संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
"गायति" एतस्य लृट्लकाररूपं वदन्तु।
Anonymous Quiz
1%
गापयति
27%
गायिष्यति
6%
गायस्यति
66%
गास्यति
संस्कृताभ्यासः
वर्तमानकाल

अहं स्थापयामि
= मैं रखता हूँ / रखती हूँ।

अहं धनं कोषे स्थापयामि
= मैं धन को जेब में रखता हूँ / रखती हूँ।

अहं भवतः / भवत्याः स्थालिकायां मोदकं स्थापयामि
= मैं आपकी थाली में लड्डू रखता हूँ / रखती हूँ।

भवान् / भवती किं स्थापयति ?
= आप क्या रख रहे हैं / रख रही हैं ?

सः / सा किं स्थापयति ?
= वह क्या रखता है / रखती है ?

सा तुलसीपादपस्य पार्श्वे दीपं स्थापयति।
= वह तुलसी के पौधे के पास दीप रखती है।

छात्रः विद्यास्यूते पुस्तकं स्थापयति।
= छात्र स्कूल बैग में पुस्तक रखता है।

अनन्तः यात्रार्थं पाथेयं स्थापयति ।
= अनंत यात्रा के लिये रास्ते का भोजन रखता है ।

माता शबरी श्रीरामस्य कृते फलं स्थापयति।
= माता शबरी श्रीराम के लिये फल रखती है।

लक्ष्मणः गुरोः कृते आसनं स्थापयति।
= लक्ष्मण गुरु के लिये आसन है।

कार्तिकः कपोतस्य कृते कणं स्थापयति।
= कार्तिक कबूतर के लिये दाना रखता है।


संस्कृतवाक्याभ्यासः

सर्वेषां संवादं श्रृणोमि।
= सबका संवाद सुनता हूँ।

सम्प्रति सर्वे कोरोनारोगात् बिभ्यति।
= आजकल सभी कोरोना रोग से डर रहे हैं।

कोरोनाविषाणुः सर्वत्र प्रसरति।
= कोरोना वायरस सब जगह फैल रहा है।

अखिलविश्वे जनाः कोरोनया भयाक्रान्ताः सन्ति।
= सारे विश्व में लोग कोरोना से भयाक्रान्त हैं।

जनाः परस्परं न मिलन्ति।
= लोग आपस में नहीं मिल रहे हैं।

अधुना जनाः हस्तधुननं न कुर्वन्ति।
= अब लोग हाथ नहीं मिलाते हैं।

समग्रे विश्वे जनाः "नमस्ते" कुर्वन्ति।
= सारे विश्व में लोग नमस्ते करः रहे हैं।

जनाः मुखे वस्त्रावरणं स्थापयन्ति।
= लोग मुख पर मास्क लगा रहे हैं।

समग्रे विश्वे जनाः यात्रां निरस्तां कुर्वन्ति।
= सारे विश्व में लोग यात्रा को रद्द कर रहे हैं।

विश्विद्यालयेषु पञ्चदश दिनानाम् अवकाशः उद्घोषितः।
= विश्वविद्यालयों में पन्द्रह दिन का
अवकाश घोषित कर दिया गया है।

ये शाकाहारं कुर्वन्ति ते कोरोनातः मा बिभ्यतु।
= जो शाकाहार करते हैं वे कोरोना से न डरें।

ये प्रतिदिनं यज्ञं कुर्वन्ति ते कोरोनातः मा बिभ्यतु।
= जो प्रतिदिन यज्ञ करते हैं वे कोरोना से न डरें।

सात्विकं जीवनं जीवन्तु।
= सात्विक जीवन जियें।


#vakyabhyas
॥ऋणमोचकस्तोत्रम्॥

मङ्गलो भूमिपुत्रश्च
ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायः
सर्वकर्माविरोधकः ।।१।।

लोहितो लोहिताक्षश्च
सामगानां कृपाकरः ।
धरात्मजः कुजो भौमो
भूतिदो भूमिनन्दनः ।।२।।

अङ्गारको यमश्चैव
सर्वरोगापहारकः ।
वृष्टेः कर्ताऽपहर्ता च
सर्वकामफलप्रदः ।।३।।

एतानि कुजनामानि
नित्यं यः श्रद्धया पठेत् ।
ऋणं न जायते तस्य
धनं शीघ्रमवाप्नुयात् ।।४।।

धरणीगर्भसम्भूतं
विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं तं
मङ्गलं प्रणमाम्यहम् ।।५।।

स्तोत्रमङ्गारकस्यैतत्
पठनीयं सदा नृभिः ।
न तेषां भौमजा पीडा
स्वल्पापि भवति क्वचित्।।६।।

अङ्गारक महाभाग
भगवन् भक्तवत्सल ।
त्वां नमामि ममाशेष-
मृणमाशु विनाशय ।।७।।

ऋणरोगादिदारिद्रयं
ये चान्ये ह्यपमृत्यवः ।
भयक्लेशमनस्तापा
नश्यन्तु मम सर्वदा ।।८।।

अतिवक्र दुराराध्य
भोगमुक्तजितात्मनः ।
तुष्टो ददासि साम्राज्यं
रुष्टो हरसि तत्क्षणात् ।। ९।।

विरिञ्चिशक्रविष्णूनां
मनुष्याणां तु का कथा ।
तेन त्वं सर्वसत्त्वेन
ग्रहराजो महाबलः ।।१०।।

पुत्रान् देहि धनं देहि
त्वामस्मि शरणं गतः ।
ऋणदारिद्रयदुःखेन
शत्रूणां च भयात्ततः ।। ११।।

एभिर्दशभिः श्लोकैर्यः
स्तौति च धरासुतम् ।
महतीं श्रियमाप्नोति
ह्यपरो धनदो युवा ।। १२।।


इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं । ऋणमोचक-मङ्गलस्तोत्रं संपूर्णम् ।।
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰सप्तमीविभक्तिः
🗓24th जून् 2022, शुक्रवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
Father - Few minutes back he was on Facebook, now his face is on book.

#hasya
🍃अनेकचित्तविभ्रान्ता मोहजालसमावृताः।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ
।।16.16।।

♦️anekacittavibhranta mohajalasamavrtah.
prasaktah kamabhogesu patanti narakesucau৷৷16.16৷৷

Bewildered by many a fancy, entangled in the snare of delusion, addicted to the gratification of lust, they fall into a foul hell.(16.16)

अनेक प्रकार से भ्रमित चित्त वाले मोह जाल में फँसे तथा विषयभोगों में आसक्त ये लोग घोर अपवित्र नरक में गिरते हैं।।16.16।।

#geeta
🍃आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्
।।16.17।।

♦️atmasambhavitah stabdha dhanamanamadanvitah.
yajante namayajnaiste dambhenavidhipurvakam৷৷16.17৷৷

Self-conceited, stubborn, filled with the pride and intoxication of wealth, they perform sacrifices in name out of ostentation, contrary to scriptural ordinances.(16.17)

अपने आप को ही श्रेष्ठ मानने वाले स्तब्ध (गर्वयुक्त) धन और मान के मद से युक्त लोग शास्त्रविधि से रहित केवल नाममात्र के यज्ञों द्वारा दम्भपूर्वक यजन करते हैं।।16.17।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - द्वादशी रात्रि 01:09 तक तत्पश्चात त्रयोदशी

दिनांक 25 जून 2022
दिन - शनिवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - आषाढ़
पक्ष - कृष्ण
नक्षत्र - भरणी सुबह 10:24 तक तत्पश्चात कृतिका
योग - धृति 26 जून प्रातः 05:55 तक तत्पश्चात शूल
राहु काल - सुबह 11:00 से दोपहर 12:42 तक
सूर्योदय - 05:56
सूर्यास्त - 07:29
दिशा शूल - पूर्व दिशा में
ब्रह्म मुहूर्त - प्रातः 04:32 से 05:14 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतपठनं कथम् आरब्धम्
🗓25th june 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (संस्कृतपठनं कदा आरब्धं कथं च आरब्धं तत्र कस्य वा प्रेरणा आसीत्) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃"सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा।
अहं करोमीति वृथाभिमानः स्वकर्मसूत्रे ग्रथितो हि लोकः
॥"

सुख-दुःख अन्य के दिए नहीं होते; कोई सुख-दुःख देता है यह मानना व्यर्थ है। ‘मुझसे होता है’ यह भी मिथ्याभिमान है। समस्त जीवन/सृष्टि स्वकर्म सूत्र में बंधे हैं।"

🔅संसारे दुःखस्य सुखस्य वा कोऽपि दाता न भवति अन्यः कश्चित् ददाति इति कुबुद्धिः स्यात्।
अहम् एव करोमि इति व्यर्थः अभिमानः अयं संसारः स्वकर्मसु एव ग्रथितः अस्ति अर्थात् सर्वे स्वकर्मानुसारेणैव दुःखं सुखं वा प्राप्नुयुः।

#Subhashitam