संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - द्वितीया सुबह 08:19 तक तत्पश्चात तृतीया

⛅️ दिनांक - 12 जुलाई 2021
⛅️ दिन - सोमवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - आषाढ़
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - अश्लेशा 13 जुलाई प्रातः 03:15 तक तत्पश्चात मघा
⛅️ योग - वज्र शाम 03:51 तक तत्पश्चात सिद्धि
⛅️ राहुकाल - सुबह 07:44 से सुबह 09:24 तक
⛅️ सर्योदय - 06:05
⛅️ सर्यास्त - 19:22
⛅️ दिशाशूल - पूर्व दिशा में
https://www.youtube.com/watch?v=7-A6mZTGM1c

विश्वप्रसिद्धरथयात्रया: साक्षात् प्रसारणं संस्कृतेन पश्यन्तु

उत्सवः - रथयात्रोत्सवस्य दर्शनं सुयोगः एव । देवालयमिव भव्यैः सर्वालङ्कारैः रचिताः तिस्रः रथाः पुरीनगरस्य वीथीषु कर्षिताः भवन्ति । वर्षे एकवारं स्वामी जगन्नाथः, स्वामी बलरामः, सोदरी सुभद्रा च एते सर्वे स्व मातृभगिन्याः मन्दिरं प्रति पर्यटनं कुर्वन्ति । तस्य पर्यटनस्य स्मरणार्थम् एवं पद्धतिरस्ति । एतस्याः मातृभगिन्याः मन्दिरस्य नाम गुण्डिचा इति । गुण्डिचा मन्दिरम् एतेषां मन्दिरात् किलोमीटर् द्वयस्य दूरे अस्ति । प्रतिवर्षं नूतनरथाः निर्मिताः भवन्ति रथयात्रानिमित्तम् । देवालयस्य अन्तः एतस्मिन् रथोत्सवसमये एव सर्वेषां हिन्दूनां तथा विदेशीयानां कृते प्रवेशः कल्प्यते, यतो हि सर्वदा सर्वे जनाः मन्दिरं न प्रविशन्ति इति । उत्सवेsस्मिन् देवानां रथस्य आकर्षणं कुर्वन्ति । अतः देश-विदेशेभ्यः विविधाः भक्तजनाः अत्र आगत्य अर्चकाणां साहाय्येन श्रद्धापूर्वकैः रथस्य रज्जुं गृहीत्वा अग्रे कर्षन्ति । अयम् उत्सवः श्रद्धाभक्त्योः च सङ्केतः । जनानां सम्मर्दे सति भक्ताः स्वप्राणान् अपि निर्लक्ष्य रथोत्सवे भागं गृह्णन्ति । यथा रथः अग्रे अग्रे गच्छति तथा भक्ताः अपि स्वहस्तेषु वाद्यसाधनानि गृहीत्वा वादयन्तः भक्तिगीतानि गायन्तश्च चलन्ति । रथस्य गमनसमये मार्गस्य उभयोः पार्श्वयोः बालाः स्थित्वा गायकैः सह स्व-स्वध्वनिमपि सम्मेलयन्ति । रथः सामान्यतः ४५ उन्नते स्तरे (45 feet-14m) भवति । कार्यक्रमार्थम् आगताः सर्वे यात्रार्थिनः रथं कर्षयन्ति । अस्मिन् सन्दर्भे राष्ट्रिय - अन्तर्राष्ट्रीयवाहिन्यः साक्षात् प्रसारं प्रचारं च कुर्वन्ति ।

विवरणम् - स्वामी जगन्नाथस्य उत्सवोsयं ओडिस्साराज्यस्य (उत्कलं) देवस्थानपत्तनमिति प्रसिद्धे पुरीनगरे प्रतिवर्षमपि रथयात्रा प्रचलति । इदं नगरं भारतस्य पूर्वतीरे स्थितमस्ति । आषाढमासस्य (चान्द्रमानपञ्चाङ्गरीत्याचतुर्थमासः) शुक्लपक्षस्य द्वितीये दिने एतं उत्सवं आचरन्ति । मुख्यदेवालयस्य अग्रपीठे विराजमानाः एताः जगन्नाथादि देवमूर्तयः दिव्यसुदर्शनचक्रेण सह देवालयस्य प्राकारात् बहिरानीय प्रत्येकं परम्परानुगतक्रमेण शोभायात्रायां तत् तत् रथे संस्थाप्यन्ते । वर्णालङ्कारैः रचिताः बृहत् रथान् सहस्रशः जनाः बडादण्ड इति मुख्यवीथ्या नयन्ति । बडादण्ड इति मुख्यवीथिः गुण्डीचा देवस्थानस्य मार्गः एव । इदं देवस्थानं किलोमीटर् द्वये (२) दूरे उत्तरदिशायामस्ति । गुण्डिचा देवालयस्य मार्गे मौसिमा इति देवालयः वर्तते । एते त्रयः देवाः गुण्डिचामन्दिरगमनमार्गे किञ्चित् कालं यावत् मौसिमादेवालयस्य समीपे विश्रान्तिं स्वीकर्तुं तिष्ठन्ति इति जनानां मनसि भावः वर्तते । अत्र दोसा (दोषा-तण्डुल-चणकपिष्टेन वा निर्मीयते) इति पोडपीथ इति विशेषभक्ष्यं पचन्ति । एतत् स्वामिनः (भगवतः) कृते बहु इष्टमिति तस्मै अर्पयन्ति । सप्त दिनानि यावत् अत्र् उषित्वा तदनन्तरं स्वस्थानं प्रति सर्वे देवाः प्रत्याग्च्छन्ति ।
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः जुलै २०२०
ओ३म्

485. संस्कृत वाक्याभ्यासः

कीर्ति: – सुमेधा …… हे सुमेधे !!

सुमेधायाः माता – श् …श् .. श् …

– सुमेधा गीतापाठं करोति।

– आगच्छ … त्वमपि उपविश ।

कीर्ति: – अहं संस्कृतं न जानामि।

– कथं पठिष्यामि ?

सुमेधायाः माता – सरलम् अस्ति।

– यथा हिन्दीकाव्यं पठति तथैव पठ ।

– गच्छ , तत्र सुमेधया सह उपविश ।

– तस्याः पार्श्वे गीतायाः अपरा प्रति अस्ति।

– सुमेधा उच्चै: पठति, अर्थसहितं पठति।

– त्वमपि पठ ।

अद्य गीता जयन्ति अस्ति।

गीता जयन्ते: सर्वेभ्यः मङ्गलकामनाः ।

ओ३म्

486. संस्कृत वाक्याभ्यासः

रक्षिता भगिनी स्वां विद्यालयं नीतवती।

विद्यालयस्य नाम ब्रह्मसमाज विद्यालयः अस्ति।

बालकाः तत्र वैदिकशिक्षां प्राप्नुवन्ति।

बालकाः प्रतिदिनं यज्ञं कुर्वन्ति।

बालकाः महापुरुषाणां जीवनचरित्रं पठन्ति।

अद्य बालकाः गीतापाठं कृतवन्तः ।

प्रधानाचार्यः गीताविषये व्याख्यानं दत्तवान्।

सर्वे श्रेष्ठानि कर्माणि कुर्वन्तु।

ईश्वरः अस्माकं कर्मानुसारं न्यायं करोति ।

आजीवनं सत्कर्म एव करणीयम् ।

ओ३म्

487. संस्कृत वाक्याभ्यासः

शिक्षिका – सतीश ! त्वं किमर्थं विलम्बेन आगतवान् ?
= सतीश , तुम क्यों देरी से आए ?

सतीशः – मार्गे श्वानः धावन्ति स्म ।
= रास्ते में कुत्ते दौड़ रहे थे।

शिक्षिका – श्वभिः सह तव कः सम्बन्धः ?
= कुत्तों के साथ तुम्हारा क्या सम्बन्ध ?

सतीशः – ते एकं कुक्कुरशावकं मारयितुं धावन्ति स्म।
= वे एक कुत्ते के पिल्ले को मारने के लिये दौड़ रहे थे।

शिक्षिका – तर्हि त्वं किं कृतवान् ?
= तो तुमने क्या किया ?

सतीशः – अहं तं शावकं रक्षितवान्।
= मैंने उस पिल्ले को बचाया।

– पाषाणं क्षिप्तवा शुनां दूरम् अपसारितवान्।
= पत्थर फेंककर कुत्तों को दूर भगाया।

शिक्षिका – अस्तु , प्रतिदिनं तथा मा करोतु। समये एव विद्यालयम् आगच्छ।
= ठीक है, रोज ऐसा नहीं करना । समय पर विद्यालय आओ।

ओ३म्

488. संस्कृत वाक्याभ्यासः

आरात्रिः सा कासते स्म ।
= सारी रात वह खाँस रही थी।

तस्याः पञ्चदशवर्षीया पुत्री वारं वारम् उत्थाय तां पश्यति स्म।
= उसकी पन्द्रह वर्ष की बेटी बार बार उठ कर उसे देख रही थी।

अधुनैव पुत्री ऊष्णं जलं मात्रे दत्तवती।
= अभी अभी बेटी ने माँ को गरम पानी दिया।

पुत्रः एक होरा अनन्तरम् आगमिष्यति।
= बीटा एक घण्टे बाद आएगा।

पुत्रः मार्गे अस्ति।
= बेटा रास्ते में है।

पुत्रः जामनगरतः आगच्छति।
= बेटा जामनगर से आ रहा है।

पुत्रः आयुर्वेदस्य अध्ययनं करोति।
= पुत्र आयुर्वेद की पढ़ाई कर रहा है।

मार्गे सः दूरवाणीम् अपि कृतवान्।
= रास्ते में उसने फोन भी की किया ।

भगिनीम् उक्तवान् – मात्रे कासामृतं देहि।
= बहन को कहा – माँ को कासामृत दे दो।

अधुना पुनः दूरवाणीं कृतवान्।
= अभी फिर से फोन किया।

” भगिनि ! अहं द्विहोरायाः अनन्तरं प्राप्स्यामि।
= बहना , मैं दो घंटे बाद पहुँचूँगा।

तावद् मात्रे मधुना सह आर्द्रकस्य रसं सम्मेल्य देहि।
= तब तक माँ को शहद के साथ अदरक का रस दे दो।

पितरं वद “एलोपैथिक औषधं मा ददातु।”
= पिताजी से कहना ” एलोपैथिक दवा न दें”

ओ३म्

489. संस्कृत वाक्याभ्यासः

अहं पुस्तकम् इच्छामि ।

त्वं फलम् इच्छसि।

सः जलम् इच्छति ।

सा पुष्पम् इच्छति।

एषः लेखनीम् इच्छति।

एषा विश्रामम् इच्छति।

अहं पठितुम् इच्छामि।

त्वं खादतुम् इच्छसि।

सा वक्तुम् इच्छति।

एषा चलचित्रं द्रष्टुम् इच्छति।

सः दुग्धम् पातुम् इच्छति।

एषः गीतं श्रोतुम् इच्छति।

अहं किम् इच्छामि ?

त्वं किम् इच्छसि ?

भवान् किम् इच्छति ?

भवती किम् इच्छति ?

सा / एषा किम् इच्छति ?

सः / एषः किम् इच्छति ?

अहं किं कर्तुम् इच्छामि ?

त्वं किं कर्तुम् इच्छसि ?

भवान् किं कर्तुम् इच्छति ?

भवती किं कर्तुम् इच्छति ?

सा / एषा किं कर्तुम् इच्छति ?

सः / एषः किं कर्तुम् इच्छति ?


#vakyabhyas
अद्य तयोः पुण्यतिथि🙏🏼
प्राण् किशन् सिकन्दः (जननम् १२ फेब्रवरि १९२०) हिन्दीचलच्चित्रक्षेत्रस्य प्रसिद्धः अभिनेता । १९४० तः १९९० पर्यन्तं तेन बहुषु चलनचित्रेषु अत्युत्तमः अभिनयः प्रदर्शितः । १९४० तः ४७ पर्यन्तं नायकपात्रेषु, १९४२ तः १९९१ पर्यन्तं खलनायकपात्रेषु २००७ पर्यन्तं विभिन्नेषु साहायकपात्रेषु च तेन अनुपमः अभिनयः कृतः ।

सः ३५० चलनचित्रेषु अभिनीतवान् । खन्दान् (१९४२), पिल्पिलिसाहेब् (१९५४), हलकु (१९५६) चित्रेषु तेन नायकपात्रं निरूढम् । जिस् देश् मे गङ्गा बेह्ती है (१९६०), उप्कार् (१९६७), शाहिद् (१९६५), आन्सू बन् गये फूल् (१९६९), जानि मेरा नाम् (१९७०), विक्टोरिया नं २०३ (१९७२), बी-इमान् (१९७२), झञ्जीर् (१९७३), डन् (१९७८), दुनिया (१९८४) इत्येतेषु चित्रेषु तेन अत्युत्तमः अभिनयः प्रदर्शितः अस्ति ।

प्राणेन बहवः प्रशस्तयः सम्माननानि च प्राप्तानि सन्ति । फिल्म्फेर्-उत्तमसहायकाभिनेतृप्रशस्तिः १९६७, १९६९, १९७२, जीवनसाधनप्रशस्तिः १९९७, 'विलन् आफ् दि मिलेन्नियम्' २००० च तेन प्राप्तम् । २००१ तमे वर्षे भारतसर्वकारेण पद्मभूषणप्रशस्तिः, २०१२ तमस्य वर्षस्य दादासाहेब् फाल्के प्रशस्तिः च तेन प्राप्ते स्तः ।


🥀🥀🥀🥀
दारासिङ्गः (१९२८ नवेम्बर् १९ - २०१२ जुलै १२) प्रसिद्धः मल्लयुद्धप्रवीणः अभिनेता च । १९५२ तमे वर्षे सः अभिनयम् आरब्धवान् । अयं प्रथमः क्रीडापटुः यः भारतीयजनतापक्षेण राज्यसभासदस्यत्वेन २००३ तमस्य वर्षस्य आगस्ट्मासतः २००९ तमस्य वर्षस्य आगस्ट्मासपर्यन्तं नियुक्तः आसीत् । सः हिन्दी-पञ्जाबभाषयोः चलच्चित्रक्षेत्रे निर्माकत्वेन, निर्देशकत्वेन, कथालेखकत्वेन च कार्यम् अकरोत् । सः भारतीयदूरदर्शने अपि अभिनयम् अकरोत् ।

बाल्यम्
दारासिङ्गस्य बाल्यनाम दीदारसिङ्गरन्ध्वा । तस्य पिता सूरतसिङ्गः, माता बलवन्तकौर् । दारासिङ्गः १९२८ तमे वर्षे नवम्बर्मासस्य १९ दिनाङ्के ब्रिटिश्-पञ्जाबराज्ये धर्मुचक्नामके ग्रामे जातः । अधुना अयं ग्रामः अमृतसरमण्डले विद्यते ।

मल्लयुद्धक्षेत्रे
युवकः दारासिङ्गस्य औन्नत्यम् आसीत् ६' २", भारः १३० किलोपरिमितः । वक्षस्स्थलं ५० इञ्च्परिमितञ्च आसीत् । तस्य पुष्टकायं दृष्ट्वा सः मल्लयुद्धपटुः भवतु इति 'अखाडा'नामिकां मल्लयुद्धशालां प्रेषितः सः । मल्लयुद्धं सम्यक् अभ्यसितवान् अयम् अत्युत्तमः मल्लयुद्धपटुः जातः । सः अन्ताराष्ट्रियस्तरे प्रसिद्धिं प्राप्तवद्भिः मल्लयुद्धपटुभिः सह युद्धं कृत्वा जयं प्राप्तवान् अयम् । तेन पराजयम् अनुभूतवत्सु पसिद्धमल्लपटुषु अन्यतमाः सन्ति - किङ्ग्कार्ड् (आस्ट्रेलिया), जार्जगोर्डिको (केनडा), जान् डिसिल्व (न्यूझिलेण्ड्) च । पञ्चशते मल्लयुद्धस्पर्धासु जयं प्राप्य अयं विश्वविक्रमं निर्मितवान् । अनेन रुस्तुम्-ए-पञ्जाब्, रुस्तुम्-ए-हिन्द् इत्यादयः प्रशस्तयः प्राप्ताः । १९५९ तमे वर्षे कामन्वेल्त्-प्रवीणः जातः । १९६८ तमे वर्षे विश्वप्रवीणः जातः । १९८३ तमे वर्षे मल्लयुद्धक्षेत्रात् निवृत्तः जातः ।

अभिनयक्षेत्रे
१४० चलच्चित्रेषु अभिनीतवान् दारासिङ्गः तेषु ५८ चलच्चित्रेषु नायकपात्रधारी आसीत् । ११९ हिन्दीचलच्चित्रेषु २१ पञ्जाबीचलच्चित्रेषु च अभिनीतवान् अस्ति । तेन ७ चलच्चित्राणां निर्देशनं कृतमस्ति । षट्सु दूरदर्शनधारावाहिनीषु अभिनीतवान् अस्ति । रमानन्दसागरेण निर्दिष्टे 'रामायण'धारावाहिन्यां तेन अभिनीतं हनुमत्पात्रं चिरस्मरणीयम् । तेन 'दाराचलच्चित्रस्टुडियो' निर्मितम् ।
आरक्षकः- (बन्दीपालम् उद्दिश्य) श्रीमन्! एका महती समस्या अभवत्

बन्दीपालः- किम् अभवत्?

आरक्षकः- कारागारे ये अपराधिनः आसन् ते सर्वे मिलित्वा ह्यः रामायणस्य नाटकं कृतवन्तः आसन्!

बन्दीपाल:- अस्तु समीचीनम्! परन्तु तत्र का समस्या?

आरक्षकः- श्रीमन्! लक्ष्मणस्य प्राणान् रक्षणाय औषधम् आनेतुं यः हिमालयं गतवान् आसीत् सः अधुनापि न प्रत्यागतवान्।

बन्दीपाल:- किम्?😡 कुत्र गतः स अपराधी? शीघ्रं गत्वा तम् आनयतु!🙁🙁


😁😆😂🤣😆😁😂

#hasya
writereaddata_Bulletins_Text_NSD_2021_Jul_NSD_Sanskrit_Sanskrit.pdf
122.2 KB
१२/७ संस्कृत शुभेच्छा
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - तृतीया सुबह 08:24 तक तत्पश्चात चतुर्थी

⛅️ दिनांक - 13 जुलाई 2021
⛅️ दिन - मंगलवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - आषाढ़
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - मघा 14 जुलाई प्रातः 03:41 तक तत्पश्चात पूर्वाफाल्गुनी
⛅️ योग - सिद्धि दोपहर 02:49 तक तत्पश्चात व्यतिपात
⛅️ राहुकाल - शाम 04:04 से शाम 05:44 तक
⛅️ सर्योदय - 06:06
⛅️ सर्यास्त - 19:22
⛅️ दिशाशूल - उत्तर दिशा में
https://youtu.be/G22H2D3NoUE
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ।

विदग्धमविदग्धं वा निर्दोषं परिपच्यते ॥

vyaayaamam kurvato nityam viruddhamapi bhojanam l

vidagdhamavidagdham vaa nirdoSham paripachyate ll

Whether the food is burnt or uncooked or even against his constitution, a person who does exercise daily, is easily able to digest all of these without affecting himself.
-
URL
Links .................
link1
link2
link3

Join @lntechnical