रामदूतः — The Sanskrit News Platform
2.55K subscribers
8.95K photos
52 videos
3.06K files
5.15K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
७४० बालका: कराडनगरे(महाराष्ट्र) ५ निमेष्याभ्यन्तरे सम्पूर्णां गीतां लिखितवन्त:। प्रत्येकं बालक: एकं श्लोकं लिखितवान्।
संस्कृतभारतीमणिपुरप्रान्तस्य गीताजयन्तीकार्यक्रमे मा.राज्यपाल श्री ला गणेशन्, मा.मुख्यमन्त्री श्री एन.वीरेन सिंह, मा.राज्यसभासांसदः महाराज श्री सनाजौवा लाईसेम्वा, मा.प्रान्ताध्यक्षः श्री एस.वेदेश्वरशर्मा तथा मा.व्यवस्थाकारि ब्रह्मसभा गोविन्दमन्दिर बोर्ड श्री जी. डमरुपति शर्मा ।
Sunday, December 4, 2022

खत्तरे एष्या आफ्रिक्कासंघानाम् उत्कर्षः।
दोहा> एष्यीय-आफ्रिक्कीयसंघानां अत्युज्वलप्रकटनानां साक्षिण्यः भवन्ति खत्तरे विश्वचषकवेदिकाः। द्वयोः भूखण्डयोः अधिकतरसंघाः 'नोक् औट्' चक्रं प्रविष्टा इत्येतत् विश्वचषकचरित्रे इदंप्रथमं भवति। एष्यातः द्वौ, आफ्रिक्कातश्च द्वौ संघौ इत्यनेन चत्वारः क्रीडादलाः पूर्वचतुर्थांशचक्रे स्थानमावहन्ति। २००२,२०१० वर्षयोः त्रयः दलाः भूखण्डद्वयं प्रतिनिधीभूताः आसन्।
एष्यातः जप्पानः,दक्षिणकोरिया तथा आफ्रिक्कातः सेनगलः, मोरोक्को च पूर्वचतुर्थांशचक्रं प्रविष्टाः।

~ सम्प्रतिवार्ताः
संस्कृतभारत्याः उत्तर-दक्षिण-तमिल्नाडु-प्रान्तयोः गीतामृतकार्यक्रमस्य उद्घाटनम् चिन्मय-मिशन्-संस्थायाः तत्वाधाने चेन्नैस्थे चिन्मय-हेरिटेज्-सेण्टर्-मध्ये अद्य महता वैभवेन सञ्जातम्। कार्यक्रमे अस्मिन् तमिल्नाडुराज्यस्य माननीय-राज्यपाल-वर्यः श्रीमान् R.N. रवि-महोदयः मदुरै-आधीनस्य पीठाधीशाः श्रीलश्रीः ज्ञानदेशिकस्वामिनः, स्वामि-मित्रानन्दवर्याः, R.नटराज-वर्यः, IPS (Retd.), संस्कृतभारत्याः उत्तरतमिल्नाडु-प्रान्तस्य उपाध्यक्षः श्रीमान् तानु-कृष्णन्-महोदयः संस्कृतभारत्याः दक्षिणक्षेत्रशिक्षणप्रमुखः Dr. रामचन्द्रमहोदयः अ.भा.महामन्त्री श्रीसत्यनारायणभट्ट-महोदयः च मञ्चासीनाः आसन्।
अन्येऽपि बहवः मुख्यातिथयः आगताः। प्रातः सम्पूर्णभगवद्गीतायाः पारायणम् अभवत्। तत् पारायणं तमिळनाडुप्रदेशस्य सर्वेषु चिन्मयविद्यालयेषु युगपत् अभवत्।चिन्मयमिशन्-पक्षतः पाञ्चजन्यकथाम् आधारीकृत्य उत्तमनाटकम् अपि प्रदर्शितम्।
writereaddata_Bulletins_Text_NSD_2022_Dec_NSD_Sanskrit_Sanskrit.pdf
56.7 KB
आकाशवाण्याः लिखिता वार्ता
Sanskrit-1820-1830
आकाशवाण्याः संस्कृतवार्ता
आईआईएम इन्दौरे गीताजयन्ती कार्यक्रम: । अस्मिन् कार्यक्रमे प्रवेशवैष्णव-वर्य: (मालवाप्रान्तशिक्षणप्रमुख:) आसीत् ।
Sanskrit-Deptt-UOR.pdf
13.1 MB
स्वरमङ्गला । वर्षम् ४७ अङ्कः २ । अप्रैलमासतः जून्यावत् २०२२॥
तया इति संस्कृतचलच्चित्रं अन्ताराष्ट्रचलच्चित्रोत्सवे प्रदर्शयिष्यति।

~नववाणी

तृशूर्- श्रीगोकुलं चलचित्रपताकाभूमिकायां श्रीमता गोगुलं गोपालेन प्रायोजितं डो जि प्रभावर्येण निदेशितं तया इति संस्कृतचलचित्रम् अन्ताराष्ट्रचलचित्रोत्सवे भागं भजते। कोस्टारिक्कायां सान्जोस् अन्ताराष्ट्र चलचित्रोत्सवः, ब्रसीले बस् विष्यस् अन्ताराष्ट्रचलचित्रोत्सवः, ओस्ट्रेलियायां टैटन् चलचित्रोत्सवः, लण्टन् चलचित्रोत्सवः, आफ्रिक्का चलचित्रोत्सवः इत्यादिषु चलचित्रमिदं प्रदर्शयिष्यति।

पूर्वं नेचर्लान्ट् चलचित्रोत्सवेषु चितमिदं चलचित्रम्। भारतेषु कोल्कत्ता, पूणे, दिल्ली इत्यादिस्थलेषु अन्ताराष्ट्रचलचित्रोत्सवार्थमपि चितमासीत्।

केरलीये इतिहासे प्रसिद्धा कुरियेटत्त् तात्री इत्यस्याः जीवनकथा पृथक् वीक्षणकोणे अस्मिन् चलचित्रे अवतार्यते।

कैरलीचलचित्रे प्रसिद्धाः नेटुमुटि वेणु, अनुमोल्, नेल्लियोट् वासुदेवन् प्रभृतयः अभिनेतारः चलचित्रेस्मिन् विविधानि कथापात्राणि अवतारयन्ति।
SANSKRIT SAPTHAGIRI DECEMBER 2022.pdf.pdf
6.3 MB
सप्तगिरिः दिसम्बर् 2022

बहुत्र अशुद्धशब्दानां प्रयोगः दृश्यते तथा व्याकरणे अपि दोषाः सन्ति। अतः अवधानेन पठत
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩नक्षत्र - अश्विनी सुबह 07:15 तक तत्पश्चात भरणी

दिनांक - 05 दिसम्बर 2022
दिन - सोमवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - शुक्ल
तिथि - त्रयोदशी 06 दिसम्बर सुबह 06:47 तक तत्पश्चात चतुर्दशी
योग - परिघ 06 दिसम्बर प्रातः 03:08 तक तत्पश्चात शिव
राहु काल - सुबह 08:27 से 09:48 तक
सूर्योदय - 07:06
सूर्यास्त - 05:54
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:21 से 06:14 तक
पठत सुधर्मा नाम्ना संस्कृतस्य दैनिकं समाचारपत्रम् ₹600 अर्घाय प्रतिवर्षम् इत्यत्र
https://sudharmasanskritdaily.in/subscribe/
writereaddata_Bulletins_Text_NSD_2022_Dec_NSD_Sanskrit_Sanskrit.pdf
44.9 KB
आकाशवाण्याः लिखिता वार्ता
Sanskrit-0655-0700
आकाशवाण्याः संस्कृतवार्ता
e_हिमसंस्कृतवार्तापत्रम्_05_12_2022.pdf
584.4 KB
e-हिमसंस्कृतवार्तापत्रम् 05.12.2022
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/hdIKR5nQ9yY
विद्यालयेषु सूचनाप्रौद्योगिकाध्ययनम्- केरलस्य श्रेष्ठता।

~नववाणी

नवदिल्ली- विद्यालयीयशिक्षणे केरलराज्यं राष्ट्रियश्रेष्ठतामवाप। छात्राणां कृते सङ्गणकं, अन्तर्जालं, प्रोजेक्टर् इत्यादीनां सौविद्यप्रदाने केरलराज्यं श्रेष्ठतामवाप इति केन्द्रीय-शिक्षामन्त्रालयस्य आवेदनम्।

२०२१-२२ वर्षे य-डि-ऐ-एस-इ संस्थायाः अवलोकनावेदने एवायं विषयः सूचितः। विद्यालयेभ्य संगणकयन्त्रप्रदाने ९९.६ शतमितं श्रेष्ठतया पञ्चाबराज्यं प्रथमस्थानमवाप। तद्राज्यं सर्वेभ्यो सर्वकारीणविद्यालयेभ्यो सङ्गणकयन्त्रं प्रादात्। परं सर्वकारीणधनादत्तविद्यालयेभ्भ्यो केवलं ९२.४ शतमितमेव तेषां स्थानम्। तत्र प्रथमस्थानं केरलमवाप।