संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
शची पौलोमी
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)
इयं काचित् स्वाभिमानिनी ऋषिका।अनया प्रणीते शचीपरके सूक्ते (ऋग्वेदः -मण्डलम्- १०;सूक्तम्-१५९) तस्याः आत्मगौरवं, जीवनोत्सवः ,अहमुग्रा विवाचनी' - अहं गृहस्य ध्वजः, अहं मद्गेहस्य शिरः (मुख्याबुद्धिमती),अन्यायस्य सम्मुखे उग्रा,अहं विवेचनशक्तियुता इति तया अभिमानेन गदितम् ।'मम निर्धारं मम भर्तापि सम्मानयति' इति कथयन्त्याः तस्याः आत्मगौरवस्य पारशून्यं प्रतीयते।
पुत्रास्तु उत्तमा एव ,परं दुहितरः नावराः इति स्पष्टतया सूक्तेऽस्मिन् तया भणितम् । 'मम पुत्रा शत्रुहणोथा मम दुहिता विराट्' इति गदन्ती सा नारीणामात्मर्स्थैर्य व्यवर्धयत् ।

'अहं शत्रुहन्त्री। तस्मात् पतिरपि मां सन्मानयति' इति तया सगर्वम् ईरितम् ।'त्यागः,शान्तिः ,सहनशील साता च नार्याः सहजगुणाः ।परन्तु अन्यैः दुरुपयोगः न करणीयः' इति तस्याः आशयः । 'माहिलया सर्वदाऽपि नतवदनया भवितव्यमिति नास्ति; तया शिरः उन्नीय समाजे गौरवमप्तव्यमिति पौलोम्या प्रत्यपाद्यत। स्त्रीणां स्वाभिमानजागृतिं कृतवतीषु ऋषिकासु शचीपौलोमी अन्यतमा ।वैदिकसम्प्रदाने उद्वाहात्पूर्वं वध्वा शचीपूजां कारयन्ति।तस्मिन्नवसरे इदं सूक्तं पठ्यते । वधूः पतिगृहे स्वाभिमानेन जीवनं यापयेदिति आशयः तत्रास्ति। पूजनसमये वधूः अस्मिन्विषये बोध्यते चेत् तस्याः आत्मस्थैर्यं वर्धेत।

।नमो नमः ।
सौ.विजया उल्हासः गोखले, रोहा, रायगडः।
🙏🙏🙏

#streeratnamaala
🌿यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्।।

🌞कामनापूर्तिकारणेन स्वर्गप्राप्तिकारणेन च यावत् सुखं प्राप्यते तत् तृष्णायाः इच्छायाः समापनेन प्राप्तस्य सुखस्य षोडशांशं यावदपि नास्ति।

🌷सांसारिक वासना की तृप्ति होने से जो सुख होता है और जो सुख स्वर्ग में मिलता है, उन दोनों सुखों की योग्यता तृष्णा के क्षय से होनेवाले सुख के सोलहवें हिस्से के बराबर भी नहीं है ।

#Subhashitam
त्वं मां किमर्थम् अवमन्यसे तात।
- Why do you disrespect me, sir?
- आप मुझे क्यों अपमानित करते हैं, तात?

सा सर्वदा प्रियं वदति।
- She always speaks sweetly.
- वह हमेशा प्रिय कहती है।

मर्कटः धनं हृत्वा धावति।
- The monkey runs away after stealing the money.
- बंदर धन चोरी करके भागता है।

तस्य नाम न जानामि।
- I don't know his name.
- मुझे उसका नाम नहीं पता।

रामस्य बलम् अवेक्ष्य सर्वे विस्मिताः सन्ति।
- All are amazed after witnessing Rama's strength.
- सभी लोग राम का बल देखकर विस्मित हैं।

तव सान्निध्यं न अपेक्षितं मया।
- I did not expect your presence.
- मैंने तुम्हारे उपस्थिति की अपेक्षा नहीं की थी।

तव कति भ्रातरः सन्ति।
- How many brothers do you have?
- तुम्हारे कितने भाई हैं?

मकरस्य दन्ताः वज्रम् इव सन्ति।
- The teeth of a crocodile are like Vajra.
- मगरमच्छ के दांत वज्र के समान होते हैं।

द्वारपालाः कार्यं न कुर्वन्ति।
- The gatekeepers are not doing their duty.
- द्वारपाल कार्य नहीं कर रहे हैं।

राज्ञः समीपं न बहु वक्तव्यम्।
- Much shouldn't be spoken near the king.
- राजा के पास बहुत नहीं बोलना चाहिए।

@samvadah #vakyabhyas
मित्रम् - ह्यः मम स्वप्ने शुनकः आगतः।
कः अर्थः स्यात् एतस्य।
कौतुकः - अस्य अर्थः अस्ति यत् केनचित् पुरातनेन मित्रेण सह मेलनं स्यात्। 😅

#hasya
Samskrit Bharati , Nashik is organising a Spoken Samskrit Shibir .

💥When. : 1st April to 10th April 2024
💥Time. : 6 pm to 8 pm
💥Place. : Roongtha High School , Ashok Stambh , Nashik

💥No Previous knowledge of Sanskrit Needed
💥No Fees
💥No Writing
💥Only Spoken Sanskrit

Pl join this class and get your friends and family with you.

Use the below link to register
https://bit.ly/399mpIP

For any details needed pl contact :
Sandeep Deshmukh
9823079831
Samskritasurabhi Samskrita Basha Prachara Kendram - Tiruchirappalli (Trichy - 5)

Registered No. SRG/246/2022/TRICHY

Introduction:
Samskritasurabhi Samskrita Basha Prachara Kendram, situated in Tiruchirappalli, is a self-financed, nonprofit organization dedicated to the promotion and development of the Sanskrit language. Registered under the Tamil Nadu Government Registration of Society Act 1975, it operates under the auspices of Jagadguru Vidhya Sthanam Thiruvanalkovil. The Kendram offers Sanskrit courses catering to enthusiasts of all ages and is recognized as an authorized Kendra in Tamil Nadu by the Central Sanskrit University, New Delhi.

Academic Programme-Course Details for 2024-25:
1. Surabhi Basic: A bridge course designed for beginners and kids.
2. Surabhi Infant: Aimed at school children to strengthen their foundation in Sanskrit.
3. PRATHAMA: Advanced level course spanning three years from 6th STD to 8th STD.
4. PURVA AND UTHARA MADHYAMA: Catering to students from 9th to 12th standard, equivalent to Higher Secondary Level (plus one and plus two).

Course Structure:
- Duration:
- Surabhi Basic and Surabhi Infant: 1.5 years (180-200 hours)
- PRATHAMA and PURVA AND UTHARA MADHYAMA: 2 years each.
- Mode: Both online and offline.

Eligibility:
- Surabhi Basic and Surabhi Infant: Open to individuals aged 8 and above.
- PRATHAMA and PURVA AND UTHARA MADHYAMA: Requires completion of basic school education (8th STD) and proficiency in Sanskrit.

Fees and Scholarships:
- Fee exemptions available for SC/ST/MBC/Disabled Widowers/Vedic Students across India and abroad.

Application and Contact Details:
- For further information and scholarship applications, please contact:
- Email: samskritasurabhi64@gmail.com, academic@samskritasurabhi.com
- WhatsApp: +919080394731, 9384526796

Banking Details:
- Name of Current Account: "SAMSKRITA SURABHI SAMSKRITA BASHA PRACHARA KENDRA-TRICHY 5"
- Bank: Indian Bank, Ganapathy Nagar Branch, Thiruvanaikovil, Trichy
- Account Number: 7497592589
- IFSC Code: IDIB000T589
- PINCODE: 620005

Donations and Sponsorships:
- All donations and sponsorships are appreciated, and donors' names will be added to the Executive Committee of the Kendra.

#sanskriteducation
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२५।
पिङ्गलविक्रमसंवत्सरः। २०८१। 
शोभकृत् शकसंवत्सरः। १९४५।

सूर्योदयः ॥०६।२०॥ ☼ सूर्यास्तः ॥१८।४२॥
चन्द्रोदयः ॥।॥ ☾ चन्द्रास्तः ॥१०।०२॥

रोमदिनाङ्कः। ३१ मार्च २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
रविवासरः। ⌲ कृष्णः पक्षः। ⌲ चैत्रः मासः।  
षष्ठी तिथिः ॥२१।३०॥ यावत् तत्पश्चात् सप्तमी।

राहुकालः ॥१७।०९॥ अतः ॥१८।४२॥ यावत्।
ब्राह्ममुहूर्तः ॥०४।४७॥ अतः ॥०५।३३॥ यावत्।
ज्येष्ठानक्षत्रम् ॥२२।५७॥ यावत् तत्पश्चात् मूलः।
व्यतीपातः योगः ॥२१।५३॥ यावत् तत्पश्चात् वरीयान्।

#panchang
मान्याः नमामि।

मङ्गलवासरे शनिवासरे च प्रातः षड्वादने (अथवा पठितॄणां समयसौकर्यानुसारम्) वैयाकरणसिद्धान्तकौमुद्याः कृदन्तप्रकरणस्य कक्षा आरब्धुम् इष्यते मया।

अत्र पाठस्य रिकार्डिंग् करिष्यते परन्तु नोट्स् न दीयते न च निर्मीयते। विडियो रिकार्ड् तु दास्यते। साक्षात् पुस्तकात् पाठनं भविष्यति। कक्षायाम् एव अपेक्षायां सत्यां विवरणं / व्युत्पत्त्यादिकं लिखित्वा प्रदर्शयिष्यते। मूलपङ्क्तेः तु पूर्णतया सरलतया च समन्वयनं करिष्यते।

अत्र रिकार्ड् एव लप्स्यते न तु नोट्स् इति कृत्वा पाठशुल्कः अपि ईषत् न्यूनः भविष्यति।
पञ्चषाः जनाः यदि लब्धाः तर्हि न्यूनं शुक्लनिर्धारणं कृत्वा तान् सूचयिष्यामः।

अतः भवत्सु यदि केपि पठितुम् इच्छन्ति अथवा भवतां सम्पर्के केपि इच्छन्ति पठितुं तर्हि कृपया सूचयन्तु। पठितृषु लब्धेषु अचिरेण एव एषा कृदन्तकक्षा अपि आरप्स्यते।

सकाशात्
डा जयकृष्णः शर्मा
+919910672036 ( Whatsapp )
https://api.whatsapp.com/send?phone=919910672036&text=