संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
मलिने पङ्के यदि पादः पतेत् तर्हि प्रक्षालनार्थं नलिकायः समीपं गन्तव्यं भवेत्।
परन्तु नलिकां दृष्ट्वा मलिनपङ्कं प्रति न गन्तव्यम्।

तथैव जीवने यदि अशुभसमयः कदाचिद् भवेत् तर्हि धनस्य उपयोगः करणीयः। परन्तु धनं दृष्ट्वा कदापि अशुभमार्गं प्रति न गन्तव्यम्। (स्वामी विवेकानन्दः)
-प्रदीपः!
Forwarded from kathaaH कथाः
जुलै २०१९ सम्भषणसन्देश:
ओ३म्

481. संस्कृत वाक्याभ्यासः

रविवासरे गाँधीधाम्नि संस्कृतसम्मेलनं भविष्यति।
= रविवार को गाँधीधाम में संस्कृत सम्मेलन होगा।

प्रातः नववादने संस्कृत-शोभायात्रां निष्कासयिष्यामः।
= प्रातः नौ बजे संस्कृत शोभायात्रा निकालेंगे।

गाँधीधामनगरस्य स्वामीनारायणस्य गुरुकुलतः शोभयात्रा आरप्स्यते।
= गाँधीधाम के स्वामीनारायण गुरुकुल से शोभयात्रा शुरू होगी।

सिन्धुबागमार्गतः सम्मेलनस्थलं गामिष्यति।
= सिंधुबाग मार्ग से सम्मेलन स्थल जाएगी।

शोभायात्रायां शिक्षकाः , शिक्षिकाः , छात्राः , कार्यकर्तारः च भविष्यन्ति।
= शोभायात्रा में शिक्षक , शिक्षिकाएँ , छात्र और कार्यकर्ता होंगे।

अनन्तरं सम्मेलनस्य उद्घाटनसत्रं भविष्यति।
= बाद में सम्मेलन का उद्घाटन सत्र होगा।

कच्छ जनपदस्य सांसदः श्री विनोद चावड़ा महोदयः कार्यक्रमस्य उद्घटनं करिष्यति।
= कच्छ जिले के सांसद श्री विनोद चावड़ा जी कार्यक्रम का उद्घाटन करेंगे।

छात्राः विविधानि संस्कृत गीतानि गास्यन्ति।
= छात्र विविध संस्कृत गीत गाएँगे।

छात्राः विविधानि नृत्यानि अपि करिष्यन्ति
= छात्र विविध नृत्य करेंगे।

संस्कृत-प्रदर्शनी अपि भविष्यति।
= संस्कृत प्रदर्शनी भी होगी।

सायंकाले सम्मेलनस्य समापनं भविष्यति।
= शाम को सम्मेलन का समापन होगा।

सर्वे जनाः कृपया अवश्यमेव आगच्छन्तु।
= सभी लोग अवश्य ही आएँ।

ओ३म्

482. संस्कृत वाक्याभ्यासः

अमितः प्रश्नं पृच्छति।
= अमित प्रश्न पूछता है।

किं किं कार्यम् अभवत् ?
= क्या क्या काम हो गया ?

दुष्यन्तः उत्तरं ददाति।
= दुष्यन्त उत्तर देता है।

भरतभ्राता सर्वां व्यवस्थां पश्यति।
= भरतभाई सारी व्यवस्था देख रहे हैं।

दीपेनः फलकानि निर्मितवान्।
= दीपेन ने पोस्टर बना दिये।

शिवा भगिनी वस्तूनि क्रीतवती।
= शिवा बहन ने वस्तुएँ खरीद ली हैं

गीताभगिनी छात्रान् अभ्यासं कारयति।
= गीता बहन छात्रों को अभ्यास करा रही है।

अखिलेशः दानं स्वीकर्तुं गच्छति।
= अखिलेश दान लेने जा रहा है।

अहं ( दुष्यन्तः ) सर्वान् आमन्त्रणं दातुं गच्छामि।
= मैं (दुष्यन्त ) सबको आमंत्रण देने जा रहा हूँ।

रक्षिताभगिनी भोजनव्यवस्थां पश्यति।
= रक्षिता बहन भोजन व्यवस्था देख रही है।

अन्ये कार्यकर्तारः अपि स्वं स्वं कार्यं कुर्वन्ति।
= अन्य कार्यकर्ता भी अपना अपना काम कर रहे हैं।

कृपया सर्वे संस्कृतसम्मेलनम् अवश्यमेव आगच्छन्तु।
= कृपया सभी संस्कृतसम्मेलन में अवश्य ही आएँ।

दिनांक: :-१६/१२/१८ रविवासरः

स्थानम् :- सहयोग सरस्वती विद्यामंदिर,गुरुकुल मार्ग:,गांधीधाम-कच्छ

समय: :-प्रातः नवतः सायं सार्ध सप्तवादन पर्यन्तम्

ओ३म्

483. संस्कृत वाक्याभ्यासः

अखिलेशः- दक्षाभगिनी कुत्र अस्ति ?
= दक्षा बहन कहाँ है ?

तस्याः पार्श्वे वर्णाः सन्ति।
= उसके पास रंग हैं।

अत्र रङ्गवल्ली करणीया अस्ति।
= यहाँ रंगोली करनी है।

दुष्यन्तः – पश्यतु दक्षा भगिनी ततः आगच्छति ।
= देखिये , दक्षा बहन वहाँ से आ रही है।

– तया सह आहुतिभगिनी अपि अस्ति।
= उसके साथ आहुति बहन भी है।

अमितः – तर्हि चलन्तु , वर्णवल्ली भविष्यति एव।
= तो चलिये , रंगोली तो हो ही जाएगी।

– वयं अन्यानि कार्याणि कुर्मः ।
= हम दूसरे काम करते हैं।

भरतः – मञ्चस्य व्यवस्थाम् एकवारं पश्यन्तु।
= मंच की व्यवस्था एक बार देख लीजिये।

संस्कृतसम्मेलनस्य फलकं कुत्र लम्बनीयम् अस्ति ?
= संस्कृतसम्मेलन का पोस्टर कहाँ लगाना है ?

संचालकः कुत्र स्थास्यति?
= संचालक कहाँ खड़ा रहेगा ?

धर्मेन्द्र: – एतद् कार्यम् अहं करोमि।
= यह काम मैं करता हूँ।

विरलः , शिवमः , भाविकः च मया सह सन्ति।
= विरल , शिवम और भाविक मेरे साथ हैं।

ओ भ्रातरः , भगिन्यः ! अवश्यमेव संस्कृतसम्मेलनम् आगच्छन्तु।

*दिनांक: :-१६/१२/१८ रविवासरः*

*स्थानम् :- सहयोग सरस्वती* *विद्यामंदिर,गुरुकुल मार्ग:,गांधीधाम-कच्छ*

*समय: :-प्रातः नवतः सायं सार्ध सप्तवादन पर्यन्तम्*

ओ३म्

484. संस्कृत वाक्याभ्यासः

गतदिने गाँधीधाम्नि संस्कृतसम्मेलनम् अभवत्।

प्रातः आरभ्य अनेके कार्यकर्तारः आगतवन्तः।

अनेके शिक्षकाः , शिक्षिकाः , छात्राः च आगतवन्तः।

प्रातः नववादने शोभायात्रा आरब्धा ।

आवासीयपरिसरे ये जनाः आसन् ते अपि संस्कृतजयघोषं कृतवन्तः ।

जनाः सर्वेषाम् उपरि पुष्पवर्षां कृतवन्तः।

अनन्तरं सर्वे यज्ञं कृतवन्तः।

सम्मेलनस्य उद्घाटनसत्रे विद्वान्सः जनान् उद्बोधितवन्तः ।

अनन्तरं संस्कृतभाषायां सांस्कृतिककार्यक्रमाः अभवन्।

संस्कृतप्रदर्शनीं द्रष्टुम् जनाः आगतवन्तः।

सायंकाले सम्मेलनस्य समापनम् अभवत्।


#vakyabhyas
अद्य ग्रीष्मऋतु आरभते☀️
ग्रीष्मर्तुवर्णनम् 1. अधुना ग्रीष्मनामा ऋतुः प्रवर्तते ।

1. अद्यत्वे ( सम्प्रति , अधुनातने काले ) स्रोतस्विनीनाम् ( नदीनाम् )
सरसाम् ( तडागानाम् ) च पयांसि ( जलानि ) संशोषयन् ( परिशोषयन् )
भृशं भीष्मो ( भीमः, भयंकरः ) ग्रीष्मनामा ( निदाघनामा ) ऋतुः प्रवर्तते ।।
2. अस्याम् ग्रीष्मर्तौ दिनकरो जगत्तापयति ।

2. अस्याम् ग्रीष्मर्तौ दवीयानपि ( भयंकरः ) दिनकरो ( भास्करः )
दिनवृद्धिमाप्य ( दिनानि दीर्घीकुर्वन् ) स्वकीयेन ( तीव्रतमेन ),( तीव्रतमैः
तेजोराशिभिः) करत्विषा (करकिरणेन) अगान् (पर्वतान् , गिरिगह्वरान् )
म्लापयन् ( सर्वम् ) जगत्तापयति ।
2. (अ) स्पृहणीयो∫पि स्पर्शिनः सूर्यौष्ण्यसमायोगात् सूर्यकान्तमणिरिव
ज्वलन् लोकैर्न पूज्यते ।
2.(अ) तिग्मांशुः प्रभूतं तापमातनोति तीक्ष्णांशुभिस्तृणसमूहम् भस्मसात्
करोति च ।
2. (आ) आश्चर्यमस्ति यत् दिनस्य विषमे∫नेहस्यपि वराकाः कृषकाः
स्वान्नियोगान् सम्पादयितुमुत्कमनसः संलक्ष्यन्ते ।
3. समीराः तापं पुष्णन्ति ।

3. क्रूरकराश्रयोष्णा समीराः (पवनाः, अनिलाः, समीराः) स्वयं तपन्तः
विश्वस्य तापं पुष्णन्ति ।
4. तृषाकुलो भास्करः अपगानां वारि पिबति ।

4. सुतरां तृषाकुलो भास्करः आपगानां भूरि वारि पिबति ।
5. नभो धूलिधूसरितं भवति ।

5. अस्मिन् ऋतौ यदा कदा नभो धूलिधूसरितं भवति ।
6. वाताः वेगेन वहन्ति । 7. पृथिवी सस्यरहिता भवति ।

7. वृक्षाः कान्तिमपहाय शोकान्विताः सञ्जायन्ते । लता विपाण्डुताम्
भजन्ते ।
8. क्षणदाः क्षयं यान्ति, दिनानि वृद्धिं गच्छन्ति च ।

8. निदाघकाले स्पृहणीयाः क्षणदाः क्षयं यान्ति, अस्पृहणीयानि दिनानि
च वृद्धिम् गच्छन्ति च ।
8. प्राणिनः सूर्यममित्रं मन्यन्ते∫स्मिन् ऋतौ । प्रकृतिसुधावर्षी
शर्वरीश्वरः खरद्युतितप्तानाम् प्राणिनामत्यन्तमेव प्रियो वर्ते रात्रौ ।
9. अध्वगाः वृक्षच्छायाः संश्रयन्ते ( आश्रयन्ते ) ।

9. उद्दाम-चण्डांशु-कर-ताप-तप्ताः, घन-घर्म-खेदं ( घनेन घर्मेण
उत्पन्नम् खेदम् ( तापम् ) लघूकर्तुं बद्धपरिकराः अध्वगाः ( यात्रिणः,
मार्गगाः, पथिकाः ) पीयूषम् ( अमृतम्,शीतसुखम् ) स्रवन्तीः वृक्षच्छायाः
संश्रयन्ते ( आश्रयन्ते ) ।
9. प्रचण्डेन तापेन तप्ताः मार्गे गच्छन्तः पथिकाः घनेन घर्मेण सखेदाः
सन्तः खेदम् दूरीकर्तुम् पीयूषतुल्याम् तरुवरच्छायाम् आश्रयम् कामयमानाः
दृश्यन्ते ।
9. प्रचण्डेन तापेन तप्ताः मार्गे गच्छन्तः पथिकाः घनेन घर्मेण सखेदाः

सन्तः खेदम् दूरीकर्तुम् , जगत्तापेन तप्ताः भक्तजनाः यथा तापम् दूरे कर्तुम्
परमात्मनः आश्रयम् इच्छन्ति, तथैव एतेपि पीयूषतुल्यायाः तरुवरच्छायायाः
आश्रयम् इच्छन्ति ।
10. पिपासवः पयांसि पायं पायं तृप्यन्ति ।

10. पिपासवः (तृषा पीडिताः) पान्थसार्थाः (यात्रिसंघाः) पयांसि सरसाम्
पायं पायं न ( परितोषम् लभन्ते ) तृप्यन्ति । सरसाः कौपीरपः पीत्वैव
प्राणी सन्तोषमावहति ।
10. पिपासया भृशम् पीडिताः पथिकाः पयःपाने प्रवृत्ताः सन्तः स्वोदरे
सम्पूर्णे जाते अपि पुनः पुनः ( पौनःपुन्येन ) पयः पातुमिच्छन्ति ( पयः
पातुकामाः सन्तः अपि समुपस्थितमपि – सलिलम् , जलराशिम् वा ), न च
तत् पातुम् पारयन्तीति ।
10. पिपासया परम् पीडिताः पथिकाः प्रथमम् पयःपाने प्रवृत्ताः भवन्ति ।
ततः सद्यः एव उदरपूर्तिम् गताः ते पुनरपि पयः पातुमिच्छन्ति, परन्तु
समुपस्थितमपि सलिलम् ते पातुम् न पारयन्ति ।
11. कासराः कासारेषु दिनं यावत् निलीना वर्तन्ते ।

11. औष्ण्यं ( उष्णताम् ) निवारयितुकामाः कासराः कासारेषु दिनम्
यावत् ( आ दिनम् , निखिले∫पि दिवसे ) निलीना वर्तन्ते ।
12. खगाः वृक्षोपेताः जनाश्च गृहोपेताः भवन्ति ।

12. चण्डांशुखरकिरणान् सोढुमसमर्था जना दिनपर्यन्तम्
गृहमधिवसन्ति । दिवा निदाघकालो∫ग्निस्फुलिङ्गानुद्गिरति । असहायाः पशु
-पक्षिणः स्थित्वैव कालम् यापयन्ति । साधनसंपन्नैः मनुष्यैः जललवैः
विलोलव्यजनोत्पन्नैः पवनैश्चाढ्यानामौष्ण्यम् लघूक्रियते ।
13. तापेन ताडिताः स्वभाववैरिणः प्राणिनः वैरम् परित्यज्य छायाकामिनः भवन्ति । 14. निदाघे दिनान्तः कालः कमनीयः भवति । 15. रात्रौ शीतलतायाः अनुभवः भवति ।

15. दिगन्तरालेषु स्वं प्रतापं प्रथयन्निव दिनाधिनाथो दिनम्
यावज्ज्वलति । ततः संजातासु रात्रिषु शशिनः शीतलैः किरणैः
शान्तिमनुभवन्ति समे अपि जीवाः


अद्य तस्य जन्मदिनम् 🙏🏼
भीष्मसाहनी (१९१५-२००३) पाकिस्तानदेशे रावलपिंडीप्रदेशे जातः। सः हिन्दीभाषासयाः महान् लेखकः आसीत्।
Forwarded from Markdown
🌹🌹🌹🌹🌹🌹🌹🌹
कालिदासदिनम् 2021
🌹🌹🌹🌹🌹🌹🌹🌹


तिथि: जूलै 11, रविवासर:


सायं 5 वादनत: 6 वादनपर्यन्तम्

हडपसरनगरस्य सदस्यानां प्रस्तुतयः

6.15 वादनत: 7 वादनपर्यन्तम्
NIBM, कोन्ढवा नगरस्य सदस्यानां प्रस्तुतयः

7.15 वादनत: 7.30 वादनपर्यन्तम्
हडपसरग्रामस्य सदस्यानां प्रस्तुतयः

कालिदास दिनं 2021। संस्कृतभारती हडपसर

Time: Jul 11, 2021 05:00pm
India

Join Zoom Meeting

Meeting ID: 863 6653 8244
Passcode: 071825
अध्यापकः – गो-गोपालयोर्मध्ये कः भेदः?

छात्रः – श्रीमन्! गौः शुद्धं दुग्धं ददाति, गोपालः जलमिश्रितं दुग्धं ददाति…

Teacher – What’s the difference between cow and the milkman?

Student – Sir, the cow gives pure milk and the milkman gives the water-mixed milk.


😁😆😂🤣😆😁😂

#hasya
July 11, 2021

 कोप्पा चषकः अर्जन्टीनायै।

   मारक्काना (ब्रसील्)> कोप्पा अमेरिक्का पादकन्दुक-क्रीडापरम्परायाः स्वप्नसमानान्त्य-क्रीडायां चरित्र-परिसमाप्तिः। ब्रसीलदलम् अप्रतिरुद्धेनैकेन लक्ष्यकन्दुकेन पराजित्य लयणल् मेसि नामकस्य नायकस्य नेतृत्वे विद्यमानः अर्जन्टीनादलः विजयीभूतः। एय्जल् डि मरिया नामकः लक्ष्यकन्दुकं प्राप्तवान्। 28 संवत्सराणामन्तरालानन्तरमेव  अर्जन्टीनादलस्य कश्चन किरीटप्राप्तिः इत्येतत् कोप्पा अमेरिक्का पादकन्दुकक्रीडापरम्परायाः चरित्रपरिसमाप्तिः।

~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - द्वितीया सुबह 08:19 तक तत्पश्चात तृतीया

⛅️ दिनांक - 12 जुलाई 2021
⛅️ दिन - सोमवार
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - आषाढ़
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - अश्लेशा 13 जुलाई प्रातः 03:15 तक तत्पश्चात मघा
⛅️ योग - वज्र शाम 03:51 तक तत्पश्चात सिद्धि
⛅️ राहुकाल - सुबह 07:44 से सुबह 09:24 तक
⛅️ सर्योदय - 06:05
⛅️ सर्यास्त - 19:22
⛅️ दिशाशूल - पूर्व दिशा में
https://www.youtube.com/watch?v=7-A6mZTGM1c

विश्वप्रसिद्धरथयात्रया: साक्षात् प्रसारणं संस्कृतेन पश्यन्तु

उत्सवः - रथयात्रोत्सवस्य दर्शनं सुयोगः एव । देवालयमिव भव्यैः सर्वालङ्कारैः रचिताः तिस्रः रथाः पुरीनगरस्य वीथीषु कर्षिताः भवन्ति । वर्षे एकवारं स्वामी जगन्नाथः, स्वामी बलरामः, सोदरी सुभद्रा च एते सर्वे स्व मातृभगिन्याः मन्दिरं प्रति पर्यटनं कुर्वन्ति । तस्य पर्यटनस्य स्मरणार्थम् एवं पद्धतिरस्ति । एतस्याः मातृभगिन्याः मन्दिरस्य नाम गुण्डिचा इति । गुण्डिचा मन्दिरम् एतेषां मन्दिरात् किलोमीटर् द्वयस्य दूरे अस्ति । प्रतिवर्षं नूतनरथाः निर्मिताः भवन्ति रथयात्रानिमित्तम् । देवालयस्य अन्तः एतस्मिन् रथोत्सवसमये एव सर्वेषां हिन्दूनां तथा विदेशीयानां कृते प्रवेशः कल्प्यते, यतो हि सर्वदा सर्वे जनाः मन्दिरं न प्रविशन्ति इति । उत्सवेsस्मिन् देवानां रथस्य आकर्षणं कुर्वन्ति । अतः देश-विदेशेभ्यः विविधाः भक्तजनाः अत्र आगत्य अर्चकाणां साहाय्येन श्रद्धापूर्वकैः रथस्य रज्जुं गृहीत्वा अग्रे कर्षन्ति । अयम् उत्सवः श्रद्धाभक्त्योः च सङ्केतः । जनानां सम्मर्दे सति भक्ताः स्वप्राणान् अपि निर्लक्ष्य रथोत्सवे भागं गृह्णन्ति । यथा रथः अग्रे अग्रे गच्छति तथा भक्ताः अपि स्वहस्तेषु वाद्यसाधनानि गृहीत्वा वादयन्तः भक्तिगीतानि गायन्तश्च चलन्ति । रथस्य गमनसमये मार्गस्य उभयोः पार्श्वयोः बालाः स्थित्वा गायकैः सह स्व-स्वध्वनिमपि सम्मेलयन्ति । रथः सामान्यतः ४५ उन्नते स्तरे (45 feet-14m) भवति । कार्यक्रमार्थम् आगताः सर्वे यात्रार्थिनः रथं कर्षयन्ति । अस्मिन् सन्दर्भे राष्ट्रिय - अन्तर्राष्ट्रीयवाहिन्यः साक्षात् प्रसारं प्रचारं च कुर्वन्ति ।

विवरणम् - स्वामी जगन्नाथस्य उत्सवोsयं ओडिस्साराज्यस्य (उत्कलं) देवस्थानपत्तनमिति प्रसिद्धे पुरीनगरे प्रतिवर्षमपि रथयात्रा प्रचलति । इदं नगरं भारतस्य पूर्वतीरे स्थितमस्ति । आषाढमासस्य (चान्द्रमानपञ्चाङ्गरीत्याचतुर्थमासः) शुक्लपक्षस्य द्वितीये दिने एतं उत्सवं आचरन्ति । मुख्यदेवालयस्य अग्रपीठे विराजमानाः एताः जगन्नाथादि देवमूर्तयः दिव्यसुदर्शनचक्रेण सह देवालयस्य प्राकारात् बहिरानीय प्रत्येकं परम्परानुगतक्रमेण शोभायात्रायां तत् तत् रथे संस्थाप्यन्ते । वर्णालङ्कारैः रचिताः बृहत् रथान् सहस्रशः जनाः बडादण्ड इति मुख्यवीथ्या नयन्ति । बडादण्ड इति मुख्यवीथिः गुण्डीचा देवस्थानस्य मार्गः एव । इदं देवस्थानं किलोमीटर् द्वये (२) दूरे उत्तरदिशायामस्ति । गुण्डिचा देवालयस्य मार्गे मौसिमा इति देवालयः वर्तते । एते त्रयः देवाः गुण्डिचामन्दिरगमनमार्गे किञ्चित् कालं यावत् मौसिमादेवालयस्य समीपे विश्रान्तिं स्वीकर्तुं तिष्ठन्ति इति जनानां मनसि भावः वर्तते । अत्र दोसा (दोषा-तण्डुल-चणकपिष्टेन वा निर्मीयते) इति पोडपीथ इति विशेषभक्ष्यं पचन्ति । एतत् स्वामिनः (भगवतः) कृते बहु इष्टमिति तस्मै अर्पयन्ति । सप्त दिनानि यावत् अत्र् उषित्वा तदनन्तरं स्वस्थानं प्रति सर्वे देवाः प्रत्याग्च्छन्ति ।