An ode to jackfruit - Sanskrit poem
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां
सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान् नमो भगवते पनसाय तुभ्यम् ॥१॥ (सक्षमायाचनम्)
घर्मादपेतकरुणादुरुदाहधर्माद्
वर्षाच्च भूरिविरुवत्सलिलप्रकर्षात् ।
त्रात्वा निजं रसमयानि फलानि दत्से
तत्र त्वदीयमधुरप्रकृतिर्निदानम् ॥२॥
बाह्येऽजिरे विधरतोत्कटकण्टकानि
बाह्येतरे च मधुमन्ति फलोत्तमानि ।
सत्यं सनातनमिदं भवता स्फुटं यद्
व्यक्ता भवेन्न वपुषा प्रकृतिर्जनस्य ॥३॥
दाक्ष्यं श्रमं च सहनां च धरेन्नृणां य-
स्तेनैव तावकरसो भवतीह लभ्यः ।
सञ्चोदनाय भविनां सुगुणेष्वमीषु
मन्ये स्वयं त्वमवहस्तदिदं स्वरूपम् ॥४॥
आमं नु तेमनमुखेषु नियुञ्जते त्वां
पक्वं च पायसमुखेषु लषन्ति लोकाः ।
धन्यस्त्वमेव यदुपैषि दशासु सर्वा-
स्वेवं जनातिशयितां जननार्थवत्ताम् ॥५॥
काष्ठैस्तव प्रचलिता भुवि नैकयज्ञाः
पर्णैश्च ते कलशकर्म समेति पूर्तिम् ।
पीठादिकान्यपि भवत्त्वगपेक्षकाणि
प्रेम त्वयि क्रतुभुजामपि वागगम्यम् ॥६॥
स्तुत्यानया पनस! नन्द यथार्थगत्या
प्रेष्ठं वरं च वितर त्वमुदारमत्या ।
येनाप्नुयामकृतपुण्यचयैर्दुरापं
त्वां हायनेषु निखिलेषु विना प्रयासम् ॥७॥
फलश्रुतिः -
यः स्तोत्रमेतदनघं पठति प्रभाते
भक्त्या समाहितमना नियतेन्द्रियश्च ।
सोयं न याति पनसान्मनुजो वियोगं
जन्मान्तरेष्वपि पुनर्लभतेsपवर्गम् ।।८।।
डा. रामकृष्णपेजत्तायः
॥ तस्मै नमो भगवते पनसाय तुभ्यम् ॥

ओ३म्
396. संस्कृत वाक्याभ्यासः
कथं गच्छामि ?
= कैसे जाऊँ ?
यानं तु सः नीतवान्।
= वाहन तो वह ले गया।
पदभ्यां गच्छामि।
= पैदल जाता हूँ।
न…न…मम पार्श्वे भारः अपि अस्ति।
= नहीं …नहीं … मेरे पास भार भी है।
कथं नेष्यामि ?
= कैसे ले जाऊँगा ?
प्रतिवेशी अपि गृहे नास्ति।
= पड़ोसी भी घर में नहीं है।
अस्तु, मुख्य मार्गं गच्छामि।
= ठीक है, मेन रोड पर जाता हूँ।
कमपि हस्तं दर्शयामि।
= किसी को भी हाथ दिखाता हूँ।
कदाचित् कोsपि तिष्ठेत् ।
= शायद कोई रुक जाए।
कदाचित् कोsपि नयेत् ।
= शायद कोई ले चले।
ओ३म्
397. संस्कृत वाक्याभ्यासः
सः कदा विरंस्यति
= वह कब रुकेगा।
द्विहोरातः सः व्यायामं करोति।
= दो घंटे से व्यायाम कर रहा है।
पञ्चदश निमेष पर्यन्तं सः अकूर्दत।
= पंद्रह मिनट तक वह कूदा।
अर्धहोरा पर्यन्तं सः अधावत्।
= आधा घंटे तक वह दौड़ा।
पञ्चदश निमेष पर्यन्तं सः दण्डम् अकरोत्।
= पन्द्रह मिनट तक उसने दण्ड किये।
पञ्चदश निमेष पर्यन्तं सः हस्तौ चालितवान्।
= पन्द्रह मिनट तक उसने दोनों हाथ चलाए।
पञ्चदश निमेष पर्यन्तं सः मुद्गरम् अधुनोत्
= पन्द्रह मिनट तक उसने मुद्गर घुमाया।
अधुना सः आसनानि करोति।
= अभी वह आसन कर रहा है।
अर्धहोरा अभवत्।
= आधा घंटा हो गया।
विविधानि आसनानि कुर्वन् अस्ति सः।
= वह विविध आसन कर रहा है।
तस्य शरीरात् प्रस्वेदः निर्गच्छति।
= उसके शरीर से पसीना निकल रहा है।
अधुना कदाचित् विरमेत्।
= अब शायद रुक जाए।
अधुना सः शवासनं करोति।
= अभी वह शवासन कर रहा है।
ओ३म्
398. संस्कृत वाक्याभ्यासः
वयं सर्वे लाहौर-नगरस्य नाम श्रुतवन्तः।
= हम सबने लाहौर नगर का नाम सुना है।
लवकुशाभ्यां तस्य निर्माणं कृतम्।
= लवकुश द्वारा उसका निर्माण किया गया।
आधुनिकस्य लाहौरस्य निर्माणं केन कृतं तद् वयं न जानीमः।
= आधुनिक लाहौर का निर्माण किसने किया वह हम नहीं जानते।
सर गंगाराम नाम्नः एकः अभियन्ता आसीत्।
= सर गंगाराम नाम के एक इंजीनियर थे।
तस्य जन्म 1851 तमे वर्षे अभवत्।
= उनका जन्म 1851 के वर्ष में हुआ था।
( एक सहस्र अष्ट शतं एक पञ्चाशत् )
सः मरुभूमौ कृषिकार्यम् आरब्धवान्।
= उन्होंने मरुभूमि पर खेती शुरू की।
सः यत्किमपि धनम् अर्जयति स्म तस्य सदुपयोगं लाहौरस्य विकासाय एव करोति स्म।
= वह जो कुछ भी धन कमाते थे उसका सदुपयोग लाहौर के विकास के लिये ही करते थे।
लाहौर नगरे मुख्य पत्रालयः, लाहौर संग्रहालयः , मेयो महाविद्यालयः , गंगाराम चिकित्सालयः इत्यादीनां भवनानां निर्माणं तेनैव कृतम्।
= लाहौर नगर में मुख्य डाकघर , लाहौर संग्रहालय, मेयो कॉलेज गंगाराम चिकित्सालय, आदि भवनों का निर्माण उन्होंने ही किया।
विद्युत्उत्पादन केन्द्रस्य निर्माणम् अपि तेनैव कृतम्।
= बिजली उत्पन्न करने के केंद्र का भी निर्माण उन्होंने किया।
पठानकोटतः अमृतसर पर्यन्तं रेलमार्गस्य निर्माणम् अपि सः एव कृतवान् आसीत्।
= पठानकोट से अमृतसर तक रेलमार्ग का निर्माण भी उन्होंने ही किया था।
दिल्ही-नगरे अपि सर गंगाराम चिकित्सालयः वर्तते।
= दिल्ली में भी सर गंगाराम अस्पताल है।
लाहौर नगरे अधुना अपि सर गंगारामस्य समाधिः विद्यते।
= लाहौर में आज भी सर गंगाराम की समाधि है।
वयं सर गंगारामं वन्दामहे।
= हम सर गंगाराम को वन्दन करते हैं।
दुःखस्य विषयः लाहौर अधुना पाकिस्थाने अस्ति।
= दुख का विषय है लाहौर अब पाकिस्तान में है।
ओ३म्
399. संस्कृत वाक्याभ्यासः
मातुलानी – संजय ! उत्तिष्ठ ।
= संजय , उठो ।
– संजयः तु अत्र नास्ति।
= संजय तो यहाँ नहीं है।
– शीघ्रमेव उत्थितवान् ।
= जल्दी उठ गया वह।
– एषः तु अत्र ध्यानं करोति।
= ये तो यहाँ ध्यान कर रहा है।
– संजयः ध्यानं करोति !!! आश्चर्यम्
= संजय ध्यान कर रहा है , आश्चर्य ।
( संजयः यदा उत्थास्यति तदा प्रक्ष्यामि।
= संजय जब उठता है तब पूछती हूँ। )
मातुलानी – त्वं कदा आरभ्य ध्यानं करोषि ?
= तुम कब से ध्यान करने लगे।
संजयः – गतमासे अहं संस्कारशिबिरं गतवान्।
= पिछले महीने मैं संस्कार शिबिर गया था।
तत्र ते योगध्यानस्य अभ्यासं कारितवन्तः ।
= वहाँ उन्होंने योग ध्यान का अभ्यास कराया।
मातुलानी – संजय !! त्वं तु श्रेष्ठः जातः।
= तुम तो सुधर गए।
#vakyabhyas

ॐ
यदा कः अपि जनः भारन्यूनीकरणार्थं प्रयत्नं करोति तदा सः “ पूर्वं मम भारः कियान् आसीत् , इदानीं च कियान् अस्ति " इति एव तुलनां कृत्वा चिन्तनं करोति । “ मम भारः कियान् तथा च मम पार्श्वनिवासीजनस्य भारः कियान् " ईदृशीं तुलनां न करोति ।
परीक्षासु प्राप्तानां गुणाङ्कानां विषये तथैव अस्ति । स्वस्य तुलना स्वयेन सह करणीया । अन्यैः सह न । ये गुणाङ्काः मया प्राप्ताः ते मम गुणाङ्काः । तेषां इतः आपि वर्धनं करिष्यामि इति चिन्तनं भवेत् ।
न्यूटनस्य नियमान् स्वीकृत्य जनाः विवरणात्मक-प्रबन्धान् लिखित्वा प्रगत-गणितशास्त्रे विद्यावारिधिः ( Ph. d. ) इति पदवीं प्राप्तुम् प्रयत्नं कुर्वन्ति । सः एव न्यूटनः , बाल्ये चतुर्थी-कक्ष्यायां गणितविषये दोषार्थं दण्डं स्वीकृत्य , एषः कठिनः विषयः न च किम् अपि अवगन्तुं शक्नोमि इति चिन्तयित्वा , पाठशाला-शिक्षणं त्यक्तवान् आसीत् ।
गते एव शतके जातः , सर्वैः ज्ञातः बहुचर्चितः च भौतिक-वैज्ञानिकः आईनस्टाइनः ( यस्य संशोधनम् आधुनिक-चमत्कारः इति मन्यन्ते वैज्ञानिकाः ) केवलं शालान्त-परीक्षाम् ( S. S. C. ) उत्तीर्णः आसीत् ।
परीक्षा प्रमाणपत्रं च इति सर्वं शैक्षणिकं कर्मकाण्डम् एव । स्वस्य अभ्यासार्थं स्वप्रगति-विषये च ज्ञानार्थं तथैव कदाचित् चरितार्थ-प्राप्त्यर्थं तु तस्य महत्वम् अस्ति एव । किन्तु तस्य ज्ञानेन सह साक्षात् कः अपि सम्बन्धः न भवेत् । ( एतस्य साक्षात् प्रमाणम् -
बहुभिः संस्कृत-प्रसारक-संस्थाभिः सञ्चालितासु विविध-परीक्षासु मया , अनुचितं व्यवहारम् अकृत्वा अपि , ९८ , ९९ , १०० इति गुणाङ्काः प्रमाणपत्राणि च प्राप्तानि । 😁😄। तत्र न केवलं सम्भाषण-विषये अपि च साहित्य-व्याकरणविषये अपि बहवः प्रश्नाः आसन् । साक्षात् व्यवहारे एव घटितः एषः महान् विनोदः । )
इति अलम् ।
🙏

शिक्षकः छात्रान् पाठयति।
वयं नेत्रे निमीलयामः चेत् किमपि द्रष्टुं न शक्नुमः।
एकः छात्रः तदा उत्थाय उक्तवान् श्रीमन्। अहन्तु नेत्रे निमीलयामि चेदपि द्रष्टुं शक्नोमि।
शिक्षकः- किम्? त्वं किं द्रष्टुं शक्नोसि
छात्रः- श्रीमन्, केवलं अन्धकारः एव दृश्यते।
-प्रदीपः!
😁😄🤣😂😀😂😁
#hasya

29 june
ट्विट्टर् माध्यमस्य भूमानचित्रे जम्मू तथा लडाकः च प्रत्येकराष्ट्रम्। प्रक्रमाय भारतसर्वकारः।
नवदिल्ली> नूतन-सूचनाप्रौद्योगिक-विद्यानियमान् संबन्ध्य भारतसर्वकारस्य ट्विट्टर् माध्यमस्य च मिथः विवादे अनुवर्तमाने पुनः अपि ट्विट्टर् माध्यमः नूतनविवादे पतितः। केन्द्रशासनप्रदेशौ जम्मूः लडाकः च भारतस्य बहिः प्रत्येकं राष्ट्रे इति रूपेण ट्विट्टर् माध्यमः स्वजालपुटे (website) भूमानचित्रे सूचितः। नूतन विवादे भारतसर्वकारस्य कठिनप्रक्रमाः ट्विट्टर् माध्यमः अभिमुखीकरिष्यति इति सूचना। राष्ट्रस्य अपूर्णभूमानचित्रस्य प्रदर्शने सामूहिकमाध्यमादिषु प्रतिषेधाणि अनुवर्तन्ते। ट्विट्टर् माध्यमं विरुध्य कठिनप्रक्रमाः समालोचयन्ति इति एतद्विषयसंबन्धिभिः अधिकारिभिः निगदितम्।
औद्योगिकदृढीकरणमभवत्। २०-२० विश्वचषकं यु ए इ राष्ट्रे भविष्यति।
मुम्बै> अस्मिन् संवत्सरस्य ट्वन्टि- ट्वन्टि विश्वचषकक्रीडायाः आतिथेयः यु यू ए ई भविष्यति। बि सि सि ऐ संस्थायाः अध्यक्षेण सौरव् गाङ्गुलिना एव अस्मिन् विषये औद्योगिकदृढीकरणं दत्तम्। यु ए इ आतिथेयः भविष्यति इति पूर्वसूचना आसीत् तथापि औद्योगिकतया न दृढीकृतमासीत्। भारते कोविड् महामारी न नियन्त्रणविधेयः तथा वैराणोः तृतीयतरङ्गस्य साध्यता अपि अस्ति इत्यतः एव वेदिका परिवर्तिता। कार्यमिदम् औद्योगिकतया ऐ सि सि संस्थायै आवेदितमस्ति। ओक्टोबर् नवम्बर् मासयोः क्रिकट् प्रतियोगिताः प्रचलिष्यन्ति इति गाङगुलिना प्रोक्तम्।
~ संप्रति वार्ता

🚩आज की हिंदी तिथि
🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
⛅ 🚩तिथि - षष्ठी दोपहर 01:18 तक तत्पश्चात सप्तमी
⛅ दिनांक - 30 जून 2021
⛅ दिन - बुधवार
⛅ शक संवत - 1943
⛅ अयन - दक्षिणायन
⛅ ऋतु - वर्षा
⛅ मास - आषाढ़
⛅ पक्ष - कृष्ण
⛅ नक्षत्र - पूर्व भाद्रपद 01 जुलाई रात्रि 02:03 तक तत्पश्चात उत्तर भाद्रपद
⛅ योग - प्रीति सुबह 11:15 तक तत्पश्चात सौभाग्य
⛅ राहुकाल - दोपहर 12:42 से दोपहर 02:23 तक
⛅ सूर्योदय - 06:01
⛅ सूर्यास्त - 19:23
⛅ दिशाशूल - उत्तर दिशा में

Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news. https://www.youtube.com/watch?v=C_qffT7ZGpI
YouTube
Vaarta: News and updates in Sanskrit | 30.6.2021
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
https://sudharmasanskritdaily.in/subscribe/
नागपुरे घटिता एका चौर्यघटना - काचित् लज्जास्पदा, काचित् हास्यास्पदा च। एकं स्पष्टीकरोमि यत् कापि चौर्यघटना दु:खावहा एव वर्तते, तस्या: कृते हास्यं न योग्यम्। किन्तु एतस्य प्रसङ्गस्य कृते अपवादं निवेदयामि।
नैऋत्यनागपुरे एकं लक्ष्मीनगरम् इति क्षेत्रम् अस्ति। अखिले लक्ष्मीनगरे सुशिक्षिता:, धनसम्पन्ना: च जना: निवसन्ति। दीक्षाभूमि:, राष्ट्रीय-पर्यावरण-अभियान्त्रिकी-अनुसन्धान-संस्था, इत्यादीनां सान्निध्यं लब्धम् अस्ति लक्ष्मीनगराय। नागपुरे अतिसुरक्षितक्षेत्रेषु एकम् अस्ति क्षेत्रम् इदम्। चौर्यप्रसङ्गा:, अपराधघटना: तु अतीव विरला: अत्र। किन्तु पञ्चषेभ्य: मासेभ्य: पूर्वम् अत्र एका घटना घटिता, सापि न कस्यापि सामान्यनिवासिन: गृहे, अपि तु नागपुरस्य प्राक्तनमहापौरस्य निवासे।
महापौरपदं भूषयितु: जनस्य गृहं, कियत् विशालं, तस्य गृहे कति, कीदृशाणि च कारयानानि एतत् तु सर्वे अवगच्छेयु: एव। भृत्यानां, कर्मकराणां, सुरक्षाकर्मिणां, कारचालकानां, अन्या: सेवा: पूरयितॄणां च सङ्ख्या अधिका, तेषां सततं सञ्चार: च तद्गृहे। मन्त्रिण:, तस्य परिवारजनानां च सर्वेषां सेवकानां मुखपरिचय: अपि नास्ति। एतस्य एव लाभ: चोरेण साधित:। एकस्मिन् दिने स: महापौरस्य गृहं प्राप्य प्रवेशद्वारं खटखटायितवान्। मन्त्रिण: पत्नी च द्वारम् उद्घाटितवती (सा स्वयम् उद्घाटितवती वा कोऽपि सेवक: उद्घाटितवान् तां च आहूतवान् इति स्पष्टं न जानामि)। स: जन:, "अहं कारक्षालक: अस्मि, कृपया XUV यानस्य कुञ्चिकां ददातु", इति उक्तवान्। प्रतिदिनमेव कोऽपि कारक्षालक: आयाति, अत: तस्मै कुञ्चिकादानं तु दैनन्दिनक्रम: एव। अत: नि:शङ्कतया मन्त्रिण: पत्नी तस्मै कुञ्चिकासञ्चं दत्त्वा स्वकार्ये व्यस्ता अभवत्। एष: कुशल: जन: सुरक्षाकर्मिणं "कारयानं सुधारार्थं नेयम् अस्ति" इति व्याजेन कारयानं हर्म्यस्य बहि: आनीय पलायितवान्। एवं च कुशलतया धनाढ्यस्य गृहात् महार्घतमं कारयानं चोरितवान्। प्राय: "Oye Lucky Lucky Oye" चित्रपटात् प्रेरणा प्राप्ता स्यात् तेन।
वस्तुत: एषा घटना कुत्रापि न प्रकाशिता। यदि सा प्रकाशिता अभविष्यत्, तर्हि महापौरस्य प्रतिष्ठां क्षतिम् अगमिष्यत्। अनेका: व्यापारिकसंस्थया सुरक्षासंस्थया नियुक्ता: सुरक्षाकर्मिण: चेदपि कथं चोरस्य धार्ष्ट्यम् अभवत्, सुरक्षाकर्मिण: मनसि शङ्का कथं नागता, कथम् एतावतां जनानां निर्बाधसञ्चार: मन्त्रिण: हर्म्ये (सोऽपि कोरोनाकाले) इत्यादय: अनेका: प्रश्ना: उदभविष्यन्। एतां स्थितिं वर्जयितुं वार्ताम् इमां यथा न प्रसरेत् तथा मन्त्रिणा गोपिता। किन्तु परितस्थेभ्य: जनेभ्य: तु गोपनम् अशक्यप्रायम्।
अस्तु, प्राक्तनमहापौरस्य कृते एकस्य कारयानस्य हानि: तु न महती। किन्तु चोरस्य कौशल्यं, धार्ष्ट्यं च ज्ञात्वा हासम् उत्पद्यते।
- चिन्मयफडके

400. संस्कृत वाक्याभ्यासः
पत्नी – सेविका तु न आगतवती।
= सेविका तो नहीं आई।
– पात्राणि कः प्रक्षालयिष्यति ?
= बर्तन कौन धोएगा ?
– अद्य मम विद्यालयं शिक्षणाधिकारी आगामिष्यति।
= आज मेरे विद्यालय में शिक्षणाधिकारी आएँगे।
पतिः – कति सन्ति पात्राणि ?
= कितने बर्तन हैं ?
– ओह , केवलं विंशतिः खलु।
= ओह , केवल बीस न ।
– अष्ट तु चमसाः सन्ति।
= आठ तो चम्मच हैं।
– चत्वारः चषकाः ।
= चार गिलास।
– तिस्रः स्थालिकाः सन्ति।
= तीन थालियाँ हैं।
– अन्यानि पात्राणि लघूनि एव।
= अन्य पात्र छोटे ही हैं।
– आवां द्वौ प्रक्षालयितुं शक्नुवः।
= हम दोनों धो सकते हैं।
पत्नी – सेविका कदा आगमिष्यति ?
= सेविका कब आएगी ?
पतिः – अधुना तु सेवकः आगतः ।
= अभी तो सेवक आ गया है।
– आगच्छ , पात्राणि प्रक्षालयावः।
= आओ , बर्तन धोते हैं ।
401. संस्कृत वाक्याभ्यासः
मित्राणि !!! भो: मित्राणि !!!
श्रुतम् ??
= सुना ??
प्रधानमन्त्री महोदयः अस्माकं छात्रावासम् आगच्छति।
= प्रधानमंत्री महोदय हमारे छात्रावास आ रहे हैं।
प्रधानमन्त्रिणे स्वच्छता बहु रोचते।
= प्रधानमंत्री को स्वच्छता बहुत पसंद है।
मेहुल ! त्वं दीर्घां स्वच्छां कुरु ।
= मेहुल ! तुम गलिहारा साफ करो।
तव गौतमगणस्य छात्राः सहयोगं करिष्यन्ति।
= तुम्हारे गौतम गण के छात्र सहयोग करेंगे।
किरीट ! अत्र पश्य , ऊर्णनाभस्य जालानि सन्ति।
= किरीट ! यहाँ देखो , मकड़ी के जाले हैं।
तव कणादगणस्य छात्राः एतद् कार्यं करिष्यन्ति।
= तुम्हारे कणाद गण के छात्र ये काम करेंगे।
नलिन ! त्वं छात्रावासात् बहिः आगच्छ ।
= नलिन ! तुम छात्रावास से बाहर आओ।
अत्र पश्य , जनाः अत्रैव निष्ठीवनं कुर्वन्ति।
= यहाँ देखो , लोग यहीं पर थूकते हैं।
तव कपिल गणस्य छात्राः भित्तिं स्वच्छां करिष्यन्ति।
= तुम्हारे कपिल गण के छात्र दीवाल साफ करेंगे।
मम वसिष्ठगणस्य छात्राः छात्रावासे सुशोभनं करिष्यन्ति।
= मेरे वसिष्ठ गण के छात्र सुशोभन करेंगे।
402. संस्कृत वाक्याभ्यासः
तस्य केशाः पतन्ति।
= उसके बाल गिर रहे हैं।
सः यदा स्नानं करोति तदा केशाः भ्रष्टाः भवन्ति।
= वह जब नहाता है तब बाल झड़ते हैं।
प्रतिदिनं केशाः क्षरन्ति।
= हररोज़ बाल झड़ रहे हैं।
भोजनसमये स्थालिकायां केशाः पतन्ति।
= भोजन के समय थाली में बाल गिरते हैं।
मार्गे तस्य युतके अपि केशाः आगच्छन्ति।
= रास्ते में उसकी शर्ट पर भी बाल आ जाते हैं।
अधुना सः शिरसि रिष्टकस्य लेपनं करोति।
= अभी वह सिर पर रीठे का लेप कर रहा है।
आमलकस्य अपि सेवनं करोति।
= आँवले का भी सेवन करता है।
यदाकदा दध्ना केशान् प्रक्षालयति।
= कभी कभी दही से बाल धोता है।
यथा वैद्येन उक्तं तथैव सः करोति।
= जैसा वैद्य ने कहा वैसा वह कर रहा है।
तस्य केशाः सुदृढ़ाः भविष्यन्ति इति अहं मन्ये।
= उसके बाल मजबूत हो जाएँगे ऐसा मैं मानता हूँ।
ओ३म्
403. संस्कृत वाक्याभ्यासः
कदलीवृक्षे पुष्पम् अपि भवति।
= केले के पेड़ पर फूल भी होते हैं।
पुष्पं बहु दीर्घं भवति।
= फूल बहुत बड़ा होता है।
तद् पुष्पं यदा अपक्वं भवति तदा कर्त्यते।
= वो फूल जब कच्चा होता है तब काटा जाता है।
दक्षिणभारतीयाः जनाः तस्य शाकं प्रचुरं खादन्ति।
= दक्षिण भारत के लोग उसकी सब्जी अधिक खाते हैं।
तद् शाकम् अहं खादितवान्।
= वो सब्जी मैंने खाई।
बहु स्वादिष्टं भवति।
= बहुत स्वादिष्ट होती है।
लवणयुक्ते जले कदलीपुष्पं क्वथ्यते।
= नमकीन पानी में केले का फूल उबाला जाता है।
अनन्तरं तस्य शाकं निर्मीयते।
= उसके बाद उसकी सब्जी बनाई जाती है।
मधुमेहरोगिणः एतद् शाकं खादन्ति।
= मधुमेह के रोगी इस सब्जी को खाते हैं।
अपक्वं कदलीफलम् अपि आपणे मिलति।
= कच्चा केला भी बाजार में मिलता है।
तस्य अपि शाकं महिलाः पचन्ति।
= उसकी भी सब्जी महिलाएँ बनाती हैं।
ओ३म्
404. संस्कृत वाक्याभ्यासः
अहं तं बीमाशुल्कम् सूचितवान्
= मैंने उसे बीमा प्रीमियम बताया ।
सः त्वरितमेव धनगणनाम् आरब्धवान्।
= उसने तुरन्त धन गिनना शुरू कर दिया।
एकम्
द्वे
त्रीणि
चत्वारि
पञ्च
षट्
सप्त
अष्ट
नव
दश
एकादश
द्वादश
त्रयोदश
चतुर्दश
पञ्चदश
षोडश
सप्तदश
अष्टादश
नवदश
विंशतिः
एकविंशतिः
द्वविंशतिः
त्रयोविंशतिः
चतुर्विंशतिः
पञ्चविंशतिः
षड्विंशतिः
सप्तविंशतिः
सः तु सप्तविंशतिः पर्यन्तं गणनां कृतवान्।
= उसने सत्ताईस तक गिन लिया।
सः मह्यम् सप्तविंशतिः सहस्रं दत्तवान्।
= उसने मुझे सत्ताईस हजार दिये।
मया उक्तं ” न , केवलं एकविंशतिः सहस्रमेव भवति।”
= मैंने कहा ” नहीं केवल इक्कीस हजार ही होते हैं।”
अहं षड्सहस्रं तस्मै प्रत्यर्पितवान्।
= मैंने उसे छः हजार वापस किये।
सः अवदत् – “ भवति मम विश्वासः अस्ति।”
= उसने कहा – “आप पर मुझे विश्वास है”
अधुना सः पुनः गणयति।
= अभी वह फिर से गिन रहा है।
मह्यं केवलं एकविंशतिः सहस्रं दास्यति।
= मुझे केवल इक्कीस हजार देगा।
भवन्तः / भवत्यः अपि गणयन्तु।
= आप भी गिनिये।