संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये
।।

🔆 स्वर्णमयपात्रेण सत्यस्य मुखम् आच्छादितमस्ति हे सूर्य त्वं तत् आवरणम् अपावृत्य साधकाय सत्यधर्मं दर्शय।
अर्थात् हे सूर्य मम आशामोहेच्छाभिः लिप्तां बुद्धिं सत्यमार्गे नय।

सत्य का मुख स्वर्णमय (ज्योतिर्मय) पात्र से ढका हुआ है; हे पूषन् ! आप मुझ सत्य के साधक के लिए दर्शन करने हेतु उसे दूर कर दे।

#Subhashitam
Samlapshala
संस्कृत संवादः (Sanskrit Samvadah)
#samlapshala
संत ज्ञानेश्वरमहाराजसंजीवनीसमाध्युत्सवः
कः धातुः आत्मनेपदी न अस्ति।
Anonymous Quiz
16%
स्पर्ध्
18%
एध्
62%
तक्
4%
वृत्
Live stream scheduled for
१)चर्चरीकः - शिव , बाल संवारना
~युवकः आदिनं चर्चरीकं करोति ।
= युवक दिनभर बाल संवारता है ॥

२)चर्पटः = चपेट, तमाचा
~सा दुष्टस्य कपोले चर्पटं करोति ।
= वह बदमाश के गाल पर तमाचा लगाती है ॥

३)चर्मण्वती = चम्बल नदी
~चर्मण्वती कुत्र प्रवहति ?
= चम्बलनदी कहाँ बहती है ?

४)परिडीनम् = उड़ान
~गरुडस्य परिडीनं पश्यतु ।
= गरुड़ पक्षी की उड़ान देखिये ॥

५)परिधूसर (वि) = मटमैला
~झञ्झावातेन सर्वं परिधूसरं भवति ।
= आँधी से सब मटमैला हो जाता है ॥


१)फलकम् = तख्ती
•शैशवे अहं फलके लिखामि स्म ।
= बचपन में मैं तख्ती पर लिखता था ।

२)फलान्तः = बाँस
•फलान्तः अति उन्नतः भवति ।
= बाँस बहुत लम्बा होता है ।

३)फलारामः = बगीचा
•फलारामः सुखदः वर्तते ।
= बगीचा सुखदायक होता है ।

४)फलीकरणम् = छानना
•फलीकरणं विना सः दुग्धं न पिबति ।
= छाने बिना वह दूध नहीं पीता है ।

५)फलेग्रहि(वि) = फलों से लदा हुआ, फलदार
•फलेग्रहिः आम्रः अद्यत्वे न भवति ।
= फलदार आम का वृक्ष आजकल नहीं होता है ।

#vakyabhyas
देवदत्तः एकदा जटकाख्यतुरगशकटिकायां गच्छति स्म । मार्गे देवदत्तः शकटिकाचालकं पप्रच्छ, “भोः, नगर्यां का वार्ता?” । किञ्चिच्चकितः चालकः अवदत्, “आर्य, न काचिदपि वार्ता श्रुता मया । परं तु मम वयस्यः कूटमेकं ददौ । तदित्थं, “मम पितुः पुत्रः वर्तते यः मम अग्रजोऽपि न अनुजोऽपि न भवति ।सः कः? आर्यः कथयितुमर्हति ।“ देवदत्तः चिरमचिन्तयत् तथापि उत्तरं दातुं न शशाक । पराभूतः अवदत्, “न जाने । सः कः? कथय” इति । उच्चैर्विहस्य चालकः अवदत्, “आर्य, अहमेव” । देवदत्तोऽपि उच्चैर्जहास, “रुचिरं खलु तव कूटम् । तव नाम किम्?” चालकः अवदत्, “मम नाम मोहम्मद् उस्मान्” । “बाढं, त्वं कुत्र वससि?” । “ मुस्लिम् मोहल्लायाः प्रथम वीथ्याम्” । देवदत्तः कृच्छ्रेण चालकस्य नामधामविशेषान् कंठस्थमकरोत् ।

अथ कदाचित् सः तस्य वयस्येन नरदत्तेन सममिलत् । कुशलप्रश्नानन्तरं नरदत्तं पप्रच्छ, “मित्र, अहं कूटमेकं वदामि । उत्तरं कथयसि किम्?” इति ।

नरदत्तः प्रत्यवदत्, “ अथ किम्, उत्तरं दातुं यते । कथय ।“ देवदत्तः अकथयत्, “ मम पितुः पुत्रः एकः वर्तते । सः मम अग्रजोऽपि न, मम अनुजोऽपि न । सः कः ?“ नरदत्तः चिरं विचिन्त्य अवदत्, “क्षमस्व, उत्तरं न मे भाति “ इति । देवदत्तः उच्चैः विहस्य अवदत्, “सरलं खलु कूटम् । सः मोहम्मद् उस्मान् यः मुस्लिम् मोहल्लायाः प्रथमवीथ्यां वसति” इति । नरदतश्च उच्चैर्जहास उस्मान् वर्यस्य नामधामविशेषान् कण्ठस्थं चकार च ।

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰वाक्याभ्यासः
🗓23 नवम्बर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि -अमावस्या सुबह 06:54 से 24 नवम्बर प्रातः 04:26 तक

दिनांक - 23 नवम्बर 2022
दिन - बुधवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - विशाखा रात्रि 09:37 तक तत्पश्चात अनुराधा
योग - शोभन अपरान्ह 03:40 तक तत्पश्चात अतिगण्ड
राहु काल - दोपहर 12:26 से 01:48 तक
सूर्योदय - 06:58
सूर्यास्त - 05:54
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:14 से 06:06 तक
🍃श्रीर्मङ्गलात् प्रभवति, प्रागल्भ्यात् संप्रवर्धते ।
दाक्ष्यात्तु कुरुते मूलं संयमात् प्रतितिष्ठति
।।

महा. उद्योगपर्व - ३५.५१

🔆 लक्ष्मीः सत्कर्मकरणेन आगच्छति उत्तमरीत्या तस्याः प्रवर्तनेन वर्धते। दक्षताकारणेन दृढत्वं तथा अतिव्ययम् अकृत्वा स्थायित्वं प्राप्नोति।

अच्छे कामों से लक्ष्मी पैदा होती है, यथायोग्य विनियोग से वह बढ़ती है, कर्मकुशलता से उसकी जड़ जमती है और मितव्यय के कारण वह स्थिर रहती है ।

#Subhashitam
धेनु पूजां कुर्वन्ति सर्वे।
कृ (कुर्वन्ति) धातुः कीदृशः वर्तते।
Anonymous Quiz
14%
आत्मनेपदी
39%
परस्मैपदी
42%
उभयपदी
4%
न कोऽपि दत्तेषु