैः अहम् अधः आगतवान्।
= बाद में धीरे धीरे नीचे आया।

( एतद् पाठं मध्याह्ने लिखितवान् आसम्। अधुना प्रेषयामि।
= यह पाठ दोपहर में लिख दिया था अब भेज रहा हूँ। )


#vakyabhyas
*Hare Krishna* 🙏🙏🙏

*Learn to Chant Bhagavad Gita from Samskrita Bharati*

We are happy to announce the commencement of *11th Chapter* of Shrimad Bhagavad Gita Shloka recitation classes.

Focus of this class will be purely on learning to chant the Bhagavad Gita Shlokas with proper pronunciation and breaking at the proper places and so on. Interpretation and translation will not be covered.

*Registration Link (Pre Registration is Must) :

https://forms.gle/HGpjADucj1m7Ux9h6

*Join following group for all further announcements related to this course*

https://t.me/dailyoneshloka

*Classes will be conducted via Zoom everyday between 3PM to 3.30PM*

*Fees: Nil*

*Whatsapp for Queries: 9841811210*

*PLEASE FORWARD FURTHER SO THAT PEOPLE WHO ARE NOT IN THIS GROUP AND WISH TO ATTEND CAN BENEFIT*
कारगिल - विजयदिवसः🇮🇳
वन्दे मातरम्
मार्गदर्शकं चरित्रं – २६/०७/२०२१

भवन्तः सर्वे रामकथां जानन्ति खिल । सर्वे सङ्क्षेपरूपेण वक्तुम् अपि अर्हन्ति । परन्तु अनेकाः निगूढविषयाः रामायणे अन्तर्भवन्ति ये रामायणपारायणेन एव ज्ञातुं शक्यन्ते ।

आदिकविना महर्षिवाल्मीकिना चतुर्विंशतिसहस्रश्लोकात्मकरामायणं सप्तसु काण्डेषु विरचितं (इति सामान्यतः मन्यन्ते) । सर्वेषां काण्डानाम् अपेक्षया अयोध्याकाण्डः बृहत्काण्डः अस्ति । तस्मात् काण्डात् श्लोकद्वयं स्थापयितुम् इच्छामि ।

विमाता कैकेयी रामं वरद्वयं निवेदयति । तस्य प्रत्त्योत्तरम् अधः श्लोकेषु वर्तते ।

तदप्रियमित्रध्नो वचनं मरणोपमम् ।
श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ २.१९.१ ॥
तत् अप्रियम् मरण-उपमम् वचनं श्रुत्वा अमित्रघ्नः रामः न विव्यथे च कैकेयीम् अब्रवीत् ।

एवमस्तु गमिष्यामि वनं वस्तुमहं त्त्वितः ।
जटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ २.१९.२ ॥
एवम् अस्तु अहं राज्ञः प्रतिज्ञानुपालयन् जटाजिनधरः वनं वस्तुं तु इतः गमिष्यामि ।
मूलं – https://www.valmiki.iitk.ac.in/sloka?field_kanda_tid=2&language=dv&field_sarga_value=19

श्रीरामः सरलतया अस्तु इति केवलम् एकेन पदेन निस्सङ्कोचेन किञ्चिदपि क्लिष्टाभावं विना आज्ञां अङ्गीकृतवान् स्वीकृतवान् च । एवं प्रदर्शयति रामस्य अनेके उन्नताः असमानाः गुणाः। राज्यं त्यक्तव्यं सर्वं त्यक्त्वा वनं गन्तव्यं तथापि किञ्चदपि न विव्यथे । अल्पेन कष्टेन अपि लोके जनाः कम्पन्ते । लघु सङ्कटात् बाधायाः चापि जनाः बिभ्यति । परन्तु रामः धीरस्सन् शान्ततया पितुः आज्ञां श्रद्धया पालयितुं सिद्धः बभूव । किमर्थं कस्मात् कारणात् इत्यादि प्रतिप्रश्नान् न पप्रच्छ तस्य मनसि अपि न उत्पेदिरे। तदर्थं रामो विग्रहवान् धर्मः इति रामं विख्याति ।

शतावधानी आर्- गणेशमहोदयः गतसप्ताहे मङ्गलवासरे संस्कृतभारत्या आयोजिते कार्यक्रमे एतस्य सन्दर्भस्य वैशिष्ट्यं वर्णयति । (कार्यक्रमं द्रष्टुम् – https://youtu.be/ozeOfy_25mI )

इमम् सन्दर्भं दृश्यरूपेण अपि द्रष्टुं शक्यते ।

निश्चयेन एतस्य सन्दर्भस्य 21-Notes इति Youtube मध्ये यानि प्रदर्शनानि सन्ति तानि सर्वैः दर्शनीयानि । एतेषु दृश्यकेषु मुख्यमूलश्लोकैः सह प्रदर्शनं भवति । बहु उत्तमप्रयासः अस्ति ।
https://youtu.be/_Fj2Db4KaZ0

एकेन सुभाषितेन मम लेखनं समापयामि ।

नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥
रामस्य अभिषेचनं विना अपि सः एव राजा सर्वत्र सर्वकालेषु सर्वदा ।

॥ हरिः ॐ ॥
Forwarded from Markdown
कारगिलयुद्धं भारतस्य ऐतिहासिकविजयस्य स्मारकत्वेन इतिहासे अङ्कितम् अभवत् । १५,००० मीतपादौन्नते पर्वते एतत् युद्धं जातम् आसीत् । पाकिस्थानदेशेन कारगिल, द्रास, बटालिक इत्यादिभ्यः स्थानेभ्यः भारतस्योपरि आक्रमणं कृतम् आसीत् । भारतगणराज्यस्य जम्मूकाश्मीरराज्यस्य श्रीनगर-महानगरस्य, लेह-नगरस्य च मध्ये स्थितं राष्ट्रियमहामार्गं ध्वंसितुं पाकिस्थानस्य प्रयासः आसीत् । परन्तु पाकिस्थानस्य सैनिकानां सः प्रयासः भारतीयसैनिकैः खण्डितः । तस्मिन् युद्धे भारतेन पाकिस्थानस्योपरि महान् विजयः प्राप्तः । पाकिस्थानविरुद्धं यत् युद्धं भारतगणराज्यम् अकरोत्, तस्याः युद्धस्य योजनायाः नाम ‘ऑपरेशन् विजय’ आसीत् ।
Sanskrit-1820-1830
२६/७ सायंकाल आकाशवाणी
July 26, 2021

 प्रधानमन्त्री नरेन्द्रमोदी स्वतन्त्रतादिने राष्ट्रगीतालपनाय भारतीयजनतां प्रति समभ्यर्थयत्। 

 प्रधानमन्त्री नरेन्द्रमोदी भारतस्य पञ्चसप्ततितमे तन्त्रतादिने राष्ट्रगीतालपनाय भारतीयजनतां प्रति समभ्यर्थयत्। बहुसंख्याकान् जनान्  एकस्मिन्नेव सूत्रे निबद्ध्य राष्ट्रगीतालपनकार्यक्रमः सांस्कृतिक  मन्त्रा लयेन आयोजितः अस्ति। अस्मिन् सदुद्यमे सर्वेषां जनानां भागभागित्वं तेन संप्रार्थितम्। 'मन की बात्' नाम आकाशवाण्याः प्रतिमसिक-प्रभाषणपरम्परायां एव तेन इत्थं प्रोक्तम्। तदर्थं सांस्कृतिकमन्त्रालयः परिश्रमं कुर्वन्नस्ति। नूतनकार्यक्रमे सर्वे जनाः भागं स्वीकरिष्यन्ति इति प्रतीक्षामहे इति तेन उक्तम्। राष्टगीतालपनानन्तरं ' राष्ट्रगान इन्  नाम जालपुटमपि समारब्धमिति तेन उदीरितम्।


 अतिवृष्टिदुष्प्रभावः - महाराष्ट्रे मरणानि १३८। 

मुम्बई> चतुर्दिनानि यावत् अनुवर्तमानया अतिवृष्ट्या ततः उपपन्नेन जलोपप्लवेन च महाराष्ट्रे १३८ जनाः मृत्युमुपगताः। ५३ जनाः अदृष्टाः अभवन्। 

   वृष्टिदुष्प्रभावेण राज्ये गतदिवसेषु पञ्चसु स्थानेषु मृत्स्खलनमभवत्। उपपञ्चाशत् भवनानि विनाशितानि। ततः ८९ मृतशरीराणि दुरन्तनिवारणसेनया अधिगतानि। रक्षाप्रवर्तनानि अनुवर्तन्ते।

~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - चतुर्थी 28 जुलाई रात्रि 02:29 तक तत्पश्चात पंचमी

⛅️ दिनांक - 27 जुलाई 2021
⛅️ दिन - मंगलवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - शतभिषा सुबह 10:14 तक तत्पश्चात पूर्व भाद्रपद
⛅️ योग - शोभन रात्रि 09:11 तक तत्पश्चात अतिगण्ड
⛅️ राहुकाल - शाम 04:02 से शाम 05:41 तक
⛅️ सर्योदय - 06:11
⛅️ सर्यास्त - 19:18
⛅️ दिशाशूल - उत्तर दिशा में