संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
ओ३म्

२२१. संस्कृत वाक्याभ्यासः

न ..न.. न… द्वारं मा पिधायतु।
= नहीं दरवाजा बंद मत करो

मूषकं बहिः गच्छतु नाम।
= चूहे को बाहर जाने दो।

पश्यतु तत्र अस्ति
= देखो वहाँ है ।

कुत्र ???

कपाटिकायाः अधः …
= अलमारी के नीचे …

ओह … ततः तु अग्रे गतः
= ओह …. वहाँ से तो आगे चला गया

पर्यंकस्य अधः अस्ति।
= पलंग के नीचे है।

दण्डेन नुदतु
= लाठी से धकेलो

ओह … सः तु पाकशालां गतः
= ओह … वह तो रसोई में गया

पाकशालायाः द्वारम् उद्घाटितम् अस्ति
= रसोई का दरवाजा खुला है।

पुनः एकवारं नुदतु।
= फिर से एक बार धकेलो

उत्तमं … मूषकः बहिः गतः ।
= बढ़िया जी …. चूहा बाहर गया ।

ओ३म्

२२२. संस्कृत वाक्याभ्यासः

मार्गे अस्मि।
= रास्ते में हूँ।

यानं चालयामि।
= गाड़ी चला रहा हूँ।

सः अपि यानं चालयति।
= वह भी गाड़ी चला रहा है।

सा अपि यानं चालयति ।
= वह भी गाड़ी चला रही है।

मार्गे निर्माणकार्यं चलति।
= रास्ते में निर्माणकार्य चल रहा है।

सर्वे यानचालने कष्टम् अनुभवन्ति।
= सभी वाहन चलाने में कष्ट अनुभव कर रहे हैं

इतः अपि यानानि गच्छन्ति ।
= यहाँ से भी वाहन जा रहे हैं ।

ततः अपि यानानि आगच्छन्ति ।
= वहाँ से भी वाहन आ रहे हैं ।

मार्गे अनेके अवरोधाः सन्ति।
= रास्ते में अनेक अवरोध हैं

तथापि गन्तव्यं तु अस्ति।
= फिर भी जाना तो है ।

कथञ्चिद्पि मार्गः पारणीयः ।
= कैसे भी करके रास्ता पार करना है

कोsपि न विरमति।
= कोई नहीं रुक रहा है।

ओ३म्

२२३. संस्कृत वाक्याभ्यासः

उत्पीठिका = टेबल

स्वागतकक्षे उत्पीठिका अस्ति।
= स्वागतकक्ष में टेबल है।

उत्पीठिकायां पुष्पाधानी अस्ति।
= टेबल पर फूलदान है

पुष्पाधान्यां पुष्पाणि सन्ति।
= फूलदान में फूल हैं ।

विविधानि पुष्पाणि सन्ति।
= विविध फूल हैं ।

एका बालिका सर्वेषां स्वागतं करोति।
= एक बच्ची सबका स्वागत कर रही है

तस्याः हस्ते एका स्थालिका अस्ति।
= उसके हाथ में एक थाली है।

स्थालिकायां पुष्पाणि , अक्षतं , तिलकं च अस्ति।
= थाली में फूल , अक्षत और तिलक हैं ।

सा बालिका सर्वान् तिलकं करोति।
= वह बच्ची सबको तिलक करती है।

सर्वेषाम् उपरि पुष्पवर्षां करोति
= वह सबके ऊपर पुष्पवर्षा करती है।

सा बालिका स्वस्तिवाचनं गायति
= वह बालिका स्वस्तिवाचन गाती है।

ओं स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्तिः नस्तार्क्ष्यो अरिष्टनेमि: स्वस्ति नो बृहस्पतिः ददातु।

ओ३म्

२२४. संस्कृत वाक्याभ्यासः

सः व्यजनं न इच्छति ।
= वह पंखा नहीं चाहता है।

अहं व्यजनं इच्छामि।
= मैं पंखा चाहता हूँ।

सः वातानुकूलम् इच्छति।
= वह ए. सी. चाहता है।

अहं वातानुकूलं न इच्छामि।
= मैं ए. सी. नहीं चाहता हूँ।

वातानुकूलिते वातावरणे मां निद्रा न आगच्छति।
= ए. सी. के वातावरण में मुझे नींद नहीं आती।

व्यजनं चलति तर्हि तं निद्रा न आगच्छति।
= पंखा चलता है तो उसको नींद नहीं आती है ।

अस्तु अहं बहिः शयनं करोमि।
= ठीक है मैं बाहर सोता हूँ ।

प्रकोष्ठात् बहिः तु मषकाः सन्ति।
= कमरे से बाहर तो मच्छर हैं

अन्तः एव शयनं करोमि।
= अंदर ही सोता हूँ।

ओ३म्

२२५. संस्कृत वाक्याभ्यासः

अत्र मा पठतु ।
= यहाँ मत पढ़िये ।

अत्र पर्णानि पतन्ति।
= यहाँ पत्ते गिरते हैं।

अधुना पर्णाझर-ऋतुः अस्ति।
= अभी पतझड़ ऋतु है

शुष्कानि पर्णानि वृक्षात् पतन्ति।
= सूखे पत्ते पेड़ से गिरते हैं ।

अत्र छाया अपि न मिलति।
= यहाँ छाया भी नहीं मिलती है

पर्णानि अपि पतन्ति।
= पत्ते भी गिरते हैं

अतः अध्य्यनं कर्तुं न शक्ष्यति।
= अतः अध्ययन नहीं कर पाओगे।

विद्यालयस्य दीर्घां चलावः
= विद्यालय की लॉबी में चलते हैं

तत्र छाया अस्ति।
= वहाँ छाया है ।

शान्तिः अपि अस्ति।
= शान्ति भी है ।

ओ३म्

२२६. संस्कृत वाक्याभ्यासः

गतदिने तु सा रुष्टा आसीत् ।
= कल तो वह रूठी हुई थी।

अद्य प्रसन्ना अस्ति।
= आज खुश है ।

गतसायं दुग्धं छिन्नं जातम् ।
= कल शाम दूध फट गया था।

मम हस्तात् किञ्चित् दधिः पतितम्।
= मेरे हाथ से थोड़ी दही गिर गई।

न जानामि कथं पतितम्।
= नहीं पता कैसे गिर गई ।

रात्रौ दुग्धछिन्नके गुडं मेलयित्वा अहं खादितवान् ।
= रात में फटे दूध में गुड मिलाकर मैंने खा लिया।

अद्य प्रातः नवं दुग्धम् आनीतवान्।
= आज सुबह ताजा दूध लाया।

क्वथनं कृत्वा स्थापितवान्।
= उबालकर रख दिया।

तां सूचितवान्।
= उसको बता दिया।

सा दृष्टवती ।
= उसने देख लिया।

सा प्रसन्ना जाता।
= वह खुश हो गई।

#vakyabhyas
हितोपदेशः - HITOPADESHAH

मन्त्रो योध इवाधीरः
सर्वाङ्गैः संवृतैरपि।
चिरं न सहते स्थातुं
परेभ्यो भेदशङ्कया। 383/136।

अर्थः:

जैसे एक डरपोक सैनिक सभी अंगों पर कवच, अस्त्र शस्त्र आदि धारण करने पर भी युद्धभूमि में बहुतकाल तक नहीं टिक सकता, वैसे ही गुप्त विषय, सभी उपाय आदि अंगों से युक्त होते हुए भी शत्रु के भेदशंका से अधिक समय गुप्त नहीं रहता।

MEANING:

Just as a frightened soldier, despite being covered with armor and weapons, cannot remain steadfast on the battlefield for long, similarly, a secret, even when well guarded and equipped with all measures, cannot remain hidden for long due to the enemy's suspicion.

ॐ नमो भगवते हयास्याय।

#Subhashitam
हितोपदेशः-HITOPADESHAH

सकृद्दुष्टं तु यो मित्रं
पुनः सन्धातुमिच्छति।
स मृत्युमेव गृह्णाति
गर्भमश्वतरी यथा। 384/137।

अर्थः:

जो व्यक्ति अपने मित्र की दुष्टता को जानने के बाद भी उस से मित्रता करना चाहता है, वह अश्वतरी सर्प के गर्भ पर हाथ डालने जैसे मृत्यु को ही पाता है।

MEANING:

Even if a person continues the friendship with a friend after knowing the friend's wickedness, he will face death similar to putting his hand into the womb of an Ashwatari snake.

ॐ नमो भगवते हयास्याय।

#Subhashitam
जलमध्ये डुबुक् डुबुक् ✍🏽👨🏽‍🦲👨🏼‍🦲👨🏿‍🦲👨🏾‍🦲


भोजराजः विद्वद्भ्यः भूरि कनकानि ददातीति श्रुत्वा चत्वारः पण्डितम्मन्याः धारानगरीं प्रति प्रस्थिताः। भोजराजं प्रीणयितुं तैः काचित् कविता रचनीया आसीत्। मार्गे बहुधा प्रयासः कृतः चेदपि कविताकामिन्याः प्रेमपात्रतां न ययुः। श्रान्तास्ते विश्रान्त्यर्थं कासारतीरे कस्यचित्तरोर्मूलं समाश्रयन्।

सः जम्बूवृक्षः आसीत्। चतुर्षु अन्यतमः वृक्षे पक्वानि फलानि अपश्यत्। सपदि तेन ‘जम्बूफलानि पक्वानि’ इति पद्यस्य प्रथमः पादः रचितः।

अन्यः तानि फलानि कासारजले पतन्तीति अवालोकयत्। तेन द्वितीयः पादः व्यरच्यत – ‘पतन्ति विमले जले’ इति।

अपरः चोद्यमेकमलक्षयत् । पक्वान्यपि फलानि जलाशयस्य मत्स्यैः न खादितानि। अतः तेन “तानि मत्स्याः न खादन्ति’ इति तृतीयः चरणः विरचितः।

जले पतनसमये फलैः क्रियमाणेन विचित्रशब्देन आकृष्टचित्तेन चतुर्थेन भणितम् – ‘जलमध्ये डुबुक् डुबुक्’ इति।

एवं महता प्रयासेन चत्वारः सम्मिल्य एकं पद्यं विरचयामासुः।

जम्बूफलानि पक्वानि,

पतन्ति विमले जले।

तानि मत्स्या न खादन्ति

जलमध्ये डुबुक् डुबुक्।।

भोजराजस्य आस्थानं प्रविश्य पद्यमेतत् गदितं तैः। भोजस्तु चमत्कृतिहीनाम् एनां रचनां श्रुत्वा तेभ्यः अकुप्यत।

निराशया ते कवयः अवनतवदनाः बहिः आगतवन्तः। तदैव प्रासादमुपसर्पन्तं कालिदासं दृष्ट्वा प्राणमन्। तेभ्यः सकलं वृत्तान्तम् आकर्ण्य कविकुलगुरुः पद्यस्य अन्तिमं चरणं परिवर्तितवान्।

जम्बूफलानि पक्वानि

पतन्ति विमले जले।

तानि मत्स्या न खादन्ति

जालगोलकशङ्कया।।

फलानि मत्स्यकारैः प्रसारितस्य जालस्य गोलकानि मत्वा मत्स्याः तानि खादितुं न इच्छन्ति इत्यसाधारणेन कल्पनाविलासेन पद्यस्य भाग्यमेव परिवर्तितम्।

ते भूयः सभां प्रविश्य परिवर्तितं पद्यम् अश्रावयन्। यद्यपि भूपतिः पद्ये प्रविष्टः चमत्कारः कालिदासकृतः इत्यवागच्छत् तथापि करुणार्द्रहृदयः भूत्वा तेषां चतुर्णां पण्डितपुत्राणां दारिद्र्यमपाहरत्।

~ महाबलभट्टः, गोवा
मदनस्य गृहे एकः चपलः मार्जारः आसीत्।

सः मार्जारात् त्रस्तः भवति स्म।

एकदा सः चिन्तितवान् यत् एतं मार्जारं कुत्रापि त्यक्त्वा आगच्छामि इति।

परेद्युः सः तं मार्जारं गृहीत्वा नीत्वा दूरं त्यक्त्वा आगतवान्।

मदनः गृहम् आगत्य दृष्टवान् सः मार्जारः अपि गृहम् आगतवान्।

पुनः सः तं मार्जारं गृहीत्वा इतोऽपि दूरं नीत्वा त्यक्त्वा आगतवान् परन्तु तदानीमपि सः मार्जारः गृहम् आगतवान् आसीत्।

इदानीं सः मदनः कुपितः सन् पुनः तं नीत्वा अरण्यं गतवान्।

अरण्यस्य अन्तः बहु दूरं गत्वा तं मार्जारं त्यक्त्वा आगमनसमये सः मदनः दूरवाण्या तस्य पत्नीं पृच्छति अयि प्रिये! किं मार्जारः गृहं पुनः गतवान् इति।

तस्य पत्नी तदा उक्तवती आम्। सः तु गृहे एव अस्ति इति।

मदनः तदा कोपेन उक्तवान् शीघ्रं तं दुष्टं प्रेषयतु अत्र, अहमेव मार्गं विस्मृतवान्। 

-प्रदीपः!

😂😁😆🤣😆😁🤣😆😂

#hasya
Forwarded from Markdown
सभी को सादर नमस्कार

ग्लोबल संस्कृत फोरम (राष्ट्रिय संस्कृत मञ्च), जम्मू एवं कश्मीर, भारत

के द्वारा आयोज्यमान अन्ताराष्ट्रिय ई-संगोष्ठी

विषय : ''ज्योतिष एवं आधुनिक समाज''

दिनांक : 29/05/2021

समय: 6.00 सान्ध्य से 7:45 रात्रि तक (भारत)

ई-संगोष्ठी पंजीकरण लिंक

अन्तर्राष्ट्रीय अन्तर्जालीय ई-संगोष्ठी लिंक

Youtube Live

Meeting ID: 864 2005 6739
Passcode: 620741

RSM,BHARAT Youtube Live

सम्पर्क सूत्र : Website
Email - globalsanskritforum@gmail.com
Sanskrit@rashtriyasanskritmanch.in

निवेदक
आप सभी सादर आमंत्रित हैं।
राष्ट्रीय संस्कृत मञ्च (ग्लोबल संस्कृत फोरम) जम्मू एवं कश्मीर प्रान्त,🙏🙏🏻
Sanskrit-1820-1830
२७.५ सायंकाल आकाशवाणी संस्कृत
संस्कृतभारती - विद्वत्परिषत् कर्णाटकदक्षिणम्

शाब्दबोधवर्गः🌻

सर्वो$पि लोकः शब्देन अर्थम् अवगच्छति। अवगत्य तदनुसारं प्रवर्तते निवर्त्तते उपेक्षते च। शब्दात् अर्थस्य ज्ञानं यद् भवति तस्य शाब्दबोधः इति नाम।

अयं शाब्दबोधः कथं भवति? तस्य शाब्दबोधस्य स्वरूपं किम्? शाब्दबोधे कानि कारणानि? शब्दस्य अर्थस्य च कः कः संबन्धः वर्त्तते ? येन सम्बन्धेन शब्दः अर्थं प्रत्याययति।

शब्दः पदात्मकः वाक्यात्मकः इति द्विविधः। पदस्य अर्थेन सह सम्बन्ध: शाब्दबोधं प्रति उपयोगी भवति यथा तथा वाक्यस्यापि वाक्यार्थेन सह सम्बन्धः उपयोगी भवति वा? तथा सम्बन्ध: अस्ति वा? इत्यादयः अंशाः ज्ञातव्याः। अस्मिन् विषये वैज्ञानिकाः अपि बहु विचारयन्ति।

भारतीयदर्शनेषु कीदृशी रीतिः आश्रिता शाब्धबोधविषये इति बोधनाय कश्चन प्रयत्नः करिष्यते अस्मिन् शाब्दबोधवर्गे।
न्याय- मीमांसा- व्याकरण- अलङ्कार- वेदान्तमतानि अनुसृत्य कश्चन शाब्दबोधपरिचयः करिष्यते। अनेन वर्गेण यदि अस्मिन् विषये कश्चन प्रवेशः सम्यक् लप्स्यते तर्हि तदुत्तरं बहु सम्यक् ज्ञातुं शक्यते। शाब्दबोधप्रक्रिया तावत् अत्यन्तं विशाला वरीवर्ति पाश्चत्यानामपि हृदयङ्गमा वर्त्तते।

बोधयिता
प्रो का ई देवनाथन् आचार्य:
कर्णाटकसंस्कृतविश्वविद्यालयस्य कुलपतिः
पदवाक्यप्रमाणशास्त्रेषु इतरदर्शनेषु च नितान्तं निष्णात:।
समग्रे देशे नैकासु प्रथितसभासु प्रतिपादितशास्त्रसिद्धान्त:। सज्जीकृतनैकपण्डितश्च आचार्य: अस्मान् बोधयिष्यति।

के अर्हाः?
ये व्युत्पित्सवः ते।
संस्कृतेन किञ्चित् शास्त्रप्रवेशं ये वहन्ति ते ।
अत्र प्रवेशाय बुभुत्सा एव योग्यता

अवधिः - 02-06-2021 - 11-06-2021। (दश दिनानि)
समयः- सायं 6:00 - 7:00PM।
केन माध्यमेन online वर्गः इति अग्रे सूचयिष्यते।
पञ्जीकरणम्
पञ्जीकरणाय अन्तिमं दिनम् - 1-06-2021।

सम्पर्कः-
+91 7760183607
+91 9742269403
🍃 साकेताख्या ज्यायामासीत् या विप्रादीप्ता आर्याधारा।
पूः आजीत अदेवाद्याविश्वासा अग्र्या सावाशारावा ॥ २॥


🔸पृथ्वी पर साकेत, यानि अयोध्या, नामक एक शहर था जो वेदों में निपुण ब्राह्मणों तथा वणिको के लिए प्रसिद्ध था एवं अजा के पुत्र दशरथ का धाम था जहाँ होने वाले यज्ञों में अर्पण को स्वीकार करने के लिए देवता भी सदा आतुर रहते थे और यह विश्व के सर्वोत्तम शहरों में एक था।


🍃 वाराशावासाग्र्या साश्वाविद्यावादेताजीरा पूः।
राधार्यप्ता दीप्रा विद्यासीमा या ज्याख्याता के सा ॥ २॥


🔸समुद्र के मध्य में अवस्थित, विश्व के स्मरणीय शहरों में एक, द्वारका शहर था जहाँ अनगिनत हाथी-घोड़े थे, जो अनेकों विद्वानों के वाद-विवाद की प्रतियोगिता स्थली थी, जहाँ राधास्वामी श्रीकृष्ण का निवास था, एवं आध्यात्मिक ज्ञान का प्रसिद्ध केंद्र था।

#Viloma_Kavya
SAMBHASHAN VARG STARTING…………...JOIN SOON

Registration to 10 Days (2 hours daily) Free Samskrit Sambhashan Varga @ Online, from Samskrit Bharati batches is now open. Batches start from
30 May 2021 - 08 May, 2021, 7 AM to 9 AM, IST
ऑनलाईन पध्द्तीने घेण्यात येणाऱ्या १0 दिवसाच्या (दोन तास रोज) संस्कृत संभाषण शिबिराची रजिस्ट्रेशन लिंक खुली करण्यात आली आहे.
३० मे ते ०८ जुन २०२१ सकाळी ७ ते ९ वाजे पर्यंत हा वर्ग सुरु असेल.

PLEASE read the following registration document completely and carefully. After careful reading, follow the registration process.

Registration process — English

Registration process — Marathi

Read the FAQ, before asking questions. FAQ will most likely have your question answered, if not contact us.

Only GENUINE queries will be answered.
संस्कृत संवादः । Sanskrit Samvadah pinned «SAMBHASHAN VARG STARTING…………...JOIN SOON Registration to 10 Days (2 hours daily) Free Samskrit Sambhashan Varga @ Online, from Samskrit Bharati batches is now open. Batches start from 30 May 2021 - 08 May, 2021, 7 AM to 9 AM, IST ऑनलाईन पध्द्तीने घेण्यात…»
संस्कृत संवादः । Sanskrit Samvadah pinned «संस्कृतभारती - विद्वत्परिषत् कर्णाटकदक्षिणम् शाब्दबोधवर्गः🌻 सर्वो$पि लोकः शब्देन अर्थम् अवगच्छति। अवगत्य तदनुसारं प्रवर्तते निवर्त्तते उपेक्षते च। शब्दात् अर्थस्य ज्ञानं यद् भवति तस्य शाब्दबोधः इति नाम। अयं शाब्दबोधः कथं भवति? तस्य शाब्दबोधस्य स्वरूपं…»
संस्कृत संवादः । Sanskrit Samvadah pinned «सभी को सादर नमस्कार ग्लोबल संस्कृत फोरम (राष्ट्रिय संस्कृत मञ्च), जम्मू एवं कश्मीर, भारत के द्वारा आयोज्यमान अन्ताराष्ट्रिय ई-संगोष्ठी विषय : ''ज्योतिष एवं आधुनिक समाज'' दिनांक : 29/05/2021 समय: 6.00 सान्ध्य से 7:45 रात्रि तक (भारत) ई-संगोष्ठी पंजीकरण…»
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - द्वितीया सुबह 09:36 तक तत्पश्चात तृतीया


दिनांक - 28 मई 2021
दिन - शुक्रवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - कृष्ण
नक्षत्र - मूल रात्रि 08:02 तत्पश्चात पूर्वाषाढा
योग - साध्य दोपहर 02:58 तक तत्पश्चात शुभ
राहुकाल - सुबह 10:56 से दोपहर 12:36 तक
सूर्योदय - 05:58
सूर्यास्त - 19:13
दिशाशूल - पश्चिम दिशा में
Sanskrit-0655-0700
२८.५ आकाशवाणी संस्कृत
https://youtu.be/8o4BBaiJKdc
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
चाणक्य नीति ⚔️
✒️ चतुर्दशः अध्याय

♦️श्लोक :- १४

यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा।
परापवादशास्त्रेभ्यो गां चरन्तीं निवारय।।१४।।

♦️भावार्थ --यदि व्यक्ति सम्पूर्ण जगत को किसी एक ही कर्म द्वारा अपने आधीन करना चाहता है तो उसे दूसरे की बुराई रूपी खेती में चरती अपनी जिह्वा को रोक लेना चाहिए।

#Chanakya