रामदूतः — The Sanskrit News Platform
2.11K subscribers
7.74K photos
28 videos
2.96K files
4.82K links
Main branch @samvadah
Super group @Ask_sanskrit

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
हरिद्वारे उत्तराखण्डसंस्कृतविश्वविद्यालये संस्कृतभारती उत्तराञ्चलस्य जायमानस्य आवासीयभाषाप्रबोधनवर्गस्य तृतीयदिवसस्य छायाचित्रम्।
Audio
संस्कृतसाप्ताहिकी ०७/०१/२०२३
Sanskrit-1820-1830
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2023_Jan_NSD_Sanskrit_Sanskrit.pdf
71.8 KB
आकाशवाण्याः लिखिता वार्ता
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩 युगाब्द - ५१२४
🌥️ 🚩 शक संवत - १९४४
🌥️ 🚩 विक्रम संवत - २०७९
🚩 तिथि - द्वितीया पूर्ण रात्रि तक (वृद्धि तिथि)

दिनांक - 08 जनवरी 2023
दिन - रविवार
अयन - दक्षिणायन
ऋतु - शिशिर
मास - माघ
पक्ष - कृष्ण
नक्षत्र - पुष्य 09 जनवरी सुबह 06:05 तक तत्पश्चात अश्लेषा
योग - वैधृति सुबह 09:43 तक तत्पश्चात विष्कम्भ
राहु काल - शाम 04:49 से 06:10 तक
सूर्योदय - 07:22
सूर्यास्त - 06:10
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:37 से 06:29 तक
पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ता
writereaddata_Bulletins_Text_NSD_2023_Jan_NSD_Sanskrit_Sanskrit.pdf
61.4 KB
आकाशवाण्याः लिखिता वार्ता
🔹काश्मीरस्य ढाङ्ग्रीनगरे जिहादिभयोत्पादकैः डिसेम्बर् मासस्य ३१ दिनाङ्के भानुवासरे चत्वारः जनाः हताः, षट् जनाः व्रणिताः।

🔹ग्वदरनिवासिनः चीनदेशस्य जनानाम् उपस्थितिं विरुद्ध्य विरोधप्रदर्शनं कृतवन्तः ।

🔹पेले इति नामकः ब्रेजिलदेशस्य पादकन्दुकक्रीडापटुः द्व्यशीतिवर्षवयस्कः मृतः ।

🔹२०२२ तमे वर्षे काश्मीरप्रदेशे आहत्य ९३ सङ्घर्षाः जाताः तत्र ४२ विदेशीयभयोत्पादकान् अपि अन्तर्भाव्य १७२ भयोत्पादकाः तटस्थीकृताः ।

🔹प्रधानिनं मिलितवान् मैक्रोसाफ्ट सि. इ.ओ.सत्य नादेल्ला डिजिटल आधृत-सर्वकारस्य योजनाः प्रति प्रशंसां कृतवान्।

🔹जगतः अत्युन्नतायां युद्धभूमौ सियाचिन्नाम्न्यां भारतीय- सेना महिलां सेनाधिकारिरूपेण न्ययोजयत्।

🔹सर्वकारीय स्वाम्ययुता बि.एस्.एन्.एल्.टेलिकां संस्था २०२४तमे वर्षे स्वस्याः ५ - जि सेवाम् आरप्स्यते इति केन्द्रदूर-सम्पर्कविभागसचिवः अश्विन्
वैष्णवोऽसूचयत् ।

🔹नवदेहली सर्वोच्चन्यायालयस्य न्यायमूर्तिरूपेण पञ्चवत्सरपर्यन्तं कृतकार्यः अब्दुलनजीरः बुधवासरे निवृत्तिमगात्।

🔹सर्वकारीय स्वाम्यस्य दूरदर्शन, आकाशवाण्योः वाहिनीनां प्रसार, मूलसुविधाः,जाल-विस्तरणाय २५०० कोटिरूप्यकाणां साहाय्यं प्रदातुं केन्द्रसचिवमण्डलम्
अनुमतिं प्रादात्।

🔹भारतदेशे प्रवासोद्यमस्य अभिवृद्धिकरणदृष्ट्या केन्द्रप्रवास -उद्यमसचिवालयेन आरब्धायै स्वदेशदर्शनयोजनायै कर्णाटक-प्रान्तस्य मैसूरु, विजयनगरं (हम्पे )
च चिते वर्तते।

🔹केन्द्रीय-गृहमन्त्रिणा अमितशाहेन अद्य मणिपुरे एकादशोत्तर- त्रिशताधिकैक सहस्र-कोटि-रुप्यकाणाम् एकविंशतिः विकास परियोजनानाम् उद्घाटनं शिलान्यासं च विहितम्।

🔹भारतम् अस्य मासस्य द्वादशे त्रयोदशे च दिनांके वॉयस ऑफ ग्लोबल साउथ समिट इति विशेषावासीयशिखरसम्मेलनम् आयोजयिष्यति ।

🔹दिल्लीनगरनिगमस्य उपवेशनावधौ कोलाहलकारणेन मेयर-उपमेयर इति पदाभयाम् निर्वाचनानि न अभवन् ।

🔹भारतं सूडानदेशे संयुक्त राष्ट्रनियोगाय महिला शान्ति-रक्षकाणां दलं नियोक्ष्यति ।
Sunday, January 8, 2023

केरलराज्यस्तरीय-कौमारकलोत्सवः समाप्तः।

कोष़िक्कोट् जनपदाय कलाकिरीटम्।
कोष़िक्कोट्> एष्याभूखण्डस्य बृहत्तमः कौमारकलोत्सवः इति प्रसिद्धिमाप्तः केरलराज्ये प्रतिवर्षं सम्पद्यमानः राज्यस्तरीयः विद्यालयीयकलोत्सवः कोष़िक्कोट् नगरे समाप्तिमाप्तः। कोविड्महामारिकारणेन वर्षद्वयं यावत् स्थगितः उच्चोच्चतरीयछात्राणां पञ्चदिनात्मकोSयं कलोत्सवः जनुवरि तृतीयदिनाङ्कतः सप्तमदिनाङ्कपर्यन्तं पूर्वाधिकं सम्यक् रीत्या सामान्यजनसहयोगेन च प्रचलितः। १४ जनपदेषु परमतः प्राप्ताङ्काय जनपदाय दीयमानः सुवर्णचषकः आतिथेयजनपदेन कोष़िक्कोटेन प्राप्तः। पालक्काट् कण्णूर् जनपदौ द्वितीयस्थानं प्राप्तवन्तौ।

अरबी - संस्कृतकलोत्सवाभ्यां समं सम्पद्यमाने कलोत्सवे अस्मिन् वारे २४ वेदिकासु आहत्य १५ सहस्रं कुमारकाः विविध-साहित्यकलास्पर्धासु स्ववैभवं प्रकटीकृत्य स्पर्धितवन्तः।

~सम्प्रतिवार्ताः
Sanskrit-1820-1830
आकाशवाण्याः संस्कृतवार्ता