संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Thursday, May 20, 2021

 इस्रयेल्- पलस्तीन् संघर्षः - संधर्षभूमेः दशवयस्कबालिकायाः वीडियोभाषणम् 'अन्तर्जालप्रसृतं' वर्तते।

  इस्रयेल्- पलस्तीनयोः मध्ये जायमाने संघर्षे अतितीव्रे जाते शिशवः एव अत्यन्तं दुरितं अनुभवन्ति। संघर्षे आरब्धे सप्ताहाभ्यन्तरे एकचत्वारिंशत् शिशवः तथा बहवः पलस्तीनजनाः च आहताः। संधर्षभूमेः दशवयस्कबालिकायाः संभाषणम् इदानीं वीडियोद्वारा अन्तर्जाजालमाध्यमेषु 'सविशेषव्याप्तं' (viral) वर्तते।

वयं सर्वे शिशवः किल ?। 'किमर्थम् अस्मान् एवम् आक्रमन्ते? ' इति प्रश्नः एव सा अश्रुणा सह पृच्छति।

'किं करणीयम् इति अहं न जानामि। अहं केवलं दशवयस्का बालिका। यदि अहं भिषग्वरा अथवा अन्यपदवी-युक्ता चेत् सर्वेषां साहाय्यं कर्तुं शक्नुयाम्। किन्तु अहं केवलं बाला एव। मया किमपि कर्तुं न शक्यते। मां परितः सर्वे बालकाः एव। किमर्थम् 'ते' सर्वोपरि अग्निबाणान् पातयति? इति। 'Middle East i' इति ट्वीटर् पुटे एव एषः दृश्यसन्देशः प्रसारितः। दशवयस्का बालिका 'नदीने अब्देले' एव स्वं परितः स्थितान् बालिका -बालकान् संसूच्य लोकान् प्रति एवं पृच्छति।

 केरल संस्कृताध्यापक फेडरेषनस्य नेतृत्वे सम्भाषणवर्गाय शुभारम्भः। 

   कोच्ची> केरल संस्कृताध्यापक फेडरेषन् [KSTF] इति केरलस्य संस्कृताध्यापकानां संघटनेन आकेरलं संस्कृताध्यापकानां कृते आयोज्यमानस्य दशदिनसम्भाषणवर्गस्य समुद्घाटनं सम्पन्नम्। कक्ष्याप्रकोष्ठेषु संस्कृताध्यापनं देववाण्या एव सुकरं ललितं च कर्तुं तथा भाषाप्रयोगे शिक्षकाणां लज्जां सङ्कोचं च अपाकर्तुमेवायं सम्भाषणवर्गः आयोजितः। संघटनेन 'ओण् लैन्' द्वारा आयोजिते सम्मेलने कैरल्याः प्रियकविः प्रोफ. वि मधुसूदनन् नायर् वर्यः वर्गस्य औपचारिकमुद्घाटनमकरोत्। 

    संस्कृतभाषायाः अध्ययनेन स्वांशीकरणेन च छात्राः धीराः मनीषिणः च भविष्यन्तीति मधुसूदनन् नायर् वर्येण उद्घाटनभाषणे उक्तम्। संस्कृतभाषाप्रयोगे अध्यापकेषु तत्र तत्र विद्यमानाः विद्यमानाः अधमर्णीकृतचित्तगतयः निवारणीयाः इत्यपि तेन उद्बोधितम्। 

  अनन्तपुरं संस्कृतमहाविद्यालयस्य प्राचार्यः डो. के उण्णिक्कृण्णः मुख्यभाषणमकरोत्। संस्कृताध्यापकाः राष्ट्रनिर्मातारः इति तेन प्रस्तुतम्। के. एस्. टि. एफ् संघटनस्य राज्याध्यक्षः टि के सन्तोष्कुमारः अध्यक्षः आसीत्। संघटनस्य सचिवमुख्यः सि पि सनल् चन्द्रः, पि पद्मनाभः, के. राजेषः, नीलमन शङ्करः इत्येते भाषणमकुर्वन्। 

   विश्वसंस्कृतप्रतिष्ठानस्य सहयोगे आयोज्यमाने अस्मिन् कार्यक्रमे को. रणजितस्य नेतृत्वे १५ शिक्षकाः शुक्रवासरादारभ्य दशदिनानि यावत् ओण् लैन् द्वारा एव संस्कृतसम्भाषणवर्गं चालयन्ति।

 'बार्ज्'दुरन्तः - २६ मृतदेहाः लब्धाः। 

  मुम्बई> टौट्टे चक्रवातस्य दुष्प्रभावेन अरबसमुद्रे निमग्ने 'पि ३०५' नामके बार्जे [संघाटः] विद्यमानानां २६ कर्मकराणां  मृतदेहाः नौसेनया अधिगमाः। १८६ कर्मकराः रक्षां प्रापिताश्च। अदृष्टेभ्यः ४९ जनेभ्यः अन्वीक्षणमनुवर्तते। 

  मुम्बईतः ३५ नोटिक्कल् मैल् परिमिते दूरे तैलखननकर्मणि व्यापृताः आसन् बार्जिति उच्यमाने समुद्रसंघाटे वर्तिताः २६१ कर्मकराः।


~ संप्रति वार्ता
📚 श्रीमद बाल्मीकि रामायणम 📚

🔥 बालकाण्ड: 🔥
।। षोडशः सर्गः ।।

🍃 ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम्।
संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत ॥२४॥

⚜️ भावार्थ - वह महा तेजस्वी अद्भुत पुरुष महाराज दशरथ को पायस पात्र दे कर वहीं अन्तर्धान हो गया ॥२४॥

🍃हर्षरश्मिभिरुचो तस्यान्तःपुरमावभौ।
शारदस्वाभिरामस्य चन्द्रस्येव नभशुभिः ॥२५॥

⚜️ भावार्थ - महाराज की रानियाँ भी यह सुख-संवाद सुन, शरद् कालीन चन्द्रमा की किरणों से प्रकाश की भाँति ( प्रसन्नता से ) खिल उठीं अर्थात् शोभायमान हुई ॥२५॥

#ramayan
📙 ऋग्वेद

सूक्त - २५ , प्रथम मंडल ,
मंत्र - १७ , देवता - वरुण

🍃 सं नु वोचावहै पुनर्यतो मे मध्वाभृतम् होतेव क्षदसे प्रियम् (१७)

⚜️ भावार्थ - हे वरुण ! मधुर रस वाला मेरा हव्य तैयार है। तुम ... के समान उस हव्य का भक्षण करो। इसके पश्चात् हम लोग आपस में बातें करेंगे (१७)

#Rgveda
चाणक्य नीति ⚔️
✒️ चतुर्दशः अध्याय

♦️श्लोक :- ७

उत्पन्नपश्चात्तापस्य बुद्धिर्भवति यादृशी।
तादृशी यदि पूर्वा स्यात्कस्य स्यान्न महोदयः।।७।।

♦️भावार्थ - अशुभ कर्म करने के बाद पछताने वाले व्यक्ति को जैसी बुद्धि उत्पन्न होती है, यदि वैसी ही बुद्धि पहले ही उत्पन्न हो जाए, तो किसको मोक्ष की प्राप्ति न हो जाए अर्थात् सबको मोक्ष मिल जाए।।

#Chanakya
🌺🌺 *प्रतिदिनं संस्कृतं* 🌺🌺
*कथापठनशृङ्खला*
केवलं 30 निमेषा:
*समय: - 12 Noon to 12.30*

Google Meet joining info
Video call link: https://meet.google.com/anj-tyfb-aum
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः मे २००७
ओ३म्

189. संस्कृत वाक्याभ्यासः

अद्य रविवासरः अस्ति खलु !
= आज रविवार है न !

तर्हि भोजन समये संस्कृते एव वदामः
= तो भोजन के समय संस्कृत में ही बोलें

आगच्छन्तु सर्वे भोजनं कुर्मः
= सभी आ जाएँ भोजन करते हैं

पुत्र ! पूर्वं हस्तं प्रक्षालय
पुत्रि ! पूर्वं हस्तं प्रक्षालय
= बेटा ! पहले हाथ धो लो

सर्वे अधः मण्डलाकारे उपविशन्तु ।
= सभी नीचे गोलाकार में बैठ जाएँ

स्वां स्थालिकां स्वीकुर्वन्तु।
= अपनी थाली ले लें

चषके जलं पूरयन्तु
= गिलास में पानी भर लें

सर्वाणि व्यंजनानि मध्ये स्थापयन्तु।
= सभी व्यंजन बीच में रख लें

सैंयावं स्वीकुरु पुत्र / पुत्रि !
= हलुआ लो बेटा

जालिकायाः शाकम् ।
= तुरई की सब्जी

मुद्गस्य दालम् ( सूपम्)
= मूँग की दाल

ओदनम् अपि अस्ति।
= चावल भी है

कति रोटिकाः ददानि ?
= कितनी रोटी दूँ ?

भोजनात् पूर्वं भोजनमन्त्रं वदामः ।
= भोजन से पहले भोजन मन्त्र बोलते हैं

अधुना खादन्तु ।
= अब खाएँ ।

शुभ रविवासरः ।

ओ३म्

190. संस्कृत वाक्याभ्यासः

सः मरीचिकां लाजति ।
= वह मिर्ची तलता है ।

लाजिता मरीचिका तस्मै रोचते।
= तली हुई मिर्च उसे पसंद है।

माता किं किं लाजति ?
= माँ क्या क्या तलती है ?

माता पूरिकां लाजति।
= माँ पूड़ी तलती है।

( पूरिकाः लाजति = पूड़ियाँ तलती है )

माता आलुलवं लाजति।
= माँ आलू की चिप्स तलती है

माता पर्पटं लाजति।
= माँ पापड़ तलती है

भगिनी पिष्टकं लाजति।
= बहन पकौड़ा तलती है ।

( पिष्टकानि लाजति = पकौड़े तलती है )

भगिनी भूचणकं लाजति।
= बहन मूँगफली तलती है ।

सा पलांडु लाजति।
= वह प्याज तलती है

सा अपूपं लाजति।
= वह मालपुआ तलती है ।

ओ३म्

191. संस्कृत वाक्याभ्यासः

सा भृज्जति ।
= वह भूनती है ।

सा पर्पटं भृज्जति।
=वह पापड़ भूनती ( सेंकती ) है।

सा रोटिकाः भृज्जति।
= वह रोटियाँ सेंकती है।

भाजने सा वृन्ताकं भृज्जति।
= तवे पर वह बैंगन सेंकती है।

कटाहे सः चणकं भृज्जति।
= कढ़ाई में वह चना भूनता है।

यदाकदा अहमपि रोटिकाः भृज्जामि।
= कभी कभी मैं भी रोटियाँ सेंकता हूँ।

भर्जितं पर्पटं बहु रोचते।
= भूना ( सेंका ) हुआ पापड़ बहुत अच्छा लगता है।

मम माता मन्दाग्नौ मकोयं भृज्जति।
= मेरी माँ धीमी आँच पर भुट्टा भूनती हैं

तर्हि प्रतीक्षां मा करोतु।
= तो फिर प्रतीक्षा न करें

भवान् /भवती अपि किमपि भृज्जतु ।
= आप भी कुछ भूनिये ।

ओ३म्

192. संस्कृत वाक्याभ्यासः

छात्रः १ – तव अल्पाहारः कुत्र अस्ति ?
= तुम्हारा नाश्ता कहाँ है ?

छात्रः २ अद्य न आनीतवान् ।
= आज नहीं लाया ।

छात्रः १ – तर्हि मया सह कुरु ।
= तो मेरे साथ करो ।

छात्रः २ – मम माता आनेष्यति ।
= मेरी माँ लाएगी।

छात्रः १ – कदा आनेष्यति ?
= कब लाएगी ।

छात्रः २ – अधुनैव ।
= अभी ही ।

छात्रः १ – त्वं न खादिष्यसि चेत् अहमपि न खादिष्यामि।
= तुम नहीं खाओगे तो मैं भी नहीं खाऊँगा।

छात्रः २ – त्वं खाद ,
= तुम खाओ ।

छात्रः १ – त्वं रोदिषि मित्र !
= तुम रो रहे हो मित्र !

छात्रः २ – सत्यं वदामि , मम माता रुग्णा अस्ति
= सच कहूँ , मेरी माँ बीमार है ।

छात्रः १ – तव मातरं किम् अभवत् ?
= तुम्हारी माँ को क्या हो गया ?

छात्रः १ – वद , किम् अभवत् तव मातरम् ।
= बोलो , क्या हो गया तुम्हारी माँ को ?

छात्रः २ – मम मातरं सामान्यः एव रोगः आसीत्।
= मेरी माँ को सामान्य ही रोग था।

छात्रः १ – तर्हि का चिन्ता ?
= तो फिर चिंता कैसी ?

छात्रः २ – चिकित्सालयतः माता पादाभ्याम् आगतवती।
= अस्पताल से माँ पैदल आई ।

छात्रः १ – तर्हि किम् अभवत् ?
= तो क्या हो गया ?

छात्रः २ – मार्गे बहु आतपः आसीत् ।
= रास्ते में बहुत धूप थी।

– मम माता आतपं सोढुं न शक्तवती।
= मेरी माँ धूप सहन न कर सकी

– अतः ज्वरः अवर्धत।
= इसलिये ज्वर बढ़ गया।

छात्रः १ – अधुना कथम् अस्ति?
= अब कैसी हैं ?

छात्रः २ – अधुना विश्रामं करोति।
= अभी विश्राम कर रही हैं ।

छात्रः १ – तर्हि अल्पाहारं कुरु ।
= तो नाश्ता करो।

छात्रः २ – यावत् माता न खादति तावद् अहमपि न खादिष्यामि।
= जब तक माँ नहीं खाती तब तक मैं नहीं खाऊँगा ।

अहो , मातृस्नेहः ।

#vakyabhyas
संक्षिप्तरामायणम्


धर्मस्य परिरक्षणाय श्रीरामः भूलोके अवतारं कृतवान् | कौसल्यादशरथयोः पुत्रः सः अयोध्यानगरस्य प्रजाभ्यः आनन्ददायकः | रामस्य शोर्येण सुप्रीतः जनकराजः तस्मै स्वकन्यां सीतां विवाहे दत्तवान् |

पितृवचनपरिपालनाय रामः भ्रात्रा लक्ष्मणेन तथा पत्न्या सीतया सह अरण्यं गतवान् | अरण्ये शूर्पणखानामका राक्षसी सीतायै असूयन्ती लक्ष्मणेन विरूपिता | रामः तस्याः भ्रातृभ्यां खरदूषणाभ्यां मृत्युदण्डं प्रदत्तवान् | एतां वार्तां श्रुत्वा शूर्पणखायाः भ्राता रावणः रामाय क्रुध्यन् सीतायाः अपहरणं कृतवान् |

सीतां अन्विष्यन्तौ रामलक्ष्मणौ हनुमता सुग्रीवेण च सह किष्किन्धादेशे मिलितवन्तौ | सुग्रीवाय तस्य अग्रजः वाली द्रुह्यन् राज्यापहरणं भार्यापहरणं च कृतवान् | रामः वालिनं मारयित्वा सुग्रीवाय राज्यं दापितवान् |

श्रीरामाय नमः इति वदन् हनुमान् महासमुद्रं लङ्घितवान् | रावणनगरीलङ्कायां सीतादेव्यै रामाङ्गुलीयकम् अर्पितवान् | युद्धाय आगतान् राक्षसगणं निवारयित्वा लङ्कानगरीं अग्नये समर्पितवान् | वायुपुत्रहनुमतः भक्तिः रामाय रोचते |

रामः वानरसैन्येन सह लङ्कां गत्वा रावणं युद्धाय प्रचोदितवान् | शरणागताय रावणभ्रात्रे विभीषणाय अभयं दत्तवान् | घोरयुद्धे रावणं हत्वा सीतया सह पुनः अयोध्यानगरं प्राप्तवान् | तत्र बहुकालपर्यन्तं जनेभ्यः स्पृहयन् सः राज्यभारं कृतवान् |
एकस्य पुरुषस्य मृत्योः परं सः स्वर्गं गतवान्।

तत्र गत्वा सः स्वर्गस्य द्वारं नोदितवान्।

तदा एकः यमस्य अनुचरः तं पृष्टवान् किं त्वं विवाहितः आसीः ?

पुरुषः- आम्, अहं विवाहितः आसम्।

अनुचरः- तर्हि स्वर्गस्य अन्तः प्रवेष्टुं शक्नोति।

किञ्चित् कालानन्तरम् अन्यः एकः पुरुषः अपि स्वर्गं गतवान्।

तमपि सः अनुचरः पृष्टवान् किं त्वं विवाहितः आसीः?

सः उक्तवान् आम्! अहं तु द्विवारं विवाहं कृतवान् आसम्।

तदा सः अनुचरः उक्तवान्- त्वम् इतः अनुक्षणम् एव गच्छ!

स्वर्गे लोके मूर्खाणां स्थानं नास्ति।

-प्रदीपः!

#hasya
writereaddata_Bulletins_Text_NSD_2021_May_NSD_Sanskrit_Sanskrit.pdf
63.5 KB
२१.५ सायंकाल आकाशवाणी संस्कृत
Kathaasaritsaagaram (Somadeva)


अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः

Apraapyam naama nehaasti dheerasya vyavasaayinah

There is nothing unattainable to the one who has courage and who works hard.


अश्नुते स हि कल्याणं व्यसने यो न मुह्यति

Ashnute sa hi kalyaanam vyasane yo na muhyati

Only one who does not lose his cool in adversity will enjoy prosperity


एकचित्ते द्वयोरेव किमसाध्यं भवेदिति

Ekachitte dwayoreva kimasaadhyam bhavediti

When two people think alike then what is it that is impossible?


करुणार्द्रा हि सर्वस्य सन्तोऽकारणबान्धवाः

Karunaardraa hi sarvasya santo’kaaranabaandhavaah

Good people whose heart is full of sympathy and kindness become, without selfish motives, the friends or relatives of all.


कामं व्यसनवृक्षस्य मूलं दुर्जनसंगतिः

Kaamam vyasana vrikshasya moolam durjana sangatih

The root cause of sorrow is the company of bad people.


त्यजन्त्युत्तमसत्वा हि प्राणानपि न सत्पथं

Tyajantyuttamasatwaa hi praanaanapi na satpatham

Those of good nature may give up their life but not the righteous path.


पङ्को हि नभसि क्षिप्तः क्षेप्तुः पतति मूर्धनि

Panko hi nabhasi kshiptah ksheptuh patati moordhani

Mud, thrown at the sky, falls on the head of the person who throws it (If one does something bad it recoils on him)
https://youtu.be/9VXJxOIcHtk

Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - दशमी सुबह 09:15 तक तत्पश्चात एकादशी

दिनांक - 22 मई 2021
दिन - शनिवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - शुक्ल
नक्षत्र - उत्तराफाल्गुनी दोपहर 02:06 तक तत्पश्चात हस्त
योग - वज्र शाम 06:18 तक तत्पश्चात सिद्धि
राहुकाल - सुबह 09:17 से सुबह 10:56 तक
सूर्योदय - 05:59
सूर्यास्त - 19:10
दिशाशूल - पूर्व दिशा में
व्रत पर्व विवरण - मोहिनी एकादशी (स्मार्त)
Sanskrit-0655-0700
२२.५ आकाशवाणी संस्कृत
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Friday, May 21, 2021

 प्राणवायोः पुनश्चाक्रीकरणेन द्विगुणीकृतफलं लभ्यमानया 

नूतनसुविधया सह भारतीयनाविकसेना।

नवदिल्ली>  कोविड्प्रतिरोधप्रवर्तन-परिश्रमेषु नूतन साङ्केतिकविद्यया सह   भारतीयनाविकसेना। प्राणवायोः दुर्भिक्षपरिहाराय एषा साङ्केतिकविद्या सप्रयोजका भवति।प्राणवायोः पुनरुत्पादनाय  सहायकः प्राणवायुपुनश्चाक्रीकरणरीतिः   ( oxigen recycling system) एव वायुसेनया परीक्षणेन सफलीकृता। प्राणवायोः दुर्भिक्षपरिहाराय एषा  योग्या भवति। उपसेनानायकः(lieutenant colonel) मायङ्क् शर्मा एव सुविधायाः  अस्याः आविष्कर्ता।  एषा सुविधा  विगते मार्च् मासे अन्तर्वाहिनी-प्रदर्शनकार्यक्रमे प्रधानमन्त्रिणः पुरतः प्रदर्शिता आसीत् इति मायङ्क् शर्मणा उक्तम्। अस्याः आदर्शभूतनिर्माणाय केवलम्  अयुतं रूप्यकाणि एव  व्ययः। एषा सुविधा प्राणवायुनिभृत-कृशगोलकेषु घटयति चेत् पर्वतारोहकाणां तथा हिमालयप्रान्तीयसैनिकानां च द्विगुणितं प्रयोजनं लप्स्यते इति नाविकसेना व्यजिज्ञपत्।

 वंगसमुद्रे न्यूनमर्दः - चक्रवातसाध्यता वर्तते। 

अनन्तपुरी> वंगसमुद्रे नूतनः न्यूनमर्दः जनयतीति पर्यावरणसंस्थया निगदितम्। तस्य प्रभावेण केरले विविधजनपदेषु महती वृष्टिः भविष्यति। 

  न्यूनमर्दः चक्रवातरूपेण परिवर्तिष्यते। 'यास्' इति नामाङ्कितस्य चक्रवातस्य सञ्चारपथे केरलं न वर्तते अपि ओडीषा वंगः इत्यादीनि राज्यानि जागरूकाणि भवेयुः इति पर्यावरणसंस्थया निगदितम्।

 केरले नूतनसर्वकारः शासनपदे - अतिदुर्भिक्षताम् अपाकरिष्यति। 

  अनन्तपुरी> केरलराज्ये पिणरायिविजयस्य नेतृत्वे द्वितीयं मन्त्रिमण्डलं शासनपदं प्राप्तम्। सेन्ट्रल् स्टेडियं क्रीडाङ्कणे कोविड्मार्गनिर्देशान् अनुसृत्य आयोजिते कार्यक्रमे राज्यपालः आरिफ् मुहम्मद खानः मुख्यमन्त्रिणे पिणरायि विजयाय अन्येभ्यः २० मन्त्रिभ्यश्च शपथवाचनम् अकारयत्। 

    सायं सार्धत्रिवादनतः पञ्चवादनपर्यन्तं दीर्घितस्य शपथकार्यक्रमानन्तरं विधानसभायां प्रथमं मन्त्रिमण्डलोपवेशनं सम्पन्नम्। तदनन्तरं कृते वार्ताहरसम्मेलने मुख्यमन्त्रिणा पिणरायिविजयेन सर्वकारस्य राज्यशासननीतिमार्गः विशदीकृतः। तस्य प्रख्यापनेषु कानिचन-

* पञ्चवर्षाभ्यन्तरे अतिदौर्भिक्षम् उन्मूलयिष्यति।

* कार्षिकमण्डले उत्पादनक्षमता, लाभसाध्यता, सुस्थितिः इत्येतेभ्यः प्राधान्यं दास्यति। 

* सामाजिकमण्डलेषु शिक्षा - भवन - स्वास्थ्य मण्डलेषु जातान् अभिवृद्धीन् शक्तीकरिष्यति। 

जनैः सह जनेभ्य एव अयं सर्वकार इति तेन स्पष्टीकृतम्।

~ संप्रति वार्ता
🌺🌺 *प्रतिदिनं संस्कृतं* 🌺🌺
*कथापठनशृङ्खला*
केवलं 30 निमेषा:
*समय: - 12 Noon to 12.30*

Google Meet joining info
Video call link: https://meet.google.com/anj-tyfb-aum
📚 श्रीमद बाल्मीकि रामायणम 📚

🔥 बालकाण्ड: 🔥
।। षोडशः सर्गः ।।

🍃 सोन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत्।
पायसं प्रतिगृह्णीव पुत्रीयं त्विदमात्मनः ॥२६॥

⚜️ भावार्थ - महाराज दशरथ रनवास में गये और महारानी कौशल्या जी से यह बोले - “लीजिए यह खीर है, इससे आपको पुत्र की प्राप्ति होगी।

🍃 कौसल्यायै नरपतिः पायसार्धं ददौ तदा।
अर्धादर्भ ददौ चापि सुमित्रायै नराधिपः॥२७॥

⚜️ भावार्थ - तदनन्तर महाराज दशरथ ने उस खीर में से आधी तो कौशल्या जो को और बची हुए आधी में से आधी सुमित्रा को दे दी ॥२७॥

#ramayan