ओ३म्
361. संस्कृत वाक्याभ्यासः
राजीवः – नमो नमः ।
नीरजः – नमस्ते , नमो नमः। कथम् असि ?
= नमस्ते , नमो नमः । कैसे हो तुम ?
राजीवः – अहं कुशली अस्मि।
= मैं कुशल हूँ।
नीरजः – अत्र आश्रमे किं करोषि त्वम् ?
= यहाँ आश्रम में क्या कर रहे हो ?
राजीवः – अयम् आश्रमः नास्ति। एषा मम क्षेत्रवाटिका अस्ति।
= यह आश्रम नहीं है। यह मेरा फार्म हाउस है।
नीरजः – तव क्षेत्रवाटिका ??
= तुम्हारा फार्म हाउस ??
राजीवः – आम् । नगरे तु अध्ययनार्थं निवसामि।
= हाँ , नगर में तो मैं पढ़ने के लिये रहता हूँ।
– प्रति शनिवासरे अत्र आगच्छामि।
= हर शनिवार को यहाँ आ जाता हूँ।
– रविवासर पर्यन्तम् अत्रैव तिष्ठामि।
= रविवार तक यहाँ ही रहता हूँ।
नीरजः – अन्येषु दिनेषु अत्र कः निवसति?
= अन्य दिनों में यहाँ कौन रहता है ?
राजीवः – पितामहः निवसति। सः धेनूनां पालनं करोति।
= दादाजी रहते हैं। वे गायों का पालन करते हैं।
– मम पितामही निवसति। सा दुग्धं दोग्धि ।
= मेरी दादीजी रहती हैं। वे दूध दुहति हैं।
– आदिनं वृक्षाणां रक्षणं कुरुतः ।
= पूरे दिन वृक्षों की रक्षा करते हैं।
नीरजः – तव माता-पितरौ कुत्र स्तः ?
= तुम्हारे माता पिता कहाँ है ?
राजीवः – पश्य … ओ … तत्र दृश्येते ।
= देखो … ओ … वहाँ दिख रहे हैं ।
नीरजः – तौ किं कुरुतः ?
= वे दोनों क्या कर रहे हैं ?
राजीवः – तौ तत्र बीजवपनं कुरुतः ।
= वे दोनों बीज बो रहे हैं।
नीरजः – तव भगिनी न दृश्यते।
= तुम्हारी बहन नहीं दिख रही है।
राजीवः – पश्य ताम् ….. सा तु दोलायां दोलायते ।
= उसको देखो…. वह तो झूले में झूल रही है।
नीरजः – तव कृषिवाटिकायां तु बहु मोदः अस्ति।
= तुम्हारे फार्म हॉउस में तो बहुत मजा है।
ओ३म्
362. संस्कृत वाक्याभ्यासः
रात्रौ तस्य उदरे पीड़ा भवति स्म।
= रात में उसके पेट में पीड़ा हो रही थी।
उदरशूलेन सः पीडितः आसीत् ।
= पेट दर्द से वह पीडित था।
रात्रौ सः एरण्डतैलं पीतवान्।
= रात में उसने अंडी का तेल पिया।
प्रातः त्रिवादने तस्य उदरं स्वच्छं जातम् ।
= सुबह तीन बजे उसका पेट साफ हो गया।
भोजनसमारोहे सः पित्तकं खादितवान् ।
= भोजन समारोह में उसने पीज़ा खाया था।
तस्य शरीरे पित्तम् अवर्धत।
= उसके शरीर में पित्त बढ़ गया।
वायुविकारः अपि अवर्धत।
= वायुविकार भी बढ़ गया।
अधुना सः स्वस्थः अस्ति।
= अब वह स्वस्थ है।
प्राणायामं करोति ।
= प्राणायाम कर रहा है।
पीज़ा खादनेन पित्तम् अवर्धत अतः तस्य नाम पित्तकम् ।
= पीज़ा खाने से पित्त बढ़ गया अतः उसका नाम पित्तकम्
ओ३म्
363. संस्कृत वाक्याभ्यासः
ह्यः अनन्त कुलकर्णी महोदयस्य दूरवाणी आसीत्।
= कल अनंत कुलकर्णी जी का फोन था।
पूनातः सः वदति स्म।
= वे पूना से बोल रहे थे।
ते सर्वेषां विषये पृच्छन्ति स्म।
= वे सबके लिये पूछ रहे थे।
भवतः भार्या कथम् अस्ति ?
= आपकी श्रीमती जी कैसी हैं ?
पुत्रः किं करोति ?
= बेटा क्या कर रहा है ?
पङ्कजः किं करोति ?
= पंकज क्या करता है ?
तम् अहं स्मरामि इति सूचयतु।
= उसको मैं याद करता यह बताना ।
तत्र संस्कृतकार्यं कथं चलति ?
= वहाँ संस्कृत कार्य कैसा चल रहा है ?
अहं पुनः भवतः नगरम् आगन्तुम् इच्छामि।
= मैं पुनः तुम्हारे नगर आना चाहता हूँ।
यदा आगमिष्यामि तदा सूचयिष्यामि।
= जब आऊँगा तब सूचित करूँगा।
ओ३म्
364. संस्कृत वाक्याभ्यासः
पुत्रः – अम्ब ! किं फलम् आनयानि ?
= माँ ! कौनसा फल लाऊँ ?
एकं फलम् आनयानि वा अनेकानि ?
= एक फल लाऊँ या अनेक ?
माता – अद्य सेवफलमेव आनय ।
= आज सेव ही लाओ ।
पुत्रः – नैव , भवती आदिनम् एकमेव फलं खादति।
= नहीं , आप सारा दिन एक ही फल खाती हैं।
– अहं विविधानि फलानि आनेष्यामि।
= मैं विविध फल लाऊँगा।
माता – कदलीफलं बहु गलितं भवति।
= केला बहुत गला हुआ होता है।
– मा आनय ।
= मत लाना ।
पुत्रः – अम्ब ! अहं स्वादुफलं आनेष्यामि।
= माँ , मैं चीकू लाऊँगा।
सीताफलम् , अमृतफलं च आनेष्यामि।
= सीताफल और नासपाती लाऊँगा।
माता – तुभ्यं यथा रोचते पुत्र !
= तुम्हें जैसा ठीक लगे बेटा !
#vakyabhyas

अद्य तस्य पुण्यतिथि🙏🏼🥀
केशवबलिरामहेडगेवारः (Keshav Baliram Hedgewar) (१८८९-१९४०) राष्ट्रियस्वयंसेवकसङ्घस्य संस्थापकः । सङ्घस्य आद्यसरसङ्घचालकः अस्ति केशव बलिराम हेडगेवार । तस्य जीवनस्य एकमात्रं लक्ष्यम् आसीत् – हिन्दु-अस्मितायाः पुनर्जागरणद्वारा हिन्दुसमाजः सुसङ्घटितः सन् परमवैभवस्थितिं यथा प्राप्नुयाद् तथा कर्तव्यम् इति । अनेन उद्देशेन एव तेन १९२५ तमस्य वर्षस्य विजयदशम्यां महाराष्ट्रराज्यस्य नागपुरे राष्ट्रियस्वयंसेवकसङ्घं स्थापितवान् ।
जन्म — १ एप्रिल् १८८९ नागपुरम्
मृत्युः — २१ जून् १९४० (आयुः ५१) नागपुरम्
वृत्तिः — राजनैतिज्ञः
बाल्यजीवनम्
१८८९ तमे वर्षे युगादिदिने केशवस्य जन्म नागपुरे जातम् । पिता बलिरामपन्तः, माता रेवतीबाई । पिता महान् संस्कृतविद्वान् आसीत् । अग्निहोत्रिणः तस्य प्रमुखं कार्यम् आसीत् वेदाध्ययनम् अध्यापनञ्च । एतस्य कुटुम्बस्य मूलग्रामः तेलङ्गणाराज्ये निजामाबादजनपदे कन्दकूर्ती इति। पूर्वजाः केभ्यश्चित् अन्वयेभ्यः प्राक् नागपुरम् आगतवन्तः। अनयोः दम्पत्योः षड् अपत्यानि। तिस्रः कन्याः, त्रयः पुत्राः च। पुत्राः महादेवः, सितारामः, कनीयतमः केशवः च। केशवस्य त्रयोदशतमे वर्षे तस्य पितरौ प्लेग (plague) इति रोगस्य प्रकोपे दिवङ्गतौ। तस्य पितृव्यः आबाजी हेडगेवारः तस्य संवर्धनम् अकरोत्।
शिक्षणम्
केशवस्य शालेयशिक्षणं नील-सिटी-हायस्कूल इति शालायाम् अभवत्। शालापरीक्षणदिने सर्वेभ्यः छात्रेभ्यः सः 'वन्दे मातरम्' इति राष्ट्रभक्तिपूर्णाम् उद्घोषणां कारितवान्। एतत् आङ्ग्लशासनादेशाविरुद्धम् आसीत्। तेन कारणेन कुपितेन आङ्ग्लसर्वकारेण सः शालातः बहिष्कृतः। अतः सः यवतमाळनगरे राष्ट्रिय-विद्यालये शालेयं शिक्षणं पूर्णं कृतवान्। अनन्तरं १९१०तमे वर्षे महाविद्यालयीनं शिक्षणं प्राप्तुं सः नँशनल मेडिकल कॉलेज कलकत्ता इत्यत्र गतवान्। तदर्थं डॉ. मुञ्जेमहोदयानां (हिन्दुमहासभायाः नेता) मार्गदर्शनं साहाय्यं च आसीत्। तत्र १९१६तमे वर्षे L.M.S. इति उपाधिं प्राप्तवान्। एकवर्षं छात्रप्रशिक्षणावधिं समाप्य सः वैद्यः भूत्वा नागपुरं प्रत्यागतवान्।

अद्य तयोः जन्मदिनम् 🥳
विष्णु प्रभाकर: (१९१२ -२००९ ) एक: प्रमुख: कथाकार: उपन्यासकार: च अस्ति।
अभिनन्दनः वर्धमानः भारतीयवायुसेनायाः विङ्ग् कमाण्डर्। सः वैमानिकाक्रमणतः रक्षणवेलायां पाकिस्ताने पतितः दिनद्वयं यावत् पाकिस्तानस्य अधीने आसीत्।
बाल्यं
अभिनन्दनस्य जन्म काञ्चिपुरतः १९ किमी दूरे विद्यमाने तिरुपमनूर् इति ग्रामे अभवत्। तस्य पिता वायुसेनायाः अधिकारी माता च वैद्या। अभिनन्दनस्य पत्नी अपि वायुसेनायाम् अस्ति। न्याशनल् डिफेन्स् अकाडेमी द्वारा पदवीं समाप्य अभिनन्दनः २००४ तमे वर्षे वायुसेनां प्रविष्टवान्। आदौ सः Su-30 MKI विमानस्य चालकः आसीत्। तदनन्तरं मिग् विमाने चालकः अभवत्।
बन्धनम्
भारतेन पुल्वामा आक्रमणं विरुद्ध्य उग्रशिबिराणामुपरि वैमानिकं क्षिप्राक्रमणम् कृतम्। ततः पाकिस्तानेन फेब्रवरी २७ तमे दिनाङ्के F-16 विमानयानसाहाय्येन भारतस्योपरि आक्रमणस्य प्रयासः कृतः। अभिन्दनः मिग् विमानेन पाकिस्तानीयविमानम् अमारयत्। तदैव पाकिस्तानसीमानं प्रविष्टः अभिनन्दनः प्याराच्यूट् साहाय्येन पाकिस्तानभूमौ अपतत्। तत्र तस्य बन्धनं प्रवृत्तम्।
विमोचनम्
वाघासीमा
जिनीवासन्धिमनुसृत्य अभिनन्दनः भारतं प्रतिप्रेषणीयः इति भारतीयसर्वकारेण उक्तम्। फेब्रवरी २८ तमे दिनाङ्के पाकिस्तानस्य प्रधानमन्त्री अभिनन्दनः भारतं श्वः प्रेष्यते इति उदघोषयत्। तदनुसारं मार्च् १ दिनाङ्के रात्रौ ९.०० वादनसमये अभिनन्दनः वाघा सीमनि भारतं प्रति दत्तः।
विडियोचित्राणि
पाकिस्ताने बन्धनसमये अभिनन्दनस्य कतिचन वीडियोचित्राणि कृत्वा पाकिस्तानेन प्रकाशितानि। कस्मिंश्चित् चित्रे तस्य रक्तसिक्तं मुखम् आसीत्। अन्यत्र चित्रे सः चायं पिबन् आसीत्। परन्तु अभिनन्दनेन चित्रेषु तस्य नाम, वायुसेनायाः स्थानम्. धर्मः एव उक्तः। अन्यत् किमपि सः न अवोचत्।
श्मश्रूः
अभिनन्दनस्य श्मश्रूः चापाकारेण कपोलार्धभागं व्याप्ता। अभिनन्दनस्य बन्धनान्तरं एतस्य श्मश्रूशैली भारते प्रसिद्धा वर्तते

ग्राहकः – भवान् निश्चित्तवान् किम्, एतत् दुग्धं विशुद्धम् इति ?
दुग्ध विक्रेता – आम्, महोदय ! न केवलं दुग्धांशः एव, अपितु अत्र मिश्रितं जलम् अपि पूर्णतः विशुद्धमस्ति, चिन्ता न कार्या, महाशय ! 😄
— नारदः ।
😁🤣😆😂😁😆😂🤣
#hasya

June 21, 2021
ब्रसीले कोविड्मरणानि पञ्चलक्षमतीतानि; निस्संगतया सर्वकारः।
रियो डि जनैरो> रोगव्यापने तीव्रे, वाक्सिनीकरणे मन्दे च ब्रसीलराष्ट्रे कोविड्बाधया मृतानां संख्या ५लक्षमतीता। यू एस् राष्ट्रस्यानन्तरं विश्वे अधिकाधिकं कोविड्मरणानि जायमानं राष्ट्रमस्ति ब्रसीलः।
उपगम्यमाने शिशिरकाले रोगव्यापनमतितीव्रं भविष्यतीति स्वास्थ्यविचक्षणाः पूर्वसूचनां दत्तवन्तः तथापि शारीरिकदूरपालनमभिव्याप्य कोविड्मार्गनिर्देशान् प्रवृत्तिपथमानेतुं राष्ट्रस्य जैर् बोल्सनारो सर्वकारः निस्संगत्वं भजते इति वृत्तान्तः अस्ति। विषयेSस्मिन् जनाः शनिवासरे प्रतिषेधमकुर्वन् च।
ब्रसीले २१.३कोटिषु जनेषु केवलं १२ प्रतिशतं जना एव वाक्सिनीकृताः।
शतकोट्यधिकमात्रायाः कोविड् सूच्यौषधं प्रदाय चीनेन नवपदं प्राप्तम्।
बेय्जिङ्> शतकोट्यधिकमात्रायाः कोविड् सूच्यौषधं प्रदाय चीनेन वक्सिनीकरणप्रक्रियायां सुप्रधानस्थानं सम्पादितम्। शनिवासरपर्यन्तं चीनेषु कोविड्वाक्सिनस्य १,०१,०४,८९,००० मात्रामितानि सूच्यौषधानि अदात् इति राष्ट्रियस्वास्थ्यायोगेन (एन् एच् सि) आवेदितम्।
लोके सर्वत्र इतः पर्यन्तं कोविड्वाक्सिनस्य २५० कोटिमितः वाक्सिनः एव प्रदत्तः। तेषु प्रतिशतं चत्वारिंशत् मितं सूच्यौषधं चीनेषु एव दत्तम्। तेषु शतकोटिमितस्य सूच्यौषधस्य प्रयोगः शनिवासरात्पूर्वं पञ्चदिवसाभ्यन्तरे एव पूर्तीकृतः इति राष्ट्रियस्वास्थ्यायोगम् उद्धृत्य सिन्हुवा वार्तासंस्थया आवेदितम्।
~ संप्रति वार्ता

🚩आज की हिंदी तिथि
🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
⛅ 🚩तिथि - द्वादशी सुबह 10:22 तक तत्पश्चात त्रयोदशी
⛅ दिनांक - 22 जून 2021
⛅ दिन - मंगलवार
⛅ शक संवत - 1943
⛅ अयन - दक्षिणायन
⛅ ऋतु - वर्षा
⛅ मास - ज्येष्ठ
⛅ पक्ष - शुक्ल
⛅ नक्षत्र - विशाखा दोपहर 02:23 तक तत्पश्चात अनुराधा
⛅ योग - सिद्ध दोपहर 01:52 तक तत्पश्चात साध्य
⛅ राहुकाल - शाम 04:02 से शाम 05:43 तक
⛅ सूर्योदय - 05:59
⛅ सूर्यास्त - 19:22
⛅ दिशाशूल - उत्तर दिशा में

https://youtu.be/792bi5H0YJo
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.

YouTube
Vaarta: News in Sanskrit | 22/6/2021
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/

🍃 हंसजारुद्धबलजा परोदारसुभा अजनि।
राजि रावण रक्षोरविघाताय रमा आर यम् ॥ २५॥
🔸हंसज, यानि सूर्यपुत्र सुग्रीव, के अपराजेय सैन्यबल की महती भूमिका ने राम के गौरव में वृद्धि कर रावण वध से विजयश्री दिलाई।
🍃 यं रमा आर यताघ विरक्षोरणवराजिर।
निजभा सुरद रोपजालबद्ध रुजासहम् ॥ २५॥
🔸उस कृष्ण के हिस्से निर्मल विजयश्री की ख्याति आई जो बाणों की वर्षा सहने में समर्थ हैं, जिनका तेज युद्धभूमि को असुर-विहीन करने से चमक रहा है, उनका स्वाभाविक तेज देवताओं पर विजय से दमक उठा।
#Viloma_Kavya

विलोम श्लोक :—

✊ चाणक्य नीति ⚔️
✒️ पंचदशः अध्याय
♦️श्लोक :- १९
उर्व्या कोऽपि महीधरो लघुतरो दोर्भ्या धृतो लीलया,
तेन त्वं दिवि भूतले च सततं गोवर्धनो गीयसे।
त्वां त्रैलोक्यधरं वहामि कुचयोरग्रेण तद्गण्यते,
किं या केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते ॥१९॥
पंचदश अध्याय समाप्त
♦️भावार्थ - श्रीकृष्ण को उलाहना देती हुई गोपी कहती है कि हे कन्हैया! तुमने एक बार गोवर्धन नामक पर्वत को क्या उठा लिया कि तुम इस लोक में ही नहीं, परलोक में भी गोवर्धनधारी के रूप में प्रसिद्ध हो गए, परंतु आश्चर्य तो इस बात का है कि मैं तीनों लोकों के स्वामी अर्थात् तुम्हें अपने हृदय में धारण किए रहती हूं और दिन-रात मैं तुम्हारी चिन्ता करती हूं, पर मुझे कोई त्रिलोकधारी जैसी पदवी नहीं देता ॥19॥
पंद्रहवां अध्याय समाप्त हुआ
#Chanakya

365. संस्कृत वाक्याभ्यासः
लाली !! बहिः आगच्छ ।
= लाली ! बाहर आओ ।
प्रकोष्ठात् बहिः आगच्छ ।
= कमरे से बाहर आओ ।
लाली – आगच्छामि।
= आती हूँ।
( लाली प्रकोष्ठात् बहिः आगच्छति
लाली कमरे से बाहर आती है )
माता – ओ…हो .. लाली ….
– त्वं तु भारतमातुः सदृशी दृश्यसे।
= तुम तो भारत माता जैसी लग रही हो।
युवराजः कुत्र अस्ति ?
= युवराज कहाँ है ?
लाली – पश्यतु सः आगच्छति ।
= देखिये वह आ रहा है।
माता – ओ … हो … त्वं तु वीरसैनिकस्य वस्त्राणि धारितवान्।
= ओ हो , तुमने तो वीर सैनिक के वस्त्र पहने हैं।
युवराजः – अद्य विद्यालये लाली भारतमातुः अभिनयं करिष्यति।
= आज विद्यालये लाली भारतमाता का अभिनय करेगी।
– अहं तस्याः सैनिकः भविष्यामि।
= मैं उसका सैनिक बनूँगा।
माता – भारतस्य वीरः सुपुत्रः युवराजः।
– भारतस्य वीरांगना सुपुत्री लाली।
अस्माकं देशः सशक्त: भवेत् इति वयं प्रार्थयामहे।
= हमारा देश सशक्त बने यही हम प्रार्थना करते हैं।
सर्वेभ्यः स्वाधीनतापर्वणः मङ्गलकामनाः।
ओ३म्
366. संस्कृत वाक्याभ्यासः
प्रातःकाले सर्वप्रथमं किं दृष्टवान् / दृष्टवती ?
प्रातःकाले सर्वप्रथमं सूर्यं दृष्टवान्/ दृष्टवती ।
प्रातःकाले सर्वप्रथमं किं श्रुतवान् / श्रुतवती ?
प्रातःकाले सर्वप्रथमं वेदमन्त्रान् श्रुतवान् / श्रुतवती
प्रातःकाले सर्वप्रथमं किं पठितवान् / पठितवती ?
प्रातःकाले सर्वप्रथमं न्यायदर्शनं पठितवान् / पठितवती
प्रातःकाले सर्वप्रथमं किं पीतवान् / पीतवती ?
प्रातःकाले सर्वप्रथमं ऊष्णं जलं पीतवान् / पीतवती
प्रातःकाले सर्वप्रथमं कुत्र गतवान् / गतवती ?
प्रातःकाले सर्वप्रथमं गोशालां गतवान् / गतवती
ओ३म्
367. संस्कृत वाक्याभ्यासः
सप्तसप्ततितमे वर्षे तस्य नाम श्रुतवान् अहम् ।
= वर्ष 1977 में उनका नाम मैंने सुना था।
सः तदानीं भारतस्य विदेशमन्त्री अभवत्।
= वे तब भारत के विदेशमन्त्री बने थे।
संसदि यदा सः सदनं संबोधयति स्म तदा सर्वे सांसदाः निरुत्तराः भवन्ति स्म।
= संसद में जब वे सदन को संबोधित करते थे तब सभी निरुत्तर हो जाते थे।
अशीतितमे वर्षे यदा भाजपा दलस्य स्थापना कृता ….
= 1980 में जब भाजपा की स्थापना हुई
…. तदा सः भाजपा दलस्य अध्यक्षः नियुक्तः जातः।
= …. तब वे भाजपा दल के अध्यक्ष नियुक्त हुए।
अष्टनवतितमे वर्षे यदा सः पुनः प्रधानमन्त्री अभवत् ….
= 1998 के वर्ष में जब वे पुनः प्रधानमंत्री बने …
….. तदा सर्वे हृष्टा: अभवन्।
= तब सभी खुश हुए।
अष्टनवतितमे वर्षे पोखरणे परमाणु-परीक्षणं कृतम् ।
= 1998 में पोखरण में परमाणु परीक्षण किया।
समग्रे विश्वे अटलबिहारी महोदयः सम्मानितः जनः आसीत्।
= सारे विश्व में अटलबिहारी जी सम्मानित व्यक्ति थे।
कुशलः राजनीतिज्ञ:, श्रेष्ठः कवि: अटलबिहारी महाभागः दिवंगतः जातः।
= कुशल राजनीतिज्ञ , श्रेठ कवि अटलबिहारी जी दिवंगत हो गए।
दिवंगताय पुण्यात्मने वयं भावपूर्णां श्रद्धाञ्जलिं दद्मः।
= दिवंगत पुण्यात्मा को हम भावपूर्ण श्रद्धांजलि देते हैं।
ओ३म्
368. संस्कृत वाक्याभ्यासः
भारत-विकास-परिषदा आयोजितं कार्यक्रमम् अहं गतवान्।
= भारत विकास परिषद् द्वारा आयोजित कार्यक्रम में मैं गया था।
“भारतं जानातु” विषयाधारिता प्रश्नस्पर्धा आसीत्।
= भारत को जानिये विषय पर आधारित प्रश्नस्पर्धा थी।
प्रारम्भे सर्वे जनाः भारतरत्नाय अटलबिहारी महाभागाय श्रद्धांजलिम् अर्पितवन्तः।
= प्रारम्भ में सभी लोगों ने भारतरत्न अटलबिहारी जी को श्रद्धाञ्जलि दी।
षोडशविद्यालयानां छात्राः आगतवन्तः ।
= सोलह विद्यालयों के छात्र आए थे।
षोडशविद्यालयेभ्यः छात्राः आगतवन्तः ।
= सोलह विद्यालयों से छात्र आए थे।
स्पर्धायाः संचालकः प्राचीनभारतस्य विषये प्रश्नान् पृच्छति स्म।
= स्पर्धा का संचालक प्राचीन भारत के बारे में प्रश्न पूछता था।
सर्वे तेजस्विनः छात्राः उत्तराणि ददति स्म।
= सभी तेजस्वी छात्र उत्तर देते थे।
शास्त्रीय-सङ्गीतस्य विषये प्रश्नाः आसन्।
= शास्त्रीय संगीत विषय पर प्रश्न थे।
महापुरुषाणां विषये प्रश्नाः आसन्।
= महापुरुषों के विषय पर प्रश्न थे।
भारतस्य विविधानां स्थलानां विषये अपि प्रश्नाः आसन्।
= भारत के विविध स्थलों के बारे में प्रश्न थे।
कार्यक्रमः बहु ज्ञानवर्धकः आसीत्।
= कार्यक्रम बहुत ज्ञानवर्धक था।
ओ३म्
369. संस्कृत वाक्याभ्यासः
सूर्योदयः अभवत् = सूर्योदय हो गया ।
योगासनम् अभवत् = योगासन हो गया।
स्नानम् अभवत् = स्नान हो गया ।
यज्ञः अभवत् = यज्ञ हो गया।
अल्पाहारः अभवत् वा ?
= अल्पाहार हो गया क्या ?
न अल्पाहारः न अभवत्।
= नहीं अल्पाहार नहीं हुआ ।
अधुना स्वाध्यायः न अभवत्।
= अभी स्वाध्याय नहीं हुआ है।
अत्र वर्षा अभवत्।
= यहाँ वर्षा हुई।
तेन सह वार्तालापः अभवत्।
= उसके साथ बात हो गई।
कार्यक्रमः समाप्तः अभवत्।
= कार्यक्रम समाप्त हो गया।
लिखन्तु किं किम् अभवत् ?

शशकः नकुलः मार्जारी च 🐇🦡🐈
१ एकदिने गृहात् प्रस्थितः एकः शशकः स्वादुं तृणं खादितुम् अगच्छत्।
२ परन्तु गृहस्य पिधानं कर्तुं सः विस्मृतवान्।
३ यदा शशकः गृहे न आसीत् तदा एकः नकुलः तत्र आगत्य शशकस्य गृहं प्रविष्टवान्।
४ तस्मै शशकस्य गृहम् अरोचत अतः तत्रैव निवसितुं निश्चयं कृतवान्।
५ शशकः आगत्य नकुलं दृष्ट्वा च अवदत्–
६ “ मम गृहात् निर्गच्छतु शीघ्रम् ” – इति।
७ परन्तु नकुलः गन्तुं न अङ्गीकृतवान्।
८ एका समीपस्था मार्जारी कलहं निवारयितुम् अग्रे आगतवती।
९ सा अवदत् – “समीपं आगच्छताम् अहं श्रोतुं न शक्नोमि।
१० भवन्तौ मम एकस्मिन् कर्णे वदताम्” – इति।
११ उभौ शङ्कया विना एव मार्जार्या उक्तानुसारं कृतवन्तौ।
१२ क्षणे एव मार्जारी द्वौ खादनार्थं स्वहस्ताभ्यां गृहीतवती।
एवं तया कलहः समाप्तः असंशयम्॥
(अज्ञातसंग्रहात् उद्धृता कथा)

2014-तमे वर्षे देशे प्रमुखम् एकं परिवर्तनम् अभवत्। देशस्य स्वतन्त्रतानन्तरं प्रायशः समस्तकालमेव सर्वकार-पीठिकायां विराजमानं दलं न्यूनत्वं सम्प्राप्यत्। मनबलं तथा किम्कर्त्तव्यम् इत्यस्य मनस्फुटता प्राप्तः तथा राष्ट्रमेव-सर्वम् इति दर्शनेन प्रोत्साहितः एकः कर्त्तव्यनिष्ठ-योगी कार्यम् आरब्धवान्।
तस्य समक्षम् आसन् बहवः गभीराः समस्याः।
राष्ट्रस्य जनानाम् चिन्तने भारतराष्ट्रं निर्धनं, विज्ञान-रीत्या अन्यानामुपरि निर्भरं अपि च देशविरोध-प्रचारकाः एव विदुषाः, हिन्दु-धर्म-विरोधम् एव धर्मनिरपेक्षता इत्यादि विश्वासाः गहनतया जनेभ्यः मनसि मुद्रितासन्। काश्मीर-समस्यायाः समाधानं, राम-मन्दिर निर्माणम् इत्यादिनाम् सम्भावना एव नास्ति इति नकारात्मकं चिन्तनशैली एव भारतीयानाम् तस्मिन् काले अभवत्।
स्वकीयं कार्यं आरब्धवान् श्री मोदीवर्यः। अल्पकालैव बहूनि साधनानि कृतवान्। अद्य काश्मीर-समस्या सर्वैरपि विस्मृता जाता। भगवतः श्रीरामस्य जन्मस्थाने भव्यमन्दिरम् निर्माणे अस्ति। इस्लामीय युवत्याः त्रि-तलाक समस्यायाः समाधनम् अभवत्। मुद्रास्फीति-नियन्त्रणेन सामान्यजनाः एव सद्यमाध्यमेन धन-विनिमयम् अधीतवन्तः। डिजिटल-इण्डिया, जी-एस-टी तथा नवीन आयकर नियमानाम् प्रभावेन अर्थव्यवस्थायाम् मुद्रास्फीतेः वृत्तिः आयकरविभागस्य अधिकारिभिः अधुना सुलभतया ज्ञातुम् शक्यते।
अल्पमेव काले एतानि सर्वाणि सन्ति मोदि सर्वकाराय कृतानि साधनानि। भारतदेशः शीघ्रमेव चीन देशस्य समम् तिष्ठिष्यति इति समस्त संसारम् अपेक्षितुम् समये अकस्मात् देशस्योपरि एकः प्रहारः देशं ध्वस्तम् अकरोत्। सर्वत्र मृतकानां शवाः, पिधानं, अर्थव्यवस्थायाः, विद्यासंस्थानाञ्च विनाशः, विद्यार्थिनः भविष्यः अन्धकारमयः --- ईदृशानि परिवर्तनानि अस्माकं राष्ट्रं एकस्मिन्नेव वर्षे बहुवर्षाणि यावत् अवगति-पथे नीतवन्तः।
अस्यां स्थित्यां देशवासिनः किम् करणीयम्। समृद्ध-भारतस्य सदस्यानाम् कर्त्तव्यं किम्? अस्माभिः सर्वैः विचारणीयम्।
http://sanskritize.com/index.php/2021-03-18-05-31-45/22-samriddha-bharatam/29-2021-06-11-07-19-29

Sanskritize
का अस्माकं स्थितिः कः च कर्त्तव्यः -1
My site
एका हृदयद्राविका कथा
पुत्रः तस्य वृद्धजर्जरा माता च राज्यं विहाय काशीं प्रति प्रस्थितौ। पुत्रस्य राज्यासक्तिः समूलं नष्टासीत्। प्रजाजनेषु कस्मिंश्चित् राज्यभारम् आरोप्यताम् इति मन्त्रिणः निवेद्य सर्वं वैभवं त्यक्त्वा राजपुत्रः गच्छन्नासीत्।
यदा तौ चलन्तौ आस्तां तदा माता पुत्रं उपदिशन्ती आसीत् यत् मनुष्यस्य आशा कदापि पूर्णा न भवति अतः आशात्यागेनैव शाश्वतशान्तेः प्राप्तिर्भवति। एतावन्ति दिनानि भवता मया च प्रजानां सेवा निरलसतया, निःस्पृहतया कृता। इदानीमेषः सर्वत्यागस्य समयः इति।
शनैः शनैः मार्गं क्रमन्तौ तौ अगच्छताम्।
मध्येमार्गं वृद्धां मातरं पिपासा अबाधत। तृषार्ता सा पुत्रं जलम् अयाचत। तदा मातरं वृक्षस्य अधः उपवेश्य जलान्वेषणाय पुत्रः प्रस्थितः। यदा सः जलं गृहीत्वा प्रत्यागच्छत् तदा सः बहु भीतः अभवत्। माता कुत्रापि नादृश्यत। सः मत्तः इव सर्वत्र मातुः अन्वेषणम् आरब्धवान्।
तदानीमेव तेन आकाशवाणी श्रुता- राजकन्यां सिहासने आरोपयितुमुत्सुकाः जनाः तदर्थं भृशं प्रयतमानाः आसन्। तथापि तेषां प्रयत्नाः विफलाः अभूवन्। तेन राज्यसिंहासनं रिक्तमेवातिष्ठत्। भवतः माता यदा एतत् श्रुतवती तदा धावन्ती एव प्रतिगतवती इति।
राजपुत्रः अपि मातुः स्नेहेन प्रत्यागतः। तेन राजधानीं सम्प्राप्य यदा दृष्टं तदा सः अवगतवान् यत् तस्य माता धावन्ती आगत्य रिक्तसिंहासनम् आरूढवती आसीत् इति।
😂🤣😆😁😆😂🤣