संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
बाल्यकालेऽहं द्विपादचक्रिकां चालयन्नपतं किन्त्वहं नारोदम्।
बाल्यकालेऽहमन्तर्जालोपयोगं नाजानामतः चिन्तितं मया यद्वक्तव्यं सर्वानधुना।


बचपन में मैं साइकिल चलाते हुए गिर गया था, लेकिन मैं रोया नहीं
बचपन में मुझे इंटरनेट का इस्तेमाल करना नहीं आता था, इसलिए मैंने सोचा कि अब सबको यह बात बता दूँ।

As a child I fell while riding a bicycle but I did not cry
I didn't know how to use the internet as a kid so I thought that I should say it to everyone now.

#hasya
दीर्यन्ते भ्रातरो दारैः
ननन्दाऽहो न नन्दति।
कुटुम्बकलहे जाते
निरुक्त्या शान्तिमाप्नुयात्॥


"Brothers are torn apart by the wives. The sister-in-law, alas, pleases not. When a family quarrel arises, May peace be attained through etymology."

#hasya
हास्यकणिका

जयश्रीः चन्दावरकरकुलीना । मुम्बय्यी

एकदा एकः मन्त्रीमहोदयः कार्यार्थं पुण्यनगरीं गतवान् । तदा येरवडाग्रामतः मनोरुग्णनिवासस्य सञ्चालकः निवासस्य प्रबन्धपरीक्षणार्थं तम् आमन्त्रितवान् ।

सञ्चालकः तम् अवदत् अत्र सुव्यवस्थितरीत्या सर्वं कार्यं चलदस्ति । सर्वे रुग्णाः शनैः शनैः स्वास्थ्यं प्राप्य आनन्देन स्वगृहं गच्छन्ति । तत्र मनोहरः नाम एकः सदस्यः रुग्णालयस्य प्रार्थनाभवनं पुस्तकालयं क्रीडाक्षेत्रं व्यायामशालां भोजनशालाम् अन्याः कक्षाः च अपि दर्शितवान्।

सन्तुष्टः मन्त्रीमहोदयः पुनरागमनसमये स्वकारयाने उपविश्य मनोहरं पृष्टवान् त्वं जानासि किम् अहं कः ।
मनोहरः अवदत् महोदय क्षमस्व । अहं न जानामि ।
मन्त्रीमहोदयः उक्तवान् अहं मन्त्री अस्मि।
मनोहरः अवदत् अत्र आगमनात् पूर्वम् अहम् अपि एतदेव कण्ठशोषेण सर्वान् वदामि स्म । किन्तु मम प्रियबान्धवाः मम किमपि न श्रुत्वा माम् अत्र त्यक्त्वा गृहं प्रत्यगच्छन् । अतः एवं मा वद । #hasya
भारते आपत्काले कश्चन कविः सम्मेलने अवदद् राज्यं वै चौरशासितम्।

अग्रिमे एव दिने राजसैनिकाः तम् अवरुध्य अपृच्छन्। किं त्वया सम्मेलने राज्यं चौरैः शासितम् इति कथितम्।

कविरुवाच। आं परन्तु एतत् न कथितं यद् भारतराज्यस्य वा पाकस्थानस्य वा श्रीलङ्काया वा अन्यस्य कस्यचन देशस्य राज्यं चोरैः शासितं।

अधीक्षक उवाच। किम् अतिबुद्धिमान् असि। किं वा वयम् एव मूर्खाः स्मः। किं वयं न जानीमः कुत्रत्यं राज्यं चोरैः शासितम्।

#hasya