संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃अल्पानामपि वस्तूनां संहतिः कार्यसाधिका, तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः।।

🔅क्षुद्र-वस्तूनां सामूहिक-बलम् अपि महत्कार्यं साधयति, यथा तृणमपि एकत्व-बलेन रज्वा मत्तं गजं बध्नाति।

#Subhashitam
अद्यतनीया संलापशाला
https://youtu.be/uiLmBiirh1E

#samlapshala
अहं त्वाम् ऐक्षे।
=मैंने तुमको देखा।
माम् ऐक्षथाः त्वम्।
=मुझको देखा तुमने।
अहं त्वं च क्वचित् गच्छावः।
= मैं और तुम कहीं जा रहे हैं।

मया त्वम् आहूतः।
=मेरे द्वारा तुम बुलाए गये।
त्वया किम् अहं न दृष्टः?
=तुमसे क्या मैं नहीं देखा गया?
(क्या मैं तुम्हें नहीं दिखा?)
मया त्वया च रामायणं पठ्यते।
= मेरे और तुम्हारे द्वारा रामायण पढ़ी जाती है।

मह्यं त्वया फलम् आनीतम्‌।
=मेरे लिए तुम्हारे द्वारा लाया गया।
तुभ्यं मया पुष्पम् आनीतम्।
=तुम्हारे लिए मेरे द्वारा फूल लाया गया।
मह्यं तुभ्यं च जनकः नूतनानि वस्त्राणि क्रीतवान्।
= मेरे और तुम्हारे लिए पिताजी नये कपड़े खरीदे।


मत् दूरं त्वं किमर्थम् अपासरः?
=मुझसे दूर किसलिए हट गये।
त्वत् विना तु ततः प्रत्यागच्छम्।
=तुम्हारे बिना तु वहां से मैं लौट आया।
मत् त्वत् च सः किमर्थं बिभेति?
= मुझसे और तुमसे वह क्यों डरता है?


मम अश्वः वेगेन धावति।
=मेरा घोड़ा तेज दौड़ता है।
तव गर्दभः किमर्थं न भारं वहति?
=तुम्हारा गधा किसलिए भार नहीं ढो रहा?
मम तव च पुस्तकानि तत्र न सन्ति।
= मेरी और तुम्हारी पुस्तकें वहां नहीं हैं।


मयि वृक्षात् पत्राणि अपतन्।
=मुझ पर पेड़ से पत्ते गिरे थे।
त्वयि कन्दुकः अपतत्।
=तुम पर गेंद गिरी थी।
मयि त्वयि च कश्चित् वारि अक्षिपत्।
= मुझ पर और तुम पर किसी ने पानी फेंका था।

#vakyabhyas
ह्यस्तनीयः संस्कृताश्रमः
https://youtu.be/N1wmkHKbxHQ

सम्पूर्णा शृङ्खला
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
संस्कृत संवादः । Sanskrit Samvadah
प्रथमं दृश्यम् मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति। ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः। चन्दनः। अहा सुगन्धस्तु मनोहरः विलोक्य अये मोदकानि रच्यन्ते। प्रसन्नः भूत्वा आस्वादयामि तावत्। मोदकं गृहीतुमिच्छति मल्लिका। सक्रोधम् विरम।…
तृतीयं दृश्यम्

चन्दनः। प्रसन्नो भूत्वा अङ्गुलिषु गणयन् अहो सेटकत्रिशतकानि पयांसि अनेन तु बहुधनं लप्स्ये। नन्दिनीं दृष्ट्वा भो नन्दिनि तव कृपया तु अहं धनिकः भविष्यामि। प्रसन्नः सः धेनोः बहुसेवां करोति

चन्दनः। चिन्तयति मासान्ते एव दुग्धस्य आवश्यकता भवति। यदि प्रतिदिनं दोहनं करोमि तर्हि दुग्धं सुरक्षितं न तिष्ठति। इदानीं किं करवाणि। भवतु नाम मासान्ते एव सम्पूर्णतया दुग्धदोहनं करोमि।
एवं क्रमेण सप्तदिनानि व्यतीतानि। सप्ताहान्ते मल्लिका प्रत्यागच्छति

मल्लिका। प्रविश्य स्वामिन् प्रत्यागता अहम्। आस्वादय प्रसादम्।

चन्दनः मोदकानि खादति वदति च
चन्दनः। मल्लिके तव यात्रा तु सम्यक् सफला जाता। काशीविश्वनाथस्य कृपया प्रियं निवेदयामि।

मल्लिका। साश्चर्यम् एवम्। धर्मयात्रातिरिक्तं प्रियतरं किम्।

चन्दनः। ग्रामप्रमुखस्य गृहे महोत्सवः मासान्ते भविष्यति। तत्र त्रिशतसेटकमितं दुग्धम् अस्माभिः दातव्यम् अस्ति।

मल्लिका। किन्तु एतावन्मात्रं दुग्धं कुतः प्राप्स्यामः।

चन्दनः। विचारय मल्लिके प्रतिदिनं दोहनं कृत्वा दुग्धं स्थापयामः चेत् तत् सुरक्षितं न तिष्ठति। अत एव दुग्धदोहनं न क्रियते। उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः।

मल्लिका। स्वामिन् त्वं तु चतुरतमः। अत्युत्तमः विचारः। अधुना दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवाम् एव करिष्यावः। अनेन अधिकाधिकं दुग्धं मासान्ते प्राप्स्यावः।

द्वावेव धेनोः सेवायां निरतौ भवतः।
अस्मिन् क्रमे घासादिकं गुडादिकं च भोजयतः। कदाचित् विषाणयोः तैलं लेपयतः तिलकं धारयतः रात्रौ नीराजनेनापि तोषयतः

चन्दनः। मल्लिके आगच्छ। कुम्भकारं प्रति चलावः। दुग्धार्थं पात्रप्रबन्धोऽपि करणीयः। द्वावेव निर्गतौ

चतुर्थं दृश्यम्

कुम्भकारः। घटरचनायां लीनः गायति
ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।
जीवनं भङ्गुरं सर्वं यथैष मृत्तिकाघटः॥


चन्दनः। नमस्करोमि तात पञ्चदश घटान् इच्छामि। किं दास्यसि।

देवेश। कथं न। विक्रयणाय एव एते। गृहाण घटान्। पञ्चशतोत्तररूप्यकाणि च देहि।

चन्दनः। साधु। परं मूल्यं तु दुग्धं विक्रीय एव दातुं शक्यते।

देवेशः। क्षम्यतां पुत्र मूल्यं विना तु एकमपि घटं न दास्यामि।

मल्लिका। स्वाभूषणं दातुमिच्छति तात यदि अधुनैव मूल्यम् आवश्यकं तर्हि गृहाण एतत् आभूषणम्।

देवेशः। पुत्रिके नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।

उभौ। धन्योऽसि तात धन्योऽसि।

#samvadah
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰यान्तवान्तादेशसन्धिः
🗓 22nd सितम्बर 2022, गुरुवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
महोदय प्रणामाः!
भवतः जीवितप्रमाणपत्रम् अस्माभिः प्राप्तम्, तदर्थं भवते भूरिशः धन्यवादाः।
गते वर्षे भवान् जीवितः आसीत् इत्यस्य प्रमाणपत्रम् अस्माभिः न लब्धम्।
भवतः पार्श्वे यदि तस्य प्रतिकृतिः अस्ति तर्हि कृपया वित्तकोषाय ददातु, वयं कृतज्ञाः भविष्यामः। भवदीयः कोषप्रबन्धकः।

वृत्तिप्राप्ताधिकारी - भवतः पत्रं प्राप्तवान्। अहं गते वर्षे अपि जीवितः आसम् इत्यस्य प्रमाणपत्रं वित्तकोषः माम् अयाचत। खेदस्य विषयः यत् तादृशं प्रमाणपत्रं मत्समीपे नास्ति। अपिच अहं गते वर्षे अपि जीवितः आसम् इति मम स्मरणे नास्ति, यतः वार्धक्यकारणतः मम स्मरणशक्तिः न्यूना अभवत्।

#hasya
सूर्यकवचम्

शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम्।
शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम्।।१

देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम्।
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत्।।२

शिरो मे भास्करः पातु ललाटे मेऽमितद्युतिः ।
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः।।३

घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः।
जिह्वां मे मानदः पातु कण्ठं मे सुरवन्दितः।।४

स्कन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः।
पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वरः।।५

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके।
दधाति यः करे तस्य वशगाः सर्वसिद्धयः।।६

सुस्नातो यः जपेत्सम्यग्योऽधीते स्वस्थमानसः।
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विन्दति।।७


इति श्रीयाज्ञवल्क्यमुनिविरचितं श्रीसूर्यकवचस्तोत्रं सम्पूर्णम्
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 23rd सितम्बर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - त्रयोदशी रात्रि 02:30 तक तत्पश्चात चतुर्दशी

दिनांक - 23 सितम्बर 2022
दिन - शुक्रवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - मघा 24 सितम्बर प्रातः 03:51 तक तत्पश्चात पूर्वाफाल्गुनी
योग - सिद्ध सुबह 09:56 तक तत्पश्चात साध्य
राहु काल - सुबह 11:01 से 12:32 तक
सूर्योदय - 06:29
सूर्यास्त - 06:35
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:54 से 05:41 तक