संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
चाणक्य नीति ⚔️
✒️त्रयोदश अध्याय

♦️श्लोक:-१२

देहाभिमानगलिते ज्ञानेन परमात्मनः।
यत्र-तत्र मनो याति तत्र-तत्र समाधयः।।१२।।

♦️भावार्थ --देह के अभिमान के नष्ट हो जाने पर और अपने आप को परमात्मा निष्ठ जान लेने पर जहाँ-जहाँ मन जाता है, वहाँ-वहाँ ही समाधि समझनी चाहिए।।

#Chanakya
ओ३म्

१११. संस्कृत वाक्याभ्यासः

आह्वयति = बुलाता है / बुलाती है।

सः आह्वयति = वह बुलाता है।

सा आह्वयति = वह बुलाती है।

एषः आह्वयति = यह बुलाता है।

एषा आह्वयति = यह बुलाती है।

कः आह्वयति ? = कौन बुलाता है ?

पिता आह्वयति = पिता बुलाता है।

पिता कम् आह्वयति ?
= पिता किसको बुलाता है ?

पिता पुत्रम् आह्वयति।
= पिता पुत्र को बुलाता है।

आह्वयति ? = कौन बुलाती है ?

माता आह्वयति = माँ बुलाती है।

माता कम् आह्वयति ?
= माँ किसको बुलाती है ?

माता पुत्रीम् आह्वयति।
= माँ पुत्री को बुलाती है।

अहम् आह्वयामि = मैं बुलाता हूँ / बुलाती हूँ।

ओ३म्

१११. संस्कृत वाक्याभ्यासः

अवतरति = उतरता है/ उतरती है।

सः अवतरति = वह उतरता है।

सा अवतरति = वह उतरती है।

एषः अवतरति = यह उतरता है।

एषा अवतरति = यह उतरती है।

कः अवतरति ? = कौन उतरता है ?

पिता अवतरति = पिता उतरता है।

पिता कुतः अवतरति ?
= पिता कहाँ से उतरता है ?

पिता पर्वतात् अवतरति।
= पिता पर्वत से उतरता है।

का अवतरति ? = कौन उतरती है ?

माता अवतरति = माँ उतरती है।

माता कुतः अवतरति ?
= माँ कहाँ से उतरती है ?

माँ कारयानात् अवतरति।
= माँ कार से उतरती है।

माता कथम् अवतरति ?
= माँ कैसे उतरती है ?

माता शनैः शनैः अवतरति।
= माँ धीरे धीरे उतरती है।

अहम् अवतरामि = मैं उतरता हूँ/ उतरती हूँ।

ओ३म्

११२. संस्कृत वाक्याभ्यासः

गणयति = गिनता है / गिनती है।

सः गणयति = वह गिनता है।

सा गणयति = वह गिनती है।

एषः गणयति = यह गिनता है ।

एषा गणयति = यह गिनती है

कः गणयति ? = कौन गिनता है ?

हार्दिकः गणयति = हार्दिक गिनता है।

हार्दिकः किं गणयति ?
= हार्दिक क्या गिनता है ?

हार्दिकः वृक्षान् गणयति।
= हार्दिक पेडों को गिनता है।

का गणयति ? = कौन गिनती है ?

सुचेता गणयति = सुचेता गिनती है।

सुचेता किं गणयति ?
= सुचेता क्या गिनती है ?

सुचेता छात्रान् गणयति।
= सुचेता छात्रों को गिनती है।

अहं गणयामि = मैं गिनता हूँ / गिनती हूँ।

ओ३म्

११२. संस्कृत वाक्याभ्यासः

आरोहति = चढ़ता है / चढ़ती है।

सः आरोहति = वह चढ़ता है।

सा आरोहति = वह चढ़ती है।

एषः आरोहति = यह चढ़ता है।

एषा आरोहति = यह चढ़ती है।

कः आरोहति ? = कौन चढ़ता है ?

नृपः आरोहति = राजा चढता है।

नृपः किम् आरोहति ?
= राजा किस पर चढ़ता है ?

नृपः रथम् आरोहति।
= राजा रथ पर चढ़ता है।

का आरोहति ? = कौन चढ़ती है ?

गौरी पर्वतम् आरोहति
= गौरी पर्वत चढ़ती है

गौरी कं पर्वतम् आरोहति ?
= गौरी किस पर्वत पर चढ़ती है ?

गौरी हिमालयम् आरोहति।
= गौरी हिमालय पर्वत पर चढ़ती है।

अहम् आरोहामि = मैं चढ़ता हूँ/ चढ़ती हूँ।

ओ३म्

११३. संस्कृत वाक्याभ्यासः

तरति = तैरता है / तैरती है।

सः तरति = वह तैरता है।

सा तरति = वह तैरती है।

एषः तरति = यह तैरता है।

एषा तरति = यह तैरती है।

कः तरति ? = कौन तैरता है ?

रोहितः तरति = रोहित तैरता है।

रोहितः कुत्र तरति ?
= रोहित कहाँ तैरता है ?

रोहितः सरोवरे तरति।
= रोहित सरोवर में तैरता है।

का तरति ? = कौन तैरती है ?

बालिका तरति = बालिका तैरती है।

बालिका कुत्र तरति ?
= बालिका कहाँ तैरती है ?

बालिका गृहतरणताले तरति।
= बालिका घर के स्वीमिंग पूल में तैरती है ।

अहं तरामि = मैं तैरता हूँ / तैरती हूँ।

ओ३म्

११४. संस्कृत वाक्याभ्यासः

निवेदयति = निवेदन करता है / करती है।

सः निवेदयति = वह निवेदन करता है।

सा निवेदयति = वह निवेदन करती है।

एषः निवेदयति = यह निवेदन करता है।

एषा निवेदयति = यह निवेदन करती है।

कः निवेदयति ? = कौन निवेदन करता है ?

रोहितः निवेदयति = रोहित निवेदन करता है।

रोहितः किं निवेदयति ?
= रोहित क्या निवेदन करता है ?

रोहितः संस्कृतं पठितुं निवेदयति।
= रोहित संस्कृत पढ़ने के लिये निवेदन करता है।

का निवेदयति ? = कौन निवेदन करती है ?

बालिका निवेदयति = बालिका निवेदन करती है।

बालिका किं निवेदयति ?
= बालिका क्या निवेदन करती है ?

बालिका गीतं गातुं निवेदयति।
= बालिका गीत गाने के लिये निवेदन करती है।

अहं निवेदयामि = मैं निवेदन करता हूँ / करती हूँ।

ओ३म्

११५. संस्कृत वाक्याभ्यासः

स्पृशति = स्पर्श करता है / करती है।

सः स्पृशति = वह स्पर्श करता है।

सा स्पृशति = वह स्पर्श करती है।

एषः स्पृशति = यह स्पर्श करता है।

एषा स्पृशति = यह स्पर्श करती है।

कः स्पृशति ? = कौन स्पर्श करता है ?

रोहितः स्पृशति = रोहित स्पर्श करता है।

रोहितः कं स्पृशति ?
= रोहित किसे स्पर्श करता है ?

रोहितः रुग्णं स्पृशति।
= रोहित बीमार को स्पर्श करता है।

का स्पृशति ? = कौन स्पर्श करती है ?

बालिका स्पृशति = बालिका स्पर्श करती है।

बालिका कां स्पृशति ?
= बालिका किसको स्पर्श करती है ?

बालिका धेनुं स्पृशति।
= बालिका गाय को स्पर्श करती है।

अहं स्पृशामि = मैं स्पर्श करता हूँ / करती हूँ।

#vakyabhyas
*सद्यस्कप्रशिक्षणाय पञ्जीकरणम्*
नमस्ते।
संस्कृतभारत्याः मूलमस्ति संस्कृत-सम्भाषणशिबिरम्, तेन एव संस्कृतस्य परिचयं सर्वेभ्यः कारयामः, ततः एव संस्कृतभारत्याः संपर्कः भवति, कार्यकर्तृणां निर्माणमपि।
यः कोपि संस्कृतं पठितुं संस्कृतभारत्याः संपर्के आगच्छति तस्य जीवने स्तरद्वयं वर्तते १) छात्रः २) शिक्षकः (सम्भाषणशिबिरचालकः) इति।
सम्भाषणशिबिरात् आरभ्य प्रशिक्षणपर्यन्तं छात्रः।
प्रशिक्षणात् अग्रे शिक्षकः।
प्रशिक्षणे सम्भाषणशिबिरचालनाय प्रशिक्षणं दीयते।
वस्तुतः शिक्षकस्तरात् आरभ्य एव संस्कृताध्यनं गभीरं भवति यतः यदा वयं पाठयामः तदा एव सम्यक् अभ्यासं कुर्मः।
प्रशिक्षणं १२ दिनानि यावत् आवासीवर्गः वर्तते, यत्र प्रातः ५ वादनात् आरभ्य रात्रौ १० पर्यन्तं सर्वं संस्कृतेन एव भवति। छात्राणां शिक्षकैः सह निवासेन सहवासेन प्रशिक्षणं संस्कारः च भवति।
किन्तु अस्मिन् करोनविषाणु-विषमे काले आवासीवर्गः तु अशक्यमस्ति अतः सद्यस्कमाध्यमेन प्रशिक्षणं करणीयमिति प्रान्तगणेन निश्चितम्। अस्य वर्गस्य नाम *सद्यस्कप्रशिक्षणम्* इति। यः एतेन वर्गेण प्रशिक्षितः
भवति सः सद्यस्कमाध्यमेन संभाषणवर्गं चालयितुं शक्ष्यति। प्रत्यक्षं संभाषण-शिबिरं चालयितुं यदा करोनमुक्तः कालः आयाति तदा लघु आवासी-प्रशिक्षणवर्गः आयोज्यते तत्र प्रशिक्षितः एव प्रत्यक्षं सम्भाषणशिबिरं
चालयितुं शक्ष्यति तावत् पर्यन्तं सद्यस्कप्रशिक्षणे प्रशिक्षणं प्राप्य सद्यस्क-माध्यमेन संभाषणवर्गः चालनीयः।
*सद्यस्कप्रशिक्षणस्य समयसारिणी।*
*१२ दिनात्मकः वर्गः (सर्वेषु सत्रेषु सर्वैः छात्रैः अनिवार्यं भवितव्यमेव)*
*२९ मे तः ९ जून्-पर्यन्तम्*
* प्रातः *
*६.३० तः ९ पर्यन्तम्*
*१० तः १२ पर्यन्तम्*
*मध्याह्ने*
*३ तः ६.१५ पर्यन्तम्*

*प्रशिक्षणे भागं वोढुं केचन पूर्वावश्यकाः।*
*१) पश्चिम-महाराष्टप्रान्तेन आयोजितेन प्रबोधनवर्गे ८० प्रतिशतम् उपस्थितिः*।
२) सद्यस्कप्रशिक्षणवर्गस्य १२ दिनानि प्रतिदिनं सर्वेषु सत्रेषु उपस्थापनम्। (*ययैः संपूर्णे वर्गे १२ दिनेषु आदिनं सर्वेषु सत्रेषु भवितुं न शक्यं ते पञ्जीकरणं न कुर्युः कृपया*)।
३) संस्कृत-सम्भाषणशीलत्वम्।
४) येषां सङ्गणकम् अस्ति। (*सङ्गणकेन विना सद्यस्कमाध्यमेन सम्भाषणवर्गचालनम् अशक्यम्।*)

*छात्राणां सम्भाषणकौशलपरीक्षणाय एकः साक्षात्कारः आयोजितः अस्ति।*
*साक्षात्कारस्य समयः (१० निमेषाणामेव) - *
*९ मे दिनाङ्के प्रातः ९ तः १ वादनपर्यन्तं पूर्वसूचिताः १० निमेषाः)*
प्रबोधनवर्ग-पर्यन्तं यत् पाठितं तेन आधारेण सम्भाषणकौशलम्।
*ये अन्यसर्वैः पूर्वावश्यकैः अर्हाः ते अवश्यं साक्षात्कारे आगच्छेयुः इति याचना।*

*ये उपरिदत्तं सर्वम् अङ्गिकुर्वन्ति तथा पूर्वावश्यकैः अर्हाः सन्ति ते अधः दत्तं गूगलपत्रकं पूरयित्वा पञ्जीकरणं कुर्वन्तु*।

https://forms.gle/LXjcAUo7sWpoPias6
हितोपदेशः - HITOPADESHAH

स हि गगनविहारी कल्मशध्वंसकारी
दशशतकरधारी ज्योतिषां मध्यचारी।
विधुरपि विधियोगात् ग्रस्यते राहुणासौ
लिखितमिह ललाटे प्रोज्झितुं कः समर्थः।। 66/019।।

अर्थः:

आकाश में निरंतर भ्रमण करने वाला चंद्रमा, जो मनुष्यों और जीवों के पापों को नष्ट करता है, हजारों किरणों से युक्त और तारे के बीच चमकता है, भी राहु द्वारा ग्रहण के प्रभाव से बाधित हो जाता है। इस प्रकार, जो कुछ भी भाग्य में लिखा है, उसे मिटाने में कौन सक्षम है?

MEANING:

The moon, which constantly travels across the sky, destroys the darkness of sins for all living beings, shines with thousands of rays, and traverses among the stars, is still affected by the demon Rahu due to destiny. Thus, who can erase what is written by fate on the forehead?

ॐ नमो भगवते हयास्याय।

#Subhashitam
परशुरामकथा

आसीत् पुरा गाधिनामकराजा | तस्य पुत्री सत्यवती | सा भृगुवंशजातस्य ऋचीकमहर्षेः पत्नी | एकदा सा आश्रममागतं भृगुमहर्षिं अर्चयित्वा स्वस्यै तथा स्वमात्रै च सन्तानप्राप्त्यर्थं फलद्वयं प्राप्तवती | परन्तु दैववशात् मातापुत्र्योः मध्ये फलविनिमयः अभवत् | माता स्वफलं सरस्वतीम् अखादयत् | तथा पुत्र्याः फलं स्वयं चखाद | भृगुमहर्षिः दिव्यदृष्ट्या तद्विदित्वा सखेदः अवदत् - सत्यवत्याः फलं ब्राह्मणशक्तियुतं मातुः फलं क्षात्रशक्तियुतम् | परन्तु फलयोः विनिमयः जातः | अतः इदानीं सत्यवतीगर्भे क्षात्रधर्मयुक्तः शिशुः प्रवर्धते तथा तस्याः माता ब्राह्मणगुणोपेतं पुत्रं जनयिष्यतीति |

तच्छ्रुत्वा स्त्रियावुभे विषण्णमनस्के बभूवतुः | आर्ता सत्यवती क्षात्रपुत्रं अनिच्छुका भृगुमहर्षिं संप्रार्थयत | दयालुः महर्षिः सत्यवत्याः गर्भस्थशिशवे ब्राह्मसत्त्वं प्रदाय तस्याः पौत्रः क्षात्रगुणयुक्तः भविष्यतीति परिवर्तनं चकार | सकाले सत्यवत्यः पुत्रः जमदग्निः जज्ञे | सत्यवत्याः माता गाधिपुत्रं जनयामास यः अनन्तरं विश्वामित्र इति प्रसिद्धः बभूव |

जमदग्नेः विवाहः रेणुकादेव्या सह अभवत् | तयोः पञ्चपुत्राः आसन् | पञ्चमपुत्र एव भगवद्विष्णोः षष्ठावतारः क्षात्रतेजोयुक्तः रामः | सः न केवलं सर्ववेदशास्त्रादिपारङ्गतः परन्तु सर्वशस्त्रात्रकोविदश्च | तस्य मुख्यायुधः परशु इति कारणात् सः परशुरामः नाम्ना प्रसिद्धोऽभवत् | एकदा कस्माच्चित् लघुकारणात् पत्न्यै रेणुकायै कुपितः जमदग्निः तस्याः शिरःछेदनं कर्तुं स्वपुत्रान् आदिदेश | चत्वारः पुत्राः तस्य आदेशं निराकुर्वन् | ते जमदग्निशापात् शिलारूपमविन्दन्त | रामः एव पितुराज्ञां मन्यमानः मातुः शिरःछेदनं चकार | तदनन्तरं प्रीतात् जमदग्नेः वरमादाय माताभ्रातॄन् पुनरुज्जीवयामास |

कालान्तरे कार्तवीर्यार्जुन इति नामकराजा जमदग्नेः समीपस्थं दिव्यधेनुं बलात्कारेण नेतुं प्रायतत | तदा परशुरामः कार्तवीर्यार्जुनेन सह युध्यन् तं जघान | कश्चित्कालानन्तरं परशुरामस्य अनुपस्थित्यां कार्तवीर्यार्जुनस्य पुत्राः आश्रममागत्य जमदग्नेः हननं चक्रुः | तस्मात् परमक्रुद्धः परशुरामः स्वस्यावतारहेतुः दुष्टक्षत्रियनिर्मूलनार्थं भूमण्डलमनेकवारं परिभ्रम्य बहूनां राज्ञां वधकार्यं कृतवान् | विजितां विशालामवनीं कश्यपऋषये दानरूपेण प्रायच्छत् |

भार्गवः परशुरामः त्रेतायुगे रामायणेऽपि रामसीताविवाहानन्तरं स्वप्रकटनं करोति | दाशरथिरामं विष्णुचापे शरसंयोजनाय आह्वयति | तदा स्वपराजयं नटन् सः दाशरथिरामोऽपि विष्णोरन्यावतार इति लोकं बोधयति |

भगवान् परशुरामः द्वापरे महाभारतकथायामपि अतिमहत्वपूर्णंपात्रं वहति | गङ्गापुत्रभीष्मः परशुरामात् अस्त्रशस्त्रादीन् अधीतवान् | द्रोणः सूर्यपुत्रकर्णः चापि तस्यैव छात्रौ | परशुरामस्य कर्णं प्रति शापः महाभारतयुद्धे कर्णस्य मरणकारणमभवत् |

भगवतः परशुरामस्य स्फूर्तिदायकचरित्रं शान्तिप्रियजनाः अपि दुष्टजननिवारणाय औदासीन्यरहिताः यथायोग्यप्रवृत्तिं दर्शयेयुः इति सन्देशं कथयति |

🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
Sanskrit-1820-1830
७.५ सांयकाल आकाशवाणी
🙏 6.5.21 वेदवाणी 🙏
अनुवाद महात्मा ज्ञानेन्द्र अवाना जी द्वारा, प्रचारित आर्य जितेंद्र भाटिया द्वारा, ऑडियो रिकॉर्डिंग सुकांत आर्य द्वारा🙏🌼

*यं सीमनु प्रवतेव द्रवन्तं विश्वः पूरुर्मदति हर्षमाणः।*
*पड्भिर्गृध्यन्तं मेधयुं न शूरं रथतुरं वातमिव ध्रजन्तम्॥ ऋग्वेद ४-३८-३॥*🙏🌼

जिस प्रकार जल निचले स्थानों की ओर सभी तरफ से तेज गति से दौड़ता है। उसी प्रकार शूरवीर जब तेज गति से राष्ट्र के शत्रुओं की ओर चारों तरफ से उनका नाश करने के लिए दौड़ते हैं। तो सभी मनुष्य आनंदित होते हैं।🙏🌼

Just as water rushes towards lower places from all directions at a high speed. In the same way, when the warriors run at a fast speed towards the enemies of the nation to destroy them from all sides, people become happy. (Rig Veda 4–38 –3)🙏🌼#vedgsawan🙏🌼
4. Vikramorvasheeyam Natakam (Mahakavi Kalidasa)

यदेवोपनतं दु:खात् सुखं तद्रसवत्तरं।
निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ॥

Yadevopanatam dukhaat sukham tadrasavattaram
Nirvaanaaya taruchchhaayaa taptasya hi visheshatah


The happiness one gets after a period of grief is all the more enjoyable. One who is afflicted by the intense heat of the Sun better enjoys the shade given by a tree than one who is not exposed to the Sun’s rays.

परस्परविरोधिन्योरेकसंश्रयदुर्लभं ।
संगमं श्रीसरस्वत्योर्भूयादुद्भूतये सताम् ॥

Parasparavirodhinyorekasamshrayadurlabham
Sangamam shreesaraswatyorbhooyaadudbhootaye sataam


The conflicting attributes of wealth and learning rarely co-exist in one person. Let there be such a rare union of Goddess Lakshmi and Goddess Saraswati for the benefit of the good people.

सर्वस्तरतु दुर्गाणि सर्वे भद्राणि पश्यतु।
सर्वः कामानवाप्नोतु सर्वः सर्वत्र नन्दतु ॥

Sarvastaratu durgaani sarve bhadraani pashyatu
Sarvah kaamaanavaapnotu sarvah sarvatra nandatu


May all cross their difficulties. May all see good and auspicious things. May all get their wishes fulfilled. May everyone everywhere be happy.

छिन्नबन्धे मत्स्ये पलायिते निर्विण्णो।
धीवरो भणति धर्मो मे भवति ॥

Chchhinnabandhe matsye palaayite nirvinno
Dheevaro bhanati dharmo me bhavati


When the fishing net was torn and fish leaped into the water the fisherman becomes dejected and consoles himself saying that he will get merit (punya) (for allowing the fish to escape).

सर्वत्र खल्वात्मानुमानेन वर्तितुं युक्तम्

Sarvatra khalwaatmaanumaanena vartitum yuktam

It is best for every one to act in accordance with one’s status everywhere.
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩 तिथि - द्वादशी शाम 05:20 तक तत्पश्चात त्रयोदशी

दिनांक - 08 मई 2021
दिन - शनिवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख (गुजरात एवं महाराष्ट्र अनुसार - चैत्र)
पक्ष - कृष्ण
नक्षत्र - उत्तर भाद्रपद दोपहर 02:47 तक तत्पश्चात रेवती
योग - विष्कम्भ रात्रि 08:00 तक तत्पश्चात प्रीति
राहुकाल - सुबह 09:20 से सुबह 10:57 तक
सूर्योदय - 06:05
सूर्यास्त - 19:05
दिशाशूल - पूर्व दिशा में
Sanskrit-0655-0700
८.५ संस्कृत आकाशवाणी
https://youtu.be/W_E_umSYvYo
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🏵️🏵️ प्रतिदिनं संस्कृतं 🏵️🏵️
*कथापठनशृङ्खला*
केवलं 30 निमेषा:
समय: - 11.30 AM to 12 noon

Google Meet joining info
Video call link: https://meet.google.com/anj-tyfb-aum
📚 श्रीमद बाल्मीकि रामायणम 📚

🔥 बालकाण्ड: 🔥
।। पञ्चदशः सर्गः ।।

🍃 भयं त्यजत भद्रं वो हितार्थं युधि रावणम्।
सपुत्रपौत्रं सामात्यं समित्रज्ञातिवान्धवम्।।२७।।

हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम्।
दश वर्षसहस्राणि दश वर्षशतानि च।
वत्स्यामि मानुषे लोके पालयन्पृथिवीमिमाम् ॥२८॥

⚜️ भावार्थ - हे देवताओ ! तुम्हारा मङ्गल हो तुम अब मत डरो। तुम्हारे हित के लिये मैं रावण से लडूँगा। मैं पुत्र, पौत्र, मंत्रि, मित्र, जाति वालों तथा वन्धु बान्धव सहित, उस क्रूर, दुष्ट और देवताओं तथा ऋषियों के लिये भयप्रद रावण को मारकर और ग्यारह हज़ार वर्ष तक मर्त्यलोक में रह कर, इस पृथिवी का पालन करूँगा ।।२७॥२८॥

#ramayan
📙 ऋग्वेद

सूक्त - २५ , प्रथम मंडल ,
मंत्र - ०४ , देवता - वरुण

🍃 परा हि मे विमन्यवः पतन्ति वस्यइष्टये वयो न वसतीरुप (४)

⚜️ भावार्थ - जिस प्रकार चिड़ियाँ अपने घोंसलों की ओर तेजी से उड़ती हैं, उसी प्रकार हमारी क्रोधरहित विचारधाराएं जीवन प्राप्त करने के लिए दौड़ रही हैं। (४)

#Rgveda
चाणक्य नीति ⚔️
✒️त्रयोदश अध्याय

♦️श्लोक:-१३

ईप्सितं मनसः सर्वं कस्य सम्पद्यते सुखम्।
देवायत्तं यतः सर्वं तस्मात् सन्तोषमाश्रयेत्।।१३।।

भावार्थ --मनचाहा सुख किसको प्राप्त होता है क्योंकि सब कुछ भाग्य के वश में है। इसलिए संतोष का सहारा लेना चाहिए।।

#Chanakya
ओ३म्

११६. संस्कृत वाक्याभ्यासः

सः लिखति = वह लिखता है।

सः दैनंदिनीं लिखति।
= वह डायरी लिखता है।

सः दैनंदिन्यां लिखति।
= वह डायरी में लिखता है।

सा लिखति = वह लिखती है।

सा किं लिखति ?
= सा लेखं लिखति।

किं भवती लिखति ?
= क्या आप लिखती हैं ?

भवान् लेखं लिखति किम् ?
= आप लेख लिखते हैं क्या ?

अहं लिखामि = मैं लिखता/लिखती हूं।

ओ३म्

११७. संस्कृत वाक्याभ्यासः

आनयति = लाता है / लाती है।

सः आनयति = वह लाता है।

सा आनयति = वह लाती है।

एषः आनयति = यह लाता है।

एषा आनयति = यह लाती है।

कः आनयति ? = कौन लाता है ?

सेवकः आनयति = सेवक लाता है।

सेवकः किम् आनयति ?
= सेवक क्या लाता है ?

सेवकः जलम् आनयति।
= सेवक पानी लाता है।

का आनयति ? = कौन लाती है ?

सेविका आनयति = सेविका लाती है।

सेविका किम् आनयति ?
= सेविका क्या लाती है ?

सेविका दुग्धम् आनयति।
= सेविका दूध लाती है।

अहं आनयामि = मैं लाता हूँ / लाती हूँ।

ओ३म्

११८. संस्कृत वाक्याभ्यासः

गुञ्जति = गूँजता है / गूँजती है।

मम मनसि ओम् नादः गुञ्जति।
= मेरे मन में ओम् नाद गूँजता है।

आश्रमे वेदपाठः गुञ्जति।
= आश्रम में वेदपाठ गूँजता है।

वने खगानां ध्वनिः गुञ्जति।
= वन में पक्षियों की आवाज गूँजती है।

अधुना अपि मम मातुः रवः गृहे गुञ्जति।
= अभी भी माँ की आवाज घर में गूँजती है।

ओ३म्

११९. संस्कृत वाक्याभ्यासः

वर्धते = बढ़ता है / बढ़ती है।

सः वर्धते = वह बढ़ता है।

सा वर्धते = वह बढ़ती है।

एषः वर्धते = यह बढ़ता है।

एषा वर्धते = यह बढ़ती है।

कः वर्धते ? = कौन वर्धते है ?

युवकः वर्धते = युवक बढ़ता है।

युवकस्य किं वर्धते ?
= युवक का क्या बढ़ता है ?

युवकस्य ज्ञानं वर्धते।
= युवक का ज्ञान बढ़ता है।

का वर्धते ? = कौन बढ़ती है ?

महिला वर्धते = महिला बढ़ती है

महिला कुत्र वर्धते ?
= महिला कहाँ बढ़ती है ?

महिला मार्गे अग्रे वर्धते।
= महिला मार्ग में आगे बढ़ती है।

अहं वर्धे = मैं बढ़ता हूँ / बढ़ती हूँ।
ओ३म्

१२०. संस्कृत वाक्याभ्यासः

प्रविशति = प्रवेश करता है / करती है।

सः प्रविशति = वह प्रवेश करता है।

सा प्रविशति = वह प्रवेश करता है।

एषः प्रविशति = यह प्रवेश करता है।

एषा प्रविशति = यह प्रवेश करता है।

कः प्रविशति ? = कौन प्रवेश करता है ?

छात्रः प्रविशति = छात्र प्रवेश करता है।

छात्रः कुत्र प्रविशति ?
= छात्र कहाँ प्रवेश करता है ?

छात्रः विद्यालयं प्रविशति।
= छात्र का ज्ञान बढ़ता है।

का प्रविशति ? = कौन प्रवेश करती है ?

लक्ष्मी प्रविशति = लक्ष्मी प्रवेश करती है।

लक्ष्मी कुत्र प्रविशति ?
= लक्ष्मी कहाँ प्रवेश करती है ?

लक्ष्मी वित्तकोषं प्रविशति।
= लक्ष्मी बैंक में प्रवेश करती है।

अहं प्रविशामि = मैं प्रवेश करता हूँ / करती हूँ

ओ३म्

१३१. संस्कृत वाक्याभ्यासः

पिता – हे पुत्र ! वद ‘‘अहं बालः’’।

पुत्रः – अहं बालः।

पिता – वद ‘‘त्वं बाला’’।

पुत्रः – त्वं बाला।

पिता – हे पुत्री ! वद ‘‘अहं बाला’’

पुत्री – अहं बाला।

पिता – वद ‘‘त्वं बालः’’।

पुत्री – त्वं बालः।

अधुना पुत्री पुत्रश्च आदिनं तदेव वदतः।
= अब पुत्री और पुत्र सारा दिन वही बात बोल रहे हैं।

लघु बालकौ वक्तुं शक्नुतः।
= दो छोटे बच्चे बोल सकते हैं।

तर्हि वयं सर्वे किमर्थं न ?
= तो फिर हम सभी क्यों नहीं ?

ओ३म्

१३२. संस्कृत वाक्याभ्यासः

मन्दिरे = मन्दिर में।

मन्दिरेषु = मन्दिरों में।

गृहे = घर में।
गृहेषु = घरों में।

उद्याने = उद्यान में।
उद्यानेषु = उद्यानों में।

पाठशालायाम् = पाठशाला में।
पाठशालासु = पाठशालाओं में।

कार्ये = काम में।
कार्येषु = काम में।

मन्दिरे भक्तः गच्छति।
= मन्दिर में भक्त जाता है।

मन्दिरेषु भक्तारू गच्छन्ति ।
= मन्दिरों में भक्त जाते हैं ।

गृहे तुलसी-वृक्षः अस्ति।
= घर में तुलसी वृक्ष है।

गृहेषु तुलसी-वृक्षाः सन्ति।
= घरों में तुलसी वृक्ष हैं।

उद्याने बालकाः क्रीडन्ति।
= उद्यान में बच्चे खेलते हैं।

उद्यानेषु बालकाः क्रीडन्ति।
= उद्यानों में बच्चे खेलते हैं।

पाठशालायाम् छात्राः सन्ति।
= पाठशाला में छात्र हैं।

पाठशालासु छात्राः पठन्ति।
= पाठशालाओं में छात्र पढ़ते हैं।

कार्ये मनः न लगति वा ?
= काम में मन नहीं लग रहा है क्या ?

स्वं स्वं कार्येषु मग्नाः भवन्तु।
= अपने अपने काम में मग्न हो जाईये।

ओ३म्

१३२. संस्कृत वाक्याभ्यासः

मम जन्म आदिपुरे (आदिपुरनगरे) अभवत्।
= मेरा जन्म आदिपुर में हुआ।

तव जन्म कुत्र अभवत् ?
तुम्हारा जन्म कहाँ हुआ ?

भवतः / भवत्याः जन्म कुत्र अभवत् ?
= आपका जन्म कहाँ हुआ ?

भवतः / भवत्याः जन्म कस्मिन् नगरे जातम् ?
आपका जन्म कौनसे शहर में हुआ ?

#vakyabhyas
Audio
संस्कृत साप्ताहिकी