संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
https://youtu.be/5zO7Sn2pORQ?si=Tg-MeylUzroGLYH2

भूरिभि रिभिर्भीराभूभारैरभिरेभिरे।
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः॥

The fearless elephant, who was like a burden to the earth because of its heavy weight, whose sound was like a kettle-drum, and who was like a dark cloud, attacked the enemy elephant.

शिशुपालवधम्

#Celebrating_Sanskrit
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - निर्वाचनम्
🗓२१/०३/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (नर्वाचनसम्बन्धितं कमपि विषयं वदतु) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - द्वादशी 22 मार्च प्रातः 04:44 तक तत्पश्चात त्रयोदशी

दिनांक - 21 मार्च 2024
दिन - गुरुवार
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - शुक्ल
नक्षत्र - अश्लेषा मध्य रात्रि 01:27 तक तत्पश्चात मघा
योग - सुकर्मा शाम 05:42 तक तत्पश्चात धृति
राहु काल - दोपहर 02:18 से 03:49 तक
सूर्योदय - 06:42
सूर्यास्त - 06:51
दिशा शूल - दक्षिण
ब्राह्ममुहूर्त - प्रातः 05:08 से 05:55 तक

#panchang
अरुन्धती
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)
देवहूतिकर्दमयोः अष्टपुत्री अरुन्धती सप्तर्षिषु अग्रगण्यस्य वशिष्ठस्य धर्मपत्नी।विद्याविवेकसम्पन्ना इयम् ऋषिमण्डले विशेषगौरवस्थानम् अभजत।
पुराणान्तरानुसारं मेधातिथिमहर्षेः कन्या इयम् ।सन्ध्याकुमारी वशिष्ठवरणार्थं मेधातिथेः यज्ञकुण्डे देहत्यागं विधाय अरुन्धतीरूपेण पुनर्जन्म प्राप्तवती ।सावित्रीबहुलादेव्योः सविधे अध्ययनं कृत्वा सकलविद्यासपन्ना समभूत्।

विश्वामित्रः अरुन्धतीवशिष्ठयोः शतं पुत्राणां वधमकरोत् ।परम् अरुन्धती अनन्तपारं पुत्रशोकं सोढ्वा विश्वामित्राय क्षमादानम् अकरोत्।शक्तिनामकः अपरः पुत्रोऽपि कौशिकस्य कुतन्त्रेण मारितः। तदापि इयं सहनशीलतां नामुञ्चत्।तस्याः पुत्रः सुयज्ञः रामस्य सहपाठी आसीत् ।

अग्निपत्नी स्वाहा सप्तर्षीणां पत्नीनां रूपधारणं कर्तुमयतत।षण्णां रूपं धृत्वा अरुन्धतीरूपधारणे असमर्था सञ्जाता। तस्य कारणम् अरुन्धत्याः विशिष्टं व्यक्तित्वं पाण्डित्यञ्च। पराजिता स्वाहादेवी बहुधा अरुन्धत्याः स्तुतिं चकार।

एषा रामायणे दाम्पत्यजीवनविषये सीतारामौ उदबोधयत्। इन्द्रादिदेवताभ्योऽपि गृहस्थधर्मोपदेशम् अयच्छत् ।
अरुन्धतीवशिष्ठयोः दाम्पत्यं आदर्शदाम्पत्यमिति परिगण्यते। विवाहे अरुन्धतीपूजनं अरुन्धतीनक्षत्रदर्शनं च शुभमातनोति इति अस्तिकानां विश्वासः।

। नमो नमः।
सौ.विजया उल्हासः गोखले, रोहा, रायगडः।

#streeratnamaala
🌿न तेन वृद्धो भवति येनास्य पलितं शिरः।
यो वै युवाप्यधीयानस्तं देवा स्थविरं विदुः ॥

🌞पलितकेशान् दृष्ट्वा न कश्चित् वृद्धः इति उच्यते अपितु देवाः तु युवानं किन्तु ज्ञानवन्तमेव वृद्धम् अभिजानन्ति।

🌷सिर के बाल सफेद हो जाने से ही कोई मनुष्य वृद्ध नहीं कहा जा सकता; देवगण उसी को वृद्ध कहते हैं, जो तरुण होने पर भी ज्ञानवान् हो।

(मनु, २. १५६ और म. भा. वन. १३३. ११; शल्य. ५१.४७.)

#Subhashitam
Live stream scheduled for
https://youtu.be/x2SYcDCGCe0?si=6sR98xEbbZB8v2Vo

न नोननुन्नो नुन्नेनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत्।।

A man is not a man who is wounded by a low man. Similarly, he is also not a man who wounds a low man. The wounded one is not considered to be wounded if his master is unwounded. And he who wounds a man who is already wounded, is not a man.

#Celebrating_Sanskrit
परीक्षास्थितिः
१९९९ - सर्वेषां प्रश्नानाम् उत्तरं लेखनीयम्।
२००४ - पञ्चानां प्रश्नानाम् उत्तरं लिखतु।
२०१५ - दत्तेभ्यः विकल्पेभ्यः उचितस्य चयनं कुरुत।
२०२४ - द्वयोः एकस्य चयनं कुरुत।
२०३० - केवलं प्रश्नपत्रमेव पठत।
२०४० - भवन्तः आगताः तदर्थं धन्यवादाः।

#hasya
Audio
विषयः - निर्वाचनम् #samlapshala
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः सुभाषितादिनी
🗓२२/०३/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (यं कमपि संस्कृतसम्बद्धं विषयं वदतु)एतद्विषयम् अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - त्रयोदशी पूर्ण रात्रि तक

दिनांक - 22 मार्च 2024
दिन - शुक्रवार
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - शुक्ल
नक्षत्र - मघा 23 मार्च प्रातः 04:28 तक तत्पश्चात पूर्वा फाल्गुनी
योग - धृति शाम 06:36 तक तत्पश्चात शूल
राहु काल - दोपहर 02:18 से 03:49 तक
सूर्योदय - 06:42
सूर्यास्त - 06:52
दिशा शूल - दक्षिण
ब्राह्ममुहूर्त - प्रातः 05:07 से 05:54 तक

#panchang
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)
लोपामुद्रा
वैदिककालस्य वेदद्रष्ट्रीषु नारिषु अत्यन्तं गौरवान्वितं स्थानं वहति लोपामुद्रा। हरिणस्य नेत्रे ,मयूरस्य लास्यं, मल्लिकायाः हासः , सिंहस्य कटिः , कोकिलस्य कण्ठः... एवं विविधप्राणिनां विशिष्ठाङ्गानि मेलयित्वा अगस्तमहर्षिः लोपामृद्रां असृजत् । तेन सा जगति अप्रतिमसुन्दरी बभूव।

सा दाक्षायिणीविदर्भराजयोः आश्रये व्यवर्धत।सकलशास्त्राणि तया आत्मसातकृतानि। प्रायप्रबुद्धां ताम् अगस्त्यमुनिः पत्नीरूपेण अयाचत। तथा कर्तुं विदर्भराजस्य इच्छा नासीत्। तदा लोपामुद्रा एव सकलाभरणानि विमुच्य अगस्त्येन सह गन्तुमुद्यता।

गृहिणीधर्मं श्रद्धया पालयन्ती लोपामुद्रा अगस्त्यस्य वेदाभ्यासजडतया विषण्णा अभवत्। सन्तानहीनताकारणात् अगस्त्यस्य पितरः ऊर्ध्वपादाः भूत्वा दोलायमानाः आसन्। तेषां मुक्तये संसारेऽनासक्तेन अगस्त्येन न किमपि कृतमासीत्। तं जागरयितुं सा रात्रिसूक्तम् रचितवती।ऋग्वेदस्य प्रथममण्डलस्य १७९ तमे सूक्ते लोपामुद्रया रचितौ द्वौ मन्त्रौ,अगस्त्येन रचितं मन्त्रद्वयं, तयोः संवादं शृण्वता शिष्येण कृतौ द्वौ मन्त्रौ च विलसन्ति। महाभारते विद्यमानकथानुसारं यदा अगस्त्यः लोपामुद्रायाः सौन्दर्याकर्षणेन कामातुरतां प्रादर्शयत् तदा लोपामुद्रा पितृगृहे तया परित्यक्तकनकतुल्यां सम्पत्तिः सम्पाद्य आगम्यतामिति समयं दत्तवती। अगस्त्यस्य जडतानिवारणमेव तस्याः उद्देश्यमासीत् । अर्थसङ्ग्रहोऽपि गृहस्थधर्म एव इति तया मुनिः सम्यक् बोधितः। अगस्त्यः इल्वलसकाशं गत्वा धनं सम्पाद्य आयात्।

लोपामृद्रा दृढस्युः इति नामकस्य पुत्रस्य माता बभूव।

दक्षिणभारते लोपामुद्रायाः विषये काचित् लोककथा प्रचलिता विद्यते । तत्र यदा भयङ्करेण क्षामकालेन बोभूयत तदा जनानां कष्ठपरिहारार्थं लोपामुद्रा अगस्त्यं प्राथयत। ताम् उदकरूपेण कमण्डलौ संस्थाप्य मुनिः तपश्चर्यार्थं उपाविशत् तस्मिन् ध्यानमग्ने गणेशः कामरूपेण समागत्य कमण्डलुं पातयामास। कमण्डलोः निःसृता लोपामृद्रा जलप्रवाहरूपेण प्रवहन्ति जनानाम् आर्तिनाशनं चकार।सा एव 'कावेरी' नदी इति प्रख्याता।

ललितासहस्रनामस्तोत्रं लोपामुद्रा जगति प्रासारयत्। देवगुर्वादयोऽपि तस्याः पादचिह्नं नेत्राभ्यामभिवन्द्य सम्मानयन्ति स्म।

।नमो नमः।

सौ.विजया उल्हासः गोखले, रोहा, रायगडः।

#streeratnamaala