संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - त्रयोदशी सुबह 07:13 तक तत्पश्चात चतुर्दशी

दिनांक - 23 मार्च 2024
दिन - शनिवार
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - शुक्ल
नक्षत्र - पूर्वा फाल्गुनी पूर्ण रात्रि तक
योग - शूल रात्रि 07:35 तक तत्पश्चात गण्ड
राहु काल - सुबह 09:43 से 11:15 तक
सूर्योदय - 06:41
सूर्यास्त - 06:52
दिशा शूल - पूर्व
ब्राह्ममुहूर्त - प्रातः 05:06 से 05:53 तक

#panchang
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)
विदुला
पाण्डवानां रायभारिरूपेण हस्तिनापुरं समागतः श्रीकृष्णः विदुरस्य गृहे कुन्तीम् अमिलत्। युद्धविषये स्वाभिप्रायं प्रगटयन्ती कुन्ती विदुलायाः वृत्तान्तम् अकथयत्।

आसीत् पुरा सौविरराजपत्नी विदुला नाम्नी वीरमहिला । सा विद्यासम्पन्ना, विवेकशीला, क्षात्रगुणोपेता च आसीत् ।चतुरमत्याः तस्याः नृपमण्डल्यां विशेषगौरवमासीत्।

तस्याः सञ्जयः नामः पुत्रः आसीत्। एकदा सः सैन्धवैः पराजितः सन् युद्धपराङ्मुखो भूत्वा गृहं प्रत्यागच्छत्। शयनमन्दिरे निर्लज्जतया प्रसुप्तं तं दृष्ट्वा विदुला नितराम् अकुप्यत्। सा दृढस्वरेण अवोचत् -'हे सञ्जय! किं त्वं तव पराजयम् अङ्गीकृतवान्? धिक् त्वाम् । त्वं मत्पुत्रः भवितुं नार्हसि। पौरुषहीनस्त्वं शत्रोः कृते आनन्दम् अयच्छः। त्वज्जन्म क्षत्रियकुलेऽभवत् इति किं व्यस्मरः आत्मानं नपुंसकं मत्वा निन्दसि किम् प्राणरक्षणकाङ्क्षयायः रणात् पराङ्मुखो भवति तं मित्राणि बान्धवाश्च उपहसन्ति। तस्य जीवनं व्यर्थमेव । उत्तिष्ठ! शत्रुमर्दनं कृत्वा आयाहि' इति।

तच्छॄत्वा सञ्जयः अब्रवीत् - 'मातः! मया विना किं भवती जीवितुं शक्नोति वा? यदि अहं म्रिये राज्येन भवत्यै किं प्रयोजनम्?' इति।
तदा विदुला अवदत् - 'पुत्र! आजीविकायाश्चिता शत्रवे भवतु । परेषां सेवायां जीवनयापनं  अस्माकं कृते नैव शोभते। अतः मरणचिन्तां विहाय शत्रोः नाशं कुरु। तव नाम सार्थकं भवतु।'

पुत्रः पुनः अभणत् - 'मातः! भवत्याः एकमात्रं पुत्रं कठिणवचनैः किमर्थं तिरस्करोति? भवती मम मातेव न व्यवहरति। भवत्याः राज्यभोगो मम पेक्षया प्रियो वा?'

तस्य वचनं निशम्य विदुला पुनः अभाषत- 'पुत्र! प्राज्ञाः प्रापञ्चिकलाभं त्यक्त्वा यशसे कार्यं कुर्वन्ति। यदि मम पुत्रप्रेम पराजयेन कलङि्कतं भवति तर्हि न तत् श्रेयस्करम्। प्राज्ञ इव त्वं यदि तव क्षात्रकार्ये साफल्यं प्राप्नोषि,तदा मम प्रियो भवसि । अन्यथा पुत्रहीनत्वमेव वरम् ।

मातुः प्रेरकवचनांसि श्रृत्वा सञ्जयोऽजागरीत् मातरं अवदत्- 'अम्ब! भवत्याः मार्गदर्शनेन अहं निश्चयेन पितुः राज्यं पुनः प्राप्स्यामि। भवत्याः अमृततुल्यानि वचनानि श्रृत्वा मदीयः उत्साहोऽवर्धत् । मम सिंहसदृशभटान् सञ्घटय्य विजयं प्राप्स्यामि' इति।

कुन्ती कृष्णम् अगदत् - ' हे वार्ष्णेय! भीरुः सञ्जयः अपि मातुः वचनेन प्रेरितः सन् युद्धं कृत्वा शतृन् अजयत् । क्षत्रियोचितं मार्गं  स्वीकर्तुं  युधिष्ठिरं ब्रूहि' इति।

।नमो नमः ।

सौ.विजया उल्हासः गोखले, रोहा, रायगडः ।

#streeratnamaala
Live stream scheduled for
🌿अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेव विक्षिप्यते ॥

🌞सहस्राधिकान् अश्वमेधयागान् तथा सत्यं यदि तुलायां स्थापयामः चेदपि सत्येनैव अधिकभारयुतेन भूयते।

🌷सहस्र अश्वमेध और सत्य की तुलना की जाय तो सत्य ही अधिक होगा' (आ.७४. १०२)

#Subhashitam
अद्भुतम्।
इत्यस्य पदस्य वर्णविच्छेदः किं स्यात्।
Anonymous Quiz
19%
अ द् भ उ त् अ म्
68%
अ द् भ् उ त् अ म्
5%
अ द भ उ त् अ म्
8%
अ द् भ् उ त अ म्
https://youtu.be/6t79BnZ6nIc?si=j0MN1OtiSu2cpePh

जजौ-जोजा-जिजिज्जाजी तं ततोऽति-तता-ततुत् ।
भाभोऽ-भीभा-भिभू-भाभू-रारारिररि-रीररः॥

Balarama, the great warrior and winner of great wars, resplendent like Shukra and Brihaspati, the destroyer of wandering enemies, went to the battle like a lion stopping the movement of his foes, who were endowed with a four-fold army.

#Celebrating_Sanskrit
🚩जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - चतुर्दशी सुबह 09:54 तक तत्पश्चात पूर्णिमा

दिनांक - 24 मार्च 2024
दिन - रविवार
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - शुक्ल
नक्षत्र - पूर्वा फाल्गुनी सुबह 07:54 तक तत्पश्चात उत्तरा फाल्गुनी
योग - गण्ड रात्रि 08:34 तक तत्पश्चात वृद्धि
राहु काल - शाम 05:21 से 06:52 तक
सूर्योदय - 06:40
सूर्यास्त - 06:52
दिशा शूल - पश्चिम
ब्राह्ममुहूर्त - प्रातः 05:05 से 05:52 तक

#panchang
गार्गी वाचक्नवी
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)

गर्गगोत्रे समुत्पन्ना, वचक्नुमुनेः कन्या गार्गी वाचक्नवी इति नामद्वयेन प्रसिद्धा। अधीताखिलशास्त्रा कुण्डलिनीविद्यापारङ्गता एषा तत्कालीनायां ब्रह्मजिज्ञासापण्डितमण्डल्यां गौरवस्थानापन्ना अवर्तत।

विदेहस्य राजर्षिणा जनकेन बहुदक्षिणायागनिमित्तं ब्रह्मसंसद् आयोजिता।कुरुपाञ्चादिदेशेभ्यः वेदज्ञाः ब्राह्मणाः तत्र समागताः।तेषु श्रेष्ठतमः ब्रह्मिष्ठः कः इति जनकस्य जिज्ञासा समुत्पन्ना। सः सहस्त्रं गाः आभूषणैरलङ्कृत्य 'वरीयसे ब्रह्मज्ञानिने इमाः गाः उपायनीक्रियन्ते' इति उदघोषयत् । तच्छॄत्वा तत्र उपस्थितः याज्ञवल्क्यः ताः गाः स्वाश्रमं प्रति नेतुं स्वशिष्यं सामश्रवसं समादिशत्। तेन कुद्धाः अन्ये पण्डिताः याज्ञवल्योपरि प्रश्नशरवर्षणं चक्रुः।अश्वल-कहोल-उद्दालकेषु वादे पराजितेषु धैर्येण उदतिष्ठत् गार्गी वाचक्नवी बृहदारण्यकोपनिषतद् तृतीयाध्यायस्य षष्ठे ब्राह्मणे गार्ग्याः प्रश्नाः उल्लिखिताः वर्तन्ते।

यदि पृथिवी जलेनावृता, तर्हि जलं केन आवृतं इति तस्याः प्रथमः प्रश्नः आसीत्। वायुना इति उत्तरं दत्तं याज्ञवल्क्येन । वायुः केन व्याप्तः इति पृष्टः गार्ग्या। महर्षिः उत्तरमदात्।एवं तयोः प्रश्नत्तरसरणिः अनुवर्तते। अन्ते यदा वाचक्नव्या 'ब्रह्मलोकः केन व्याप्तः' इति प्रश्नः कृतः तदा याज्ञवल्क्यः 'गार्गि!अति प्रश्नं मां कार्षिः। त्वया जिज्ञासितं तत्वं प्रश्नातीतम्। तव मूर्धा एव अधः पतेत्' इति अगर्जत्।तदा गार्ग्या मौनमाश्रितम् ।तत्तु न भयेन। अन्यन्तं गूढविचारोऽयं जनसङ्कुलसभायां न चर्चार्हः इति तस्याः ज्ञानमासीत् । अन्येषु विद्वत्सु याज्ञवल्क्यप्रभया पराभूतेषु गार्गी एकाकिनीस्वप्रश्नकुन्तैः याज्ञवल्क्यं पीडयामास इति तुअनतिसाधारणविषयः।

'कीदृशं तत्त्वं यत् द्दुलोचस्य उपरि, भूमेः अधस्तात् तन्मध्येऽपि भूते वर्तमाने भविष्ये च शाश्वतं स्थित्वा व्यक्तं जगत् व्याप्नोति? इति गार्ग्या कृतः प्रश्नः अष्टमण्डले दृश्यते।याज्ञवल्क्यः ' अव्यक्तं आकाशम्' इत्युत्तरम् अददात्। आकाशे केन व्याप्तम्? इति अग्रिमप्रश्नः गार्ग्याः मुखादागतः। तदुत्तरूपेण याज्ञवल्क्यः अक्षरब्रह्मणः वर्णनम् अकरोत्। तेन सन्तुष्टा गार्गी 'याज्ञवल्क्यः ब्रह्मज्ञानी' इति अङ्ग्यकरोत्।

गार्गी वादे प्रजाभूता स्यात् । परन्तु याज्ञवल्क्यसदृशं ब्रह्मज्ञानिनं सम्मुखीकृत्य ब्रह्मतत्त्वविषये वादं कृत्वा धीरत्वं प्रादर्शयत्।प्राचीनकाले स्त्रीणां विद्यार्जनाधिकारः नासीत् प्रश्नकरणावसरोऽपि ताभिः न प्राप्यते स्म इति दुर्वादं केचन प्रसारयन्ति। गार्ग्याः निदर्शनं तादृशदुर्विचारनिरसनं करोति इत्यत्र नास्ति संशीतिः।

। नमो नमः।

सौ.विजया उल्हासः गोखले रोहा, रायगडः।

#streeratnamaala
🌿स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥
- पञ्चतन्त्रम्, मित्रभेदः, २८०

🌞उपदेशेन एव स्वभावस्य परिवर्तनं कर्तुं न शक्यते यथा जलं कियदपि उष्णं कुर्मः तथापि तत् शीतलतायाः स्वभावं पुनः अवाप्नोति एव।

🌹It’s not possible to change the basic nature of a person by giving advice. As even if water is heated, it cools down after some time, to its normal temperature.

#Subhashitam
होलिपर्वणः शुभकामनाः युष्मभ्यम्।
युष्मभ्यम् इत्यस्य वैकल्पिकं रूपं किं स्यात्।
Anonymous Quiz
8%
ते
14%
वाम्
32%
वः
46%
तुभ्यम्
https://youtu.be/LO2gk9QST1M?si=PZy2SyseJspMrNps

अगा गाङ्गाङ्गकाकाक-गाहकाघककाकहा।
अहाहाङ्क खगाङ्काग- कङ्कागखगकाकक ॥

O you (the traveller of many countries), who bathes in the tortuous current of the rippling Ganga; you have no acquaintance with the sorrowful sound of the suffering world; you have the ability to go till the Meru mountain; you are not under the control of the crooked senses. You, being the dispeller of sins, have come on this land.

#Celebrating_Sanskrit
होली पर्वणः शुभशाया:

अयं शुभ: योगः १६० वर्षाणाम् अनन्तरं होलीदिने आगच्छति.....

अस्य विधिः भवतः जीवनं परिवर्तयिष्यति।

यदि भवतः
१. व्यापारे मन्दता अस्ति।
2. बालकाः न पठन्ति।
3. न निद्रां कर्तुं शक्नोति।
4. बुभुक्षा न सम्यक् भवति।
5. समये जागरणं न भवति।

समाधानम् अस्ति एकमेव।

होलीदिने रात्रौ यदा होलिकादहनं भवति तदा स्वदूरवाणीं सप्तवारं शिरसि भ्रामयित्वा होलिकया: अग्नौ निक्षिपतु।

अनेनोपायेन सर्वासां समस्यानां निवारणं भवेदेव ..... 😅😜

#hasya
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - पूर्णिमा दोपहर 12:29 तक तत्पश्चात प्रतिपदा

दिनांक - 25 मार्च 2024
दिन - सोमवार
विक्रम संवत् - 2080
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - शुक्ल
नक्षत्र - उत्तरा फाल्गुनी सुबह 10:38 तक तत्पश्चात हस्त
योग - वृद्धि रात्रि 09:30 तक तत्पश्चात ध्रुव
राहु काल - सुबह 08:10 से 09:42 तक
सूर्योदय - 06:39
सूर्यास्त - 06:53
दिशा शूल - पूर्व
ब्राह्ममुहूर्त - प्रातः 05:04 से 05:52 तक

#panchang