संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
अद्य तस्य जन्मजयंती 🙏🏼
मङ्गल पाण्डेय (; १९ जुलै १८२७ – ८ एप्रिल् १८५७) भारतस्य प्रथम स्वातन्त्र्यसङ्ग्रामस्य हुतात्मा इत्येव प्रथितः। अयं ईस्ट इण्डिया समवायस्य ब्रिटिश सैन्ये सेनानी आसीत । क्रि.श.१८५७ तमे वर्षे ब्रिटिश अधिकारिणः विरुध्य कृतम् आक्रमणं प्रथमस्वातन्त्र्यसङ्ग्रामः इति रूपम् अवाप्नोत । भारतसर्वकारेण प्रथमस्वातन्त्र्योद्धॄणां स्मरणार्थं तेषां भावचित्रसहिताः पत्रचीटिकाः प्रचारे आनीताः। तेषां जीवनगाथाः चलचित्ररूपेण लोकार्पिताः।

मङ्गलस्य जीवनम्
अयं मङ्गल पाण्डेयः भारतस्य उत्तम प्रदेश किंवा उत्तर प्रदेश राज्यस्य बलिया जनपदे नागव ग्रामे क्रि.श.१८२७ तमे वर्षे जुलै मासस्य १९ दिनाङ्के भूमिहार् विप्रकुटुम्बे सञ्जातः । तस्य पिता दिवाकर पाण्डेयः मध्यमस्तरस्य कृषकः। क्रि.श.१८३० तमे वर्षे यदा मङ्गलः वर्ष त्रयस्य आसीत तदा एव तस्य पिता दिवाकर पाण्डेयः दिवङ्गतः। तस्य सहोदर्या सह एतम अपि माता प्रेम्णा अपोषयत । स्वस्य २२ तमे वयसि ईस्ट इण्डिया समवायस्य सेनां प्रविष्टवान । पाण्डेयः ३४ तमे बङ्गाल स्थलीयस्य पदाति दलस्य षष्टदलस्य सदस्य अभवत ।

क्रि.श.१८५७तमस्य घटना
क्रि.शा. १८५७तमे वर्षे मार्चमासस्य २९तमे दिने मध्याह्ने बरक्पुरे लेप्टिनेण्ट् बाघ् ३४तमे बङ्गालस्य स्थलीयस्य इन्फेण्ट्रिन् सहायकः स्वसर्वकारस्य अनेकजनाः आक्रमणं कुर्वन्ति इति वार्ता आगता । अपि च तत्र मङ्गल पाण्डेयः विक्षिप्तसैनिकैः सह सेनाप्रकोष्टतः ये बहिरागच्छन्ति तेषाम् अधिकारिणाम् उपरि आक्रमणं कर्तुं सिद्धः भवति । बाघ् तत्तक्षणे एव बुशुण्डीं खड्गं च स्वीकृत्य अश्वमारुह्य पुरो गतवान् । मङ्गलः ३४तमे क्वार्टर् सेनाप्रकोष्ट्स्य पुरतः स्थित्वा बाघ् उपरि गोलिकाप्रहारं कृतवान् । किन्तु गोलिका लक्ष्यभ्रषा अभवत् । तदनन्तरम् आङ्ग्लसार्जेण्ट् मेजर् ह्युसन् इत्याख्यः स्थलीयान् अधिकारिणः आहूय, जेमदर् ईश्वरीप्रसाद्, क्वार्टर् कर्मचारिकमाण्ड् भारतीयः अधिकारी मङ्गल पाण्डेयस्य बन्धनार्थम् आदिशत् । जेमदर् एकेन पण्डेयं नियन्त्रितुम् असाध्यम् अभवत् । तस्मिन् काले एव सः बाघ् कुत्र सः कुत्रेति अक्रोशयन् तत्रागतः । तदा ह्युसन् उक्तवान् बाघ् महिदय भवान् आत्मानं रक्षतु यतः सैनिकः भवतामुपरि गोलिकाप्रहारं करोति इति । पाण्डेयः गोलिकाप्रहरं कृतवान् पुनः लक्ष्यभ्रष्टा गोलिका । ह्युसन् पाण्डेयं भुतले शायितवान् । अन्यसैनिकाः मूकप्रेक्षकाः अभवन् । तदा शेख् पल्टु, आङ्ग्लसैनिकान् नियन्त्रियितुं भारतीयसैनिकानां सहाय्यम् अपेक्षित्वान् । किन्तु ते भारतीयसैनिकाः ह्युसन् उपरि शिलाखण्डानि प्रक्षेपितुम् आरब्धवन्तः । पण्डेयं त्यजतु नो चेत् गोलिकाप्रहारं कुर्मः इति उक्तवन्तः । तदा वार्तां श्रुत्वा कमाण्डिग् अधिकारी जनरल् हर्से तत्र आगत्य पाण्डियस्य बन्धनम् आदिष्टवान् । तदा पाण्डेयः तीव्रतया अभिघातितः आसीत् । सप्ताहानन्तरं यदा पाण्डेयः क्षेमम् अवप्नोत् विचारणार्थं न्यायालयम् आनीतवन्तः । किन्तु तदा मङ्गल पण्डेयः अहं किं कृतवान् इति अहमेव न जानामि । कः व्रणितः इत्यपि न जानामि । पुनः मया वक्तव्यं किमपि नास्ति इति अवदत् । एप्रेल् २१तमे दिनाङ्के अन्यैः त्रिभिः सिख्खसैनिकैः सह पाण्डेयः शूपमारोपितः ।

परिणामः
सर्वकारस्य विचारणस्य अनन्तरं कर्तव्यभ्रष्टतायाः कारणेन ३४तमः बि.एन्.ऐ. रेजिमेण्ट् (सैन्यगणस्य) विसर्जनं कृतम् । जनरल् हर्से वर्यः शेट् पल्टु इत्यस्मै ’हवल्दार्’स्थानं दत्तवान् । भारतीयेतिहासकारस्य सुरेन्द्रनाथस्य अभिप्रायानुगुणं ३४तमः बि.एन्.ऐ.रेजिमेण्ट् उत्तमसेवाभिलेखयुक्तः आसीत् । विचारणान्यायालः १९तमः बि.एन्.ऐ.बेर्हाम्बर् नगरे आद्यचत्वारसप्ताहेषु अशन्तेः किमपि साक्ष्यं न दृश्यते इति निर्णयं दत्तवान् । मङ्गल पाण्डेयः द्वारा ज्वालितः विरोधस्य विस्फूलिङ्गः सर्वत्र व्याप्तः अभवत् । क्रि.श.१८४७तमे वर्षे मे मासस्य दशमे दिने मेरट् नगरे विरोधान्दोलनम् आरब्धम् । अयं विप्लवः पश्यतः एव समग्रम् उत्तरभारते व्याप्तः येन आङ्ग्लाः स्पष्टं सन्देशं प्राप्तवन्तः यत् इदानीं भारते राज्यभारं सुकरं न इति । किन्तु ते ब्रिटिश् अधिकारिणः विक्टोरियायाः अनुज्ञया भारते अग्रे न कोपि सैनिकः मङ्गलपाण्डियः इव विद्रोहं नकुर्यात् इति ३४७००शासनानि अनुष्ठानितानि । अद्यापि भारते इयमेव परम्परा चलन्ती अस्ति । वक्तुं भारतदेशः क्रि.श.१९४७तमे वर्षे अगस्ट् १५ (आषाढामावास्यायाम्) स्वतन्त्रः अभवत् किन्तु नियन्त्रणं सूत्रं तु कस्याश्चित् विदेशीयमहिलायाः हस्ते एव अस्ति । मङ्गल पाण्डेयसदृशस्य कस्यचित् निरीक्षा अस्ति । कोऽपि सैनिकः तादृशं विद्रोहम् आरप्स्यते उत न इत्यस्य उत्तरं कालगर्भे निगूहितम् अस्ति । यतः कालः तु बलवान् भवति । सः स्वपरिकल्पनया स्वस्य आकलनं पूर्णयति । यावदपि सुरक्षां कुर्वन्तु किन्तु सः न त्यजति एव ।
विद्रोहस्य प्रेरणा
मङ्गल पाण्डेयस्य अन्यसैनिकानां च विद्रोहस्य मूलं कारणं तु ब्रिटिष् सेनाधिकारिणां विचेष्टा एव । बङ्गालस्य सैन्ये एन्फील्ड् पि-५२ गोलिकास्त्रं नूतनतया प्रत्याकलितम् । तस्मिन् नूतनशैल्याः गोलिकावेष्टाः आसन् । एते वेष्टाः सूकराणां गवां वा मेधसा वेष्टिताः इति किंवदन्तिः प्रसारिता । वेष्टानां मूलानि दन्तैः दष्ट्वा तदनन्तरं नालिकां अधोमुखं कृत्वा गोलिकाः पूरयित्वा अवशिष्टकागदं छित्त्वा गोलिकाप्रहारं करणीयम् आसीत् । धेनुः हैन्दवानां पवित्रप्राणी, सूकरः मुसल्मानां पवित्रजन्तुः । हिन्दुमुसल्मानसैनिकाः एतेषां जन्तूनां मेधांसि मुखेन दष्टुम् अनुत्साहं प्रकटितवन्तः । भारतीयसैन्यदलानि अस्माकं मतधर्मविरुद्धं ब्रिटिष् अधिकारिणां दुःशासनम् इति अचिन्तयन् । ५६तमः बि.एन्.ऐ.क्याप्टन् विलियम् ह्याल्लिडे इत्यस्य पत्नी बैबल् ग्रन्थं देवनागरीलिप्यां मुद्राप्य सैनिकेभ्यः दत्तवती । अतः ब्रिटिष् अधिकारिणः मतान्तरम् कुर्वन्ति इति वार्ता प्रसृता । अपि च १९,२४ तमः बङ्गालस्थलीयपदातयः क्रि.श.१८५६तमे वर्षे फेब्रवरि सप्तमे दिने औद्दस्य नवाबस्य अधीने दुःशासनस्य काले लक्नौ निस्थानके विशान्ताः अभवन् ।
वैद्यराज नमस्तुभ्यं यमराजसहोदर।

यमः तु हरति प्राणम् वैद्यराजः धनानि च ।।

O Doctor, I salute you! You are the brother of Yama Raja. While Yama only takes the life, the doctor takes the money too.


😁😆😂🤣😆😁😂

#hasya
वैज्ञानिकान् अत्भुतपरतन्त्रान् कृत्वा उत्तरध्रुवे असाधारण घटनारूपेण वातः सौदामिनी च। ईदृशीघटना इतः पूर्वं न आसीत् इति वैज्ञानिकैः उच्यते। प्रायेण उत्तरध्रुवे सैदामिन्याः वातस्य च सन्दर्भः नास्ति। पर्यावरणव्यत्ययेन अन्तरिक्षे तापः वर्धितः इत्यनेन भवति इयं दुर्घटना इति ते अभिप्रैन्ति। सेबीरियातः अलास्क पर्यन्तं दीर्घितम् उत्तर ध्रुवं सामान्येन हिमावृतं भवति। तत्र सैदामिनेः साध्यतालेशापि नास्ति। किन्तु २०१० संवत्सरा दारभ्य ग्रीष्मकाले सौदामिनी प्रभावः दृश्यते। इदानीम् अस्याः शक्तिः व्याप्तिः च वर्धितौ। अन्तरिक्षे तापः वर्धितः इत्यनेन विद्युद्प्रवाहक्षमा अभवत् वायुः इति वैज्ञानिकाः वदन्ति।
अस्मिन् संवत्सरपर्यन्तं सैबीरियायां वनाग्निकारणेन ग्रीस् देशात् विस्तृतं भूप्रदेशं भस्मसात् अभूत्। सैबीरिया इदानीं पर्यावरण उष्णबिन्दुरूपेण परिवर्तते इति ग्रीन् 'पीस् रष्यया' आवेदितम्। ~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - एकादशी शाम 07:17 तक तत्पश्चात द्वादशी

⛅️ दिनांक - 20 जुलाई 2021
⛅️ दिन - मंगलवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - आषाढ़
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - अनुराधा रात्रि 08:33 तक तत्पश्चात ज्येष्ठा
⛅️ योग - शुक्ल शाम 07:35 तक तत्पश्चात ब्रह्म
⛅️ राहुकाल - शाम 04:04 से शाम 05:43 तक
⛅️ सर्योदय - 06:08 (अहमदाबाद)
⛅️ सर्यास्त - 19:21 (अहमदाबाद)
⛅️ दिशाशूल - उत्तर दिशा में
(19.07.21)Yesterday's Newspaper👆 Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः जूलै २०१४
ओ३म्

519. संस्कृत वाक्याभ्यासः

ह्यः “उरी” चलचित्रं द्रष्टुं गतवान् अहम् ।
= कल मैं “उरी” फ़िल्म देखने गया था।

बहवः जनाः चलचित्रं द्रष्टुम् आगतवन्तः।
= बहुत से लोग फ़िल्म देखने आए थे।

प्रारम्भे राष्ट्रगानार्थं सर्वे उत्थितवन्तः।
= प्रारम्भ में राष्ट्रगान के लिये सभी खड़े हो गए।

अनन्तरं चलचित्रम् आरब्धम् ।
= बाद में फ़िल्म शुरू हुई।

पूर्वोत्तरभारते अस्माकं सैनिकाः आतंकवादिभिः हताः।
= पूर्वोत्तर भारत में हमारे सैनिक आतंकवादियों द्वारा मारे गए।

तेषां प्रतीकारार्थम् अस्माकं सैनिकाः कटिबद्धाः आसन्।
= उनका बदला लेने के लिये हमारे सैनिक कटिबद्ध थे।

ते सर्वे ब्रह्मदेशं प्रविश्य सर्वान् आतंकवादीन् मारितवन्तः।
= उन सबने म्यांमार में प्रवेश कर के सभी आतंकवादियों को मार दिया।

आतंकवादिनां शिबिराणि अपि ध्वस्तानि कृतानि।
= आतंकवादियों के शिबिर भी ध्वस्त किये।

सर्वे दर्शकाः प्रसन्नाः अभवन्।
= सभी दर्शक प्रसन्न हुए।

अनन्तरम् उरी विस्तारे पाकिस्थानस्य आतंकवादिनः अस्माकं वीरान् मारितवन्तः।
= बाद में उरी विस्तार में पाकिस्तान के आतंकवादियों ने हमारे वीरों को मार दिया।

उरीधटनायाः अपि प्रतिकारम् अस्माकं वीराः कुशलतया कृतवन्तः ।
= उरी घटना का भी प्रतिकार हमारे वीरों ने कुशलतापूर्वक किया।

रात्रौ घनान्धकारे वीरसैनिकाः सीमापारं गतवन्तः।
= रात में घने अन्धकार में हमारे वीर सैनिक सीमापार गए।

शिबिरेषु ये आतंकवादिनः सुप्ताः आसन् तान् ते मारितवन्तः ।
= शिविरों में जो आतंकवादी सो रहे थे उनको उन्होंने मार दिया।

चलचित्रं दृष्ट्वा अहम् अतीव आनंदितः अस्मि।
= फ़िल्म देखकर मैं बहुत खुश हूँ।

ओ३म्

520. संस्कृत वाक्याभ्यासः

रामेश्वरः भ्रमणार्थं निर्गतः।
= रामेश्वर घूमने के लिये निकला।

सः गृहात् निर्गत्य पूर्वदिशं प्रति प्रस्थितः।
= वह घर से निकल कर पूर्व दिशा की ओर चल दिया।

मार्गे एकः कुक्कुरः मृतः आसीत्।
= रास्ते में एक कुत्ता मरा था।

रामेश्वरः तत्र स्थित्वा मुखे करवस्त्रं बध्नाति।
= रामेश्वर वहाँ खड़ा होकर मुँह पर रुमाल बाँधता है।

अनन्तरं सः रज्ज्वा कुक्कुरस्य एकं पादं बध्नाति।
= बाद में वह रस्सी से कुत्ते का एक पैर बाँधता है।

सः रज्ज्वा मृतं कुक्कुरं कर्षति।
= वह रस्सी से मरे हुए कुत्ते को खींचता है।

तं मृतं कुक्कुरं सः बहु दूरं नयति।
= उस मरे हुए कुत्ते को वह बहुत दूर ले जाता है।

अनन्तरं सः गृहम् आगच्छति।
= बाद में वह घर आता है।

गृहम् आगत्य सः स्नानं करोति।
= घर आकर वह स्नान करता है।

अधुना तस्मिन् मार्गे दुर्गन्धः नास्ति।
= अभी उस रास्ते में दुर्गन्ध नहीं है।

ओ३म्

521. संस्कृत वाक्याभ्यासः

शिवकुमार-स्वामिनः विषये पठति स्म।
= शिवकुमार स्वामि के बारे में पढ़ रहा था।

स्वामि-शिवकुमारः लिंगायतसमुदायस्य नायकः आसीत्।
= स्वामी शिवकुमार लिंगायत समुदाय के नायक थे।

कर्णाटक-राज्यस्य तुमकुरजनपदे शिवगङ्गामठः अस्ति।
= कर्नाटक राज्य के तुमकुर जिले में शिवगंगा मठ है।

स्वामिशिवकुमारः शिवगङ्गामठस्य मठाधीशः आसीत्।
= स्वामी शिवकुमार शिवगङ्गा मठ के मठाधीश थे।

अशीतिः वर्षेभ्यः सः शिवगङ्गामठस्य मठाधीशः आसीत्।
= अस्सी वर्ष से वे शिवगङ्गा मठ के मठाधीश थे।

सः शताधिकानां विद्यालयानां संचालनं करोति स्म।
= वे सौ से भी विद्यालयों का संचालन करते थे।

अनेकानि स्वास्थ्यकेन्द्राणि अपि मठेन संचाल्यन्ते।
= अनेक स्वास्थ्यकेंद्र भी मठ के द्वारा संचालित होते हैं।

सः जातिविभेदं न मन्यते स्म।
= वो जाति भेद नहीं मानते थे।

सः सात्विकं भोजनं खादति स्म ( भुङ्क्ते स्म)
= वे सात्विक भोजन खाते थे।

एकादशाधिकशतं वर्षीयः शिवकुमारस्वामि: गतसप्ताहे दिवंगतः जातः ।
= एक सौ ग्यारह वर्ष के शिवकुमार स्वामी पिछले सप्ताह दिवंगत हुए।

पुण्यपुरुषाय वयं श्रद्धाञ्जलिं दद्मः।
= पुण्यपुरुष को हम श्रद्धाञ्जलि देते हैं।


#vakyabhyas

रमेशः कदाचित् नारङ्गफलं क्रिणाति ।  फलस्य त्वग्निष्कर्षणं कुर्वति सति  रमेशे  अकस्मात् कश्चित् लघुकीटकः फलात् बहिः आगच्छति ।  दृश्यमानः सः कीटकः क्षणार्धे एव विशालकायः सत्पिशाचः ( genie ) भवति ।  तद्द्वये संवादः आरब्धः ।

सत्पिशाचः - ( उच्चैः हसित्वा ) ही ऽ ही ऽ ही ।  मा अस्तु भयं रमेश !  अहं दुष्टः न अस्मि ।  अहं सत्पिशाचः ( genie ) ।  भवतः मित्रम् । भवतः साहाय्यं करिष्यामि ।  अहं महान् सामर्थ्यवान् अस्मि । किम् अपि दातुं शक्नोमि भवते । वदतु किम् इच्छति भवान् ?  धनं सम्पत्तिं सुवर्णं वा ? वदतु विनासङ्कोचम् ।

रमेशः - हे मित्र ! न इच्छामि धनं सम्पत्तिं सुवर्णं वा । किन्तु अहं कोविड-रोगात् महत् भयम् अनुभवामि ।

सत्पिशाचः - तर्हि वदतु किं करणीयं मया तदर्थम् ?

रमेशः - अरे ! मम प्रतिरक्षा-द्रव्यस्य ( vaccine ) द्वितीया मात्रा (second dose ) अवशिष्टा अस्ति रे ! विनाशुल्कं प्राप्तुम् इच्छामि ।
किन्तु कुत्र अपि न लभ्यते सद्यः । आरोग्यसेतुः कोविन् वा इति उपयोजनेन ( application ) कालखण्डस्य ( time slot ) चयनं नैव भवितुं शक्नोति । यदा उपयोजने कालखण्डानाम् उद्घाटनं भवति तदा क्षणार्धे एव *“पञ्जी परिपूर्णा ( register is full ) । कः अपि कालखण्डः उपलब्धः नास्ति”* इति सन्देशः दृश्यते । मित्र ! एकम् अनुग्रहं करोतु रे मयि । मम कृते प्रतिरक्षा-द्रव्य-ग्रहणार्थं कस्यचन कालखण्डस्य चयनं करोतु भवान् कृपया ।

सत्पिशाचः - अरे रमेश ! एतत् कार्यं तु मत्कृते अपि असाध्यम् । यैः निर्मितम् एतत् उपयोजन-द्वयं ते मम अपेक्षया तु अधिकाः चतुराः । तस्य रचनायां तैः किं व्यामिश्रं ( mess , mix up ) कृतं तत् अहम् अपि ज्ञातुं न शक्नोमि । रे मित्र ! अहं तु मम प्रथम-मात्रायाः कृते अपि अद्ययावत् पञ्जीकरणं कर्तुं न शक्नोमि । अतः कोविड-रोगात् भयग्रस्तः अहं कीटकरूपं स्वीकृत्य नारङ्गफले एकाकी निवासं करोमि ।
------- संस्कृतानन्दः ।

#hasya
उत्तराखण्डे मेघविस्फोटेन जातेन अतिवर्षेण जलोपप्लवेन च त्रयः नागरिकाः मृताः। चत्वारः जनाः अप्रत्यक्षाः अभवन्। उत्तरकाशीजिल्लायामेव दुरन्तः जातः। अतिवर्षेण माण्डो ग्रामे बहूनि भवनानि जले निमग्नानि। अप्रत्येक्षु द्वौ स्त्रियौ, एकः पुरुषः, एकः शिशुः च अन्तर्भवन्ति इति राज्य-आपदा-प्रतिक्रिया-सेनायाः (State Disaster Response Force) निरीक्षकेन जगदम्बा प्रसादेन प्रोक्तम्। अपघातप्रदेशे रक्षाप्रवर्तनानि अनुवर्तन्ते। उत्तरखण्डे जूलाय् २१ तमदिनपर्यन्तं अतिवृष्टिः भविष्यति इति पर्यावरणनिरीक्षककेन्द्रेण पूर्वसूचना दत्ता। पश्चिमतीरे जूलाय् २३ तमपर्यन्तं अतिवृष्टिः भविष्यति। गतसप्ताहे उत्तरकाश्यां अतिवृष्टिकारणेन जातस्य मृत्स्खलनेन राजमार्गे गमनागमनं रुद्धमासीत्। ~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - द्वादशी शाम 04:26 तक तत्पश्चात त्रयोदशी

⛅️ दिनांक - 21 जुलाई 2021
⛅️ दिन - बुधवार
⛅️ विक्रम संवत - 2078
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - आषाढ़
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - ज्येष्ठा शाम 06:30 तक तत्पश्चात मूल
⛅️ योग - ब्रह्म शाम 04:12 तक तत्पश्चात इन्द्र
⛅️ राहुकाल - दोपहर 12:45 से दोपहर 02:24 तक
⛅️ सर्योदय - 06:09
⛅️ सर्यास्त - 19:20
⛅️ दिशाशूल - उत्तर दिशा में
Today's Newspaper. Only one page is uploaded as the other page is advt in a language other than Sanskrit