रामदूतः — The Sanskrit News Platform
2.61K subscribers
9.29K photos
55 videos
3.08K files
5.27K links
Main branch @samvadah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee

Network 👇🏻
https://t.me/samvadah/11287

Follow for sanskrit newspapers, radio broadcasts, news and magazines.

Feedback and queries @Samskrta_Group
Download Telegram
Sunday, November 21, 2021

विश्वस्मिन् प्रथमा वैद्युतमहानौका नोर्वे देशात् यात्रा समारब्धा।
ओस्लो> विश्वस्मिन् प्रथमा वैद्युतमहानौका नोर्वे देशात् यात्रा समारब्धा। प्रतिसंवत्सरम् आवश्यकानां ४००० तैलेन्धन-पण्यवाहनानां यात्रायाः स्थाने एषा नौका पर्याप्ता भवति। जीवाश्माधार(Fossil) इन्धनं विना प्रवर्तयितुं शक्या 'कार्बण्' वातकबहिर्गमनरहिता परिस्थितिसौहृदरूपा च भवति एषा वैद्युतमहानौका। समुद्रमार्गसञ्चारमण्डले नूतनपदक्षेपः भविष्यति अस्याः। सामान्यमहानौकासु विद्यमानस्य यन्त्रप्रकोष्ठस्य स्थाने 'यार बिर्क्लान्ड' नाम महानौकायां विद्युत्कोषकक्षाः एव सन्ति। प्रवर्तनाय जलवैद्युतिम् आश्रयमाणस्य महानौकायाः विद्युत्कोषस्य ६.८ 'मेगा वोल्ट्' क्षमता अस्ति।

आन्ध्रप्रदेशे जलोपप्लवः - २९ मरणानि; उपशतं जनाः अप्रत्यक्षाः।
तिरुप्पति> आन्ध्रप्रदेशे अतिवृष्टिरनुवर्तते। अतिवृष्टिदुष्प्रभावेण २९ जनाः मृत्युमुपगताः। उपशतं जनाः अदृष्टाः इति सूच्यते। कडप्पा जनपदे १२, चिट्टूरे ८, अनन्तपुरे ७, कुर्नूल् जनपदे २ च जनाः मृत्युमुपगताः। राष्ट्रियदुरन्तनिवारणसेनायाः अन्यासां संस्थानां च नेतृत्वे रक्षाप्रवर्तनानि अनुवर्तन्ते।
बंगाल् अन्तस्समुद्रे जातं न्यूनमर्दद्वमेव प्रकृतिक्षोभस्य कारणम्। राज्यस्य सुप्रधानं तीर्थाटनस्थानं तिरुप्पतिमन्दिरं जलेनाप्लावितम्। रायलसीमा मण्डले प्रलयः तीव्रः वर्तते।

~ संप्रति वार्ता
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२३
🌥 🚩विक्रम संवत - २०७८
⛅️ 🚩तिथि - तृतीया रात्रि १०:२६ तक तत्पश्चात चतुर्थी

⛅️ दिनांक - २२ नवंबर २०२१
⛅️ दिन - सोमवार
⛅️ शक संवत -१९४३
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - हेमंत
⛅️ मास - मार्ग शीर्ष मास
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - मृगशिरा सुबह १०:४४ तक तत्पश्चात आर्द्रा
⛅️ योग - साध्य सुबह ०६:४६ तक तत्पश्चात शुभ
⛅️ राहुकाल - सुबह ०७:१६ से सुबह ०९:३९ तक
⛅️ सर्योदय - ०६:५४
⛅️ सर्यास्त - १७:५४
⛅️ दिशाशूल - पूर्व दिशा में
e_संस्कृतवार्तापत्रम्_22_11_2021.pdf
904.9 KB
E-हिमसंस्कृतवार्ता पत्रम् 22.11.2021
Monday, November 22, 2021

 यूरोप्पे कोविड्व्यापनं तीव्रं; कर्कशनियन्त्रणानि विरुध्य प्रतिषेधः।
पारीस्> यूरोप्पीयराष्ट्रेषु कोविड् महामार्याः पञ्चमतरङ्गं तीव्रं वर्तते इति विश्वस्वास्थ्यसंघटनेन निगदितम्। ओस्ट्रिया, क्रोयेष्या, इटली, नेतर्लाट्स्, फ्रान्स् इत्यादिषु राष्ट्रेषु व्यपनम् आशङ्काजनकमिति सूच्यते। 

     फ्रान्स् राष्ट्रे कोविड्प्रकरणानि गतसप्ताहमपेक्ष्य युगलमभवन्निति तद्देशीयसर्वकारेण उक्तम्। 

परन्तु प्रायेण सर्वेषु राष्ट्रेषु सर्वकारैः विहितानि कर्कशनियन्त्रणानि विरुध्य जनानां प्रतिषेधाः संवृत्ताः। ओस्ट्रिया, क्रोयेष्या, इटली, नेतर्लाट्स्, इत्येतेषु राष्ट्रेषु सहस्रशः  जनाः वीथीन् सम्प्राप्य प्रतिषेधकार्यक्रमाः प्रचालितवन्तः। बहुत्र प्रतिषेधः अक्रमासक्तोSभवत्। हेग् नगरे प्रतिषेधकैः आरक्षकान् प्रति स्फोटकादिकं प्रयुक्तम्।

~ संप्रति वार्ता