संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
देवसिंहः देवनशूरः इति प्रथितः आसीत् । कार्यालयेऽपि सर्वैः सह पणबन्धं कृत्वा दीव्यति स्म । कार्यालयस्य कार्ये अनासक्तः कार्यमग्नानन्यान्श्च बाधते स्म । कार्यालयस्य अधीक्षकः तस्य देवनमोहजातहानिमसहमानः तं स्वकोष्ठमागन्तुमादिदेश । देवसिंहः कोष्ठं यथानिर्दिष्टं प्रविवेश च ।
“देवसिंह, कार्यालये देवनं न कार्यमिति त्वया विदितमेव । तथापि देवने सक्तः अन्यान्श्च बाधसे । अद्यप्रभृति देवनात् विरमेः । देवनात् विरमसि न चेत् त्वामुद्योगात् निस्कासयिष्यामि“। देवसिंहः, “यथाज्ञापयत्यार्यः” इति वदन् शनैः कोष्ठात् निष्क्रान्तः । कतिपयक्षणेषु देवसिंहः अधीक्षकस्य कोष्ठं तस्य अनुमतिमादाय पुनः प्रविवेश अवदच्च, “आर्य, कार्यालये अद्यैव मम अन्तिमदेवनं भवति खलु । अतः अधुना भवता सह देवितुमिच्छामि । अनुमन्यतामार्यः” । अधीक्षकः विहस्य अवदत्, “मया सह किं देवनम्? कः पणः?” । देवसिंहः झटित्यवदत्, “आर्य भवतः उरोपृष्ठदेशे बृहत्श्यामचिह्नमस्ति । भवान् वेत्ति किम्?” । चकितः अधीक्षकः अवदत्, “किम् वदसि? न कदापि । निस्संशयं मम उरोपृष्ठदेशे किमपि चिह्नं नास्ति“ । देवसिंहः प्रत्यवदत्, “ आर्य, चिह्नं न भवति चेत् सहस्ररूप्यकानि भवते दास्यामि । परंतु इदानीमेव परीक्षा भवेत् ।“ अधीक्षकः मनस्येव अचिन्तयत्, “मूढोऽसौ विना कारणं मह्यं सहस्रं रूप्यकानि दातुं बद्धोऽस्ति । बाढम्, तस्मै समुचितं पाठमुपदिशामि। ममापि सहस्रं रूप्यकानां लाभो भवति” । “देवसिंह, वृथा पराजितो भवसि । मूर्खस्त्वम् । पश्य किमस्ति?” इति वदन् कञ्चुकं शरीरादपानयत् विवस्त्रमुरोपृष्ठम् देवसिम्हाय अदर्शयच्च । तूर्णं देवसिंहः कोष्ठात् बहिः स्थितं सहोद्योगिनं हरदत्तनामानमाह्वयत्, “ हरदत्त, आगच्छ, पश्य, अधीक्षकस्य विवस्त्रमुरोपृष्ठम् । यथाप्रतिज्ञातं मह्यं द्विसहस्रं रूप्यकानि देहि” इति ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - दशमी शाम 07:11 तक तत्पश्चात एकादशी

दिनांक - 01 जनवरी 2023
दिन - रविवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - अश्विनी दोपहर 12:48 तक तत्पश्चात भरणी
योग - शिव सुबह 07:25 तक तत्पश्चात सिद्धि
राहु काल - शाम 04:45 से 06:06 तक
सूर्योदय - 07:21
सूर्यास्त - 06:06
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:35 से 06:28 तक
IGNOU Admission details
Sanskrit Degree/JYOTISH/Vedic Studies from Indra Gandhi National Open University, New Delhi

MA Sanskrit at IGNOU
Eligibility: Bachelor's Degree or a higher degree from a recognised University.
Fee Structure: Rs.14000/- for the full programme to be paid year wise Rs. 7000/- Fee to be paid in the first year is Rs. 7000+Rs.300/- including a registration fee of Rs. 300.

BA Sanskrit at IGNOU
Eligibility 10+2 or its equivalent
Rs. 4200/- per year plus Registration fee of Rs.300/-

MAJY : Master of Arts(JYOTISH)
रु. 12600/- संपूर्ण कार्यक्रम के लिए
प्रथम वर्ष : रु. 6300/- + रु. 300/- पंजीकरण शुल्क
द्वितीय वर्ष: रु. 6300/-

MAVS : Master of Arts(Vedic Studies)
PROGRAMME TYPE DEGREE
MODE Open Distance Learning
DURATION 2 Years
FEE STRUCTURE
Rs. 14,000/- full program fee, (Rs. 7000/- per year) with Registration fee as Applicable

PROGRAMME COORDINATOR (Vedic Studies) Dr. Devesh Kumar Mishra,
Asso Prof (SOH) IGNOU,
PH: 9794265167, email: dkmishra @ignou.ac.in

PROGRAMME COORDINATOR (Sanskrit) DR PUSHPA (ASSO. PROF.)
PH NO - 01129532792, MOB-9809571727,
EMAIL- dr.pushpa@ignou.ac.in
PROGRAMME COORDINATOR (Jyotish) डॉ. देवेश कुमार मिश्र, एसोसिएट प्रोफेसर (संस्कृत),
मानविकी विद्यापीठ। ईमेल : drdkmishr@ignou.ac.in फोन: 01129572788
To Register
To Register for courses click here
Last date to apply: 31st Jan 2023
#SanskritEducation
🍃को न याति वशं लोके मुखे पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरध्वनिम्


🔆 कः जनः अस्ति यः स्वीकृत्य अस्माकं वशं न आयाति यथा मृदङ्गः अपि मुखलेपनं प्राप्य मधुरध्वनिं करोति।

इस लोक में ऐसा कौन है जिसके मुख में पिण्ड (निवाला) देने से वह वश में नहीं आता? मृदंग भी मुख के लेपन से मधुर ध्वनि सुनाता है।

Who, in this world, can not be controlled if his mouth is properly filled? Even a 'Mridangam' makes sweet sound if flour is applied to it.

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
पाठ: - 3 नपुसकलिङ्गम्  - एकवचनम् 1. तत् स्यात्। - That should be present.     2. एतत् स्यात्। - It should be present.      3. इदं स्यात्। - It should be present.      4. अद: स्यात्। - It should be present.       5. किं स्यात्। - What should…
पाठ: - 5
स्त्रीलिङ्ग: - बहुवचनम्

1. इमा: स्यु:।
-These  should be present.
    
2. एता: स्यु:।
- These  should be present.
    
3. अमू: स्यु:। 
- These  should be present.
     
4. ता: स्यु:।
- Those should be present.
    
5. भवत्य: स्यु:।
- You should be present.
    
6. का: स्यु:?
- Who should be present.
    
7. सर्वा: स्यु:।
- All should be present.
   
8. या: स्यु:?
- Who should be present?
    
9. अन्या: स्यु:।
- Some others should be present.
    
पाठ: - 6
नपुंसकलिङ्गम् - बहु वचनम्

1. तानि स्यु:।
- Those should be present.
    
2. एतानि स्यु:। 
- These should be present.
     
3. अमूनि स्यु:।
- These should be present.
    
4. कानि स्यु:।
- Which things should be present?
     
5. इमानि स्यु:।
-  These should be present.
    
6. यानि स्यु:?
- which should be present?
    
7. सर्वाणि स्यु:।
- All should be present.

8. पुस्तकानि स्यु:।
- Books should be present.

~V.Kutumbarao
   
#vakyabhyas
तस्मिन् दिवसे वृद्धदंपत्योः विवाहादनन्तरं पञ्चाशद्वर्षाः गताः आसन् । दंपती औत्सुक्येन सम्भ्रमेण च तदवसरमुत्सवरूपेण आचरतः स्म । सायमीश्वरं प्रार्थयितुं देवालयं गतौ । प्रीतः ईश्वरः प्रत्यक्षो भूत्वा ताववदत्, “भोः, युवयोः अन्योन्यप्रेम्णा प्रीतोऽस्मि । युवां पृथक् पृथक् वरमेकं याचेथाम् ।“ पत्नी प्रथमं वरमयाचत, “प्रभो, अहं मम पत्या सह जगत्पर्यटनं कर्तुमिच्छामि” इति । ईश्वरः प्रत्यवदत्, “तथास्तु, पत्युराशा तु का” इति । झटिति चपलचित्तः पतिरवदत्, “प्रभो, वयसि मत्तः त्रिंशत्वर्षैः न्यूनां भार्यां वाञ्छामि” इति । “तथास्तु । श्वः प्रभाते युवयोः वाञ्छे फलिष्यतः” इति वदन् ईश्वरः अन्तर्दधे । पत्नी नितरां दुःखिता अभवत्, पतिः नितरां हृष्टोऽभवत् । पृथक् पृथक् पर्यङ्के सुप्तवन्तौ कथमपि रात्रिमनयताम् । शर्वर्यां प्रभातायां कोऽपि दूतः जगत्पर्यटनाय ताभ्यां विमानानुमतिपत्रमानयत् । पत्नी एव उत्थाय यानानुमतिपत्रं जग्राह । वृद्धः पतिः पर्यङ्कादुत्थातुं न शशाक । हन्त, सः पत्न्याः वयसि त्रिंशद्वर्षैः ज्यायान् समभवत् खलु ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - एकादशी रात्रि 08:23 तक तत्पश्चात द्वादशी

⛅️दिनांक - 02 जनवरी 2023
⛅️दिन - सोमवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शिशिर
⛅️मास - पौष
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - भरणी दोपहर 02:24 तक तत्पश्चात कृतिका
⛅️योग - सिद्धि सुबह 06:58 तक तत्पश्चात साध्य
⛅️राहु काल - सुबह 08:42 से 10:02 तक
⛅️सर्योदय - 07:21
⛅️सर्यास्त - 06:06
⛅️दिशा शूल - पूर्व दिशा में
⛅️बराह्ममुहूर्त - प्रातः 05:35 से 06:28 तक
https://youtu.be/SYF5To_KvAI
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃बलवानप्यशक्तोऽसौ धनवानपि निर्धनः ।
श्रुतवानपि मूर्खोऽसौ यो धर्मविमुखो जनः


🔆 यः जनः धर्मं न पालयति सः बलवान् भूत्वापि बलहीनः धनवान् भूत्वा अपि निर्धनः ज्ञानी भूत्वापि मूर्खः भवति।

जो व्यक्ति धर्म से विमुख हो जाता है वह व्यक्ति बलवान होने पर भी असमर्थ, धनवान होने पर भी निर्धन व ज्ञानी होने पर भी मुर्ख होता है।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
पाठ: - 5 स्त्रीलिङ्ग: - बहुवचनम् 1. इमा: स्यु:। -These  should be present.      2. एता: स्यु:। - These  should be present.      3. अमू: स्यु:।  - These  should be present.       4. ता: स्यु:। - Those should be present.      5. भवत्य: स्यु:। …
पाठ: - 7
पुंलिङ्ग: - द्विवचनम्

1. इमौ स्याताम्।
- These two persons should be present.

2. एतौ स्याताम्।
- These two persons should be present.

3. अमू स्याताम्।
- These two persons should be present.

4. तौ स्याताम्।
- Those two persons should be present.

5. सर्वौ स्याताम्।
- Every two persons should be present.

6. भवन्तौ स्याताम्।
- You two persons should be present.

7. कौ स्याताम्?
- Which two persons should be present?

8. यौ स्याताम्।
- Which two persons should be present?

9. अन्यौ स्याताम्।
- Some two persons should be present.

10. आवां स्याव।
- we two should be present.

11. युवां स्यातम्।
- you two should be present.

पाठ: - 8
स्त्रीलिङ्ग: - द्विवचनम्

1. इमे स्याताम्।।
- These two ladies should be present.

2. एते स्याताम्।
- These two ladies should be present.

3. अमू स्याताम्।
- These two ladies should be present.

4. ते स्याताम्।
- Those two ladies should be present.

5. भवत्यौ स्याताम्।
- You two ladies should be present.

6. के स्याताम्?
- Which two ladies should be present?

7. सर्वे स्याताम्।
- Every two ladies should be present.

8. ये स्याताम्।
- Which two ladies should be present?

9. अन्ये स्याताम्।
- Some two ladies should be present.

पाठ: - 9
नपुंसकलिङ्गम् - द्विवचनम्

1. ते स्याताम्।
- Those two things should be present.

2. एते स्याताम्।
- These two things should be present.

3. इमे स्याताम्।
- These two things should be present.

4. अमू स्याताम्।
- These two things should be present.

5. सर्वे स्याताम्।
- Every two things should be present.

6. के स्याताम्।
- Which two things should be present ?

7. ये स्याताम्।
- Which two things you should be present?

8. पुस्तके स्याताम्।
- Two books should be present.

~V.Kutumbarao
   
#vakyabhyas
Conch & oyster - conversation - Sanskrit poem

शङ्खशुक्तिसंवादः

एकः शङ्खश्चैका शुक्तिः
सागरतीरे स्थितौ सम्मुखे।
शुक्तिः पृच्छति शङ्खं भ्रातः!
कथं ध्वनिं कुरुषे गम्भीरम्॥१॥

निगदति शङ्खः स्वसः शुक्तिके!
प्रविशति वायुर्यदा मुखे मे
प्राणपूरितो ध्वनिं करोमि
गगनं नादमयं विदधामि॥२॥

कोऽपि मानवः करे गृहीत्वा
मुखात् समीरं दत्त्वा मह्यम्।
प्राणमयं मां यदा करोति
श्रवणगोचरस्तदा भवामि॥३॥

अहं वायुना त्वं सलिलेन
स्वातौ रत्नमयी जातासि।
उदरे ते मौक्तिकं सुन्दरं
जगते सौन्दर्यं प्रददासि॥४॥

शब्दः कथं मौक्तिकं भूत्वा
कर्णगोचरो भवति भ्रातः!
शङ्खो ब्रूते कविर्मनीषी
शुद्धचेतसा तस्मिन् सिद्धः॥५॥

मा कुरु जनधनयौवनगर्वं
वदति मनीषी यतिः शङ्करः।
हरति निमेषात् कालः सर्वं
सूक्तिस्तस्य सदा स्मरणीया॥६॥

-शशिपालशर्मा 'बालमित्र'
28-07-2022
Live stream scheduled for
प्रथमे दिवसे ईश्वरः श्वानं सृष्ट्वा तमभणत्,
“ गृहस्य पुरतः आप्रातः आसायं तिष्ठन् भषसि । तव जीवितावधिः वर्षाणां विंशतिः भविष्यति” इति । श्वा प्रत्युवाच, “प्रभो, भषन् विंशतिः वर्षाणि कालयापनं दुष्करं खलु । अतः मह्यं दशवर्षाण्येव देहि । मम दत्तजीवितस्य दशवर्षाणि प्रतिनिवर्तयामि”
ईश्वरः अवदत्, “तथास्तु” ।

द्वितीये दिवसे ईश्वरः वानरमसृजत् तमवदच्च, “ विनोदमयानि हास्यकराणि चेष्टितानि कुर्वन् कालं यापय । तव आयुः विंशतिः वर्षाणि भविष्यति” इति । वानरः प्रत्युवाच, “प्रभो, दुष्करं खलु विंशतिवर्षपर्यन्तं जीवनं हास्यकरचेष्टितानि कुर्वन् । दशवर्षैरलम् । मम आयुषः दशवर्षाणि प्रतिनिवर्तयामि” इति । ईश्वरः अवदत्, “तथास्तु” ।

ईश्वरः तृतीये दिवसे धेनुमसृजत् तामवदच्च, “ त्वं आप्रातः आसायं कर्षकेण सह क्षेत्रं गत्वा प्रखरातपे क्षेत्रकर्माणि करोषि । वत्सान् जनयसि कर्षकाय पयश्च ददासि च । तुभ्यं षष्ठिवर्षमितमायुः ददामि’ इति । धेनुः प्रत्यवदत्, “देव, दुःखभूयिष्ठं जीवितं विंशतिवर्षमितमेव पर्याप्तम् । मम आयुषः चत्वारिंशद्वर्षाणि प्रतिनिवर्तयामि” इति । ईश्वरः अनुमेने ।

चतुर्थे दिवसे ईश्वरः मानवमसृजत् तमवदच्च, “ यथेच्छं भुञ्जानः स्वपन् क्रीडन् कालं यापय । तुभ्यं विंशतिवर्षमितम् आयुः ददामि” इति । मानवः प्रत्यवदत्, “ईश्वर, विंशतिवर्षमितम् आयुः स्वल्पं खलु । श्वाप्रतिनिवर्तितदशवर्षाणि, वानरप्रतिनिवर्तितदशवर्षाणि धेनुप्रतिनिवर्तितचत्वारिंशद्वर्षाणि च मह्यं देहि” इति ।
ईश्वरः विहस्य अवदत्, “तथास्तु” ।

अत एव मानवः विंशतिवर्षादनन्तरं चत्वारिंशद् वर्षाणि धेनुवत् कुटुम्बसंरक्षणाय श्राम्यति, पश्चात् दशवर्षाणि वानरवत् पौत्रदौहित्रान् तोषयति, अन्ते दशवर्षाणि सारमेयवत् गृहस्यबहिः किमपि जल्पन् तिष्ठति खलु ।

~ जी एस् एस् मूर्तिः

#hasya