संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
ओ३म्

संस्कृतानन्दः

भारते अनेकाः संस्थाः सन्ति।
= भारत में अनेक संस्थाएँ हैं।

काश्चन संस्थाः समाजसेवां कुर्वन्ति।
= कुछ संस्थाएँ समाजसेवा करती हैं।

काश्चन संस्थाः कलां पाठयन्ति।
= कुछ संस्थाएँ कला पढ़ाती हैं।

कलासु सङ्गीतकला , नृत्यकला , चित्रकला इत्यादयः सन्ति।
= कलाओं में संगीतकला , नृत्यकला , चित्रकला आदि हैं।

संस्थासु अपि अनेकाः संस्थाः सततं , निरन्तरम् , अविरतं च कार्यं कुर्वन्ति।
= संस्थाओं में भी अनेक संस्थाएँ सतत , निरन्तर , अविरत काम करती हैं।

तासु संस्थासु एका संस्था "भारतविकासपरिषद्" अस्ति।
= उन संस्थाओं में एक संस्था "भारत विकास परिषद" है।

राष्ट्रीयस्तरे एषा संस्था सामाजिकं कार्यं करोति।
= राष्ट्रीय स्तर पर यह संस्था कार्य करती है।

"राष्ट्रदेवो भव" इति एतस्याः संस्थायाः ध्येयमन्त्रः अस्ति।
"राष्ट्रदेवो भव" यह इस संस्था का ध्येयमन्त्र है।

सम्पर्कः , सहयोगः, संस्कारः , सेवा , समर्पणम् च एतानि पञ्च कार्याणि संस्थया क्रियन्ते।
सम्पर्क , सहयोग, संस्कार , सेवा और समर्पण ये पाँच कार्य संस्था द्वारा किये जाते हैं ।

कोरोनाकाले समग्रे भारते भारतविकासपरिषदः सर्वे कार्यकर्तारः रुग्णानां सेवां कृतवन्तः।
= कोरोना काल में समग्र भारत में भारत विकास परिषद के सभी कार्यकर्ताओं ने रोगियों की सेवा की।

"भारतम् अवगच्छन्तु" एषा एका स्पर्धा समग्रे भारते आयोज्यते।
= "भारत को जानो" यह एक स्पर्धा समग्र भारत में आयोजित की जाती है।

रुग्णेभ्यः चिकित्सासाधनानि अपि एषा संस्था ददाति।
= रोगियों को चिकित्सा साधन यह संस्था देती है।

सम्प्रति धेनवः लिम्पिरोगेण ग्रसिताः सन्ति।
= इस समय गौएँ लिम्पि रोग से ग्रस्त हैं।

धेनूनाम् अपि सेवा एतया संस्थया कृता।
= गौओं की भी सेवा इस संस्था द्वारा की गई।

#vakyabhyas
प्रथमं दृश्यम्

मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति। ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः।

चन्दनः। अहा सुगन्धस्तु मनोहरः विलोक्य अये मोदकानि रच्यन्ते। प्रसन्नः भूत्वा आस्वादयामि तावत्। मोदकं गृहीतुमिच्छति

मल्लिका। सक्रोधम् विरम। विरम। मा स्पृश एतानि मोदकानि।

चन्दनः। किमर्थं क्रुध्यसि तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि किं न जानासि त्वमिदम्।

मल्लिका। सम्यग् जानामि नाथ परम् एतानि मोदकानि पूजानिमित्तानि सन्ति।

चन्दनः। तर्हि शीघ्रमेव पूजनं सम्पादय। प्रसादं च देहि।

मल्लिका। भोः अत्र पूजनं न भविष्यति। अहं स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः।

चन्दनः। सखिभिः सह न मया सह विषादं नाटयति

मल्लिका। आम्। चम्पा गौरी माया मोहिनी कपिलाद्याः सर्वाः गच्छन्ति। अतः मया सह तवागमनस्य औचित्यं नास्ति। वयं सप्ताहान्ते प्रत्यागमिष्यामः। तावत् गृह व्यवस्थां धेनोः दुग्धदोहनव्यवस्थाञ्च परिपालय।

द्वितीयं दृश्यम्

चन्दनः। अस्तु। गच्छ। सखिभिः सह धर्मयात्रया आनन्दिता च भव। अहं सर्वमपि परिपालयिष्यामि। शिवास्ते सन्तु पन्थानः।

चन्दनः। मल्लिका तु धर्मयात्रायै गता। अस्तु। दुग्धदोहनं कृत्वा ततः स्वप्रातराशस्य प्रबन्धं करिष्यामि। स्त्रीवेषं धृत्वा दुग्धपात्रहस्तः नन्दिन्याः समीपं गच्छति।

उमा। मातुलानि मातुलानि।

चन्दनः। उमे अहं तु मातुलः। तव मातुलानि तु गङ्गास्नानार्थं काशीं गता अस्ति। कथय किं ते प्रियं करवाणि।

उमा। मातुल पितामहः कथयति मासानन्तरम् अस्मत् गृहे महोत्सवः भविष्यति। तत्र त्रिशतसेटकमितं दुग्धम् अपेक्षते। एषा व्यवस्था भवद्भिः करणीया।

चन्दनः। प्रसन्नमनसा त्रिशतसेटककपरिमितं दुग्धम् शोभनम्। दुग्धव्यवस्था भविष्यति एव इति पितामहं प्रति त्वया वक्तव्यम्।

उमा। धन्यवादः मातुल याम्यधुना।

सा निर्गता

#samvadah
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰शतृविशेषरूपाणि
🗓 21st सितम्बर 2022, बुधवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
अल्पसंस्कृतज्ञ भी इस कार्यक्रम में प्रस्तुत परिहासों को समझ पायेंगे । (पुनः प्रसारणम्)

संस्कृतं व्यावहारिकी भाषा भवेत्
(व्यावहारिकसंस्कृतशिक्षणस्य मनोरंजकं माध्यमम्)😝😝😝😝😝😝😝

महाविस्मृति-पीडितः पतिः (An Extremely Forgetful Husband= बहुत अधिक भुलक्कड पति)

आपणे (=बाजार में)  सहसा निजपत्नीं दृष्ट्वा विस्मरणदोष-महापीडितः पतिः विहस्य  आत्मीयता-पूर्वकं  महिलाम् अवदत् ---
“भगिनि ! भवती तु (=आप तो) मया कुत्रापि  दृष्टा अस्ति,  न जाने कुत्र ? कुत्र निवसति भोः ?”


महिला निजस्मितं प्रच्छाद्य (=अपनी हंसी छुपाकर) अवदत्, ”अहं भवतः पार्श्वे एव आदर्श-नगरे वसामि । मया अपि भवान् न जाने कियद्वारं दृष्टः अस्ति  (मैंने भी आपको न जाने कितनी बार देखा है ।|”

पतिः --- अस्तु ! आदर्श-नगरे गृहस्य कस्मिन् संख्याङ्के निवसति भवती ?

पत्नी --- अहम् आदर्श-नगरस्य 45-संख्याङ्के गृहे निवसामि ।

पतिः --- 45-संख्याङ्कं गृहं तु मदीयम् अस्ति ।

पत्नी ---- नैव, अधुना मदीयम् अस्ति । भवतः तु पूर्वम् आसीत् ।

पतिः ---  अहो ! अधुना अभिज्ञाता (=अब पहचान में आई) । भवती तु शीला अस्ति,  मे प्रिया पत्नी ! अहो ! अहं भवद्विषये पूर्वम् एव भावयामि स्म (= मैं आप के बारे में पहले ही सोच रहा था कि)*  इयं  महिला तु मम शीलावत् दृश्यते इति । अस्मादेव भवतीं पुन: पुन: पश्यन्नासम् I क्षम्यो$हम् | अस्तु ! चलतु I शीघ्रमेव गृहं गच्छाव: |---KSG

😆😆😆😆😆😆😆😆😆😆😆

#hasya
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य पूर्वाचार्यः अभिनवपाणिनिः काशीविद्वत्परिषदः अध्यक्षः विभिन्नैः पुरस्कारैः सम्मानितः महामहोपाध्यायः पद्मश्रीविभूषितः पण्डितः रामयत्नशुक्लः पञ्चभूते विलीनः।
श्रद्धाञ्जलीन् समर्पयामः।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 वाक्याभ्यासः
🗓 22nd सितम्बर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - द्वादशी रात्रि 01:17 तक तत्पश्चात त्रयोदशी

दिनांक - 22 सितम्बर 2022
दिन - बृहस्पतिवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - अश्लेषा रात्रि 02:03 तक तत्पश्चात मघा
योग - शिव सुबह 09:45 तक तत्पश्चात सिद्ध
राहु काल - दोपहर 02:03 से 03:34 तक
सूर्योदय - 06:28
सूर्यास्त - 06:36
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:53 से 05:41 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 वाक्याभ्यासः
🗓 22nd सितम्बर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃अल्पानामपि वस्तूनां संहतिः कार्यसाधिका, तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः।।

🔅क्षुद्र-वस्तूनां सामूहिक-बलम् अपि महत्कार्यं साधयति, यथा तृणमपि एकत्व-बलेन रज्वा मत्तं गजं बध्नाति।

#Subhashitam