संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🍃 सा अग्र्यतामरसागाराम् अक्षामा घनभा आर गौः।
निजदे अपरजिति आस श्रीः रामे सुगराजभा ॥ ३०॥


🔸अयोध्या का समृद्ध स्थल, तामरस (कमल) पर विराजमान राज्यलक्ष्मी का सर्वोत्तम निवास बना। सर्वस्व न्योछावर करानेवाले अजेय राम के प्रतापी शासन का उदय हुआ।


विलोम श्लोक :—
🍃 भा अजराग सुमेरा श्रीसत्याजिरपदे अजनि।
गौरभा अनघमा क्षामरागा स अरमत अग्र्यसा ॥ ३०॥


🔸श्रीसत्य (सत्यभामा) के आँगन में अवस्थित पारिजात में पुष्प प्रस्फुटित हुए। सत्यभामा, इस निर्मल संपत्ति को पा कृष्ण की प्रथम भार्या रुक्मिणी के प्रति इर्ष्याभाव का त्याग कर, कृष्ण संग सुखपूर्वक रहने लगी।🔚

#Viloma_Kavya

विलोम काव्य समाप्त

Viloma Kavya Ends Here
Forwarded from kathaaH कथाः
जून् २०१९ सम्भषणसन्देश:
ओ३म्

388. संस्कृत वाक्याभ्यासः

इदानीम् अहं केरले अस्मि।
= अभी मैं केरल में हूँ।

एकस्मिन् विवाहसमारोहे अस्मि।
= एक विवाह समारोह में हूँ।

प्रातः दशवादने सर्वे एकं मन्दिरं गतवन्तः।
= सुबह दस बजे सभी एक मंदिर गए।

तत्र वरः वधूश्च आगत्य एकं पात्रं शालिना पूरितवन्तौ।
= वहाँ वर वधू ने एक पात्र को धान से भर दिया।

मन्दिरस्य अर्चकः तुलसीमाले आनीतवान्।
= मंदिर का पुजारी दो तुलसी मालाएँ लाया।

मन्दिरस्य द्वारे बृहद्दीपम् आसीत्।
= मंदिर के पास बड़ा दीप था।

तत्रैव वरवधू: परस्परं तुलसीमाल्यार्पणं कृतवन्तौ।
= वहीं वर वधू ने एकदूसरे को तुलसी माला पहनाई।

मृदङ्गवादकः मृदङ्गं वादयति स्म।
= मृदङ्गवादक मृदङ्ग बजा रहा था।

श्रृङ्गीवादकः श्रृङ्गीं वादयति स्म।
= शहनाई बजाने वाला शहनाई बजा रहा था।

नादस्वरं श्रुत्वा बहु आनन्दः आगतः।
= नादस्वर सुनकर बहुत आनंद आया।

अधुना सर्वे सध्यां खादन्ति।
= अभी सब सध्या खा रहे हैं।

( केरले विवाहस्य भोजनस्य नाम सध्या अस्ति।
= केरल में विवाह के भोजन का नाम सध्या है। )

ओ३म्

389. संस्कृत वाक्याभ्यासः

सर्वे समाचारपत्रं पठन्ति।
= सभी समाचारपत्र पढ़ रहे हैं।

एकः उत्थाय पठति।
= एक खड़ा होकर पढ़ रहा है।

अन्यः उपविश्य पठति।
= दूसरा बैठकर पढ़ रहा है।

केचन जनाः याचित्वा पठन्ति।
= कुछ लोग माँगकर पढ़ते हैं।

यदा कोsपि समाचारपत्रं याचते …
= जब कोई समाचार पत्र माँगता है …

तदा वाचकः एकं पृष्ठं तस्मै ददाति ।
= तब पढ़ने वाला व्यक्ति एक पृष्ठ उसे देता है।

एकः वृद्धः काचेन समाचारपत्रं पठति।
= एक वृद्ध ग्लास द्वारा समाचार पत्र पढ़ रहा है।

एकः छात्रः केवलं मुख्यं समाचारम् एव पठति।
= एक छात्र केवल मुख्य समाचार ही पढ़ता है।

अपरः छात्रः सम्पूर्णं समाचारपत्रं पठति।
= दूसरा छात्र पूरा समाचारपत्र पढ़ता है।

एकः तु केवलं खेलसमाचारम् एव पठति।
= एक तो केवल खेल समाचार ही पढ़ता है।

एका युवती समाचारपत्रे स्वचित्रं दृष्ट्वा मोदते।
= एक युवती समाचारपत्र में अपना चित्र देखकर खुश होती है।

सा युवती श्लोकस्पर्धायां प्रथमं पुरस्कारं प्राप्तवती।
= उस युवती ने श्लोक स्पर्धा में प्रथम पुरस्कार पाया।

बहवः जनाः “सम्भाषण सन्देशम्” पठन्ति।
= बहुत से लोग “सम्भाषण सन्देशम्” पढ़ते हैं।

ओ३म्

संस्कृत वाक्याभ्यासः
अधुना सर्वत्र अवकरपात्रं दृश्यते।
= अब सब जगह कूड़ादान दिखता है।

आपणिकाः आपणात् बहिः अवकरपात्रं स्थापयन्ति।
= दुकानदार दूकान से बाहर कूड़ेदान को रखते हैं।

गृहस्वामिनः अपि गृहेषु अवकरपात्रं स्थापयन्ति।
= घरों के मालिक घरों में कूड़ादान रखते हैं।

उच्छिष्टम् अन्नं पशूनां कृते पृथक स्थापयन्ति।
= जूठा भोजन पशुओं के लिये अलग रखते हैं।

अवशिष्टम् अवकरम् अवकरपात्रे क्षिपन्ति।
= बाकी बचा कचरा कूड़ेदान में फेंकते हैं।

कर्गदानि क्षिपन्ति।
= कागज फेंकते हैं।

कूपीः क्षिपन्ति।
= बोतलें फेंकते हैं।

बालकाः अपि ज्येष्ठानाम् अनुकरणं कुर्वन्ति।
= बच्चे भी बड़ों का अनुकरण करते हैं।

प्रातःसायं अवकरपात्रं रिक्तं क्रियते।
= सुबह शाम कूड़ादान खाली किया जाता है।

स्वच्छता सर्वेभ्यः रोचते।
= स्वच्छता सबको पसन्द है।

ओ३म्

391. संस्कृत वाक्याभ्यासः

माता – हस्तौ प्रक्षालय वत्स !
= हाथ धो लो बेटा !

पुत्रः – किमर्थम् अम्ब ?
= क्यों माँ ?

माता – तव पादौ अपि प्रक्षालय ।
= तुम्हारे पैर भी धो लो।

पुत्रः – अम्ब ! बहु बुभुक्षा अस्ति।
= माँ ! बहुत भूख लगी है।

– भोजनं ददातु।
= भोजन दीजिये।

माता – नैव , पूर्वं हस्तौ पादौ च प्रक्षालय।
= नहीं पहले हाथ पैर धो लो।

भोजनात् पूर्वं हस्तपाद-प्रक्षालनम् आवश्यकं भवति।
= भोजन से पहले हाथ पैर धोना आवश्यक होता है।

पुत्रः – आम् , अम्ब ! प्रक्षालयामि।
= हाँ माँ ! धोता हूँ।

माता – शोभनम् ।
= बढ़िया ।

– यथा शुद्धं , स्वादिष्टं भोजनम् आवश्यकम् अस्ति।
= जैसे शुद्ध , स्वादिष्ट भोजन आवश्यक है।

– तथैव देहशुद्धि: मनःशुद्धि: अपि आवश्यकी भवति।
= उसी प्रकार देहशुद्धि , मनःशुद्धि आवश्यक होती है।

#vakyabhyas
अद्य तस्य जन्मजयंती 🌺

बङ्किमचन्द्र चट्टोपाध्याय (वङ्ग: বঙ্কিমচন্দ্র চট্টোপাধ্যায় Bôngkim Chôndro Chôţţopaddhae)(२७ जून्, १८३८- ८ एप्रिल्, १८९४) उनविंशतिशतकस्य एकः महान् वङ्गीय-साहित्यिकः सम्पादकश्च आसीत् । वङ्गीयगद्यस्तथा उपन्यासस्य विकाशे अस्य असीमावदानम् अस्ति । बङ्किमचन्द्रः साधारणतः वङ्गीयसाहित्येतिहासे प्रथमः औपन्यासिकरूपेण ख्यातः । परन्तु भगवद्गीतायाः व्याख्याता तथा साहित्य-समालोचकरूपेणाऽपि एषः विशेषख्यातिमानः । सः वृत्तिदृष्ट्या ब्रिटिश्-शासनस्य कर्माचारी आसीत् । बङ्किमचन्द्रः वङ्गीयभाषायाः प्रथमसाहित्यपत्रस्य वङ्गदर्शनस्य अदिसम्पादकः आसीत् । अस्य छद्मनाम आसीत् कमलाकान्त इति ।


जननम् — २७ जून् १८३८
नैहाटी, पश्चिमवङ्गराज्यम्, भारतम्
मरणम् — ८ एप्रिल् १८९४ (आयुः ५५)
कोलकाता, पश्चिमवङ्गराज्यम्, भारतम्
वृत्तिः — प्रशासकः, लेखकः, व्याख्याता
राष्ट्रीयता — भारतीयः
परम्परा — वङ्गीय
उच्चशिक्षा —कोलकाता-विश्वविद्यालयः
प्रकारः — कविः, औपन्यासिकः, गद्यकारः, सम्पादकः
विषयाः — साहित्यम्
साहित्यकान्दोलनम् —बङ्गनवजागरणम्
प्रमुखकृतयः — आनन्दमठस्य रचयिता, यस्मिन् भारतस्य राष्ट्रियगीतं वन्दे मातरम् अस्ति ।

जीवनम्
जन्म वंशपरिचयश्च
बङ्किमचन्द्रस्य जन्म( २७ जून, १८३८ क्रैस्ताब्दः/१३ आषाढ १२४५ बङ्गाब्दः ) नैहाटीनगरस्य निकटस्थे कांठालपाडाग्रामे अभवत् । वस्तुतः तस्य वंशस्य आदिनिवासः हुगलिमण्डलस्य देशमुखोग्रामे आसीत् । बङ्किमचन्द्रस्य प्रपितामहः रामहरि चट्टोपाध्याय महोदयः मातामहस्य सम्पत्तिं प्राप्य कांठालपाडाग्रामं गतवान् आसीत् । अन्ततरं तत्रैव वसवासम् अकरोत् । रामहरि महोदयस्य पौत्रः आसीत् यादवचन्द्र चट्टोपाध्यायः । तस्य तृतीयपुत्रः बङ्किमचन्द्रः आसीत् । बङ्किमचन्द्रस्य श्यामाचरण तथा सञ्जीवचन्द्र इति द्वौ अग्रजौ आस्ताम् । बङ्किमस्य जन्मकाले पितुः यादवचन्द्रस्य सह-मण्डलशासकरूपेण पदोन्नतिः जाता आसीत् ।

शिक्षा
शैशवकालं बङ्किमचन्द्रः कांटापाडा”ग्रामैव यापितवान् . पञ्च वयसि कुलपुरोहितेन विश्वम्भर भट्टाचार्येण জন্মের পর तस्य विद्यारम्भः जातः . अत्यल्पैव वयसि तस्य मेधा सर्वैः ज्ञाता . बङ्किमचन्द्रस्य कणिष्ठः सहोदरः पूर्णचन्द्र चट्टोपाध्यायः लिखितवान्- “শুনিয়াছি বঙ্কিমচন্দ্র একদিনে বাংলা বর্ণমালা আয়ত্ত করিয়াছিলেন।”(भाषानुवादः- श्रुतञ्च, बङ्किमचन्द्रेण बाङ्ग्लावर्णमाला आयत्ती कृता आसीत्)
अद्य तस्याः अपि जन्मदिनम्🥳

पिलवुल्लकण्डितेक्केपरम्बिलुषा(P. T. Usha) (जननम् - जून् २७, १९६४; पी टी उषा इति प्रसिद्धा) केरलराज्यात् भारतीया क्रीडका अस्ति। १९७९ तः भारतीयक्रीडापटुभिः सह तस्याः सम्पर्कः वर्तते । भारतस्य अत्युत्तमक्रीडापटुषु एषा अन्यतमा इति परिगण्यते। भारतीयरेखामार्ग-क्षेत्रयोः राज्ञी इत्यपि सा निर्दिश्यते। पय्योलि एक्स्प्रेस् इति तस्याः उपनाम। अद्यत्वे सा केरके कोयिलण्डिप्रदेशे 'उषाक्रीडाशालां' चालयति। पि टि उषा केरलराज्ये कोझिकोड्जनपदे पय्योलिग्रामे जन्म प्राप्नोत्। १९७६ तमे वर्षे केरलसर्वकारेण महिलानां कृते क्रीडाशाला आरब्धा। उषा स्वस्य जनपदस्य प्रतिनिधित्वेन तत्र अवसरं प्राप्नोत्।


वृत्तिजीवनयात्रा
१९७९ तमे वर्षे राष्ट्रियविद्यालयक्रीडासु सा भागम् अवहत् । तत्र एतस्याः प्रतिभाम् अभिज्ञातवान् ओ एम् नम्बियार् सदा तस्याः प्रशिक्षकत्वेन अतिष्ठत् । १९८० तमे वर्षे मास्को-ओलिम्पिक्स्-क्रीडाकूटे तया रङ्गप्रवेशः कृतः । किन्तु तस्मिन् तस्याः प्रदर्शनं नीरसं जातम् । १९८२ तमे वर्षे नवदेहल्याम् एश्याक्रीडाकूटे १०० मी २०० मी स्पर्धासु रजतपदकं प्राप्तवती । अग्रिमे वर्षे कुवैत्-एशियाकूटे तया स्वर्णपदकं जितम् ४०० मी धावनस्पर्धायाम् । १९८३ तः ८९ पर्यन्तं तया १३ स्वर्णपदकानि प्राप्तानि । १९८४ तमे वर्षे लास्-एञ्जलीस्-ओलिम्पिक्स्-क्रीडाकूटे ४०० मी कूर्दन-धावनस्पर्धायाम् उपान्त्यस्पर्धायां प्रथमस्थानं प्राप्नोत् । किन्तु अन्तिमस्पर्धायां क्षणस्य शतांशेन सा कांस्यपदकात् च्युता जाता । उपान्त्यस्पर्धायां जयं प्राप्तवती सा ओलिम्पिक्-अन्तिमस्पर्धायां भागम् ऊढवत्सु भारतीयमहिला-क्रीडापट्वीषु प्रथमा, भारतीयक्रीडापटुषु पञ्जमी च जाता ।

दक्षिणकोरियादेशस्य सियोल्-नगरे जाते १० एशियन्क्रीडाकूटे उषया ४ स्वर्णपदकानि, १ रजतपदकञ्च प्राप्तम् । अत्र तया भागम् ऊढवत्सु सर्वासु स्पर्धासु विक्रममेव साधितवती । १९८५ तमे वर्षे जकार्तायां जाते एशियन्क्रीडाकूटे तया ५ स्वर्णपदकानि जितानि । क्रीडापटुना एकस्मिन्नेव अन्ताराष्ट्रिये क्रीडाकूटे एतावतां पदकानां प्राप्तिः नूतनः विक्रमः जातः । एतावता उषया १०१ अन्ताराष्ट्रियपदकानि जितानि सन्ति । सा दक्षिणरेल्वेविभागे अधिकारिणी अस्ति । तया पद्मश्री अर्जुनप्रशस्तिः च प्राप्ता अस्ति ।


साधनानि
१९७७ तमे वर्षे कोट्टायाम्नगरे जाते राज्यस्तरीय-क्रीडाकूटे राष्ट्रियविक्रमः साधितः ।

१९७८ तमे वर्षे कोल्लम्नगरे जाते राष्ट्रिय-अन्ताराज्य-क्रीडाकूटे कनीयक्रीडापटुत्वेन आकर्षणकेन्द्रं जातम् ।

१९८० तमे वर्षे जाते मास्को ओलिम्पिक्स् क्रीडाकूटार्थं चिता जाता ।

ओलिम्पिक्-स्पर्धायाम् अन्तिमस्तरं प्राप्तवती प्रथमकेरलीया प्रथमभारतीयमहिला च इयम् ।

मास्को-ओलिम्पिक्स्-स्पर्धायां भागं गृहीतवत्सु अवरतमा आसीत् इयं षोडशवर्षीया ।

१९८२ देहली-एशियन्-स्पर्धायां प्रथमं पदकं प्राप्तवती ।

१९८३ तमे वर्षे कुवैत्-एशियन् चाम्पियन्शिप्-मध्ये ४०० मी अन्ताराष्ट्रियस्पर्धायां प्रथमवारं भागं गृहीत्वा सफलतां प्राप्नोत् ।

लासेञ्जलीस्-स्पर्धायां ५५.५४ क्षणानां विक्रमः तया साधितः । एदम्प्राथम्येन अस्मिन् महिलानां कृते ४०० मी धावनस्पर्धा आयोजिता आसीत् ।

१९८५ जकार्ता एशियन् क्रीडाकूटे उषया ५ स्वर्णपदकानि प्राप्तानि ।

१९८६ तमे वर्षे सियोल्-एशियन्-क्रीडाकूटे तया ४ स्वर्णपदकानि प्राप्तानि, एशियायाः 'धावनराज्ञी' इति बिरुदं प्राप्तवती ।

१९८० तः उषा ओलिम्पिक्-क्रीडाकूटे भागम् अवहत् । १९९१ तमे विवाहः सम्पन्नः इत्यतः १९९२ तमे वर्षे जाते बार्सेलोनियाक्रीडाकूटे तया भागः न ऊढः ।

तया १९९६ तमे वर्षे जाते अट्लाण्टा-ओलिम्पिक्स्-क्रीडाकूटे अन्तिमरूपेण भागः स्वीकृतः ।


जागतिकविक्रमः
१९८५ तमे वर्षे जाते जकार्ता-एशियन्-क्रीडाकूटे तया १००, २००, ४०० धावनस्पर्धासु, ४०० प्रतिरोधधावनस्पर्धायां च स्वर्णपदकं ४ X ४०० मी रिलेस्पर्धायां च कांस्यपदकं प्राप्तवती । एकस्मिन् क्रीडाकूटे कयाचित् महिलया एतावन्ति स्वर्णपदकानि न प्राप्तानि । अतः अयमस्ति कश्चन विक्रमः ।


प्रशस्तयः पुरस्काराश्च
१९८४ - अर्जुनप्रशस्तिः

१९८५ - अत्युत्कृष्टमहिलाक्रीडापट्वी

१९८४ - पद्मश्री

१९८४, १९८५, १९८६, १९८७, १९८९ - एशियाक्रीडासु - अत्युत्तमक्रीडापट्वी

१९८६ सियोल्-एशियन्-क्रीडाकूटे - आदिदास-स्वर्ण-पादत्राण-प्रशस्तिः (Adidas Golden Shoe Award)

३० अन्ताराष्ट्रियप्रशस्तयः

१९९९ - केरल-क्रीडा-पत्रिकोद्यमी-प्रशस्तिः

१९८५, १९८६ उत्तमक्रीडापटु-जागतिकप्रशस्तिः
सा प्रतिदिनं स्वस्य भारस्य समवेक्षणं कुर्वन्ती स्म l

तत् ६८ किलो पर्यंतम् आसीत् l

अद्य तया उपनेत्रं धारियत्वा भारं दृष्टम् l

सा अवदत् – हे राम ! २० किलोभारस्य उपनेत्रम् ?

😁😄🤣😂😀😂😁
#hasya
27 june
दरिद्रराष्ट्रेभ्यः वाक्सिनं दातव्यम् इत्यभ्यर्थयति विश्वस्वास्थ्यसंघटनम्।

  धनिकराष्ट्राणि दरिद्रराष्ट्रेभ्यः वाक्सिनं दातव्यं इत्यभ्यर्थयति विश्वस्वास्थ्यसंघटनम्। दरिद्रराष्ट्रेषु वाक्सिनस्य मात्रायाः क्षामः अनुभूयते। अतः तेभ्यः वाक्सिनस्य लब्ध्यर्थं धनिकराष्ट्रैः साहाय्यम्  अवश्यं क्रियताम् इति विश्वस्वास्थ्य सङ्घटनस्य अध्यक्षः टेड्रोस् अधनोम् ग्रब्रियोसस् अभ्यर्थयत्। 

डेल्ट विभेदः आविश्वं व्याप्यते इत्यनेन अफ्रिक्कस्य स्थितिः दयनीया एव भवति। नूतनानि अणुसङ्क्रमणानि मरणानि च गतसप्ताहापेक्षया प्रतिशतं ४० इति वर्धितानि इत्यपि सः अवदत्।

~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - चतुर्थी दोपहर 02:16 तक तत्पश्चात पंचमी

⛅️ दिनांक - 28 जून 2021
⛅️ दिन - सोमवार
⛅️ विक्रम संवत - 2078
⛅️ शक संवत - 1943
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - आषाढ़
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - धनिष्ठा रात्रि 12:49 तक तत्पश्चात शतभिषा
⛅️ योग - विष्कम्भ दोपहर 02:05 तक तत्पश्चात प्रीति
⛅️ राहुकाल - सुबह 07:40 से सुबह 09:21 तक
⛅️ सर्योदय - 06:00
⛅️ सर्यास्त - 19:23
⛅️ दिशाशूल - पूर्व दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Forwarded from 🏆 Sanskrit Mantram Classes 🏆