संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
वञ्चकप्रवञ्चना
सनातन-दाशः

(प्रथमं दृश्यम्)

नेपथ्ये
(पश्य, पश्य, बृहद्गर्तं दृष्ट्वा यानमग्रे नेतुमसमर्थौ द्वौ मूर्ख। पश्य, पश्य,किं तावत्तौ कुरुतः?)
(यानस्थौ द्वौ प्रविशतः)

शकुनः - भो गरुड! यानमग्रे न गमिष्यति, पुरस्ताद् महान् गर्तः वर्तते। किं करवाणि?

गरुडः - रे शकुन! सिटिकां ददातु , सिटिकाध्वनिं श्रुत्वा स झटित्येव गमिष्यति।

शकुनः – अस्तु तावदहं वारं वारं सिटिकां ददामि। (अतीत्य कञ्चित् समयम्) अहो दुर्दैवम् , तैलमपि अस्मिन्क्षणे समाप्तम्। कथमिदानी यानमग्रे गमिष्यति?

गरुडः - (सक्रोधम्) वारं वारं सिटिकां दत्त्वा तैलं समापितं त्वया। तस्मात् यानमग्रे न गमिष्यति, पश्चात्तु गमिष्यत्येव।

शकुनः - रे धूर्त! तैलं नास्ति तस्मात् यानं न केवलमग्रे पश्चादपि न गमिष्यति।

गरुडः - एवं वा, तर्हि बहिरागच्छ। तैलमावश्यकम्। आपणमन्विषावः।


(यानाद् बहिरागत्य गच्छतः। पुस्तकापणं गच्छतः कस्यचिद् जनस्य प्रवेशः)
जनः – मम समयः नास्ति। शीघ्रं पुस्तकमुपक्रीय गृहं गन्तव्यम्। अत्रैनमापणमेव गच्छामि। (निष्क्रान्तः)


नेपथ्ये
आपणिकः welcome, welcome वदतु, कानि कानि पुस्तकानि आवश्यकानि?)


(सम्भाषणं श्रुत्वा)
गरुडः – (स्वगतम्) “oil come” नाम तैलमागच्छति। तर्हि अत्र कालक्षेपणेनालम्। शीघ्रमेव गन्तव्यम्। (प्रकाश्ये) रे शकुन! शीघ्र चल।

शकुनः - किं भो, कुत्र गन्तुमिच्छसि?

गरुडः – अरे तैलमागच्छति। शीघ्रं न गम्यते चेत् किं बिन्दुमात्रमपि तैलं प्राप्स्यावः?

कश्चन भिक्षुकः प्रविशति। तौ द्वौ दृष्ट्वा अन्धाभिनयं करिष्यति

अन्धः - (लोचनेनैकेन दृष्ट्वा)। (स्वगतम्) मन्ये द्वौ इतः एव आगच्छतः। इदानीं ताभ्यामपि भिक्षां प्रार्थये। (प्रकाश्य) भोः पथिक! कृपया भिक्षां देहि। अन्धोऽस्म्यहं जन्मान्धः।

#samvadah
Live stream scheduled for
अस्मत्तो हि जनप्राणान् लभसे त्वं विना श्रमम् ।
मासे मासे त्वया तस्मात् देयं शुल्कं हि भूरिशः ॥


वैद्यः कश्चित् यमराजं वदति - ‘‘अयि यमराजवर्य ! जनानां प्राणान् श्रमं विना भवान् प्राप्नोति बहुधा अस्मत्कारणतः । वयं भवतः उपकारं कुर्वन्तः स्मः । अतः प्रतिमासं भवता यथायोग्यं शुल्कं देयम् अस्मभ्यम्’’ इति । शुल्कस्वीकारं विना कस्यापि चिकित्साम् अकुर्वतः वैद्यस्य एतस्मिन् वचने अनौचित्यं किम् अस्ति ?

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 रोगोपचारविवरणम्
🗓 03rd अक्टूबर 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्यचन रोगस्य उपचारं कथं कुर्मः तस्य विवरणं वक्तव्यम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि🚩

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - अष्टमी शाम 04:37 तक तत्पश्चात नवमी

दिनांक - 03 अक्टूबर 2022
दिन - सोमवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - शुक्ल
नक्षत्र - पूर्वाषाढ़ा रात्रि 12:25 तक तत्पश्चात उत्तराषाढ़ा
योग - शोभन दोपहर 02:22 तक तत्पश्चात अतिगण्ड
राहु काल - सुबह 08:01 से 09:30 तक
सूर्योदय - 06:32
सूर्यास्त - 06:25
दिशा शूल - पूर्व दिशा में
ब्रह्ममुहूर्त - प्रातः 04:55 से 05:43 तक
निशिता मुहूर्त - रात्रि 12:04 से 12:53 तक
व्रत पर्व विवरण - नवरात्रि, महाष्टमी, दुर्गाष्टमी
विशेष -
अष्टमी को नारियल का फल खाने से बुद्धि का नाश होता है। नवमी को लौकी खाना त्याज्य है। (ब्रह्मवैवर्त पुराण, ब्रह्म खंडः 27.29-34)
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः।
यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति
।।13.30।।

He sees, who sees that all actions are performed by Nature alone and that the Self is actionless.

जो पुरुष समस्त कर्मों को सर्वश प्रकृति द्वारा ही किये गये देखता है तथा आत्मा को अकर्ता देखता है वही (वास्तव में) देखता है।

🔅 यत् सर्वं भवति अस्मिन् संसारे तत् सर्वं प्रकृत्या एव क्रियते। प्रकृतिः एव कर्तारूपेणास्ति अहं च किमपि न करोमि इत्थं यः पश्यति स एव पश्यति। तस्य विचाराः उत्तमाः इति भावः।

#Subhashitam
हरितानि शाकानि खादितव्यानि सर्वैः।
खादितव्यानि अत्र कः प्रत्ययः।
Anonymous Quiz
61%
तव्यत्
28%
अनीयर्
6%
क्त
5%
शानच्
1%
ल्युट्
१• प्रत्यूषः नित्यं नूतनः भवति ।
~~ प्रातः प्रतिदिन नया होता है ॥

२• एकस्यां होरायां षष्ठिः कलाः वर्तन्ते ।
~~एक घण्टे में साठ मिनट होते हैं ॥

३• एकस्यां कलायां षष्ठिः विकलाः भवन्ति ।
~~एक मिनट में साठ सेकण्ड होते हैं ॥

४• उदीच्यां हिमालयः अस्ति ।
~~उत्तरदिशा में हिमालय है ॥

५• दिवा उलूकः शेते ।
~~दिन में उल्लू सोता है


★पुत्रः ------
•मातः अति शैत्यम् अस्ति ।
~अम्मा बहुत ठण्डी है ।

•राधाम्(गोपुत्रीम्) अपि शिरस्कं धारय ।
~~राधा को भी टोपी पहनाओ ।

•तस्याः कर्णौ उद्घतौ स्तः ।
~~उसके दोनों कान खुले हैं ।

•स्वेदकं पादयामं चापि धारय मातः ।
~~स्वेटर और पायजामा भी पहनाओ अम्मा ।

•राधां शैत्यं लगिष्यति ।
~~राधा को ठण्डी लगेगी ।

•एताम् अपि गृहम् अन्तः नयतु ।
~~इसको भी घर के अन्दर ले चलो ।

★माता-------
•त्वं चिन्तां मा कुरु ।
~~ तुम चिन्ता मत करो ।

•वत्स ! इयं गोसुता अस्ति ।
~~पुत्र ! यह गाय की पुत्री है ।

•धेनवः अधिकाः दृढाः भवन्ति ।
~~ गायें अधिक सबल होती हैं ।

•राधां शैत्यं न लगिष्यति वत्स !
~~राधा को ठण्डी नहीं लगेगी पुत्र ।

•केषाञ्चित् समयानन्तरं राधां तस्याः च मातरं गेहे नयिष्यामि ।
~~कुछ समय के बाद में राधा और उसकी मां को घर में ले जाऊँगी ।

•त्वम् अन्तः चल वत्स !
~~तुम अन्दर चलो पुत्र ॥

#vakyabhyas
संस्कृत संवादः । Sanskrit Samvadah
वञ्चकप्रवञ्चना सनातन-दाशः (प्रथमं दृश्यम्) नेपथ्ये (पश्य, पश्य, बृहद्गर्तं दृष्ट्वा यानमग्रे नेतुमसमर्थौ द्वौ मूर्ख। पश्य, पश्य,किं तावत्तौ कुरुतः?) (यानस्थौ द्वौ प्रविशतः) शकुनः - भो गरुड! यानमग्रे न गमिष्यति, पुरस्ताद् महान् गर्तः वर्तते। किं करवाणि?…
गरुडः-किमेष वस्तुतः अन्धः?

शकुन: - वस्तुतः नैषः अन्धः। केवलमन्धस्याभिनयं कृत्वा पथिकान् वञ्चयति। अहमेतं जानामि।

अन्धः - (इषदृष्ट्वा)। (स्वगतम्) अहो ममान्धत्वविषये एतयोः संशयो विद्यते। भवतु एवं वोधयामि। (प्रकाश्ये) स्वामिन्! जन्मना अन्धोऽस्मि। को नाम संशयः? अथवा संशयश्चेत्तं परिहरामि।

गरुडः - परिहरतु परिहरतु।

अन्धः – (हस्तेन दुरस्थं गृहं प्रदर्शयन) पश्यतु तावत्। दूरे एकमुन्नतं भवनं दृश्यते खलु?

द्वौ - दृष्टं दृष्टम्। श्वेतवर्णम्। तदेव किम्?

अन्धः - (तयोः मुखं दृष्ट्वा) नैव नैव। तस्याग्रिमं पीतवर्णं भवनं तत्।

द्वौ- दृष्टमिदानीमावाभ्याम्।

अन्धः - भवयां दृश्यते। परन्तु मया न दृश्यते। पुनः तत्र पश्यतु (आगच्छन्तं कञ्चित् बालकं प्रद_) नीलवस्त्रधारिणमागच्छन् बालकः दृश्यते वा?

द्वौ - निश्चयेन दृश्यते।

अन्धः - परन्तु मया नैव दृश्यते। अतः विचार्यतामहं जन्मान्धो न वेति। विचार्यतां मह्यं भिक्षा दातव्या न वा।

गरुडः – (रहसि शकुनमाहुय) कुतश्चित् प्राप्तमेकं संख्यारहितं धनपत्रमस्ति। तत् दास्यामि। (प्रकाश्य) सत्यमेव भवान् जन्मान्धः। स्वीकरोतु भिक्षाम्।

अन्धः - (सपदि लोचनेनैकेन दृष्ट्वा) किमिदं भो? संख्यारहितं धनपत्रं प्रदत्तम्।

शकुनः – क्षम्यतामहं वधिरोऽस्मि। यथा भवता किमपि न दृश्यते तथैव मया किमपि न श्रूयते।

अन्धः - (उच्चैः) भोः प्रवञ्चक! असमीचीनं धनपत्रं दत्त्वा जन्मान्धं मां कथं वञ्चयति।

गरुडः - नीचैः वदतु, नीचैः वदतु। आवाभ्यां जन्मवधिराभ्यां किमपि न श्रूयते। आगच्छ शकुन!(निष्क्रान्तः)

शकुनः – अन्धः स मूर्खः । (निष्क्रान्तः)

अन्धः - वञ्चक! धूर्त! एतयोः कदापि मङ्गलं न भविष्यति। भवन्तः कदापि एतयोः विश्वासं न कुर्युः। अहमिदानीं गच्छामि, न, पुनरहमागच्छामि। प्रत्यागत्य प्रतिशोधं नयामि। (निष्क्रान्तः)

#samvadah
स्वच्छन्दवृत्तिकालोऽयं नियमैः किं पुरातनैः ।
दह जीर्णं सूत्रराशिं भव भव्यो नवाम्बरः ॥


"पाणिनेः सूत्राणि अस्मान् नियमैः बध्नन्ति । तानि तु अति| प्राचीनानि । अतः एव कालबाह्यानि तानि । वयं तु आधुनिकाः । कथं व्यवहरणीयम् इति निर्णयः अस्माकम् एव । तस्मात् किं पाणिनिसूत्राणां तद्गतनियमानां वा अनुसरणेन ? आडम्बरपराणि नूतनानि वस्त्राणि धृत्वा विद्यालये सभादिषु च विराजनीयम् । ततः एव आदरः प्राप्यते बहुधा । आदरप्राप्त्यर्थं पाणिनिनियमानाम् अनुसरणं व्यर्थम् एव'' इति वदति आधुनिकः शोभमानवेषधारी संस्कृतज्ञः कश्चित् ।

#hasya
Live stream scheduled for