संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - प्रथमाः महिलाः
🗓१९/०३/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा(विभन्नेषु क्षेत्रेषु याः महिलाः प्रथमाः सन्ति तादृशीनां परिचयः कारणीयः यथा प्रथमा विमानचालिका प्रथमा सैन्याधिकारिणी इत्यादिकम्) एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - दशमी मध्य रात्रि 12:21 तक तत्पश्चात एकादशी

दिनांक - 19 मार्च 2024
दिन - मंगलवार
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - शुक्ल
नक्षत्र - पुनर्वसु रात्रि 08:10 तक तत्पश्चात पुष्य
योग - शोभन शाम 04:37 तक तत्पश्चात अतिगण्ड
राहु काल - शाम 03:49 से 05:20 तक
सूर्योदय - 06:44
सूर्यास्त - 06:50
दिशा शूल - उत्तर
ब्राह्ममुहूर्त - प्रातः 05:09 से 05:57 तक

#panchang
स्त्रीरत्नमाला
देवहूति:
सनातनभारतस्य स्त्रीरत्नानां चरितानि
स्वायम्भुवशतरूपयोः तिसृषृ पुत्रिषु अन्यतमा देवहुतिः। कर्दममहर्षेः गुणसम्पन्नतां देवर्षे नारदात् निशम्य तमेव पतिरूपेण वरयितुं निर्धारमकरोत्। पृथिव्याः अद्यपार्थिवस्य पुत्री भूत्वाऽपि भोगजीवनं तिरस्कृत्य तपोधनं महर्षिम् अवृणोत्।सा स्वयं पितृभ्यां सह कर्दममुनेराश्रमं गतवती। प्राचीनकाले स्त्रीणां स्वातन्त्र्यस्य निदर्शनमेतत्।
उद्वाहानन्तरं कर्दमः तस्याः सन्तोषार्थं दिव्यं विमानं निर्माय तया सह लोकोन्तरेषु विहारमकरोत्। परन्तु भोगे अनासक्तहृदया देवहूतिश्चेतिः तपसि मतिं व्यदधात् ।जीवनस्य बहुवारं तपश्चरणे व्ययीकृत्यापि सा कला,अनसूया, अरुन्धती,श्रद्धा,हविर्भूगतिः क्रिया,शान्तिः,ख्यातिः,गतिः इति नवकन्यानां माताऽभवत्। ताभ्यः उत्तमं संस्कारं प्रदाय उत्कृष्टव्यक्तित्वनिर्माणमकरोत् ।
कन्याजननसमनन्तरं तपश्चर्यार्थं प्रस्थितं कर्दमं पितृ कर्तव्यविषये अबोधयत्। तस्याः तार्किकोपदेशेन समाहितचित्तः कर्दमः संसारजीवनमन्ववर्तयत्। कालान्तरे तस्याः 'कपिल' नामा पुत्रोऽ जायत।श्रीहरि रेव कपिलः रूपेण धरणीमवातरत् इति तुलसीदासवर्येण रामचरितमानसग्रन्थे कीर्तितम्।

देवहूतिर्मनोः कन्या
कर्दममुनेः प्रेमसम्पन्ना।
आदिदेवः प्रभुर्दीनदयालुः
उदरेऽजनि कपिलकृपालुः।।(भावानुवादः)
देवहूतिः अन्त्यकाले स्वपुत्रादेव आत्मज्ञानं सम्प्राप्य सायुज्यमगच्छत्।

सौ.विजया उल्हासः गोखले,रोहा , रायगडः।

#streeratnamaala
🌿न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा ।
तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता ॥

🌞सदैव क्षमाकरणे क्रोधकरणे वा श्रेष्ठता नास्ति अतः बुधैः जनैः अपि क्षमा न करणाय अपवादाः प्रोक्ताः सन्ति।

🌷सदैव क्षमा करना अथवा क्रोध करना श्रेयस्कर नहीं होता। इसलिए हे तात ! पण्डितों ने क्षमा के लिए कुछ अपवाद भी कहे हैं।
(म. भा. वन. २८. ६, ८)

#Subhashitam
Live stream scheduled for
दुःखम् अस्माकं चिन्तने एव न तु परिस्थितौ।
अस्माकं चिन्तने इत्येतयोः पदयोः समस्तं रूपं किं स्यात्।
Anonymous Quiz
31%
अस्माकञ्चिन्तने
23%
अस्माकं चिन्तने
16%
अस्मद् चिन्तने
30%
अस्मच्चिन्तने
https://youtu.be/Z7r_uYOyiyY?si=RNVzkeqOfXUt2oKG

देवानां नन्दनो देवो नोदनो वेदनिन्दिनाम्।
दिवं दुदाव नादेन दाने दानवनन्दिनः॥

The God (Vishnu) who causes pleasure to the other gods and pain to the opponents of the Vedas, filled the heavens with a loud sound as he killed Hiranyakashipu [a demon who forbade his son to take the name of Vishnu.

#Celebrating_Sanskrit
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - वाक्याभ्यासः
🗓२०/०३/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (चित्राणि दृष्ट्वा वाक्यानि वदितव्यानि) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - एकादशी मध्य रात्रि 02:22 तक तत्पश्चात द्वादशी

दिनांक - 20 मार्च 2024
दिन - बुधवार
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - शुक्ल
नक्षत्र - पुष्य रात्रि 10:38 तक तत्पश्चात अश्लेषा
योग - अतिगण्ड शाम 05:01 तक तत्पश्चात सुकर्मा
राहु काल - दोपहर 12:47 से 02:18 तक
सूर्योदय - 06:43
सूर्यास्त - 06:51
दिशा शूल - उत्तर
ब्राह्ममुहूर्त - प्रातः 05:08 से 05:56 तक

#panchang
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)
सन्ध्या
ब्रह्ममानसपुत्री सन्ध्या दूरदृष्टियुता विवेकवती कन्या असीत्। सा चन्द्रभागपर्वतस्य बृहल्लोहितसरसः निकटे तपश्चरणचिकीर्षया कस्यचित् सद्गुरोः प्रतीक्षायाम् अवर्तत।

कदाचित् तत्र समागतः वशिष्ठमहर्षिः तस्यै 'नमो भगवते वासुदेवाय' इति द्वादशाक्षरमन्त्रोपदेशम् अकरोत् । तपसः पद्धतिमपि तस्मादेव ज्ञात्वा सा महत् तपः समाचरत्।

तस्याः तपसा संतुष्टे श्रीहरौ प्रत्यक्षे सति सा वरत्रयमयाचत। प्रथमं तावत् लोककल्याणार्थं याचनामकरोत्। 'भूमौ जातस्य जीविनः जन्मना एव कामविकारः न भूयात्' इति तस्याः याञ्चा आसीत्। तदङ्गिकृत्य परमात्मा बाल्यं, कौमार्यं, यौवनं वार्धकमिति अवस्था चतुष्टयं सृष्ट्वा तृतीयावस्थायामेव कामभावस्य प्रादुर्भावः भवत्विति अन्वगृह्णत्।अत्रैव सन्ध्याकुमार्याः दूरदृष्टिः विद्योतते। मनसः विकासात्पूर्वमेव कामभावस्य उत्पत्या अपराधप्रकारणानि आधिक्येन भवेयुरिति तस्याः चिन्तनमासीत्।

द्वितीयवररूपेण अखण्डं सतीत्वं प्राप्नोत्।तृतीयवरेण 'पतिं विहाय अन्यः कोऽपि यदि तां कामभावनया पश्यति तर्हि सः नपुसकः भवतु ' इत्यनुग्रहं प्राप्तवती।परस्रियं कामभावनया वीक्षमाणाः पुरुषत्वनाशशिक्षार्हाः इति तस्या तत्समये एव सूचितम्। नारीबलवर्धनस्य आद्या प्रतिपादिका इयं धीरकन्या इति वक्तुं शक्यते।

महाविष्णोः आदेशानुसारं वसिष्ठमेव भर्तुरूपेण वरयितुं इष्ट्वा मेदाथिनः होमाग्रिं प्राविशत्। तस्याः भौतिकदेहं द्विधा विभज्य दिनकरः प्रातः सन्ध्यां सायं सन्ध्यां च असृजत्।

सन्ध्याकुमारी अरुन्धतीति नाम्नापुनर्जन्म प्राप्य वसिष्ठं पतिरूपेण अविन्दत।

। नमो नमः।
सौ.विजया उल्हासः गोखले रोहा, रायगड:।

#streeratnamaala