संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
📙 ऋग्वेद

सूक्त - २५ , प्रथम मंडल ,
मंत्र - २० , देवता - वरुण

🍃 त्वं विश्वस्य मेधिर दिवश्च मश्च राजसि. स यामनि प्रति श्रुधि (२०)

⚜️ भावार्थ - हे बुद्धिमान् वरुण ! आकाश, धरती एवं समस्त संसार में आपका प्रकाश फैला हुआ है। आप हमारी प्रार्थना सुनकर हमारी रक्षा करने का वचन दीजिए। (२०)

#Rgveda
चाणक्य नीति ⚔️
✒️ चतुर्दशः अध्याय

♦️श्लोक : १०

यस्माच्च प्रियमिच्छेत् तस्य ब्रूयात्सदा प्रियम्।
व्याधो मृगवधं गन्तुं गीतं गायति सुस्वरम्।।१०।।

भावार्थ - निश्चय ही जिसका अप्रिय (शत्रु, दृष्ट) बुरा करने की इच्छा हो उसके साथ हमेशा मीठा बोलना चाहिए, जैसे शिकारी हिरण का वध करने के लिए मीठे स्वर में गीत गाता है।

#Chanakya
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः मे २००८
ओ३म्

२०३. संस्कृत वाक्याभ्यासः

पुत्रः – अम्ब ! अद्य शिक्षिका उत्तमां कथां पाठितवती।
= माँ , आज शिक्षिका ने अच्छी कहानी पढ़ाई।

माता – एवं वा ? का आसीत् कथा ?
= ऐसा क्या ? कौनसी कहानी थी ?

पुत्रः – ईश्वरः सर्वत्र अस्ति ।
= ईश्वर सब जगह है ।

– सः सर्वान् पश्यति।
= वह सबको देखता है ।

कथायां , एकः गुरुः शिष्येभ्यः फलं ददाति।
= कहानी में , एक गुरुजी शिष्यों को फल देते हैं ।

– गुरुः वदति ” यत्र कोsपि नास्ति तत्र गत्वा फलं खादतु।”
= गुरु बोलते हैं – जहाँ कोई नहीं है वहाँ जाकर फल खाओ।

माता – अग्रे किम् अभवत् ?
= आगे क्या हुआ ?

पुत्रः – एकः शिष्यः प्रकोष्ठे उपविष्य खादति।
= एक शिष्य कमरे में बैठकर खाता है।
– द्वितीयः वृक्षस्य उपरि आरोहति।
= दूसरा पेड़ पर चढ़ जाता है।

– तृतीयः नदीतटम् गच्छति ।
= तीसरा नदी किनारे जाता है

माता – चतुर्थः किं करोति ?
= चौथा क्या करता है ?

पुत्रः – चतुर्थः शिष्य: फलं न खादति।
= चौथा शिष्य फल नहीं खाता है ।

सः गुरुम् अवदत्
= उसने गुरु जी से कहा

ईश्वरः सर्वत्र अस्ति।
= ईश्वर सब जगह है ।

अतः अहं फलं कथं खादानि ?
= तो मैं फल कैसे खाऊँ ?

माता – बहु उत्तमा कथा आसीत् ।
= बहुत अच्छी कहानी थी ।

ओ३म्

२०४. संस्कृत वाक्याभ्यासः

पुत्रः – अम्ब ! अद्य विद्यालयः न गन्तव्यः अस्ति।
= माँ ! आज विद्यालय नहीं जाना है

माता – तर्हि गृहे एव अध्ययनं कुरु।
= तो फिर घर में अध्ययन करो।

– व्यर्थमेव समयः न यापनीयः ।
= बेकार में समय नहीं गँवाना चाहिये।

पुत्रः – अम्ब ! अहं श्लोकान् कण्ठस्थान् करोमि।
= माँ मैं श्लोक कंठस्थ कर रहा हूँ ।

माता – बहु शोभनम् ।
= बहुत अच्छा ।

– प्रातवेलायाः सदुपयोगं करोषि त्वम् ।
= प्रात: वेला का तुम सदुपयोग कर रहे हो।

पुत्रः – ददातु , अहं जलं पूरयामि।
= दीजिये मैं पानी भरता हूँ।

गीत्वा गीत्वा जलं पूरयिष्यामि
= गा गा के पानी भरूँगा ।

– श्लोकान् अपि कण्ठस्थान् करिष्यामि।
= श्लोक भी कण्ठस्थ करूँगा।

– भवत्याः अपि कार्यं भविष्यति।
= आपका भी काम हो जाएगा।

माता – उत्तमम् वत्स !

ओ३म्

२०५. संस्कृत वाक्याभ्यासः

माता – त्वं किमर्थं काससे ?
= तुम क्यों खाँस रहे हो ?

पुत्रः – एवमेव ।
= बस यूँ ही ।

माता – रात्रौ अधिकं शीतलेहं खादितवान् त्वम्।
= रात में तुमने अधिक आइसक्रीम खा ली।

– अहं निषेधयामि स्म
= मैं मना कर रही थी ।

त्वं न अमन्यथा:
= तुमने नहीं माना ।

पुत्रः – अम्ब ! एकं शीतलेहं भवत्या सह खादितवान्।
= माँ ! एक आइसक्रीम आपके साथ खाई ।

– द्वितीयं मम मित्रेण सह खादितवान्।
= दूसरी मेरे मित्र के साथ खाई।

– केवलं द्वे एव खादितवान्।
= केवल दो ही खाईं ।

माता – अधुना ऊष्णं जलं ददामि।
= अभी मैं गरम पानी देती हूँ।

– त्वं पिब ।
= तुम पीओ

– तेन कासः दूरं भवति।
= इससे खाँसी दूर होती है

ओ३म्

२०६. संस्कृत वाक्याभ्यासः

दक्षा – मम नाम दक्षा ।

रक्षा – मम नाम रक्षा ।

दक्षा – अहम् अष्टम्यां कक्षायां पठामि।
= मैं आठवीं कक्षा में पढ़ती हूँ।

रक्षा – अहम् नवम्यां कक्षायां पठामि।
= मैं नवीं कक्षा में पढ़ती हूँ।

दक्षा – अहम् अधिकं संस्कृतं न जानामि।
= मैं अधिक संस्कृत नहीं जानती हूँ।

रक्षा – अहम् अपि अधिकं संस्कृतं न जानामि।
= मैं भी अधिक संस्कृत नहीं जानती हूँ।

दक्षा – अहं प्रतिदिनम् अभ्यासं करोमि।
= मैं रोज अभ्यास करती हूँ।

रक्षा – अहमपि प्रतिदिनम् अभ्यासं करोमि।
= मैं भी रोज अभ्यास करती हूँ।

दक्षा – शोभनं , त्वं मम मित्रम् असि।
= बढ़िया , तुम मेरी मित्र हो ।

रक्षा – आम् , अहं तव सखी अस्मि।
= हाँ , मैं तुम्हारी सखी हूँ।

ओ३म्

२०७. संस्कृत वाक्याभ्यासः

दक्षा – नमो नमः ।

रक्षा – नमो नमः भगिनि !

दक्षा – कथम् अस्ति ?

रक्षा – सम्यक् ।

– भवती कथम् अस्ति ?

दक्षा – अहमपि सम्यक् ।

रक्षा – गृहकार्यम् अभवत् वा ?
= होमवर्क हो गया ?

दक्षा – न , गणितस्य अवशिष्टम् ।
= नहीं गणित का रह गया है।

रक्षा – ममापि गणितस्य अवशिष्टम् ।
= मेरा भी गणित का रह गया ।

दक्षा – तर्हि आगच्छ , आवां द्वौ कुर्वः ।
= तो फिर आओ , हम दोनों करते हैं।

रक्षा – अहं तदर्थमेव अत्र आगतवती ।
= मैं इसीलिये यहाँ आई थी।

#vakyabhyas
बिहारस्य ऐतिहासिकं नाम मगधम्। बिहारस्य राजधान्याः ऐतिहासिकं नाम पाटलीपुत्रम् ।

प्राचीनकालः

प्राचीनकाले बलाढ्यसाम्राज्येषु अन्यतमम् आसीत् मगधसाम्राज्यम् । मौर्यवंशः, गुप्तवंशः इत्यादयः प्रसिद्धाः राजवंशाः इतः शासनम् अकुर्वन् । मौर्यवंशस्य सम्राजः अशोकस्य साम्राज्यं पश्चिमदिशि अफघानीस्थानपर्यन्तं विस्तृतम् आसीत् । मौर्यवंशस्य शासनं क्रि पू ३२५ तः क्रि पू १८५ पर्यन्तम् आसीत् । पञ्चमे षष्ठे च शतके अत्र बौद्धजैनधर्मयोः उगमः जातः । अशोकः बौद्धधर्मस्य प्रचारे महत्त्वपूर्णां भूमिकां निरूढवान्। सः स्वस्य पुत्रं महेन्द्रं बौद्धधर्मस्य प्रचाराय श्रीलङ्काम् अप्रेषयत्। पाटलीपुत्रे यत्र सः पुत्रस्य आप्रच्छनम् अकरोत् सः प्रदेशः महेन्द्रघट्टः इत्येव निर्दिश्यते । इतः बौद्धधर्मः अग्रे चीनादेशं प्रति ततः जापानदेशं प्रति च प्रसृतं जातम् ।

मध्यकालः

द्वादशे शतके भख्तियारखिलजी बिहारस्य आधिपत्यं प्राप्तवान् । तदा मगधदेशस्य राजधानी न आसीत् । षोडशे शतके शेरषाहसूरी देहल्यां मुगलचक्रवर्तिनं हुमायूनं पराजित्य देहलीसिंहासनम् आरूढवान् इत्यतः बिहारस्य नाम पुनः प्रकाशितं जातम् । किन्तु अचिरात् अक्बरः बिहारराज्यं पश्चिमवङ्गे विलीनम् अकरोत्। ततः बिहारस्य अस्तित्वं वङ्गराजानाम् अधीनं जातम्।
एकः पुरुषः कार्यार्थम् एकां संस्थां गतवान्।

तत्र प्रबन्धकेन सह तस्य साक्षात्कारः अभवत्।

प्रबन्धकः तं पुरुषं पृष्टवान् पश्य! अस्माकं संस्थायां द्वारपालस्य स्थानं रिक्तम् अस्ति। द्वारपालः एवं भवेत् यः शक्तिशाली, यस्मिन् साहसं धैर्यं च अस्ति।

दुष्टान् जनान् ताडयितुं यस्मिन् सामर्थ्यम् अस्ति सः एव अस्मिन् पदे योग्यः।

त्वयि सन्ति वा एते गुणाः?

सः पुरुषः उक्तवान् महोदय! एते गुणाः तु मयि न सन्ति परन्तु मम पत्न्याम् एते सर्वे गुणाः विद्यमानाः सन्ति।

अहं ताम् आह्वयानि वा?

प्रबन्धकः- अस्तु तर्हि आह्वय ताम्!

-प्रदीपः!

#hasya
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
writereaddata_Bulletins_Text_NSD_2021_May_NSD_Sanskrit_Sanskrit.pdf
75.5 KB
२४.५ सायंकाल आकाशवाणी संस्कृत
Monday, May 24, 2021

'यास्' चक्रवातः रूपीकृतः; ओडीषा पश्चिमवंगतीरेषु अतिजागरूकता।

   नवदिल्ली> वंगसमुद्रे सञ्जातः न्यूनमर्दः चक्रवातरूपेण परिवर्तितः। यास् इति कृतनामधेयः चक्रवातः मङ्गलवासरे अतितीव्रतां प्राप्य ओडीषा पश्चिमवंगराज्योः तीरं लक्ष्यीकृत्य गमिष्यति। २६ दिनाङ्के पारद्वीप-सागरद्वीपयोर्मध्ये स्थलस्पर्शः भविष्यति।

  चक्रवातस्य प्रभावेन ओडीषा पश्चिमवंगराज्योः आन्डमान् निक्कोबारद्वीपेषु केरलस्य मध्यदक्षिणभागेषु च अतिवृष्टिः आरब्धा। प्रधानमन्त्रिणः गृहमंत्रिणः च नेतृत्वे चक्रवातभीषाविधेयानां राज्यानाम्  अधिकारिभिः सह चर्चां कृत्वा रक्षोपायपदक्षेपाः स्वीकृताः।

 

 संस्कृतं किमर्थम् आवश्यकम् ? केन वा सरल-प्रकारेण एतत् शिक्षितुं शक्यते? 

 

...    -डॉ.बलदेवानन्द-सागरः
      संस्कृत-विषये कश्चन मां पृच्छति यत् किमर्थं संस्कृतम् आवश्यकम् ? अथवा साम्प्रतम् एकविंशे शताब्दे संस्कृतस्य किं नाम उपयोगित्वम्? तदा अहन्तु इदमेव उत्तरामि यत् यथा जीवनार्थं जलं श्वसनं चावश्यके भवतः तद्वदेव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम् | 

सि बि एस् ई, +२ परीक्षा- अन्तिमनिर्णयाय  प्रधानमन्त्रिणे समर्पितम्।

 नवदिल्ली> सि बि एस् ई, +२ परीक्षायाः प्रचालनम् अधिकृत्य अन्तिमनिर्णयाय उन्नतस्तरसमितियोगेन प्रधानमन्त्रिणे समर्पितम्। छात्राणां भविष्यं गणयित्वा सेप्तम्बर् मासे परीक्षा प्रचालनीया इति उन्नतस्तरयोगेषु विविधराज्यैः अभिप्रैतम्। प्रतिरोध मन्त्रिणः राजनाथसिंहस्य आध्यक्षे एव योगः प्राचलत्।

 परीक्षाप्रचालनाय दिनाङ्कः आगामिवासरे प्रख्यापयिष्यति इति सूचना अस्ति। केवलं प्रधानविषयेषु परीक्षा प्रचालनीया इति निर्देशः अपि योगे अभवत्। छात्राणां वाक्सिनीकरणात् पूर्वं परीक्षा न प्रचालयितव्या इति नवदिल्याः उपमुख्यमन्त्रिणा मनीष् सिसोदिना उक्तम्।

 केरलविधानसभा अद्य आरभते। 

   अनन्तपुरी> केरलविधानसभायाः १५ तमं सम्मेलनम् सोमवासरे आरभते। ५३ सामाजिकाः नूतनाः सन्ति। 

  अद्य सामाजिकानां शपथवाचनं सम्पत्स्यते। कतिपयसदस्याः एकान्तवासं भजन्ति इत्यतः तेषां सत्यप्रतिज्ञा परं भविष्यति। सामाजिकदूरं परिपाल्य आसनानि सज्जीकृतानि सन्ति। 

  कुजवासरे सभानाथस्य चयनं सम्पत्स्यते। २८ तमे दिनाङ्के राज्यपालः आरिफ् मुहम्मदखानः सर्वकाराय शासननीतिं प्रख्यापयिष्यति। सर्वकारस्य नूतनम् आयव्ययपत्रकं वित्तमन्त्री के एन् बालगोपालः जूण् चतुर्थदिनाङ्के अवतारयिष्यति। जूण् १४ दिनाङ्कपर्यन्तं सभासम्मेलनं निश्चितं तथापि कोविडवस्थां परिचिन्त्य अन्तिमकार्यक्रमेषु निर्णयः भविष्यति।


~ संप्रति वार्ता
https://youtu.be/MEU94Oi3wrY
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - चतुर्दशी रात्रि 08:29 तक तत्पश्चात पूर्णिमा

दिनांक - 25 मई 2021
दिन - मंगलवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - शुक्ल
नक्षत्र - स्वाती सुबह 07:06 तक तत्पश्चात विशाखा
योग - वरीयान् सुबह 07:13 तक तत्पश्चात परिघ
राहुकाल - शाम 03:55 से शाम 05:34 तक
सूर्योदय - 05:58
सूर्यास्त - 19:12
दिशाशूल - उत्तर दिशा में
Sanskrit-0655-0700
२५.५ आकाशवाणी संस्कृत
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🌺🌺 *प्रतिदिनं संस्कृतं* 🌺🌺
*कथापठनशृङ्खला*
केवलं 30 निमेषा:
*समय: - 12 Noon to 12.30*

Google Meet joining info
Video call link: https://meet.google.com/anj-tyfb-aum
📚 श्रीमद बाल्मीकि रामायणम 📚

🔥 बालकाण्ड: 🔥
।। षोडशः सर्गः ।।

🍃 ततस्तु राजा प्रसमीक्ष्य ताः स्त्रियः
प्ररूढगर्भाः प्रतिलब्धमानसः।
बभूव हृष्टस्त्रिदिवे यथा हरि सुरेन्द्रसिद्धर्षिगणाभिपूजितः॥३२॥

🚩॥ इति षोडशः सर्गः॥

⚜️ भावार्थ - महाराज दशरथ भी अपनी रानियों की गर्भवती और अपना मनोरथ पूर्ण होता देख, उसी प्रकार प्रसन्न हुए, जिस प्रकार भगवान् विष्णु देवताओं, ऋषियों और सिद्धों से पूजित होते हैं।।३२।।

👉🏻🚩बालकांड का सोहलवा सर्ग समाप्त हुआ।

#ramayan
📙 ऋग्वेद

सूक्त - २५ , प्रथम मंडल ,
मंत्र - २१ , देवता - वरुण

🍃 उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत अवाधमानि जीवसे (२१)

⚜️ भावार्थ - हमारे सिर वाले फंदे को ऊपर से और कमर के फंदों को बीच से खोल दो, जिससे हम जीवन धारण कर सकें(२१)

👉🏻🚩सूक्त 25 समाप्त

#Rgveda